भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचिन्तामणि · अध्याय 2

2.1

र्चिन्त्, 2
अथ मूर्च्छनाध्यायं व्याचक्ष्महे

2.2

<मूर्च्छना:: (मेदिच्.) देfइनितिओन्>
अव्यभिचरितव्याधिघातकत्वं मूर्च्छना

2.3

तत्तत्तन्त्रनिगदितदेवतापरिचरणस्मरणानन्तरं तत्तच्छोधनप्रक्रियाभिर् बह्वीभिः परिशुद्धानां रसेन्द्राणां तृणारणिमणिजन्यवह्णिन्यायेन तारतम्यम् अवलोकमानैः सूक्ष्ममतिभिः पलार्धेनापि कर्तव्यः संस्कारः सूतकस्य चेति रसार्णववचनाद् व्यावहारिकतोलकद्वयपरिमाणेनापि परिशुद्धो रसो मूर्छयितव्यः

2.4

मूर्च्छनाप्रकारस्तु बहुविधः

2.5

<जारण:: चेन्त्रल् fओर् मेदिच्. अच्तिवतिओन् ओf मेर्चुर्य्>
रसगुणबलिजारणं विनायं न खलु रुजाहरणक्षमो रसेन्द्रः ।
न जलदकलधौतपाकहीनः स्पृशति रसायनतामिति प्रसिद्धिः

2.6

<वालुकायन्त्र>
तन्निमित्तकं सिकतायन्त्रद्वयं कथ्यते

2.7

यथा निरवधिनिष्पीडितमृदम्बरादिपरिलिप्ताम् अतिकठिनकाचघटीम् अग्रे वक्ष्यमाणप्रकारां रसगर्भिणीम् अधस्तर्जन्यङ्गुलिप्रमाणितच्छिद्रायाम् अनुरूपस्थालिकायाम् आरोप्य परितस्तां द्वित्र्यङ्गुलिमितेन लवणेन निरन्तरालीकरणपुरःसरं सिकताभिर् आ गलम् आपूर्य वर्धमानकम् आपूरणीयं क्रमतश्च त्रिचतुराणि पञ्चषाणि वा वासराणि ज्वलनज्वालया पाचनीयम् इत्येकं यन्त्रम्

2.8

<वालुकायन्त्र>
हस्तैकमात्रप्रमाणवसुधान्तर्निखातां प्राग्वत्काचघटीं नातिचिपिटमुखीं नात्युच्चमुखीं मषीभाजनप्रायां खर्परचक्रिकया काचचक्रिकया वा निरुद्धवदनविवरां मृण्मयीं वा घटीं विधाय करीषैरुपरि पुटो देय इत्यन्यद्यन्त्रम्

2.9

<जारण:: fउर्थेर् अप्परतुस्>
असमशकलद्वयात्मकलोहसम्पुटकेन सिकतायन्त्रमध्ये भूधरे वेति त्रिलोचनः

2.10

<मेर्चुर्य्:: जारण>
कूर्मयन्त्रे रसे गन्धं षड्गुणं जारयेद्बुधः इत्यन्ये

2.11

<जारण:: प्रोदुचिन्ग् चोलोउर्>
अत्र पक्षे रागस्तथा न स्यात् तेनादौ पञ्चगुणान् जारयित्वा शेषैकः कूपिकादौ जारणीयस्तदा रागः साधुः स्यात्

2.12

अत्र कज्जलिम् अन्तरेण केवलगन्धकमपि सात्म्येन जारयन्ति

2.13

<मेर्चुर्य्:: जारण:: सिन्दूर चोलोउर्>
कूपीकोटरमागतं रसगुणैर्गन्धैस्तुलायां विभुं विज्ञाय ज्वलनक्रमेण सिकतायन्त्रे शनैः पाचयेत् ।
वारंवारमनेन वह्णिविधिना गन्धक्षयं साधयेत् सिन्दूरद्युतितोऽनुभूय भणितः कर्मक्रमोऽयं मया

2.14

<रससिन्दूर:: प्रोदुच्तिओन्>
आरोटकम् अन्तरेण हिङ्गुलगन्धकाभ्यां पिष्टाभ्यामपि रससिन्दूरः संपाद्यः

2.15

<पिष्टी।कज्जली (?)>
त्रिगुणम् इह रसेन्द्रमेकमंशं कनकपयोधरतारपङ्कजानाम् ।
रसगुणबलिभिर् विधाय पिष्टिं रचय निरन्तरम्बुभिः कुमार्याः

2.16

आ षड्गुणम् अधरोत्तरसमादिबलिजारणेन योज्येयम् ।
योगे पिष्टिः पाच्या कज्जलिकार्थं जारणार्थं च

2.17

प्रकारोऽयम् अधोयन्त्रेणैव सिध्यति न पुनरूर्ध्वयन्त्रेण

2.18

<बोत्त्ले:: अप्प्र्. मतेरिअल्>
काचमृत्तिकयोः कूपी हेम्नोऽयस्तारयोः क्वचित् ।
<बोत्त्ले:: अप्प्र्. चोअतिन्ग्>
कीलालायःकृतो लेपः खटिकालवणाधिकः

2.19

अनेन यन्त्रद्वितयेन भूरि हेमाभ्रसत्त्वाद्यपि जारयन्ति ।
यथेच्छमच्छैः सुमनोविचारैर् विचक्षणाः पल्लवयन्तु भूयः

2.20

<मेर्चुर्य्:: रञ्जन:: अन्तर्धूम>
अन्तर्धूमविपाचितशतगुणगन्धेन रञ्जितः सूतः ।
स भवेत्सहस्रवेधी तारे ताम्रे भुजङ्गे च

2.21

<मेर्चुर्य्:: जारण>
सूतप्रमाणं सिकताख्ययन्त्रे दत्त्वा बलिं मृद्घटिते ऽल्पभाण्डे ।
तैलाविशेषे ऽत्र रसं निदध्यान्मग्नार्धकायं प्रविलोक्य भूयः

2.22

आ षड्गुणं गन्धकम् अल्पम् अल्पं क्षिपेदसौ जीर्णबलिर्बली स्यात् ।
रसेषु सर्वेषु नियोजितोऽयमसंशयं हन्ति गदं जवेन

2.23

नागादिशुल्वादिभिर् अत्र पिष्टिं वादेषु योगेषु च निक्षिपन्ति

2.24

<मेर्चुर्य्:: निगड>
स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि गुग्गुलुः ।
सैन्धवं द्विगुणं मर्द्यं निगडोऽयं महोत्तमः

2.25

<मेर्चुर्य्:: रससिन्दूर? निगड?>
मारकाम्बुसितसैन्धवमिश्रः कूपिकोदरगतः सिकतायाम् ।
पाचितो यदि मुहुर्मुहुरित्थं बन्धमृच्छति तदैष रसेन्द्रः

2.26

स्थाल्यां दृढघटितायाम् अर्धं परिपूर्य तूर्यलवणांशैः ।
रक्तेष्टिकारजोभिस्तदुपरि सूतस्य तुर्यांशम्

2.27

सितसैन्धवं निधाय स्फटिकारीं तत्समां च तस्योर्ध्वे ।
स्फटिकारिधवलसैन्धवशुद्धरसैः कन्यकाम्बुपरिघृष्टैः

2.28

कृत्वा पर्पटमुचितं तदुपर्याधाय तद्वदेव पुनः ।
स्फटिकारिसैन्धवरसौ दद्यादितः स्खलतो रसस्य

2.29

लाभाय तदुपरि खर्परखण्डकान् धृत्वापरया दृढस्थाल्या ।
आच्छाद्य मुद्रयित्वा दिवसत्रितयं पचेद्विधिना

2.30

अत्रानुक्तमपि भल्लातकं ददति वृद्धाः पारदतुल्यम्

मूल पाठ: Rasendracintāmaṇi · Edition: Prof. Siddhinandanamisra, Benares: Caukhambha Orientalia, 2000 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc