भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचिन्तामणि · अध्याय 3

3.1

र्चिन्त्, 3
अथातो बन्धनाध्यायं व्याचक्ष्महे ।
स्वाभाविकद्रवत्वे सति वह्निनानुच्छिद्यमानत्वं मूर्तिबद्धत्वम्

3.2

विपिनौषधिपाकसिद्धम् एतद्घृततैलाद्यपि दुर्निवारवीर्यम् ।
किमयं पुनर् ईश्वराङ्गजन्मा घनजाम्बूनदचन्द्रभानुजीर्णः

3.3

<19 संस्कारस्>
एतत्साधकान्यूनविंशतिकर्माणि भवन्ति ।
मर्दनमूर्छनोत्थापनस्वेदनपातनबोधननियमनसंदीपनानुवासनगगनादिग्रासप्रमाणचारणगर्भद्रुतिबाह्यद्रुतियोगजारणरञ्जनसारणक्रामणवेधनभक्षणानि

3.4

<रेल्. रितेस् बेfओरे स्तर्तिन्ग् थे संस्कारस्>
सम्पूज्य श्रीगुरुं कन्यां बटुकं च गणाधिपम् ।
योगिनीं क्षेत्रपालांश्च चतुर्धाबलिपूर्वकम्

3.5

सूतं रहस्यनिलये सुमुहूर्ते विधोर्बले ।
खल्वे पाषाणजे लोहे सुदृढे सारसम्भवे

3.6

तादृशस्वच्छमसृणचतुरङ्गुलमर्दके ।
निक्षिप्य सिद्धमन्त्रेण रक्षितं द्वित्रिसेवकैः

3.7

भिषग् विमर्दयेच्चूर्णैर् मिलितैः षोडशांशतः ।
सूतस्य गालितैर् वस्त्रैर्वक्ष्यमाणद्रवादिभिः

3.8

मर्दयेन्मूर्छयेत्सूतं पुनरुत्थाप्य सप्तशः ।
<मेर्चुर्य्:: दोष:: रेमोवल्>
रक्तेष्टकानिशाधूमसारोर्णाभस्मतुम्बिकैः ।
जम्बीरद्रवसंयुक्तैर् नागदोषापनुत्तये

3.9

विशालाङ्कोलचूर्णेन वङ्गदोषं विमुञ्चति ।
राजवृक्षस्य मूलस्य चूर्णेन सह कन्यया

3.10

मलदोषापनुत्त्यर्थं मर्दनोत्थापने शुभे ।
कृष्णधत्तूरकद्रावैश् चाञ्चल्यविनिवृत्तये

3.11

त्रिफलाकन्यकातोयैर् विषदोषोपशान्तये ।
गिरिदोषं त्रिकटुना कन्यातोयेन यत्नतः

3.12

चित्रकस्य च चूर्णेन सकन्येनाग्निनाशनम् ।
आरनालेन चोष्णेन प्रतिदोषं विशोधयेत् ।
एवं संशोधितः सूतः सप्तदोषविवर्जितः ।
जायते कार्यकर्ता च ह्य् अन्यथा कार्यनाशनः

3.13

<मेर्चुर्य्:: उत्थापन>
उत्थापनावशिष्टं तु चूर्णं पातनयन्त्रके ।
धृत्वोर्ध्वभाण्डे संलग्नं संहरेत्पारदं भिषक्

3.14

<स्वेदन>
रसं चतुर्गुणे वस्त्रे बद्ध्वा दोलाकृतं पचेत् ।
दिनं व्योषवरावह्निकन्याकल्केषु काञ्जिके ।
दोषशेषापनुत्त्यर्थमिदं स्वेदनमुच्यते

3.15

<काञ्जिक:: प्रोदुच्तिओन्>
नानाधान्यैर् यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद् यावदम्लत्वमाप्नुयात्

3.16

तन्मध्ये घनवाङ्मुण्डी विष्णुक्रान्तापुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी

3.17

त्रिफला गिरिकर्णी च हंसपादी च चित्रकः ।
समूलकाण्डं पिष्ट्वा तु यथालाभं विनिक्षिपेत्

3.18

पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत्

3.19

अत्यम्लमारनालं वा तदभावे प्रयोजयेत् ।
<ऊर्ध्वपातन>
भागास् त्रयो रसस्यार्कचूर्णस्यैकोऽथ निम्बुकैः ।
एतत्संमर्दयेत्तावद्यावदायाति पिण्डताम्

3.20

तत्पिण्डं तलभाण्डस्थमूर्ध्वभाण्डे जलं क्षिपेत् ।
कृत्वालवालं केनापि दत्त्वा वार्द्रं हि प्लोतकम्

3.21

संमुद्र्याग्निम् अधस्तस्य चतुर्यामं प्रबोधयेत् ।
युक्त्योर्ध्वभाण्डसंलग्नं गृह्णीयात्पारदं ततः

3.22

ऊर्ध्वपातनमित्युक्तं भिषग्भिः सूतशोधने ।
<संधिरोध:: इम्पोर्तन्चे>
ससूतभाण्डवदनम् अन्यद् गिलति भाण्डकम् ।
तथा संधिर् द्वयोः कार्यः पातनात्रययन्त्रके

3.23

<सिzएस्, मेअसुरेस्:: तौघ्त् ब्य् थे गुरु>
यन्त्रप्रमाणं वदनाद्गुरोर्ज्ञेयं विचक्षणैः ।
रसस्य मानानियमात् कथितुं नैव शक्यते

3.24

<अधःपातन>
नवनीताह्वयं सूतं घृष्ट्वा जम्भाम्भसा दिनम् ।
वानरीशिग्रुशिखिभिर् लवणासुरिसंयुतैः

3.25

नष्टपिष्टं रसं ज्ञात्वा लेपयेदूर्ध्वभाण्डके ।
ऊर्ध्वभाण्डोदरं लिप्त्वा त्व् अधोगं जलसंभृतम्

3.26

संधिलेपं द्वयोः कृत्वा तद्यन्त्रं भुवि पूरयेत् ।
उपरिष्टात्पुटे दत्ते जले पतति पारदः

3.27

अधःपातनम् इत्युक्तं सिद्धाद्यैः सूतकर्मणि ।
<तिर्यक्पातन>
घटे रसं विनिक्षिप्य सजलं घटम् अन्यकम् ।
तिर्यङ्मुखं द्वयोः कृत्वा तन्मुखं रोधयेत् सुधीः

3.28

रसाधो ज्वालयेदग्निं यावत्सूतो जलं विशेत् ।
तिर्यक्पातनमित्युक्तं सिद्धैर् नागार्जुनादिभिः

3.29

<3 पातनस्:: रेमोवल् ओf वङ्ग अन्द् नाग>
मिश्रितौ चेद्रसे नागवङ्गौ विक्रयहेतुना ।
ताभ्यां स्यात्कृत्रिमो दोषस् तन्मुक्तिः पातनत्रयात्

3.30

<बोधन:: रेमोवल् ओf इम्पोतेन्च्य्>
एवं कपर्दितः सूतः षण्ढत्वम् अधिगच्छति ।
तन्मुक्तयेऽस्य क्रियते बोधनं कथ्यते हि तत्

3.31

विश्वामित्रकपाले वा काचकूप्याम् अथापि वा ।
सृष्ट्यम्बुजं विनिक्षिप्य तत्र तन्मज्जनावधि

3.32

पूरयेत्त्रिदिनं भूम्यां राजहस्तप्रमाणतः ।
अनेन सूतराजोऽयं षण्ढभावं विमुञ्चति

3.33

<दीपन? बोधन?>
लवणेनाम्लपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याम्लजलं किंचित् क्षिप्त्वा शरावेण रोधयेत्

3.34

ऊर्ध्वं लघुपुटं देयं लब्धाश्वासो भवेद्रसः ।
<स्वेदन zउर् wइएदेर्हेर्स्तेल्लुन्ग् वोन् ह्ग्>
कदर्थनेनैव नपुंसकत्वम् एवं भवेदस्य रसस्य पश्चात् ।
वीर्यप्रकर्षाय च भूर्जपत्त्रे स्वेद्यो जले सैन्धवचूर्णगर्भे

3.35

<नियमन>
सर्पाक्षीचिञ्चिकावन्ध्याभृङ्गाब्दकनकाम्बुभिः ।
दिनं संस्वेदितः सूतो नियमात् स्थिरतां व्रजेत्

3.36

<दीपन>
कासीसं पञ्चलवणं राजिकामरिचानि च ।
द्विशिग्रुबीजमेकत्र टङ्कणेन समन्वितम्

3.37

आलोड्य काञ्जिके दोलायन्त्रे पाकाद् दिनैस् त्रिभिः ।
दीपनं जायते सम्यक् सूतराजस्य जारणे

3.38

<दीपन>
अथवा चित्रकद्रावैः काञ्जिके त्रिदिनं पचेत् ।
दीपनं जायते तस्य रसराजस्य चोत्तमम्

3.39

<अनुवासन>
दीपितं रसराजस्तु जम्बीररससंयुतम् ।
दिनैकं धारयेद् घर्मे मृत्पात्रे वा शिलोद्भवे

3.40

<जारण:: देfइनितिओन्>
जारणा हि नाम पातनगालनव्यतिरेकेण घनहेमादिग्रासपूर्वकपूर्वावस्थाप्रतिपन्नत्वम्

3.41

किंच घनहेमादिजीर्णस्य कृतक्षेत्रीकरणानाम् एव शरीरिणां भक्षणे ऽधिकार इत्यभिहितम्

3.42

<जारण:: रेल्. मेअनिन्ग्>
फलं चास्य स्वयमीश्वरेणोक्तम् ।
सर्वपापक्षये जाते प्राप्यते रसजारणा ।
तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं मुक्तिलक्षणम्

3.43

मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु ।
खल्वस्तु पिण्डिका देवि रसेन्द्रो लिङ्गमुच्यते

3.44

मर्दनं वन्दनं चैव ग्रासः पूजा विधीयते ।
यावद्दिनानि वह्निस्थो जारणे धार्यते रसः

3.45

तावद् वर्षसहस्राणि शिवलोके महीयते ।
दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम्

3.46

द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ।
अजारयन्तः पविहेमगन्धं वाञ्छन्ति सूतात्फलम् अप्युदारम् ।
क्षेत्रादनुप्तादपि सस्यजातं कृषीवलास्ते भिषजश्च मन्दाः

3.47

<जारण:: मेदिच्. प्रोपेर्तिएस् अच्चोर्दिन्ग् तो थे wएइघ्त् ओf सुल्fउर्>
तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः ।
द्विगुणे गन्धके जीर्णे सर्वकुष्ठहरः परः

3.48

त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः ।
चतुर्गुणे तत्र जीर्णे वलीपलितनाशनः

3.49

गन्धे पञ्चगुणे जीर्णे क्षयक्षयकरो रसः ।
षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः ।
अवश्यमित्युवाचेदं देवीं श्रीभैरवः स्वयम्

3.50

<जारण>
गन्धपिष्टिकया तत्र गोलः स्याद्गन्धजारणे

3.51

तस्माच्छतगुणो व्योमसत्त्वे जीर्णे तु तत्समे ।
ताप्यखर्परतालादिसत्त्वे जीर्णे गुणावहः

3.52

हेम्नि जीर्णे सहस्रैकगुणसंघप्रदायकः ।
वज्रादिजीर्णसूतस्य गुणान् वेत्ति शिवः स्वयम्

3.53

देव्या रजो भवेद्गन्धो धातुः शुक्रं तथाभ्रकम् ।
आलिङ्गने समथौ द्वौ प्रियत्वाच्छिवरेतसः

3.54

शिवशक्तिसमायोगात्प्राप्यते परमं पदम् ।
यथा स्याज्जारणा बह्वी तथा स्याद्गुणदो रसः

3.55

<मेर्चुर्य्:: ग्रासार्थिन्>
वज्रकण्टकवज्राग्रं विद्धमष्टाङ्गुलं मृदा ।
विलिप्य गोमयाल्पाग्नौ पुटितं तत्र शोषितम्

3.56

त्र्यहं वज्रिबिले क्षिप्तो ग्रासार्थी जायते रसः ।
ग्रसते गन्धहेमादि वज्रसत्त्वादिकं क्षणात्

3.57

<मेर्चुर्य्:: ग्रासार्थिन्>
मूर्छाध्यायोक्तषड्गुणबलिजीर्णः पिष्टिकोत्थितरसः खल्वेऽत्यन्तं बुभुक्षितो घनहेमवज्रसत्त्वादि त्वरितमेव ग्रसतीत्यन्यः प्रकारः ।
एतत्प्रक्रियाद्वयमपि कृत्वा व्यवहरन्त्यन्ये

3.58

<मेर्चुर्य्:: ग्रासार्थिन्>
सतुत्थटङ्कणस्वर्जिपटुताम्रे त्र्यहोषितम् ।
काञ्जिकं भावितं तेन गन्धाद्यं क्षरति क्षणात्

3.59

विडे सकाञ्जिके क्षिप्तो रसः स्याद् ग्रासलालसः ।
ग्रसते सर्वलोहानि सर्वसत्त्वानि वज्रकम्

3.60

<विड:: वडवानल>
शङ्खचूर्णं रविक्षीरैरातपे भावयेद्दिनम् ।
तद्वज्जम्बीरजद्रावैर् दिनैकं धूमसारकम्

3.61

सौवर्चलमजामूत्रैर् भाव्यं यामचतुष्टयम् ।
कण्टकारीं च संक्वाथ्य दिनैकं नरमूत्रकैः

3.62

स्वर्जिक्षारं तिन्तिडीकं कासीसं तु शिलाजतु ।
जम्बीरोत्थद्रवैर् भाव्यं पृथग्यामचतुष्टयम्

3.63

निस्तुषं जयपालं च मूलकानां द्रवैर्दिनम् ।
सैन्धवं टङ्कणं गुञ्जां दिनं शिग्रुजटाम्भसा

3.64

एतत्सर्वं समांशं तु मर्द्यं जम्बीरजद्रवैः ।
तद्गोलं रक्षयेद्यत्नाद् विडोऽयं वडवानलः

3.65

अनेन मर्दितः सूतः संस्थितस् तप्तखल्वके ।
स्वर्णादिसर्वलोहानि सत्त्वानि ग्रसते क्षणात्

3.66

<विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रगालितम् ।
वस्त्रपूतो द्रवो ग्राह्यो गन्धकं तेन भावयेत् ।
शतवारं खरे घर्मे विडोऽयं हेमजारणे

3.67

<विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
मूलकार्द्रकचित्राणां क्षारैर् गोमूत्रगालितैः ।
गन्धकः शतशो भाव्यो विडोऽयं जारणे मतः

3.68

<विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
वास्तूकैरण्डकदलीदेवदालीपुनर्नवाः ।
वासापलाशनिचुलतिलकाञ्चनमोक्षकाः

3.69

सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले ।
दग्धं काण्डं तिलानां च पञ्चाङ्गं मूलकस्य च

3.70

प्लावयेन्मूत्रवर्गेण जलं तस्मात्परिस्रुतम् ।
लोहपात्रे पचेद्यन्त्रे हंसपाकाग्निमानवित्

3.71

बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा ।
तदा कासीससौराष्ट्रीक्षारत्रयकटुत्रयम्

3.72

गन्धकश्च सितो हिङ्गु लवणानि च षट् तथा ।
एषां चूर्णं क्षिपेद्देवि लोहसम्पुटमध्यतः

3.73

सप्ताहं भूगतं पश्चाद्धार्यस् तु प्रचुरो विडः ।
अत्र सकलक्षारैश् च साम्यं तिलकाण्डानां नित्यनाथपादा लिखन्ति ।
<हंसपाकयन्त्र>
खर्परं सिकतापूर्णं कृत्वा तस्योपरि क्षिपेत् ।
तुल्यं च खर्परं तत्र शनैर्मृद्वग्निना पचेत्

3.74

पञ्चक्षारैस् तथा मूत्रैर् लवणं च विडं तथा ।
हंसपाकं समाख्यातं यन्त्रं तद्वार्त्तिकोत्तमैः

3.75

<विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
गोमूत्रैर्गन्धकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस् तद्वद्दग्धं शङ्खं विभावयेत्

3.76

एतद्गन्धकशङ्खाभ्यां समांशैर् विडसैन्धवैः ।
एतैर् विमर्दितः सूतो ग्रसते सर्वलोहकम्

3.77

<विड:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
भावयेन्निम्बुकक्षारं देवदालीफलद्रवैः ।
एकविंशतिवारं तु विडोऽयं सत्त्वजारणे

3.78

एवं विडान्तराण्यपि ग्रन्थान्तराद् अनुसर्तव्यानि

3.79

<जारण:: परिणाम>
चतुःषष्ट्यंशकं हेमपत्त्रं मायूरमायुना ।
विलिप्तं तप्तखल्वस्थे रसे दत्त्वा विमर्दयेत् ।
दिनं जम्बीरतोयेन ग्रासे ग्रासे त्व् अयं विधिः

3.80

शनैः संस्वेदयेद्भूर्जे बद्ध्वा सपटुकाञ्जिके ।
भाण्डके त्रिदिनं सूतं जीर्णस्वर्णं समुद्धरेत्

3.81

अधिकस्तोलितश्चेत्स्यात्पुनः स्वेद्यः समावधि ।
द्वात्रिंशत्षोडशाष्टांशक्रमेण वसु जारयेत्

3.82

रूप्यादिषु च सत्त्वेषु विधिरेवंविधः स्मृतः ।
चुल्लिकालवणं गन्धमभावे शिखिपित्ततः

3.83

<तप्तखल्व>
अजाशकृत्तुषाग्निं च खानयित्वा भुवि क्षिपेत् ।
तस्योपरि स्थितं खल्वं तप्तखल्वमिति स्मृतम्

3.84

<दोलायन्त्र>
सग्रासं पञ्चषड्भागैर्यवक्षारैर्विमर्दयेत् ।
सूतकात् षोडशांशेन गन्धेनाष्टांशकेन वा

3.85

ततो विमर्द्य जम्बीररसे वा काञ्जिकेऽथवा ।
दोलापाको विधातव्यो दोलायन्त्रमिदं स्मृतम्

3.86

<कच्छपयन्त्रे जारणम् आह>
शश्वद्भृताम्बुपात्रस्थशरावच्छिद्रसंस्थिता ।
पक्वमूषा जले तस्यां रसोऽष्टांशविडावृतः

3.87

संरुद्धो लोहपात्र्याथ ध्मातो ग्रसति काञ्चनम् ।
वालुकोपरि पुटो युक्त्या महामुद्रया च निर्वाहः

3.88

अतिचिपिटपात्र्या पिधाय संलिप्य वह्निना योज्यः ।
<जारण>
कुण्डाम्भसि लोहमये सविडं सग्रासम् ईशजं पात्रे ।
अतिचिपिटलोहपात्र्या पिधाय संलिप्य वह्निना योज्यः

3.89

<जारण:: इम्पोर्तन्चे fओर् अल्छेम्य् अन्द् रसायन>
इयतैव रसायनत्वं पर्यवसिति किंतु वादस्य न प्राधान्यम् ।
सम्प्रत्युभयोरेव प्राधान्येन जारणोच्यते

3.90

<पक्षछेद:: ऐम्>
घनरहितबीजजारणसम्प्राप्तदलादिसिद्धिकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः

3.91

विनैकम् अभ्रसत्त्वं नान्यो रसपक्षकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम्

3.92

<अभ्र:: सुब्त्य्पेस्:: चोलोउर्>
रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः ।
तारकर्मणि तच्छुक्लं काचकिट्टं सदा त्यजेत्

3.96

<जारण:: समुख (?)>
त्रुटिशो दत्त्वा मृदितं सोष्णे खल्वेऽभ्रसत्त्वहेमादि ।
चरति रसेन्द्रः क्षितिखगवेतसजम्बीरबीजपूराम्लैः ।
पूर्वसाधितकाञ्जिकेनापि

3.97

अभ्रकजारणम् आदौ गर्भद्रुतिजारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सो ऽर्थक्षयं कुरुते

3.98

<गर्भद्रुति>
व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम् ।
साकल्येन चरेद्देवि गर्भद्रावी भवेद्रसः

3.99

एवं ताराभ्रादयः स्वस्वरिपुणा निर्व्यूढाः प्रयोजनमवलोक्य प्रयोज्याः ।
<गर्भद्रुति (2); शुल्वाभ्र>
कमलघनमाक्षिकाणां चूर्णं समभागयोजितं मिलति ।
तच्छुल्वाभ्रं शीघ्रं चरति रसेन्द्रो द्रवति गर्भे

3.100

<गर्भद्रुति:: देfइनितिओन्>
गर्भद्रुतिम् अन्तरेण जारणैव न स्यादतस्तल्लक्षणमाह ।
वह्निव्यतिरेके ऽपि रसग्रासीकृतानां लोहानां द्रवत्वं गर्भद्रुतिः

3.101

<बीज:: प्रोदुच्तिओन्>
बीजानां संस्कारः कर्तव्यस्ताप्यसत्त्वसंयोगात् ।
तेन द्रवन्ति गर्भा रसराजस्याम्लवर्गयोगेन

3.102

<बीज:: अनोन्य्मोउस्:: प्रोदुच्तिओन्>
शिलया निहतो नागस्ताप्यं वा सिन्धुना हतम् ।
ताभ्यां तु मारितं बीजं सूतके द्रवति क्षणात्

3.103

<??>
पट्वम्लक्षारगोमूत्रस्नुहीक्षीरप्रलेपिते ।
बहिश्च बद्धं वस्त्रेण भूर्जे ग्रासनिवेशितम् ।
क्षारारनालमूत्रेषु स्वेदयेत्त्रिदिनं भिषक्

3.104

<मेर्चुर्य्:: पुरिfइचतिओन् अfतेर् जारण>
उष्णेनैवारनालेन क्षालयेज्जारितं रसम् ।
तं च किंचिन्मलेऽनष्टे घर्षयेदुत्थिते रसे

3.105

मलप्रविष्टं रसमल्पेनैव जम्भरसेन सिक्तं यावदुत्थानं घर्षयेदित्यर्थः ।
तदा न त्रुटिरिति गुरुसंकेतः

3.106

<जारण:: wइथ् कच्छपयन्त्र>
क्रमेणानेन दोलायां जार्यं ग्रासचतुष्टयम् ।
ततः कच्छपयन्त्रेण ज्वलने जारयेद्रसम्

3.107

<जारण>
नान्दीपयसि शरावोदरकुहरनिविष्टलोहसम्पुटगः ।
हरयोनिर् अन्तरा संजरति पुटैर्गगनगन्धादि

3.108

अङ्गारेण करीषेण वा पुटदानम्

3.109

<जारण:: wएइघ्त् ओf अद्देद् सुब्स्तन्चेस्, दण्डधारिन् एत्च्.>
चतुःषष्ट्यंशकः पूर्वो द्वात्रिंशांशो द्वितीयकः ।
तृतीयः षोडशांशस्तु चतुर्थो ऽष्टांश एव च

3.110

चतुःषष्ट्यंशकग्रासाद्दण्डधारी भवेद्रसः ।
जलौकावद् द्वितीये तु ग्रासयोगे सुरेश्वरि

3.111

ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत् ।
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत्

3.112

अन्यद् दुर्जरत्वान्न लिखितम्

3.113

<जारण:: wएइघ्त् ओf अद्देद् सुब्स्तन्चेस्>
भगवद्गोविन्दपादास्तु कलांशमेव ग्रासं लिखन्ति ।
यथा पञ्चभिरेवं ग्रासैर् घनसत्त्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन

3.114

तन्मते चतुःषष्टिचत्वारिंशत्त्रिंशद्विंशतिषोडशांशाः पञ्च ग्रासाः

3.115

<गर्भद्रुति:: सुइतब्ले क्षारस्>
जम्बीरबीजपूरचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः

3.116

<मेर्चुर्य्:: रञ्जन>
तारकर्मण्यस्य न तथा प्रयोगो दृश्यते ।
केवलं निर्मलं ताम्रं वापितं दरदेन तु ।
कुरुते त्रिगुणं जीर्णं लाक्षारसनिभं रसम्

3.117

<मेर्चुर्य्:: रञ्जन>
गन्धकेन हतं नागं जारयेत् कमलोदरे ।
एतस्य त्रिगुणे जीर्णे लाक्षाभो जायते रसः

3.118

एतत्तु नागसंधानं न रसायनकर्मणि

3.119

<मेर्चुर्य्:: रञ्जन>
किंवा यथोक्तसिद्धबीजोपरि त्रिगुणताम्रजारणात् तद्बीजं समजीर्णं स्वातन्त्र्येणैव रञ्जयति

3.120

<बीज:: प्रोदुच्तिओन्>
कुटिलं विमला तीक्ष्णं समचूर्णं प्रकल्पयेत् ।
पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत् तु तावद्बीजं भवेच्छुभम्

3.121

<बीज:: प्रोदुच्तिओन्>
सत्त्वं तालोद्भवं वङ्गं समं कृत्वा तु धारयेत् ।
तच्चूर्णं वाहयेत्तारे गुणान् यावत्तु षोडश

3.122

प्रतिबीजमिदं श्रेष्ठं पारदस्य निबन्धनम् ।
चारणात्सारणाच्चैव सहस्रांशेन विध्यति

3.123

<बीज:: => शतवेधिरस>
वङ्गाभ्रं वाहयेत्तारे गुणानि द्वादशैव तु ।
एतद्बीजे समे जीर्णे शतवेधी भवेद्रसः

3.124

<बीज:: हेमबीज>
कुनटीहतकरिणा वा रविणा वा ताप्यगन्धकहतेन ।
दरदनिहतासिना वा त्रिर् व्यूढं हेम तद्बीजम्

3.125

बलिना व्यूढं केवलमर्कमपि ।
<बीज:: => रसबन्धन>
नागाभ्रं वाहयेद्धेम्नि द्वादशैव गुणानि च ।
प्रतिबीजमिदं श्रेष्ठं पारदस्य तु बन्धनम्

3.126

<नागबीज>
माक्षिकेण हतं ताम्रं नागं च रञ्जयेन्मुहुः ।
तं नागं वाहयेद्बीजे द्विषोडशगुणानि च

3.127

बीजं त्व् इदं वरं श्रेष्ठं नागबीजं प्रकीर्तितम् ।
समचारितमात्रेण सहस्रांशेन विध्यति

3.128

<बीज:: रञ्जन ओf ~>
मञ्जिष्ठा किंशुकं चैव खदिरं रक्तचन्दनम् ।
करवीरं देवदारु सरलो रजनीद्वयम्

3.129

अन्यानि रक्तपुष्पाणि पिष्ट्वा लाक्षारसेन तु ।
तिलं विपाचयेत्तेन कुर्याद् बीजादिरञ्जनम्

3.130

<सारणातैल:: प्रोदुच्तिओन्>
द्विगुणे रक्तपुष्पाणां रक्तपीतगणस्य च ।
क्वाथे चतुर्गुणं क्षीरं तैलमेकं सुरेश्वरि

3.131

ज्योतिष्मतीकरञ्जाख्यकटुतुम्बीसमुद्भवम् ।
पाटलाकाकतुण्डाह्वमहाराष्ट्रीरसैः पृथक्

3.132

भेकसूकरमेषाहिमत्स्यकूर्मजलौकसाम् ।
वसया चैकया युक्तं षोडशांशैः सुपेषितैः

3.133

भूलतामलमाक्षीकद्वंद्वमेलापकौषधैः ।
पाचितं गालितं चैव सारणातैलमुच्यते

3.134

अत्र गन्धर्वतैलमपि रसहृदयस्वरसात्

3.135

<द्वन्द्वमेलापक>
ऊर्णाटङ्कणगिरिजतुमहिषीकर्णाक्षिमलेन्द्रगोपकर्कटका द्वंद्वमेलापकौषधानि

3.136

<"रञ्जकतैल">
यथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः ।
रसं चतुर्गुणं योज्यं कङ्गुनीतैलमध्यतः

3.137

पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
द्रावितं तारबीजं तु ह्य् एकविंशतिवारकम्

3.138

रञ्जितं जायते तत्तु रसराजस्य रञ्जनम् ।
कुटिले बलम् अत्यधिकं रागस्तीक्ष्णे च पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले नित्यं प्रशंसन्ति

3.139

बलमास्ते ऽभ्रकसत्त्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलौहे क्रामणमथ नागवङ्गगतम्

3.140

क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन

3.141

तदपि च दरदेन हतं कृत्वा वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च

3.142

<मेर्चुर्य्:: बन्धन>
सर्वैर् एभिर् लौहैर् माक्षिकमृदितैर् द्रुतैस्तथा गर्भे ।
विडयोगेन च जीर्णे रसराजो बन्धम् उपयाति

3.143

<??>
निर्बीजं समजीर्णे पादोने षोडशांशं तु ।
अर्धेन पादकनकं पादेनैकेन तुल्यकनकं च

3.144

समादिजीर्णस्य सारणायोग्यत्वं शतादिवेधकत्वं च ।
इतो न्यूनजीर्णस्य पत्त्रलेपार्धकार एव

3.145

<पत्रलेप>
अत्यम्लितम् उद्वर्तिततारारिष्टादिपत्रम् अतिशुद्धम् ।
आलिप्य रसेन ततः क्रामणलिप्तं पुटेषु विश्रान्तम्

3.146

<पुटप्रकार>
पुटः प्रायेण चुल्लिकाधस्तादस्य

3.147

<वर्णपुट>
अर्धेन मिश्रयित्वा हेम्ना श्रेष्ठेन तद्दलं पुटितम् ।
क्षितिखगपटुरक्तमृदा वर्णपुटोऽयं ततो देयः

3.148

अर्धेनेत्युपलक्षणम्

3.149

<गोल्द्:: प्रोदुच्तिओन्>
तारार्कमर्कटशिरःशिलागन्धान् प्रचूर्णयेत् ।
पचेद्भूयः क्षिपन् गन्धं यथा सूतो न गच्छति ।
पक्वं तद्धेमपत्रस्थं हेमतां प्रतिपद्यते

3.150

<??>
रज्जुभिर् भेकरङ्गाद्यैः स्तम्भयोः सारलौहयोः ।
बध्यते रसमातङ्गो युक्त्या श्रीगुरुदत्तया

3.151

<गोल्द्:: प्रोदुच्तिओन्>
शिलाचतुष्कं गन्धेशौ काचकूप्यां सुवर्णकृत् ।
कीलालायःकृतो योगः खटिकालवणाधिकः

3.152

<गोल्द्:: प्रोदुच्तिओन् (?)>
मण्डूकपारदशिलाबलयः समानाः संमर्दिताः क्षितिबिलेशयमन्त्रजिह्वैः ।
यन्त्रोत्तमेन गुरुभिः प्रतिपादितेन स्वल्पैर्दिनैरिह पतति न विस्मयध्वम्

3.153

<बीज:: लौहभेकि>
लोहं गन्धं टङ्कणं भ्रामयित्वा तेनोन्मिश्रं भेकम् आवर्तयेत्तु ।
<बीज:: तारतालकी>
तालं कृत्वा तुर्यवङ्गान्तराले रूप्यस्यान्तस्तच्च सिद्धोक्तबीजे

3.154

इतीदं लौहभेकितारतालकीति सिद्धमते बीजद्वयम्

3.155

<??>
द्रुतदर्दुरपूतिलौहतापः कुरुते हिङ्गुलखण्डपक्षखण्डम् ।
शशिहेलिहिरण्यमूषिका ध्रुवम् अक्षोणधियामनेन लक्ष्मीम्

3.156

<मेर्चुर्य् (?):: स्तबिलिसतिओन्>
दरदगुटिकाश् चन्द्रक्षोदैर् निरन्तरम् आवृतास् तरणिकनकैः किंवा गन्धाश्मना सह भूरिणा ।
रचय सिकतायन्त्रे युक्त्या मुहुर् मुहुर् इत्यसौ हुतभुजि वसन्न स्थेमानं कथञ्चन मुञ्चति

3.157

<बाह्यद्रुति>
अथ बाह्यद्रुतयः ।
एतास्तु केवलमारोटमेव मिलिता निबध्नन्ति ।
फलमस्य कल्पप्रमितमायुः ।
किंवा पूर्वोक्तग्रासक्रमजारिताः पूर्वोक्तफलप्रदा भवन्ति ।
उच्यते स समजीर्णश्चायं शतवेधी द्विगुणजीर्णः सहस्रवेधी ।
एवं लक्षायुतकोटिवेधी समनुसर्तव्यः ।
चतुःषष्टिगुणजीर्णस्तु धूमस्पर्शावलोकशब्दतोऽपि विध्यति

3.158

<सारण:: प्रोपेर् च्रुचिब्ले>
अन्धमूषा तु कर्तव्या गोस्तनाकारसन्निभा ।
सैव छिद्रान्विता मध्ये गम्भीरा सारणोचिता

3.159

<सारण:: प्रोचेदुरे>
अस्यामेव मूषायां तत्तैलमपगतकल्कविमलमापूर्य तस्मिन्नधिकम् ऊष्मात्मनि द्रुतबीजप्रक्षेपसमकालमेव समावर्तनीयः सूतवरस्तदनु सद्यो मूषाननम् आच्छादनीयम् एतत् तैलाक्तपटखण्डग्रन्थिबन्धेन अरुणसितबीजाभ्याम् अमुना सारणकर्मणा मिलितश्चेत्सारितः सम्यक् संयमितश्च विज्ञेयः प्रतिसारितस्तु द्विगुणबीजेन तद्वदनुसारितस्तु त्रिगुणबीजेन अत्र त्रिविधायामेव सारणायामरुणसितकर्मणोः क्रामणार्थम् ईषत्पन्नगवङ्गौ विश्राणनीयाविति ।
<=> कोटिवेधिरस>
सारितो जारितश्चैव पुनः सारितजारितः ।
सप्तशृङ्खलिकायोगात्कोटिवेधी भवेद्रसः ।
इत्यादीनि कर्माणि पुनः केवलमीश्वरानुग्रहसाध्यत्वान्न प्रपञ्चितानि

3.160

शिलया निहतो नागो वङ्गं वा तालकेन शुद्धेन ।
क्रमशः पीते शुक्ले क्रामणमेतत्समुद्दिष्टम्

3.161

<विडवटी>
खोटकं स्वर्णसंतुल्यं समावर्त्तं तु कारयेत् ।
माक्षिकं कान्तपाषाणं शिलागन्धं समं समम्

3.162

भूनागैर्मर्दयेद्यामं वल्लमात्रं वटीकृतम् ।
एषा विडवटी ख्याता योज्या सर्वत्र जारणे

3.163

<मेर्चुर्य्:: रञ्जन => शतवेधिन्>
दरदं माक्षिकं गन्धं राजावर्तं प्रवालकम् ।
शिलातुत्थं च कुङ्कुष्ठं समचूर्णं प्रकल्पयेत्

3.164

वर्गाभ्यां पीतरक्ताभ्यां कङ्गुणीतैलकैः सह ।
भावयेद्दिवसान् पञ्च सूर्यतापे पुनः पुनः

3.165

जारितं सूतखोटं च कल्केनानेन संयुतम् ।
वालुकाहण्डिमध्यस्थं शरावपुटमध्यगम्

3.166

त्रिदिनं पाचयेच्चुल्ल्यां कल्को देयः पुनः पुनः ।
रञ्जितो जायते सूतः शतवेधी न संशयः

3.167

<मेर्चुर्य्:: रञ्जन (?)>
लौहं गन्धं टङ्कणं ध्मातमेतत् तुल्यं चूर्णैर् भानुभेकाहिवङ्गैः ।
सूतं गन्धं सर्वसाम्येन कूप्यामीषत्साध्यं चात्र नो विस्मयध्वम्

3.168

<हेमकृष्टि:: प्रोदुच्तिओन्>
रसदरदताप्यगन्धकमनःशिलाभिः क्रमेण वृद्धाभिः ।
पुटमृतशुल्बं तारे त्रिर्व्यूढं हेमकृष्टिरियम्

3.169

<शतांशविधि (1)>
अष्टानवतिभागं च रूप्यमेकं च हाटकम् ।
सूतैकेन च वेधः स्याच्छतांशविधिर् ईरितः

3.170

<शतांशविधि (2)>
चन्द्रस्यैकोनपञ्चाशत्तथा शुद्धस्य भास्वतः ।
वह्निरेकः शम्भुरेकः शतांशविधिरीरितः

3.171

द्वावेव रजतयोनिताम्रयोनित्वेनोपचर्येते ।
एवं सहस्रवेधादयो जारणबीजवशाद् अनुसर्तव्याः

3.172

<वेधविधान>
चत्वारः प्रतिवापाः सुलक्षया मत्स्यपित्तभावितया ।
तारे वा शुल्बे वा तारारिष्टेऽथवा कृष्टौ

3.173

तदनु क्रामणमृदितः सिक्थकपरिवेष्टितो देयः ।
अतिविद्रुते च तस्मिन् वेधोऽसौ कुन्तवेधेन

3.174

तदनु सिद्धतैलेनाप्लाव्य भस्मावछादनपूर्वकम् अवतार्य स्वाङ्गशैत्यपर्यन्तम् अपेक्षितव्यमिति

3.175

<सेल्लिन्ग् fअच्तितिओउस् गोल्द्।सिल्वेर्>
विद्धं रसेन यद्द्रव्यं पक्षार्धं स्थापयेद्भुवि ।
तत आनीय नगरे विक्रीणीत विचक्षणः

3.176

<बुभुक्षितविधिः>
समर्पितः सैन्धवखण्डकोटरे विधाय पिष्टिं सिकताख्ययन्त्रे ।
विशुद्धगन्धादिभिरीषदग्निना समस्तम् अश्नात्यशनीयम् ईशजः

3.177

<रञ्जन (??)>
कर्षाष्टङ्कणकञ्जलीहरिरसैर् गन्धस्य च द्वौ रजः सिद्धाख्यं सकलैः कृतं पलमथ द्वित्रैश्च लोहैः श्रितम् ।
भूयो गन्धयुतं चतुर्दशपुटैः स्यादिन्द्रगोपारुणं तत्तारे लघुना पुटेन धमनेनार्कछवीम् ईहते

3.178

कर्षा इति बहुवचनात्त्रयः ।
कर्मास्य त्रिधा पत्रलेपेनेति ज्ञेयम्

3.179

<गोल्द्:: प्रोदुच्तिओन्>
तुल्यं तारं ताम्रम् आदाय स्वच्छं तावत्तप्तं गन्धचूर्णे कुनट्याम् ।
न्यस्तं यावज्जीर्यते खण्डशोऽथ प्राज्यैर्गाधैः पाचयेत्काचकूप्याम्

3.180

खण्डाकारं तादृशं टङ्कणेन स्वर्णान्तःस्थं भस्ममूषान्तराले ।
ध्मातं साधु स्यात्सुवर्णं सतारं हीने वर्णे रञ्जयेन्माक्षिकेण

3.181

<चोप्पेर्:: प्रेपरिन्ग् अ द्रवीकारक>
तालताम्रशिलागन्धसंयुतं दरदं यदि ।
कूपिकायां मुहुः पक्वं द्रवकारि तदा मतम्

3.182

<क्षेत्रीकरणम्>
स्निग्धं स्विन्नं विरिक्तं यन्नीरुजं सिद्धभेषजैः ।
एतत्क्षेत्रं समासेन रसबीजार्पणक्षयम्

3.183

<पञ्चकर्माणि>
स्निग्धं प्रातस्त्रिदिनं घृतसैन्धवपानेन स्विन्नं वस्त्रादिपुटवह्निना विरिक्तम् इच्छाभेदिना वान्तं वचादिरसेन पलाशबीजविडङ्गगुडमोदकभक्षणात् कीटपातनम् अपि कर्तव्यम् ।
नीरुजं संवत्सरमयनं वा परिशोधितैः शृङ्गाराभ्रलक्ष्मीविलासाद्यभ्रसत्त्वप्रधानप्रयोगैर् इति

3.184

निम्बक्वाथं भस्मसूतं वचाचूर्णयुतं पिबेत् ।
पीतान्तं वमनं तेन जायते क्लेशवर्जितम्

3.185

पञ्चकर्मभयत्रस्तैः सुकुमारैर्नरैरिह ।
रेचनान्ते इदं सेव्यं सर्वदोषापनुत्तये

3.186

अक्षेत्रीकरणे सूतो मृतोऽपि विषवद्भवेत् ।
फलसिद्धिः कुतस्तस्य सुबीजस्योषरे यथा

3.187

अकृते क्षेत्रीकरणे रसायनं यो नरः प्रयुञ्जीत ।
तस्य क्रामति न रसः सर्वाङ्गदोषकृद्भवति

3.188

कर्तव्यं क्षेत्रकरणं सर्वस्मिंश्च रसायने ।
न क्षेत्रकरणाद्देवि किंचित् कुर्याद् रसायनम्

3.189

इति शुद्धो जातबलः शाल्योदनजाङ्गलादिमुद्गरसैः ।
क्षेत्रीकृतनिजदेहः कुर्वीत रसायनं मतिमान्

3.190

मृताभ्रं भक्षयेन्मासम् एकम् आदौ विचक्षणः ।
पश्चात्स योज्यतां देहे क्षेत्रीकरणमिच्छता

3.191

घनसत्त्वपादजीर्णो ऽर्धकान्तजीर्णश्च तीक्ष्णसमजीर्णः ।
क्षेत्रीकरणाय रसः प्रयुज्यते भूय आरोग्याय

3.192

योऽग्निसहत्वं प्राप्तः संजातो हेमतारकर्ता च ।
शुद्धो रसश्च भुक्तौ विधिना सिद्धिप्रदो भवति

3.193

<मेर्चुर्य्:: जीर्ण:: रिघ्त् मेअसुरे>
घनसत्त्वकान्तताम्रसङ्करतीक्ष्णादिजीर्णस्य ।
सूतस्य गुञ्जावृद्ध्या माषकमात्रं परा मात्रा

3.194

गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ।
द्विगुणं तारजीर्णस्य रविजीर्णस्य च त्रयम्

3.195

तीक्ष्णाभ्रकान्तमाषैकं प्रायो मात्रेति कीर्तिता ।
वज्रवैक्रान्तजीर्णं तु भक्षयेत्सर्षपोपमम्

3.196

नागवङ्गादिभिर् बद्धं विषोपविषबन्धितम् ।
मूत्रशुक्रहठाद् बद्धं त्यजेत्कल्पे रसायने

3.197

<मेर्चुर्य्:: जीर्ण:: लोन्गेवित्य्>
भस्मनस्तीक्ष्णजीर्णस्य लक्षायुः पलभक्षणात् ।
एवं भुक्त्वा दशपलं तीक्ष्णजीर्णस्य मानवः ।
तदा जीवेन्महाकल्पं प्रलयान्ते शिवं व्रजेत्

3.198

भस्मनः शुल्बजीर्णस्य लक्षायुः पलभक्षणात् ।
कोट्यायुर्ब्राह्ममायुष्यं वैष्णवं रुद्रजीवितम् ।
द्वित्रिचतुःपञ्चषष्ठे महाकल्पायुरीश्वरः

3.199

भस्मनो हेमजीर्णस्य लक्षायुः पलभक्षणात् ।
विष्णुरुद्रशिवत्वं च द्वित्रिचतुर्भिराप्नुयात्

3.200

गुञ्जामात्रं हेमजीर्णं ज्ञात्वा चाग्निबलाबलम् ।
घृतेन मधुना चाद्यात्ताम्बूलं कामिनीं त्यजेत्

3.201

एको हि दोषः सूक्ष्मोऽस्ति भक्षिते भस्मसूतके ।
त्रिसप्ताहाद्वरारोहे कामान्धो जायते नरः

3.202

नारीसंगाद्विना देवि ह्यजीर्णं तस्य जायते ।
मैथुनाच्चलिते शुक्रे जायते प्राणसंशयः

3.203

युवत्या जल्पनं कार्यं तावत्तन्मैथुनं त्यजेत्

3.204

ब्रह्मचर्येण वा योगी सदा सेवेत सूतकम् ।
समाधिकरणं तस्य क्रामणं परमं मतम्

3.205

प्रभाते भक्षयेत्सूतं पथ्यं यामद्वयाधिके ।
न लङ्घयेत् त्रियामं तु मध्याह्ने चैव भोजयेत्

3.206

सकणाममृतां भुक्त्वा मले बद्धे स्वपेन्निशि ।
ताम्बूलान्तर्गते सूते किट्टबन्धो न जायते

3.207

<मेर्चुर्य्:: सेवन:: रुलेस् ओf चोन्दुच्त्>
अतिपानं चात्यशनम् अतिनिद्रां प्रजागरम् ।
स्त्रीणाम् अतिप्रसङ्गं चाप्यध्वानं च विवर्जयेत्

3.208

अतिकोपं चातिहर्षं नातिदुःखम् अतिस्पृहाम् ।
शुष्कवादं जलक्रीडाम् अतिचिन्तां च वर्जयेत्

3.209

<ककाराष्टक>
कूष्माण्डकं कर्कटीं च कलिङ्गं कारवेल्लकम् ।
कुसुम्भिकां च कर्कोटीं कदलीं काकमाचिकाम्

3.210

ककाराष्टकमेतद्धि वर्जयेद्रसभक्षकः ।
पातकं च न कर्तव्यं पशुसङ्गं च वर्जयेत्

3.211

चतुष्पथे न गन्तव्यं विण्मूत्रं च न लङ्घयेत् ।
धीराणां निन्दनं देवि स्त्रीणां निन्दां च वर्जयेत्

3.212

सत्येन वचनं ब्रूयादप्रियं न वदेद्वचः ।
कुलत्थानतसीतैलं तिलान्माषान्मसूरकान्

3.213

कपोतान् काञ्जिकं चैव तक्रभक्तं च वर्जयेत् ।
हेमचन्द्रादयः प्राहुः कुक्कुटानपि वर्जयेत्

3.214

कट्वम्लतिक्तलवणं पित्तलं वातलं च यत् ।
बदरं नारिकेलं च सहकारं सुवर्चलम्

3.215

नागरङ्गं कामरङ्गं शोभाञ्जनमपि त्यजेत् ।
न वादजल्पनं कुर्याद्दिवा चापि न पर्यटेत्

3.216

नैवेद्यं नैव भुञ्जति कर्पूरं वर्जयेत्सदा ।
कुङ्कुमालेपनं वर्ज्यं न स्वपेत्कुशलः क्षितौ

3.217

न च हन्यात्कुमारीं च मातुलानीं च वर्जयेत् ।
क्षुधार्तो नैव तिष्ठेत ह्यजीर्णं नैव कारयेत् ।
दिवारात्रं जपेन्मन्त्रं नासत्यवचनं वदेत्

3.218

हितं मुद्गान्नदुग्धाज्यशाल्यन्नानि सदा यतः ।
शाकं पौनर्नवं देवि मेघनादं सवास्तुकम्

3.219

सैन्धवं नागरं मुस्तां पद्ममूलानि भक्षयेत् ।
आत्मज्ञानं कथा पूजा शिवस्य च विशेषतः

3.220

एतांस्तु समयाद्भद्रे न लङ्घेद् रसभक्षणे ।
एवं चैव महाव्याधीन् रसेऽजीर्णे तु लक्षयेत्

3.221

<रसाजीर्णशमनम्>
कार्षिकं स्वर्जिकक्षारं कारवेल्लीरसप्लुतम् ।
गोमूत्रं सैन्धवयुतं तस्य संस्रावणं परम्

3.222

सिन्धुकर्कोटिगोमूत्रं कारवेल्लीरसप्लुतम् ।
सौवर्चलसमोपेतं रसाजीर्णी पिबेद् बुधः

3.223

शरपुङ्खां सुरदालीं पटोलबीजं च काकमाचीं च ।
एकतमां तु क्वथिताम् अविजीर्णरसायने तु पिबेत्

3.224

कथमपि यद्यज्ञानान्नागादिकलङ्कितो रसो भुक्तः ।
तत्स्रावणाय विज्ञः पिबेच्छिफां कारवेल्लभवाम्

3.225

निषिद्धवर्जं मतिमान्विचित्ररसभोजनं कुर्यात् ।
स्रवति न यथा रसेन्द्रो न च नश्यति जाठरो वह्निः

3.226

क्षारक्षोणीरुहाणां विधिवदवहिताः क्षारम् आकल्पयध्वम् ।
कासीसस्वर्जिकाभ्यां पटुचयनरसारक्षपापक्षिटङ्कैः

3.227

कूपीभिः पातयध्वं बहु बहुलयवक्षारमम्भो हि कल्प्यम् ।
तस्मिन्नाधत्त धीराः सकवलम् अगजावल्लभं जारणाय

मूल पाठ: Rasendracintāmaṇi · Edition: Prof. Siddhinandanamisra, Benares: Caukhambha Orientalia, 2000 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc