रसेन्द्रचूडामणि · अध्याय 11
र्चूम्, 11
{उपरसाः}
गन्धाश्मतालतुवरीकुनटीसौवीरकङ्कुष्ठखेचरगैरिकनामधेयाः ।
उक्ता बुधैरुपरसाश्च रसायनास्ते तैर्बद्धपारदवरो न रसायनः स्यात्
{सुल्fउर्:: सुब्त्य्पेस्}
चतुर्धा गन्धको ज्ञेयो वर्णैः श्वेतादिभिः खलु ।
{सुल्fउर्:: wहिते}
श्वेतोऽत्र खटिका प्रोक्तो लेपने लोहमारणे
{सुल्fउर्:: येल्लोw}
तथा चामलसारः स्याद् यो भवेत्पीतवर्णवान् ।
शुकपिच्छः स एव स्याच्छ्रेष्ठो रसरसायने
{सुल्fउर्:: रेद्}
रक्तश्च शुकतुण्डाख्यो धातुवादविधौ वरः ।
{सुल्fउर्:: ब्लच्क्}
दुर्लभः कृष्णवर्णश्च स जरामृत्युनाशनः
{सुल्fउर्:: मेदिच्. प्रोपेर्तिएस्}
गन्धाश्मातिरसायनः समधुरः पाके कटूष्णान्वितः कण्डूकुष्ठविसर्पदद्रुदमनो दीप्तानलः पाचनः ।
आमोन्मोचनशोषणो विषहरः सूतेन्द्रवीर्यप्रदो गौरीपुष्पभवस्तथा क्रिमिहरः सत्त्वात्मकः सूतजित्
{सुल्fउर्:: म्य्थ्. ओरिगिन्}
बलिना सेवितः पूर्वं प्रभूतबलहेतवे ।
वासुकिं कर्षतस्तस्य तन्मुखज्वालया द्रुता
वसा गन्धकगन्धाढ्या सर्वतो निःसृता तनोः ।
गन्धकत्वं च सा प्राप्ता गन्धोऽभूत्सविषस्ततः
तस्माद् बलिवसेत्युक्तो गन्धकोऽतिमनोहरः ।
{सुल्fउर्:: शोधन}
पयःस्विन्नो घटीमात्रं वारिधौतो हि गन्धकः
गव्याज्यैर्विद्रुतो वस्त्रगालितः शुद्धिमृच्छति ।
एवं संशोधितः सोऽयं पाषाणानम्बरे त्यजेत्
घृते विषं तुषाकारं स्वयं पिण्डत्वमेति च ।
इति शुद्धो हि गन्धाश्मा नागजां विकृतिं त्यजेत्
अपथ्यादन्यथा हन्यात् पीतं हालाहलं यथा ।
{सुल्fउर्:: शोधन}
गन्धको द्रावितो भृङ्गरसे क्षिप्तो विशुध्यति
तद्रसैः सप्तधा स्विन्नो गन्धकः परिशुध्यति ।
{गन्धकशोधनम् (3)}
स्थाल्यां दुग्धं विनिक्षिप्य मुखे वस्त्रं निबध्य च
गन्धकं तत्र निक्षिप्य चूर्णितं सिकताकृतिम् ।
छादयेत् पृथुदीर्घेण खर्परेणैव गन्धकम्
ज्वालयेत् खर्परस्योर्ध्वं वनच्छाणैस्तथोपलैः ।
दुग्धे निपतितो गन्धो गलित्वा परिशुध्यति
इत्थं विशुद्धस् त्रिफलाज्यभृङ्गमध्वन्वितः शाणमितो हि लीढः ।
गृध्राक्षितुल्यं कुरुतेऽक्षियुग्मं करोति रोगोज्झितदीर्घमायुः
{सुल्fउर्:: द्रुति}
कलांशव्योषसंयुक्तं गन्धकं श्लक्ष्णचूर्णितम् ।
अरत्निमात्रे वस्त्रे तद्विप्रकीर्य विवेष्ट्य तत्
सूत्रेण वेष्टयित्वाथ यामं तैले निमज्जयेत् ।
धृत्वा संदंशतो वर्तिं सर्वां प्रज्वालयेत्ततः
द्रुतो विनिपतेद्गन्धो बिन्दुशः काचभाजने ।
तां द्रुतिं प्रक्षिपेत्पत्रे नागवल्ल्यास्त्रिबिन्दुकाम्
वल्लेन प्रमितं शुद्धं रसेन्द्रं च प्रमर्दयेत् ।
अङ्गुल्याथ सपत्रां तां द्रुतिं सूतं च भक्षयेत्
करोति दीपनं तीव्रं क्षयं पाण्डुं च नाशयेत् ।
कासं श्वासं च शूलार्तिं ग्रहणीमतिदुस्तराम्
आमं विनाशयत्याशु लघुत्वं प्रकरोति च ।
{सुल्fउर्:: शुद्ध:: मेदिच्. उसे}
घृताक्ते लोहपात्रे तु विद्रुतं शुद्धगन्धकम्
घृताक्तदर्विकाक्षिप्तं द्विनिष्कप्रमितं भजेत् ।
हन्ति क्षयमुखान्रोगान्कुष्ठरोगं विशेषतः
क्षाराम्लतैलसौवीरविदाहिद्विदलं तथा ।
शुद्धगन्धकसेवायां त्यजेद्रोगहितेन हि
{सुल्fउर्:: मेदिच्. उसे (कुष्ठ)}
गन्धकस्तुल्यमरिचः षड्गुणस्त्रिफलान्वितः ।
घृष्टः शम्पाकमूलेन पीतश्चाखिलकुष्ठहा
तन्मूलं सलिले पिष्टं लेपयेत्प्रत्यहं तनौ ।
दृष्टप्रत्यययोगोऽयं सर्वत्राप्रतिवीर्यवान्
श्रीमता सोमदेवेन सम्यगत्र प्रकीर्तितः ।
{सुल्fउर्:: मेदिच्. उसे (स्किन् दिसेअसेस्)}
द्विनिष्कप्रमितं गन्धं पीत्वा तैलेन संयुतम्
अथापामार्गतोयेन सतैलमरिचेन च ।
विलिप्य सकलं देहं तिष्ठेद् घर्मे ततः परम्
तक्रभक्तं च भुञ्जीत तृतीये प्रहरे खलु ।
भजेद्रात्रौ तथा वह्निं समुत्थाय ततः प्रगे
महिषीछगणैर्लिप्त्वा स्नायाच्छीतेन वारिणा ।
ततोऽभ्यज्य घृतैर्देहं स्नायात् पथ्योष्णवारिणा
अमुना क्रमयोगेन विनश्यत्यतिवेगतः ।
दुर्जया बहुकालीना पामा कण्डूः सुनिश्चितम्
गन्धकस्य प्रयोगाणां सहस्रं तन्न कीर्तितम् ।
ग्रन्थविस्तरभीतेन सोमदेवमहीभुजा
{हरितालम्:: सुब्त्य्पेस्}
हरितालं द्विधा प्रोक्तं पत्राख्यं पिण्डसंज्ञितम् ।
{पत्त्रतालक:: फ्य्स्. प्रोपेर्तिएस्}
स्वर्णवर्णं गुरु स्निग्धं तनुपत्रं च भासुरम्
तत्पत्रतालकं प्रोक्तं बहुपत्रं रसायनम् ।
{पिण्डतालक:: फ्य्स्. प्रोपेर्तिएस्}
निष्पत्रं पिण्डसदृशं स्वल्पसत्त्वं तथा गुरु ।
स्त्रीपुष्पहरणं तत्तु गुणाल्पं पिण्डतालकम्
{हरिताल:: मेदिच्. प्रोपेर्तिएस्}
श्लेष्मवातविषरक्तभूतनुत् केवलं च खलु पुष्पहृत्स्त्रियः ।
स्निग्धम् उष्णकटुकं च दीपनं कुष्ठहारि हरितालमुच्यते
{हरिताल:: शोधनम्}
स्विन्नं कूष्माण्डतोये वा तिलक्षारजलेऽपि वा ।
तोये वा चूर्णसंयुक्ते दोलायन्त्रेण शुध्यति
{हरिताल:: सत्त्व:: पातन}
कुलत्थक्वाथसौभाग्यमहिष्याज्यदधिप्लुतम् ।
स्थाल्यां क्षिप्त्वा पिदध्याच्च मल्लेन छिद्रयोगिना
सम्यङ्निरुध्य शिखिनं ज्वालयेत् क्रमवर्धितम् ।
एकप्रहरमात्रं हि रन्ध्रमाच्छाद्य गोमयैः
यामान्ते छिद्रमुद्घाट्य दृष्टे धूमे च पाण्डुरे ।
शीतां स्थालीं समुत्तार्य सत्त्वमुत्कृष्य चाहरेत्
सर्वपाषाणसत्त्वानां प्रकाराः सन्ति कोटिशः ।
ग्रन्थविस्तारभीत्या ते लिखिता न मया खलु
सर्वत्र सुकरं यच्च सुलभं फलदायकम् ।
रसोपरसलोहेषु तदेवात्र निगद्यते
{पत्त्रताल:: सत्त्व:: पातन}
पत्त्रालकं रवेर्दुग्धैर्दिनमेकं विमर्दयेत् ।
क्षिप्त्वा षोडशिकां तैले मिश्रयित्वा ततः पचेत्
अनावृते प्रदेशे च सप्तयामावधि ध्रुवम् ।
स्वाङ्गशीतमधःस्थं च सत्त्वं श्वेतं समाहरेत्
{हरिताल:: सत्त्व:: पातन}
छागलस्याथ बालस्य मलेन च समन्वितम् ।
तालकं दिवसद्वन्द्वं मर्दयित्वा प्रयत्नतः
युक्तं द्रावणवर्गेण काचकूप्यां विनिक्षिपेत् ।
त्रिधा तां च मृदा लिप्त्वा परिशोष्य खरातपे
ततः खर्परकच्छिद्रे तामर्धां चैव कूपिकाम् ।
प्रवेश्य ज्वालयेदग्निं द्वादशप्रहरावधिम्
कूपीकण्ठे स्थितं सत्त्वं शुभ्रं शीते समाहरेत् ।
{हरिताल:: सत्त्व:: पातन}
पलार्धप्रमितं तालं बद्ध्वा वस्त्रे सिते दृढे
बलिनालिप्य यत्नेन त्रिवारं परिशोषयेत् ।
द्राविते त्रिपले ताम्रे क्षिपेत्तालकपोट्टलीम्
भस्मनाच्छादयेच्छीघ्रं ताम्रेणावेष्टितं सितम् ।
मृदुलं सत्त्वमादद्यात् प्रोक्तं रसरसायने
{तुवरी:: ओरिगिन्}
सौराष्ट्रखनिसम्भूता मृत्स्ना या तुवरी मता ।
वस्त्रेषु लिप्यते यासौ मञ्जिष्ठारागबन्धिनी
{तुवरी:: सुब्त्य्पेस्}
फटिका फुल्लिका चेति द्विविधा परिकीर्तिता ।
{फटिका:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्}
ईषत्पीता गुरुस्निग्धा पीतिका विषनाशिनी
व्रणकुष्ठहरा सर्वकुष्ठघ्नी च विशेषतः ।
{फुल्लिका:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्}
निर्भारा शुभ्रवर्णा च स्निग्धा साम्ला परा मता ।
सा फुल्लतुवरी प्रोक्ता लेपाच्छीघ्रं चरेदयः
{तुवरी:: मेदिच्. प्रोपेर्तिएस्}
काङ्क्षी कषाया कटुकाम्लकण्ठ्या केश्या व्रणघ्नी विषनाशिनी च ।
श्वित्रापहा नेत्रहिता त्रिदोषशान्तिप्रदा पारदजारिणी च
{तुवरीशोधन}
तुवरी काञ्जिके क्षिप्ता त्रिदिनाच्छुद्धिम् ऋच्छति ।
{तुवरी:: सत्त्व:: पातन}
क्षाराम्लैर्मर्दिता ध्माता सत्त्वं मुञ्चति निश्चितम्
{मनःशिला:: सुब्त्य्पेस्}
मनःशिला त्रिधा प्रोक्ता श्यामाङ्गी कणवीरिका ।
खण्डाख्या चेति तद्रूपं विविच्य परिकथ्यते
{श्यामाङ्गी:: फ्य्स्. प्रोपेर्तिएस्}
श्यामा रक्ता सगौरा च भाराढ्या श्यामिका मता ।
{कणवीरिका:: फ्य्स्. प्रोपेर्तिएस्}
तेजस्विनी च निर्गौरा ताम्राभा कणवीरिका
{खण्ड:: फ्य्स्. प्रोपेर्तिएस्}
चूर्णीभूतातिरक्ताङ्गी सभारा खण्डपूर्विका ।
उत्तरोत्तरतः श्रेष्ठा भूरिसत्त्वा प्रकीर्तिता
{मनःशिला:: मेदिच्. प्रोपेर्तिएस्}
मनःशिला सर्वरसायनाग्र्या तिक्ता कटूष्णा कफवातहन्त्री ।
सत्त्वात्मिका भूतविषाग्निमान्द्यकण्डूतिकोठक्षयहारिणी च
{मनःशिला:: शोधन}
अगस्त्यपत्रतोयेन भाविता सप्तवारकम् ।
शृङ्गवेररसैर्वापि विशुध्यति मनःशिला
{मनःशिला:: सत्त्व:: पातन}
अष्टमांशेन किट्टेन गुडगुग्गुलुसर्पिषा ।
कोष्ठ्यां रुद्ध्वा दृढं ध्माता सत्त्वं मुञ्चेन्मनःशिला
{मनःशिला:: सत्त्व:: पातन}
भूनागधौतसौभाग्यमदनैश्च विमर्दितैः ।
कारवेल्लीदलाम्भोभिर्मूषां कृत्वात्र निक्षिपेत्
शिलां क्षाराम्लनिष्पिष्टां प्रधमेत् तदनन्तरम् ।
घटिकाद्वयमात्रं हि ध्माता सत्त्वं त्यजत्यसौ
{अञ्जन:: सुब्त्य्पेस्}
सौवीरम् अञ्जनं प्रोक्तं रसाञ्जनमतः परम् ।
स्रोतोऽञ्जनं तदन्यच्च पुष्पाञ्जनकमेव च ।
नीलाञ्जनं हि तेषां च स्वरूपमिह वर्ण्यते
{सौवीर:: फ्य्स्. प्रोपेर्तिएस्}
सौवीरमञ्जनं धूम्रं रक्तपित्तहरं हिमम् ।
वमिहिध्माक्षिरोगघ्नं व्रणशोधनरोपणम्
{रसाञ्जन:: फ्य्स्., मेदिच्. प्रोपेर्तिएस्}
रसाञ्जनं च पीताभं विषरक्तगदापहम् ।
श्वासहिध्मापहं वर्ण्यं वातपित्तास्रनाशनम्
{स्रोतोञ्जन:: मेदिच्. प्रोपेर्तिएस्}
स्रोतोऽञ्जनं हिमं स्निग्धं कषायं स्वादु लेखनम् ।
नेत्र्यं हिध्माविषच्छर्दिकफपित्तास्रकोपनुत्
{पुष्पाञ्जन:: मेदिच्. प्रोपेर्तिएस्}
पुष्पाञ्जनं सितं स्निग्धं हिमं सर्वाक्षिरोगनुत् ।
अतिदुर्धरहिध्माघ्नं विषज्वरगदापहम्
{नीलाञ्जन:: मेदिच्. प्रोपेर्तिएस्}
नीलाञ्जनं गुरु स्निग्धं नेत्र्यं दोषत्रयापहम् ।
रसायनं सुवर्णघ्नं लोहमार्दवकारकम्
{अञ्जन:: शोधन}
अञ्जनानि विशुध्यन्ति भृङ्गराजदलद्रवैः ।
{अञ्जन:: सत्त्व:: पातन}
मनोह्वासत्त्ववत् सत्त्वमञ्जनानां समाहरेत्
{कङ्कुष्ठ:: प्लचे ओf दिस्चोवेर्य्}
हिमवत्पादशिखरे कङ्कुष्ठमुपजायते ।
{कङ्कुष्ठ:: सुब्त्य्पेस्}
तत्रैकं नलिकाख्यं हि तदन्यद्रेणुकं मतम्
{नलिका:: फ्य्स्. प्रोपेर्तिएस्}
पीतप्रभं गुरु स्निग्धं श्रेष्ठं कङ्कुष्ठमादिमम् ।
{रेणुक:: फ्य्स्. प्रोपेर्तिएस्}
श्यामं पीतं लघु त्यक्तसत्त्वं नेष्टं हि रेणुकम्
{कङ्कुष्ठ:: ओरिगिन् fरोम् fएचेस्}
केचिद्वदन्ति कङ्कुष्ठं सद्यो जातस्य दन्तिनः ।
वर्चः स श्यामपीताभं रेचनं परिकथ्यते
कतिचित् तेजिवाहानां नालं कङ्कुष्ठसंज्ञकम् ।
वदन्ति श्वेतपीताभं तदतीव विरेचनम्
{कङ्कुष्ठ:: मेदिच्. प्रोपेर्तिएस्}
रसे रसायने श्रेष्ठं निःसत्त्वं बहुवैकृतम् ।
कङ्कुष्ठं तिक्तकटुकं वीर्योष्णं चातिरेचनम्
व्रणोदावर्त्तशूलार्त्तिगुल्मप्लीहगुदार्त्तिहृत् ।
{कङ्कुष्ठ:: शोधन}
कङ्कुष्ठं शुद्धिमायाति त्रिधा श्रेष्ठाम्बुभावितम्
{कङ्कुष्ठ:: सत्त्व:: पातन}
सत्त्वाकर्षोऽस्य न प्रोक्तो यस्मात्सत्त्वमयं हि तत् ।
{कङ्कुष्ठ:: मेदिच्. उसे}
भजेदेनं विरेकार्थं ग्राहिभिर्यवमात्रया
नाशयेदामपूर्तिं च विरिच्य क्षणमात्रतः ।
भक्षितः सह ताम्बूलैर्विरेच्याशु विनाशयेत्
बर्बूरीमूलिकाक्वाथजीरसौभाग्यकं समम् ।
कङ्कुष्ठविषनाशाय भूयो भूयः पिबेन्नरः
{कासीस:: सुब्त्य्पेस्}
कासीसं वालुकाद्येकं पुष्पपूर्वमथापरम् ।
{वालुकाकासीस:: मेदिच्. प्रोपेर्तिएस्}
क्षाराम्लं गुरु धूमाभं सोष्णवीर्यं विषापहम् ।
वालुकापूर्वकासीसं श्वित्रघ्नं केशरञ्जनम्
{पुष्पकासीस:: मेदिच्. प्रोपेर्तिएस्}
पुष्पादिकासीसम् अतिप्रसिद्धं सोष्णं कषायाम्लमतीव नेत्र्यम् ।
विषानिलश्लेष्मगदव्रणघ्नं श्वित्रक्षयघ्नं कचरञ्जनं च
{कासीस:: शोधन}
सकृद् भृङ्गाम्बुना क्लिन्नं कासीसं निर्मलं भवेत् ।
{कासीस:: सत्त्व:: पातनम्}
तुवरीसत्त्ववत् सत्त्वमेतस्यापि समाहरेत्
{कासीससेवनम्}
बलिना हतकासीसं कान्तं कासीसमारितम् ।
उभयं समभागं हि त्रिफलावेल्लसंयुतम्
विषमांशघृतक्षौद्रप्लुतं शाणमितं प्रगे ।
सेवितं हन्ति वेगेन श्वित्रपाण्डुक्षयामयान्
गुल्मप्लीहगदं शूलं मूत्ररोगमशेषतः ।
रसायनविधानेन सेवितं वत्सरावधि
आमसंशोषणं श्रेष्ठं मन्दाग्निपरिदीपनम् ।
पलितं वलिभिः सार्धं विनाशयति निश्चितम्
{गैरिक:: सुब्त्य्पेस्}
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम् ।
{पाषाणगैरिक:: फ्य्स्. प्रोपेर्तिएस्}
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम्
{पाषाणगैरिक:: मेदिच्. प्रोपेर्तिएस्}
स्वादु स्निग्धं हिमं नेत्र्यं कषायं रक्तपित्तनुत्
{स्वर्णगैरिक:: मेदिच्. प्रोपेर्तिएस्}
हिध्मावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम् ।
पाषाणगैरिकं चान्यत् पूर्वस्मादल्पकं गुणैः
{गैरिक:: शोधन}
गैरिकं हि गवां दुग्धैर्भावितं शुद्धिम् ऋच्छति ।
{गैरिक:: सत्त्व:: पातन}
गैरिकं सत्त्वरूपं हि नन्दिना परिकीर्तितम्
कैरप्युक्तं पतेत्सत्त्वं क्षाराम्लस्विन्नगैरिकात् ।
उपतिष्ठति सूतेन्द्रम् एकत्वं गुणवत्तरम्
{साधारणरसाः}
कम्पिल्लश्चापरो गौरीपाषाणो नवसारकः ।
कपर्दो वह्निजारश्च गिरिसिन्दूरहिङ्गुलौ
बोद्दारशृङ्गमित्यष्टौ साधारणरसा मताः ।
रससिद्धिकराः प्रोक्ता नागार्जुनपुरःसरैः
{कम्पिल्ल:: फ्य्स्. प्रोपेर्तिएस्, प्लचे ओf दिस्चोवेर्य्}
इष्टिकाचूर्णसंकाशश्चन्द्रिकाढ्योऽतिरेचनः ।
सौराष्ट्रदेशसम्भूतः स हि कम्पिल्लको मतः
{कम्पिल्ल:: मेदिच्. प्रोपेर्तिएस्}
पित्तव्रणाध्मानविबन्धनिघ्नः श्लेष्मोदरार्त्तिकृमिगुल्मवैरी ।
मूलामशूलज्वरशोफहारी कम्पिल्लको रेच्यगदापहारी
{गौरीपाषाण:: फ्य्स्. प्रोपेर्तिएस्}
गौरीपाषाणकः पीतो विकटो हतचूर्णकः ।
{गौरीपाषाण:: मेदिच्. प्रोपेर्तिएस्}
रसबन्धकरः स्निग्धो दोषघ्नो रसवीर्यकृत्
{नवसार:: प्रोदुच्तिओन्}
करीरपीलुकाष्ठेषु पच्यमानेषु चोद्भवः ।
क्षारोऽसौ नवसारः स्याच्चूलिकालवणाभिधः
इष्टिकादहने जातं पाण्डुरं लवणं लघु ।
तदुक्तं नवसाराख्यं चूलिकालवणं च तत्
{नवसार:: मेदिच्. प्रोपेर्तिएस्}
रसेन्द्रजारणं लोहद्रावणं जठराग्निकृत् ।
गुल्मप्लीहास्यशोषघ्नं भुक्तमांसादिजारणम् ।
विडाख्यं च त्रिदोषघ्नं चूलिकालवणं मतम्
{मोनेय् चोwरिए:: फ्य्स्. प्रोपेर्तिएस्}
पीताभा ग्रन्थिला पृष्ठे दीर्घवृन्ता वराटिका ।
रसवैद्यैर्विनिर्दिष्टा सा चराचरसंज्ञिका
{मोनेय् चोwरिए:: परीक्षा}
सार्धनिष्कमिता श्रेष्ठा निष्कभारा च मध्यमा ।
पादोननिष्कभारा च कनिष्ठा परिकीर्तिता
{मोनेय् चोwरिए:: मेदिच्. प्रोपेर्तिएस्}
परिणामादिशूलघ्नी ग्रहणीक्षयनाशिनी ।
कटूष्णा दीपनी वृष्या नेत्र्या वातकफापहा
रसेन्द्रजारणे प्रोक्ता बिडद्रव्येषु शस्यते ।
{चोwरिएस् (गेन्.):: मेदिच्. प्रोपेर्तिएस्}
तदन्ये तु वराटाः स्युर् गुरवः श्लेष्मपित्तलाः
हत्वा हत्वा गुणान् भूयो विकारान् कुर्वते न हि ।
{मोनेय् चोwरिए:: शोधन}
वराटाः काञ्जिके स्विन्ना यामाच्छुद्धिमवाप्नुयुः
{अग्निजार:: ओरिगिन्}
समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः ।
संशुष्को भानुतापेन सोऽग्निजार इति स्मृतः
{अग्निजार:: शोधन}
तदब्धिक्षारसंशुद्धं तस्माच्छुद्धिर्न हीष्यते ।
{अग्निजार:: मेदिच्. प्रोपेर्तिएस्}
अग्निजारस् त्रिदोषघ्नो धनुर्वातादिवातनुत् ।
वर्धनो रसवीर्यस्य दीपनो जारणस्तथा
{गिरिसिन्दूर:: ओरिगिन्}
महगिरिषु चाल्पीयः पाषाणान्तः स्थितो रसः ।
शुष्कः शोणः स निर्दिष्टो रससिन्दूरसंज्ञया
{गिरिसिन्दूर:: मेदिच्. प्रोपेर्तिएस्}
त्रिदोषशमनं भेदि रसबन्धनमग्रिमम् ।
देहलोहकरं नेत्र्यं गिरिसिन्दूरमीरितम्
{हिङ्गुल:: सुब्त्य्पेस्}
हिङ्गुलः शुकतुण्डाख्यो हंसपाकस्तथापरः ।
{शुकतुण्ड:: प्रोपेर्तिएस्}
प्रथमोऽल्पगुणस्तत्र चर्मारः स निगद्यते
{हंसपाक:: फ्य्स्. प्रोपेर्तिएस्}
श्वेतरेखः प्रवालाभो हंसपाकः स ईरितः ।
{दरद:: मेदिच्. प्रोपेर्तिएस्}
हिङ्गुलः सर्वदोषघ्नो दीपनोऽतिरसायनः
सर्वरोगहरो वृष्यो जारणायातिशस्यते ।
{हिङ्गुलाकृष्ट}
एतस्मादाहृतः सूतो जीर्णगन्धसमो गुणैः
{दरद:: शोधन}
सप्तकृत्वार्द्रकद्रावैर्लकुचस्याम्बुनापि वा ।
शोषितो भावयित्वा च निर्दोषो जायते खलु
{बोद्दारशृङ्ग:: प्लचे ओf दिस्चोवेर्य्}
सदलं पीतवर्णं च भवेद्गुर्जरमण्डले ।
अर्बुदस्य गिरेः पार्श्वे जातं बोद्दारशृङ्गकम्
{उदारशृङ्ग:: मेदिच्. प्रोपेर्तिएस्}
सीससत्त्वं मरुच्छ्लेष्मशमनं पुंगदापहम् ।
रसबन्धनमुत्कृष्टं केशरञ्जनमुत्तमम्
{साधारणरस:: शोधन}
साधारणरसाः सर्वे मातुलुङ्गद्रवाम्बुना ।
त्रिवारं भाविताः शुष्का भवेयुर्दोषवर्जिताः
{साधारणरस:: सत्त्व:: शोधन}
यानि कानि च सत्त्वानि तानि शुध्यन्त्यशेषतः ।
ध्मातानि शुद्धिवर्गेण मिलन्ति च परस्परम्
मूल पाठ: Rasendracūḍāmaṇi 3-5, 7-16 · Edition: Siddhinandan Misra, Benares : Chaukhamba Orientalia, 1999 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0