भाषा

ENहिગુ
ग्रंथ पाठ

रससंकेतकलिका · अध्याय 3

3.1

र्स्क्, 3
<महारस:: शोधन>
गन्धं विषादिनेपालं गोदुग्धेऽथ शिलाजतु ।
गोमूत्रेण च तालाद्यं शङ्खाद्यम् अम्लतः शुचिः

3.2

<विष:: मारण>
रसेषूक्तं विषं ग्राह्यं तुल्यं टङ्कणपेषितम् ।
तन्मृतं योगवाहि स्यात् सूताभ्रायः समं गुणैः

3.3

<विष:: मन्त्रस्>
नीलकण्ठाख्यमन्त्रेण विषं सप्ताभिमन्त्रितम् ।
औषधे च रसे चैव दातव्यं हितमिच्छता

3.4

<विष:: मेदिच्. उसे>
नानारसौषधैर्ये तु दुष्टा यान्तीह नो गदाः ।
ते नश्यन्ति विषे दत्ते शीघ्रं वातकफोद्भवाः

3.5

<विष:: मेअसुरे>
श्रेष्ठमध्यावरा मात्रा अष्टषट्कचतुर्यवाः ।
अतिमात्रं यदा भुक्तं तदाज्यटङ्कणे पिबेत्

3.6

रजनीं मेघनादं वा सर्पाक्षीं वा घृतान्विताम् ।
लिहेद्वा मधुसर्पिर्भ्यां चूर्णिताम् अर्जुनत्वचम्

3.7

न देयं क्रोधिने क्लीबे पित्तार्ते राजयक्ष्मिणि ।
क्षुत्तृष्णाभ्रमघर्माध्वसेविने क्षीणरोगिणे

3.8

गुर्विणीबालवृद्धेषु न विषं राजमन्दिरे ।
रसायनरते दद्याद्घृतक्षीरहिताशिने

3.9

<उपविष>
लाङ्गलीवज्रिहेमार्कहयारिविषमुष्टिकाः ।
एतान्युपविषाण्याहुः यस्तानि रसकर्मणि

3.10

<अहिफेन:: म्य्थ्. ओरिगिन्>
समुद्रे मथ्यमाने तु वासुकेर्वदनाद्द्रुतः ।
फेनौघो व्याकुलत्वाच्च फूत्कारात्पतितः क्षितौ

3.11

<अहिफेन:: मेदिच्. प्रोपेर्तिएस्>
तेनाहिफेनमाख्यातं तिक्तं संग्राहि शोषणम् ।
मोहकृच्छ्वासकासघ्नं सेवितं त्यक्तुमक्षमम्

3.12

श्लेष्महृद्वातकृद् युक्त्या युक्तं तदमृतं विषम् ।
वीर्यस्तम्भकरं नृणां स्त्रीणां सौख्यप्रदायकम्

3.13

<सिद्धमूली:: म्य्थ्. ओरिगिन्>
पुरा देवैश्च दैत्यैश्च मथितो रत्नसागरः ।
तस्मादमृतमुत्पन्नं देवैः पीतं न दानवैः

3.14

तदा धन्वन्तरेर्हस्तादमृतं पतितं भुवि ।
तस्मिन् सर्वैर्लेह्यमाने दर्भैर् जिह्वा द्विधा कृता

3.15

जिह्वासृग्विषसम्भूता सिद्धमूली महौषधी ।
<सिद्धमूली:: चोलोउर्स्>
सा चतुर्धा सिता रक्ता पीता कृष्णा प्रसूनकैः

3.16

<सिद्धमूली:: मेदिच्. प्रोपेर्तिएस्>
आह्लादिनी बुद्धिरूपा योगे मन्त्रे च सिद्धिदा ।
सर्वरोगहरी कामजननी क्षुत्प्रबोधनी

मूल पाठ: Rasasaṃketakalikā [= Rasasaṅketakalikā] · Edition: Jadavji Tricumji, Benares: Caukhamba Amarabharati Prakashan 1984. (Chaukhamba Ayurveda Granthamala, 10) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc