रससंकेतकलिका · अध्याय 2
र्स्क्, 2
<षड्लोह>
हेमरूप्यार्कवङ्गाहिलोहैर् लोहाः षडीरिताः ।
<मेतल्स्:: fअच्तितिओउस्>
अकृत्रिमा इमे घोषावर्तकाद्यास्तु कृत्रिमाः
<मेतल्स्:: शुद्ध, मृत:: मेदिच्. प्रोपेर्तिएस्>
शुद्धा मृता निरुत्थाश्च सर्वरोगहराः स्मृताः ।
<मेतल्स्:: इम्पुरे:: मेदिच्. प्रोपेर्तिएस्>
अशुद्धान् हीनपाकांश्च रोगमृत्युप्रदांस्त्यजेत्
<मेतल्स्:: मारण:: wइथ् मेर्चुर्य्>
लोहं सूतयुतं दोषांस्त्यजेत् सूतश्च लोहयुक् ।
अतः स्वर्णादिलोहानि विना सूतं न मारयेत्
<गोल्द्:: सुब्त्य्पेस्>
स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजे ।
एतत् स्वर्णत्रयं देवभोज्यं षोडशवर्णकम्
खनिजं रसवादोत्थं सुपत्त्रीकृत्य शोधितम् ।
तच्चतुर्दशवर्णाढ्यं मनुजार्हं रुजापहम्
<गोल्द्:: शोधन>
सुवर्णं सप्तशो वाप्यं काञ्चनाररसे शुचिः ।
<गोल्द्:: मारण>
सुवर्णे गलिते नागं प्रक्षिपेत् षोडशांशकम्
अम्लेन मर्दयित्वा तु कृत्वा तस्य च गोलकम् ।
गन्धकं गोलकसमं विनिक्षिप्याधरोत्तरम्
शरावसंपुटे कृत्वा संनिरुध्य प्रतापयेत् ।
त्रिंशद्वनोत्पलैरग्नौ सप्तधा भस्मतां व्रजेत्
<गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
तिक्तं कषायं ज्वरहृत्स्वादुपाकं बलावहम् ।
वयोधीःकान्तिदं वृष्यं शोषालक्ष्मीविषापहम्
<सिल्वेर्:: सुब्त्य्पेस्>
कैलासे सहजं रूप्यं खनिजं कृत्रिमं भुवि ।
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णं रसे हितम्
<सिल्वेर्:: शोधन>
श्वेतागस्तिरसे रूप्यं स्वर्णवच्छुचि मारणम् ।
<सिल्वेर्:: मारण>
गन्धकाम्लकसंयोगान्नागं हित्वा क्षिपेत् त्रपु
वयःशुक्रबलोत्साहकरं सर्वामयापहम् ।
<गोल्द्, सिल्वेर्:: परीक्षा:: मृत>
एतद्भस्माम्ललिप्तोऽसिस्ताम्रवर्णस्तदा मृतिः
सुवर्णमथवा रूप्यं योगे यत्र न विद्यते ।
तत्र कान्तोद्भवं लोहं क्षेप्यं तैस्तत्समं गुणैः
<चोप्पेर्:: सुब्त्य्पेस्>
द्व्यर्कौ नेपालम्लेच्छौ तु रसे नेपाल उत्तमः ।
<नेपाल:: फ्य्स्. प्रोपेर्तिएस्>
घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः
<म्लेच्छ:: फ्य्स्. प्रोपेर्तिएस्>
म्लेच्छस्तु क्षालितः कृष्णो रूक्षः स्तब्धो घनासहः ।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि
<चोप्पेर्:: दोषस्>
ताम्रं तु विषवज्ज्ञेयं यत्नतः साध्यते हि तत् ।
एको दोषो विषे सम्यक्ताम्रे त्वष्टौ प्रकीर्तिताः
कुष्ठं रेको वमिर्भ्रान्तिस्तापो वातश्च कामला ।
देहस्य नाशनं दोषा इत्यष्टौ कथिता बुधैः
<चोप्पेर्:: शोधन>
गवां मूत्रैः पचेच्चाहस्ताम्रपत्रं दृढाग्निना ।
वारिणा क्षालयेत् पश्चादेकविंशतिधा शुचिः
<चोप्पेर्:: मारण>
पारदं गन्धकं ताम्रं सममम्लेन मर्दयेत् ।
जायते त्रिपुटाद् भस्म वालुकायन्त्रतोऽथवा
<चोप्पेर्:: मारण>
गन्धार्कौ द्व्येकभागौ च शरावसंपुटे पुटेत् ।
स्वाङ्गशीतं च संपेष्य खल्वे वस्त्रेण गालयेत्
सामुद्रं तत्समं कृत्वा पुनः पुटनमाचरेत् ।
तदेव तत्क्षये देयं सामुद्रं च पुनः पुनः
कासीसस्य जलेनैव वारं वारं तु भावयेत् ।
चतुःषष्टिपुटैरित्थं निरुत्थं योगवाहिकम्
तत्ताम्रं सौरणे कन्दे पुटेत्पञ्चामृतेऽथवा ।
अष्टौ दोषांश्च पूर्वोक्तान् न करोति गुणावहम्
हन्ति गुल्मक्षयाजीर्णकासपाण्ड्वामयज्वरान् ।
स्थौल्योदरे कफं शूलमूर्ध्वाधःशोधनं परम्
<तिन्:: सुब्त्य्पेस्>
खुरकं मिश्रकं चेति द्विविधं वङ्गमुच्यते ।
खुरकं तु गुणैः श्रेष्ठं मिश्रकं न रसे हितम्
<तिन्:: शोधन>
कन्याभृङ्गरसे वङ्गनागौ शोध्यौ त्रिसप्तधा ।
अथवा ब्रह्मवृक्षोत्थे क्वाथे निर्गुण्डिजेऽथवा
<तिन्:: मारण>
मृद्भाजने द्रुते वङ्गे चिञ्चाश्वत्थत्वचो रजः ।
क्षिपेत्तस्य चतुर्थांशं लोहदर्व्या प्रचालयेत्
यावद्भस्मत्वमायाति ततः खल्वे सतालकम् ।
ब्रह्मद्रुक्वाथकल्काभ्यां मर्द्यं गजपुटे पचेत्
पुटे पुटे दशांशांशं दत्त्वैवं दशधा पुटेत् ।
वङ्गभस्म निरुत्थं तत् पाण्डुमेहगदापहम्
<तिन्:: मारण>
करीषसंपुटे वङ्गपत्रं छागशकृद्युतम् ।
म्रियते पुटमात्रेण तन्मेहान् हन्ति विंशतिम्
<लेअद्:: मारण>
वङ्गवन्नागभस्मापि कृत्वादौ तत्समां शिलाम् ।
क्षिप्त्वा तुषोदकैर्मर्द्यं दद्याद् गजपुटं ततः
षष्ट्यंशं गन्धकं दत्त्वा पाच्यं षष्टिपुटावधि ।
नागभस्म निरुत्थं तद्वङ्गभस्मगुणाधिकम्
<लेअद्, तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतं वङ्गं च नागं च रसभस्म समं गुणैः ।
परस्परमलाभे च योजयेत्तत् परस्परम्
<इरोन्:: सुब्त्य्पेस्>
मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदशाः ।
<मुण्ड:: सुब्त्य्पेस्>
मृदु कुण्ठं च काण्डारं त्रिविधं मुण्डमुच्यते
<तीक्ष्णलोह:: सुब्त्य्पेस्>
खरसारं च होत्रासं तारावर्तं विडं तथा ।
कान्तं लोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते
<कान्त:: परीक्षा>
पात्रे यस्मिन्प्रसरति जले तैलबिन्दुर्न लिप्तो हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारतां नैति भूमौ कान्तं लोहं तदिदमुदितं लक्षणैर्नैव चान्यत्
<कान्त:: सुब्त्य्पेस्>
कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति गुणास्तस्योत्तरोत्तराः
<इरोन्:: शोधन>
मुण्डादिसर्वलोहानि ताम्रवच्छोधयेत् सुधीः ।
<इरोन्:: पाक>
लोहपाकस्त्रिधा प्रोक्तो मृदुर्मध्यः खरस्तथा ।
पङ्कशुष्करसौ पूर्वौ वालुकासदृशः खरः
<इरोन्:: मारण>
लोहपत्रं गन्धलिप्तं वह्नौ तप्तं पुनः पुनः ।
क्षिपेन्मीनाक्षिकानीरे यावत्तत्रैव शीर्यते
रसहिङ्गुलगन्धेन तुल्यं तन्मर्दयेद् दृढम् ।
निर्गुण्डीवृषमत्स्याक्षीरसैर्गजपुटान्मृतिः
<इरोन्:: मारण:: वारितर>
लोहचूर्णं वराक्वाथे पिण्डं कृत्वा पुनः पुनः ।
षोडशाङ्गुलमाने हि निर्वातगर्तके पुटेत्
चतुःषष्टिपुटैरेव जायते पद्मरागवत् ।
निरुत्थाम्बुतरं योगवाहि स्यात्सर्वरोगहृत्
<इरोन्:: मारण:: वारितर>
जम्बूत्वचारसे तिन्दुमार्कण्डपत्रजेऽथवा ।
त्रिसप्तधातपे शोष्यं पेष्यं वारितरं भवेत्
<इरोन्:: मारण>
चिञ्चापत्रनिभं लोहपत्रं दन्तीद्रवे क्षिपेत् ।
घर्मे धृत्वा रसो देयो मृतं यावद्भवेच्च तत्
<इरोन्:: मारण:: वारितर>
मत्स्याक्षीरसमध्यस्थं लोहपत्रं विनिक्षिपेत् ।
त्रिंशद्दिनानि घर्मे तु ततो वारितरं भवेत्
<इरोन्:: मारण:: निरुत्थ, परीक्षा>
लोहमध्वाज्यगं तारं ध्मातं चेत्पूर्वमानकम् ।
तदा लोहं निरुत्थं स्यादन्यथा साधयेत्पुनः
<इरोन्:: अमृतीकरण (?)>
वराक्वाथे ऽवशेषो तु तत्तुल्यं घृतमायसम् ।
सिता लोहमिता ताम्रे पक्वं चामृतवद्भवेत्
<लोह:: मृत:: मेदिच्. प्रोपेर्तिएस्>
ग्रहणीपाण्डुशोफार्शोज्वरगुल्मप्रमेहकान् ।
हन्ति प्लीहामयं लोहं बलबुद्धिविवर्धनम्
कुष्माण्डं तिलतैलं च माषान्नं राजिका तथा ।
मद्यमम्लरसं चैव त्यजेल्लोहस्य सेवकः
<मण्डूर:: शोधन>
गोमूत्रे त्रिफलाक्वाथे तप्तं शोध्यं त्रिसप्तधा ।
स्वर्णादि सर्वलोहानां किट्टं तत्तद्गुणावहम्
किट्टाद्दशगुणं मुण्डं मुण्डात्तीक्ष्णं शताधिकम् ।
तीक्ष्णाल्लक्षगुणं कान्तं भक्षणात्कुरुते गुणम्
<रसक:: मारण>
लवणान्तर्गतं भाण्डे सत्त्वं खर्परसम्भवम् ।
सुखं रुद्ध्वा विपक्वं तन्म्रियते गजवह्निना
<रसक:: मृत:: मेदिच्. प्रोपेर्तिएस्>
मृतस्तु रसको रूक्षस्त्रिदोषघ्नो ज्वरापहः ।
योगवाह्यतिसारघ्नः क्लेदघ्नो विड्विबन्धकृत्
<ब्रोन्zए, ब्रस्स्:: शोधन, मारण>
कांस्यपित्तलयोः प्रोक्ते ताम्रवच्छुद्धिमारणे ।
सिता गव्ययुता देया धातुभक्षणवैकृतौ
<मेतल्स्:: fअस्त् मारण>
अथैकः पारदाद्भागो गन्धको द्विगुणस्ततः ।
तयोः समं सुवर्णादिनिरुत्थं शीघ्रमारणम्
<धातुस्:: निरुत्थ:: परीक्षा>
समध्वाज्यटङ्कणैर्गुञ्जागुडाभ्यां मृतधातवः ।
ध्माताः पिण्डकृता नैव जीवन्ति ते निरुत्थकाः
<धातु:: मारण:: निरुत्थ>
सगन्धश्चोत्थितो धातुर्मर्द्यः कन्यारसे दिनम् ।
पक्वो गजपुटो दिव्यं सर्वो याति निरुत्थताम्
<अभ्र:: सुब्त्य्पेस्>
पीतं सितासितं रक्तमेकैकं खं चतुर्विधम् ।
पिनाकं दर्दुरं नागं वज्रं चाग्नौ परीक्षयेत्
<अभ्र:: वज्र>
न पत्राणि न शब्दांश्च कुर्यात्तद्वज्रसंज्ञकम् ।
<अभ्र:: वज्र:: सत्त्वपातन>
त्रीणि ध्मातानि किट्टं हि वज्री सत्त्वं विमुञ्चति
<अभ्र:: वज्र:: सत्त्व:: मारण>
तत्सत्त्वं विधिवद्ग्राह्यं शोध्यं मार्यं च लोहवत् ।
सत्त्वाभावे तु निश्चन्द्रं रसेष्विष्टं तदुच्यते
<अभ्र:: मारण:: प्रोदुच्तिओन् ओf निश्चन्द्र~>
धान्याभ्रं मेघनादैर् झषनयनजलैर् जम्भलैष्टङ्कणेन खल्वे संमर्द्य गाढं तदनु गजपुटान् द्वादशैवं प्रदद्यात् ।
मीनाक्षीभृङ्गतोयैस् त्रिफलजलयुतैर् मर्दयेत् सप्तरात्रं गन्धं तुल्यं च दत्त्वा प्रवरगजपुटात् पञ्चतां याति चाभ्रम्
<अभ्र:: निश्चन्द्र:: मेदिच्. प्रोपेर्तिएस्>
मृतं निश्चन्द्रतां यातमरुणं चामृतोपमम् ।
सचन्द्रं विषवज्ज्ञेयं मृत्युकृद्व्याघ्ररोमवत्
<अभ्र:: अमृतीकरण>
वराम्बु गोघृतं चाभ्रं कलाषड्दिक्क्रमांशकम् ।
मृद्वग्निना पचेल्लोहे चामृतीकरणं भवेत्
<अभ्र:: मृत:: मेदिच्. प्रोपेर्तिएस्>
वयःस्तम्भकारी जरामृत्युहारी बलारोग्यधारी महाकुष्ठहारी ।
मृतो मेघकः सर्वरोगेषु योज्यः सदा सूतराजस्य वीर्येण तुल्यः
क्षाराम्लं द्विदलं वर्ज्यं कर्कोटिकारवेल्लकम् ।
वृन्ताकं च करीरं च तैलं चाभ्रकसेवने
मूल पाठ: Rasasaṃketakalikā [= Rasasaṅketakalikā] · Edition: Jadavji Tricumji, Benares: Caukhamba Amarabharati Prakashan 1984. (Chaukhamba Ayurveda Granthamala, 10) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0