भाषा

ENहिગુ
ग्रंथ पाठ

रसेन्द्रचिन्तामणि · अध्याय 4

4.1

र्चिन्त्, 4
अथाभ्रीयं व्याचक्ष्महे

4.2

तत्किल निखिलजरामरणपरिहारेण सुधारससध्रीचीनत्वम् अङ्गीकरोति ।
साधनानामस्य बहुभिर्बहुधोपवर्णितानां रसमङ्गलीयमन्यतमं विलिखामः

4.3

<अभ्र:: वज्र>
यदञ्जननिभं क्षिप्तं न वह्नौ विकृतिं व्रजेत् ।
वज्रसंज्ञं हि तद्योज्यमभ्रं सर्वत्र नेतरत्

4.4

<अभ्र:: सुब्त्य्पेस्>
वज्रं भेकवपुः कृष्णमभ्रकं त्रिविधं मतम् ।
ततः कृष्णं समादाय पाचयेत् काण्डिके रसे

4.5

<अभ्र:: सुब्त्य्पेस्:: qउअलित्य्>
ततः कृष्णं समादायेत्यनेन कृष्णत्वसामान्याद् वज्रकृष्णाभ्रयोर् ग्रहणम् ।
भेकवपुस्तु हरितपीतादिवर्णं न ग्राह्यमिति

4.6

<अभ्र:: सत्त्वपातन>
चूर्णीकृतं गगनपत्रमथारनाले धृत्वा दिनैकम् अवशोष्य च सूरणस्य ।
भाव्यं रसैस्तदनु मूलरसैः कदल्याः पादांशटङ्कणयुतं शफरैः समेतम्

4.7

पिण्डीकृतं तु बहुधा महिषीमलेन संशोष्य कोष्ठगतमाशु धमेद्धठाग्नौ ।
सत्त्वं पतत्यतिरसायनजारणार्थं योग्यं भवेत् सकललौहगुणाधिकं च

4.8

<अभ्र:: सत्त्व:: एकीकरण>
कणशो यद्भवेत्सत्त्वं मूषायां प्रणिधाय तत् ।
मित्रपञ्चकयुग्ध्मातमेकीभवति घोषवत्

4.9

<पञ्चमित्र>
घृतमधुगुग्गुलुगुञ्जाटङ्कणमिति पञ्चमित्रसंज्ञं च ।
मेलयति सर्वधातूनङ्गाराग्नौ तु धमनेन

4.10

समगन्धमभ्रसत्त्वं सटङ्कणं शूकमूषया ध्मातम् ।
सार्धं तत्सत्त्वरजः सपारदं सकलकार्यकरम्

4.11

<अभ्र:: सत्त्व:: शोधन, मारण>
अयोधातुवच्छोधनमारणमेतस्य

4.12

<अभ्र:: सत्त्व:: सेवन>
चूर्णम् अभ्रकसत्त्वस्य कान्तलोहस्य वा ततः ।
तीक्ष्णस्य महादेवि त्रिफलाक्वाथभावितम्

4.13

यावदञ्जनसंकाशं वस्त्रच्छन्नं विशोष्य च ।
भृङ्गामलकसारेण हरिद्राया रसेन च

4.14

मिश्रितं क्रौञ्चजघृतमधुसंमिश्रितं ततः ।
लोहसम्पुटमध्यस्थं मासं धान्ये प्रतिष्ठितम्

4.15

घृतेन मधुना लिह्यात्क्षेत्रीकरणमुत्तमम् ।
एवं वर्षप्रयोगेन सहस्रायुर्भवेन्नरः

4.16

<अभ्र:: वज्र:: शोधन>
वज्राभ्रं च धमेद्वह्नौ ततः क्षीरे विनिक्षिपेत् ।
भिन्नपत्रं तु तत्कृत्वा तण्डुलीयाम्लयोर्द्रवैः ।
भावयेदष्टयामं तदेवं शुध्यति चाभ्रकम्

4.17

धान्याभ्रभस्मप्रयोगस्यारुणकृष्णभेदेन प्रकारद्वयं विलिख्यते

4.18

<अभ्र:: मारण>
कृत्वा धान्याभ्रकं तत्तु शोषयित्वा तु मर्दयेत् ।
अर्कक्षीरौदनं मर्द्यमर्कमूलद्रवेण वा

4.19

वेष्टयेदर्कपत्रैस्तु सम्यग्गजपुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं सप्तवारं प्रयत्नतः

4.20

ततो वटजटाक्वाथैस्तद्वद्देयं पुटत्रयम् ।
म्रियते नात्र सन्देहः सर्वरोगेषु योजयेत्

4.21

<अभ्र:: मारण>
अभ्रं टङ्कणसम्पिष्टं स्थाल्यां मृदयसोः पचेत् ।
म्रियते नात्र सन्देहो गुणाधिक्याय वौषधैः

4.22

तण्डुलीयकबृहतीनागवल्लीतगरपुनर्नवाहिलमोचिकामण्डूकपर्णीतिक्तिकाखुपर्णिकामदनार्कार्द्रकपलाशसूतमातृकादिभिर् मर्दनपुटनैरपि मारणीयम्

4.23

<अभ्र:: मारण (?)>
धान्याभ्रकस्य भागैकं द्वौ भागौ टङ्कणस्य च ।
पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वयोगेषु योजयेत्

4.24

<अभ्र:: मारण>
धान्याभ्रकं समादाय मुस्ताक्वाथैः पुटत्रयम् ।
तद्वत्पुनर्नवानीरैः कासमर्दरसैस्तथा

4.25

नागवल्लीरसैः सूर्यक्षीरैर्देयं पृथक् पृथक् ।
दिनं दिनं मर्दयित्वा क्वाथैर्वटजटोद्भवैः

4.26

दत्त्वा पुटत्रयं पश्चात्त्रिः पुटेन्मुसलीरसैः ।
त्रिर्गोक्षुरकषायेण त्रिःपुटेद्वानरीरसैः

4.27

मोचकन्दरसैः पाच्यं त्रिरात्रं कोकिलाक्षकैः ।
रसैः पुटेच्च लोध्रस्य क्षीरादेकपुटं ततः

4.28

दध्ना घृतेन मधुना स्वच्छया सितया तथा ।
एकमेकं पुटं दद्यादभ्रस्यैवं मृतिर्भवेत्

4.29

सर्वरोगहरं व्योम जायते योगवाहकम् ।
कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम्

4.30

वृष्यमायुष्करं शुक्रवृद्धिसन्तानकारकम् ।
<अभ्र:: मारण (?)>
रम्भाद्भिरभ्रं लवणेन पिष्ट्वा चक्रीकृतं टङ्कणमध्यवर्ति ।
दग्धेन्धनेषु व्यजनानिलेन स्नुह्यर्कमूलाम्बुपुटं च सिद्ध्यै

4.31

<अभ्र:: भस्मन्:: fओर्मुलतिओन्स्>
तुल्यं घृतं मृताभ्रेण लोहपात्रे विपाचयेत् ।
घृते जीर्णे तदभ्रं तु सर्वकार्येषु योजयेत्

4.32

<अभ्र:: भस्मन्:: fओर्मुलतिओन्स्>
त्रिफलोत्थकषायस्य पलान्यादाय षोडश ।
गोघृतस्य पलान्यष्टौ मृताभ्रस्य पलान् दश

4.33

एकीकृत्य लोहपात्रे पाचयेन्मृदुनाग्निना ।
द्रवे जीर्णे समादाय सर्वरोगेषु योजयेत्

4.34

<??>
अरुणस्य पुनर् अमृतीकरणेन गुणवृद्धिवर्णहानस्तः

4.35

अथ प्रसङ्गाद्द्रुतयो लिख्यन्ते

4.36

<अभ्र:: द्रुति>
अगस्तिपुष्पनिर्यासैर्मर्दितः सूरणोदरे ।
गोष्ठभूस्थो घनो मासं जायते जलसंनिभः

4.37

<अभ्र:: द्रुति>
स्वरसेन वज्रवल्ल्याः पिष्टं सौवर्चलान्वितं गगनम् ।
पक्वं च शरावपुटे बहुवारं भवति रसरूपम्

4.38

<अभ्र:: द्रुति>
निजरसबहुपरिभावितसुरदालीचूर्णवापेन ।
द्रवति पुनः संस्थानं भजते गगनं न कालेऽपि

4.39

<अभ्र:: सत्त्व:: द्रुति>
निजरसशतपरिभावितकञ्चुकिकन्दोत्थपरिवापात् ।
द्रुतमास्तेऽभ्रकसत्त्वं तथैव सर्वाणि लोहानि

4.40

<द्रुति:: मेलापन>
कृष्णागुरुणा मिलितै रसोनसितरामठैरिमा द्रुतयः ।
सोष्णे मिलन्ति मर्द्याः स्त्रीकुसुमपलाशबीजरसैः

4.41

<जेwएल्स्:: द्रुति>
मुक्ताफलानि सप्ताहं वेतसाम्लेन भावयेत् ।
जम्बीरोदरमध्ये तु धान्यराशौ निधापयेत्

4.42

पुटपाकेन तच्चूर्णं द्रवते सलिलं यथा ।
कुरुते योगराजोऽयं रत्नानां द्रावणं प्रिये

4.43

<अभ्र (?):: सत्त्व:: पातन>
गुडः पुरस्तथा लाक्षा पिण्याकं टङ्कणं तथा ।
ऊर्णा सर्जरसश्चैव क्षुद्रमीनसमन्वितम्

4.44

एतत्सर्वं तु संचूर्ण्य छागदुग्धेन पिण्डिकाः ।
कृता ध्माताः खराङ्गारैः सत्त्वं मुञ्चन्ति नान्यथा

4.45

पाषाणमृत्तिकादीनि सर्वलोहानि वा पृथक् ।
अन्यानि यान्यसाध्यानि व्योमसत्त्वस्य का कथा

मूल पाठ: Rasendracintāmaṇi · Edition: Prof. Siddhinandanamisra, Benares: Caukhambha Orientalia, 2000 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc