भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचूडामणि · अध्याय 12

12.1

र्चूम्, 12
{जेwएल्स्}
माणिक्यमुक्ताफलविद्रुमाणि तार्क्ष्यं च पुष्पं भिदुरं च नीलम् ।
गोमेदकं चाथ विदूरकं च क्रमेण रत्नानि नवग्रहाणाम्

12.2

ग्रहानुमैत्र्या कुरुविन्दपुष्पप्रवालमुक्ताफलतार्क्ष्यवज्रम् ।
नीलाख्यगोमेदविदूरकं च क्रमेण मुद्राधृतमिष्टसिद्ध्यै

12.3

रसे रसायने दाने धारणे च देवतार्चने ।
सुलक्ष्माणि सुजातीनि रत्नान्युक्तानि सिद्धये

12.4

{रुब्य्:: सुब्त्य्पेस्}
माणिक्यं पद्मरागाख्यं द्वितीयं नीलगन्धि च ।
{रुब्य्:: परीक्षा:: गोओद् qउअलित्य्}
शीतं कुशेशयच्छायं स्वच्छं स्निग्धं गुरु स्फुटम्

12.5

वृत्तायत्तं समगात्रं माणिक्यं श्रेष्ठमुच्यते ।
{नीलगन्धि:: परीक्षा}
नीलं गङ्गाम्बुसम्भूतं नीलगर्भारुणच्छवि ।
पूर्वमाणिक्यवच्छ्रेष्ठं माणिक्यं नीलगन्धि तत्

12.6

{रुब्य्:: परीक्षा:: बद् qउअलित्य्}
रन्ध्रकार्कश्यमालिन्यरौक्ष्यवैशद्यसंयुतम् ।
चिपिटं लघु वक्रं च माणिक्यं दुष्टम् अष्टधा

12.7

{रुब्य्:: मेदिच्. प्रोपेर्तिएस्}
माणिक्यं दीपनं वृष्यं कफवातक्षयार्तिहृत् ।
भूतवैतालपापघ्नं कर्मजव्याधिनाशनम्

12.8

{मौक्तिक:: परीक्षा:: गोओद् qउअलित्य्}
ह्लादि श्वेतं लघु स्निग्धं रश्मिवन्निर्मलं महत् ।
ख्यातं तोयप्रभं वृत्तं मौक्तिकं नवधा शुभम्

12.9

{मौक्तिक:: परीक्षा:: बद् qउअलित्य्}
रूक्षाङ्गं निर्जलं श्यामं ताम्राभं लवणोपमम् ।
अर्धशुभ्रं च विकटं ग्रन्थिलं मौक्तिकं त्यजेत्

12.10

{पेअर्ल्:: मेदिच्. प्रोपेर्तिएस्}
कफपित्तक्षयध्वंसि कासश्वासाग्निमान्द्यनुत् ।
पुष्टिदं वृष्यमायुष्यं दाहघ्नं मौक्तिकं मतम्

12.11

{चोरल्:: परीक्षा:: गोओद् qउअलित्य्}
पक्वबिम्बफलच्छायं वृत्तायत्तम् अवक्रकम् ।
स्निग्धम् अव्रणकं स्थूलं प्रवालं सप्तधा मतम्

12.12

{चोरल्:: परीक्षा:: बद् qउअलित्य्}
पाण्डुरं धूसरं रूक्षं सव्रणं कोटरान्वितम् ।
निर्भारं शुभ्रवर्णं च प्रवालं नेष्यतेऽष्टधा

12.13

{चोरल्:: मेदिच्. प्रोपेर्तिएस्}
क्षयपित्तास्रकासघ्नं दीपनं पाचनं लघु ।
विषभूतादिशमनं विद्रुमं नेत्ररोगनुत्

12.14

{एमेरल्द्:: परीक्षा:: गोओद् qउअलित्य्}
हरिद्वर्णं गुरु स्निग्धं स्फुरद्रश्मिचयं शुभम् ।
मसृणं भासुरं तार्क्ष्यं गात्रं सप्तगुणं मतम्

12.15

{एमेरल्द्:: परीक्षा:: बद् qउअलित्य्}
कपिशं कर्कशं नीलं पाण्डु कृष्णं सलाघवम् ।
चिपिटं विकटं कृष्णं रूक्षं तार्क्ष्यं न शस्यते

12.16

{एमेरल्द्:: मेदिच्. प्रोपेर्तिएस्}
ज्वरछर्दिविषश्वाससन्निपाताग्निमान्द्यनुत् ।
दुर्नामपाण्डुशोफघ्नं तार्क्ष्यमोजोविवर्धनम्

12.17

{पुष्पराग:: परीक्षा:: गोओद् qउअलित्य्}
पुष्परागं गुरु स्निग्धं स्वच्छं स्थूलं समं मृदु ।
कर्णिकारप्रसूनाभं मसृणं शुभमष्टधा

12.18

{पुष्पराग:: परीक्षा:: बद् qउअलित्य्}
निष्प्रभं कर्कशं रूक्षं पीतं श्यामं नतोन्नतम् ।
कपिलं कपिशं पाण्डु पुष्परागं परित्यजेत्

12.19

{पुष्पराग:: मेदिच्. प्रोपेर्तिएस्}
पुष्परागं विषछर्दिकफवाताग्निमान्द्यनुत् ।
दाहकुष्ठप्रशमनं दीपनं लघु पाचनम्

12.20

{वज्र:: सुब्त्य्पेस्:: गेन्देर्}
वज्रं च त्रिविधं प्रोक्तं नरो नारी नपुंसकम् ।
पूर्वं पूर्वं महाश्रेष्ठं रसवीर्यविपाकतः

12.21

{वज्र:: पुंवज्र}
अष्टास्रं चाष्टफलकं षट्कोणम् अतिभासुरम् ।
अम्बुदेन्द्रधनुर्वारि नरं पुंवज्रमुच्यते

12.22

{स्त्रीवज्र}
तदेव चिपिटाकारं स्त्रीवज्रं वर्त्तुलायतम् ।
{नपुंसक}
वर्त्तुलं कुण्ठकोणाग्रं किंचिद्गुरु नपुंसकम्

12.23

स्त्रीपुंनपुंसकं वज्रं योज्यं स्त्रीपुंनपुंसके ।
व्यत्यासान्नैव फलदं पुंवज्रेण विना क्वचित्

12.24

{वज्र:: सुब्त्य्पेस्:: चोलोउर्}
श्वेतादिवर्णभेदेन तदेकैकं चतुर्विधम् ।
ब्रह्मक्षत्रियविट्शूद्रं स्वस्ववर्णफलप्रदम्

12.25

उत्तमोत्तमवर्णं हि नीचवर्णे फलप्रदम् ।
न्यायोऽयं भैरवेणोक्तं पदार्थेष्वखिलेष्वपि

12.26

{वज्र:: मेदिच्. प्रोपेर्तिएस्}
आयुष्प्रदं झटिति सद्गुणदं च वृष्यं दोषत्रयप्रशमनं सकलामयघ्नम् ।
सूतेन्द्रबन्धवधसद्गुणकृत् प्रदीपि मृत्युं जयेद् अमृतोपमयेव वज्रम्

12.27

{जेwएल्स्:: पञ्चदोष}
ग्रासस्त्रासश्च बिन्दुश्च रेखा च जलगर्भता ।
सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः

12.28

क्षेत्रतोयभवा दोषा रत्नेषु न लगन्ति च ।
भैरवस्तु पुनः प्राह दोषो दोषेऽस्ति सर्वथा

12.29

{वज्र:: शोधन}
कुलत्थक्वाथके स्विन्नं कोद्रवक्वथितेन वा ।
एकयामावधि स्विन्नं वज्रं शुध्यति निश्चितम्

12.30

{वज्र:: मारण}
वज्रं मत्कुणरक्तेण चतुर्वारं विभावितम् ।
सुगन्धमूषिकामांसैर् वर्तितैः परिवेष्ट्य च

12.31

पुटेत् पुटैर्वराहाख्यैस्त्रिंशद्वारं ततः परम् ।
ध्मात्वा ध्मात्वा शतं वारान् कुलत्थक्वाथके क्षिपेत्

12.32

अन्यैरुक्तं शतं वारान् कर्तव्योऽयं विधिक्रमः ।
{वज्र:: मारण:: वारितर}
कुलत्थक्वाथसंयुक्तलकुचद्रवपिष्टया

12.33

शिलया लिप्तमूषायां वज्रं क्षिप्त्वा निरुध्य च ।
अष्टवारं पुटेत् सम्यग्विशुष्कैर् वनकोत्पलैः

12.34

शतवारं ततो ध्मात्वा निक्षिप्तं शुद्धपारदे ।
निश्चितं म्रियते वज्रं भस्म वारितरं भवेत्

12.35

सत्यवाक् सोमसेनानीर् एतद्वज्रस्य मारणम् ।
दृष्टप्रत्ययसंयुक्तमुक्तवान् रसकौतुकी

12.36

{वज्र:: मारण}
विलिप्तं मत्कुणस्यास्रैः सप्तवारं विशोषितम् ।
कासमर्दरसापूर्णलोहपात्रे निवेशितम्

12.37

सप्तवारं परिध्मातं वज्रभस्म भवेत् खलु ।
ब्रह्मज्योतिर्मुनीन्द्रेण क्रमोऽयं परिकीर्तितः

12.38

{वज्र:: मारण}
नीलज्योतिर्लताकन्दे घृष्टं घर्मे विशोषितम् ।
वज्रं भस्मत्वमायाति कर्मवज्ज्ञानवह्निना

12.39

{वज्र:: मारण}
मदनस्य फलोद्भूतरसेन क्षोणिनागकैः ।
कृतकल्केन संलिप्य पुटेद् विंशतिवारकम्

12.40

तद्वज्रं चूर्णयित्वाथ किंचिट् टङ्कणसंयुतम्

12.41

खरभूनागसत्त्वेन विंशेनावर्तयेद् ध्रुवम् ।
तुल्यस्वर्णेन तद्ध्मातं योजनीयं रसादिषु

12.42

त्रिगुणेन रसेनैव विमर्द्य गुटिकीकृतम् ।
मुखे धृतं करोत्याशु चलदन्तविबन्धनम्

12.43

{वज्र:: मृत:: मेदिच्. उसे}
त्रिंशद्भागमितं हि वज्रभसितं स्वर्णं कलाभागिकं तारं चाष्टगुणं शिवामृतवरं रुद्रांशकं चाभ्रकम् ।
पादांशं खलु ताप्यकं वसुगुणं वैक्रान्तकं षड्गुणं भागोऽप्युक्तरसाद्रसोऽयमुदितः षाड्गुण्यसंसिद्धये

12.44

{सप्फिरे:: सुब्त्प्येस्}
जलनीलेन्द्रनीलं च शक्रनीलं तयोर्वरम् ।
{जलनील:: परीक्षा}
श्वैत्यगर्भितनीलाभं लघु तज्जलनीलकम् ।
{इन्द्रनील:: परीक्षा}
कार्ष्ण्यगर्भितनीलाभं सभारं शक्रनीलकम्

12.45

{सप्फिरे:: परीक्षा:: गोओद् qउअलित्य्}
एकच्छायं गुरु स्निग्धं स्वच्छं पिण्डितविग्रहम् ।
मृदु मध्योल्लसज्ज्योतिः सप्तधा नीलमुत्तमम्

12.46

{जलनील:: परीक्षा}
कोमलं विहितं वर्णं निर्भारं रक्तगन्धि च ।
चिपिटाभं सरूक्षं च जलनीलं च सप्तधा

12.47

{सप्फिरे:: मेदिच्. प्रोपेर्तिएस्}
कासश्वासहरं वृष्यं त्रिदोषघ्नं सुदीपनम् ।
विषमज्वरदुर्नामपापघ्नं नीलमीरितम्

12.48

{गोमेद:: निरुक्ति}
गोमेदःसमरागत्वाद् गोमेदं रत्नमुच्यते ।
{गोमेद:: परीक्षा:: गोओद् qउअलित्य्}
सुस्वच्छगोजलच्छायं स्वच्छं स्निग्धं समं गुरु ।
निर्दलं मसृणं दीप्तं शस्तं गोमेदमष्टधा

12.49

{गोमेद:: परीक्षा:: बद् qउअलित्य्}
विच्छायं लघु रूक्षाङ्गं चिपिटं पटलान्वितम् ।
निष्प्रभं पीतकाचाभं गोमेदं न शुभावहम्

12.50

{गोमेद:: मेदिच्. प्रोपेर्तिएस्}
गोमेदं कफपित्तघ्नं क्षयपाण्डुक्षयंकरम् ।
दीपनं पाचनं रुच्यं त्वच्यं बुद्धिप्रबोधनम्

12.51

{वैडूर्य:: परीक्षा:: गोओद् qउअलित्य्}
वैडूर्यं श्यामशुभ्राभं समं स्वच्छं गुरु स्फुटम् ।
भ्रमच्छुभ्रोत्तरीयेण गर्भितं शुभमीरितम्

12.52

{वैडूर्य:: परीक्षा:: बद् qउअलित्य्}
श्यामं तोयसमच्छायं चिपिटं लघु कर्कशम् ।
रक्तगर्भोत्तरीयं च वैडूर्यं नैव शस्यते

12.53

{वैडूर्य:: मेदिच्. प्रोपेर्तिएस्}
वैडूर्यं रक्तपित्तघ्नं प्रज्ञायुर्बलवर्धनम् ।
पित्तप्रधानरोगघ्नं दीपनं मलमोचनम्

12.54

{जेwएल्स्:: शोधन}
शुध्यत्यम्लेन माणिक्यं जयन्त्या मौक्तिकं तथा ।
विद्रुमं क्षारवर्गेण तार्क्ष्यं गोदुग्धतस्तथा

12.55

पुष्परागं च धान्याम्लैः कुलत्थक्वाथसंयुतैः ।
तण्डुलीयजलैर्वज्रं नीलं नीलीरसेन च ।
रोचनाभिश्च गोमेदं वैडूर्यं त्रिफलाजलैः

12.56

{जेwएल्स्:: मारण}
लकुचद्रावसम्पिष्टैः शिलागन्धकतालकैः ।
वज्रं विनान्यरत्नानि म्रियन्तेऽष्टपुटैः खलु

12.57

{जेwएल्स्:: द्रुति}
रामठं पञ्चलवणं क्षाराणां त्रितयं तथा ।
मांसद्राव्यम्लवेतश्च चूलिकालवणं तथा

12.58

स्थलकुम्भीफलं पक्वं तथा ज्वालामुखी शुभा ।
द्रवन्ती च रुदन्ती च पयस्या चित्रमूलकम्

12.59

दुग्धं स्नुह्यास्तथार्कस्य सर्वं संमर्द्यं यत्नतः ।
गोलं विधाय तन्मध्ये प्रक्षिपेत्तदनन्तरम्

12.60

गुणवन्त्येव रत्नानि जातिमन्ति शुभानि च ।
भूर्जे तं गोलकं कृत्वा सूत्रेणावेष्ट्य यत्नतः

12.61

पुनर्वस्त्रेण संवेष्ट्य दोलायन्त्रे निधाय च ।
सर्वाम्लयुक्तसंधानपरिपूर्णघटोदरे

12.62

अहोरात्रत्रयं यावत्स्वेदयेत्तीव्रवह्निना ।
तस्मादाहृत्य संक्षाल्य रत्नजां द्रुतिमाहरेत्

12.63

रत्नतुल्यप्रभा लघ्वी देहलोहकरी शुभा ।
दुर्मेला रसराजेन नैकत्वं याति तेन सा

12.64

रामठादिकवर्गेण प्रमिलति न संशयः ।
सुप्रसन्ने महादेवे द्रुतिः कस्य न सिध्यति

12.65

दुर्लभा वैष्णवी भक्तिर्दुर्लभं रसबन्धनम् ।
दुर्लभात्र द्रुतिर्लोके स्वल्पभाग्यवतां नृणाम्

12.66

सूर्यादिग्रहनिग्रहापहरणं दीर्घायुरारोग्यदं सौभाग्योदयभाग्यवश्यविभवोत्साहप्रदं धैर्यकृत् ।
दुःछायांचलधूलिसङ्गतिभवालक्ष्मीहरं सर्वदा रत्नानां परिधारणं निगदितं भूतादिनिर्णाशनम्

12.67

रत्नानाम् गुणग्रामं समग्रं चाग्रणीः सताम् ।
सुरत्नमब्रवीत् सोमो नेति यद्गुणितं गुणी

12.68

वर्णलक्षसंजातियुक्तं रत्नं फलप्रदम् ।
रसे रसायने दाने धारणे चान्यथान्यथा

मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc