भाषा

ENहिગુ
ग्रंथ पाठ

रससंकेतकलिका · अध्याय 1

1.1

चामुण्ड (कायस्थ [= कायस्थचामुण्ड], ओर् चण्ड; अरोउन्द् 1490 चे):
रससंकेतकलिका [= रससङ्केतकलिका]
र्स्क्, 1
शिवं नत्वा रसेशं चामुण्डः कायस्थवंशभूः ।
करोति रससंकेतकलिकाम् इष्टसिद्धिदाम्

1.2

<मेर्चुर्य्:: म्य्थ्. ओरिगिन्>
स्कन्दात्तारकहिंसार्थं कैलासे विधृतं सुरैः ।
रते शम्भोश्च्युतं रेतो गृहीतमग्निना मुखे

1.3

क्षिप्तं तेन चतुर्दिक्षु क्षाराब्धौ तत्पृथक् पृथक् ।
सौम्यादिदिक्त्रयस्थं यद् गौरीशापान्न कार्यकृत्

1.4

पश्चिमायां विमुक्तं तत् सूतोऽभूत् सर्वकार्यकृत् ।
<मेर्चुर्य्:: सुब्त्य्पेस्:: चोलोउर्, चस्ते>
श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः

1.5

देहे लोहे गदे पिष्ट्यां योज्या वा स्वस्वजातिषु ।
<रसदोषाः>
तेषु नैसर्गिका दोषाः पञ्च सप्ताथ कञ्चुकाः

1.6

मलाद्याः पञ्च दोषाः स्युर् भूजाद्याः सप्त कञ्चुकाः ।
कुष्ठादीन् हि प्रकुर्वन्ति रसस्था द्वादशैव ते

1.7

<18 संस्कारस्>
तेनाष्टादशसंस्कारा उक्ता ज्ञैर् दोषमुक्तये ।
कर्तुं ते दुष्करा यस्मात् प्रोच्यन्ते सुकरा रसे

1.8

<मेर्चुर्य्:: चोर्रेच्त् wएइघ्त्>
पलादारभ्य पञ्चाशत्पलं यावच्च पारदः ।
तत ऊनोऽधिको वापि न संस्कार्यो रसो बुधैः

1.9

<संस्कार:: मर्दन>
वस्त्रे चतुर्गुणे पूतः सूतः स्थाप्यः शुभेऽहनि ।
लोहार्काश्मजखल्वे तु तप्ते चैव विमर्दयेत्

1.10

निशेष्टकासुरीधूमव्योषाम्ललवणैः पृथक् ।
कालांशैर्मर्दितः सूतो भवेच्छुद्धो दिनैकतः

1.11

<संस्कार:: स्वेदन>
ततः क्षाराम्लमूत्राद्यैः स्वेद्यो वस्त्रावृतो दिनम् ।
<संस्कार:: मूर्छन>
मूर्छयेत् सप्तधा पश्चात् कन्याग्न्यर्कवराम्बुभिः

1.12

<संस्कार:: पातन>
त्रिधोर्ध्वपातनात् पात्यः पादांशार्कयुतः शुचिः ।
<मेर्चुर्य्:: हिङ्गुलाकृष्ट:: नत्. पुरेनेस्स्>
हिङ्गुलाद् उद्धृतः सूतो भवेद्वा दोषवर्जितः

1.13

<इम्पोर्तन्चे ओf जारण>
गुरुशास्त्रं परित्यज्य विना जारितगन्धकात् ।
रसं निर्माति दुर्मेधाः शपेत्तं च रसेश्वरः

1.14

<संस्कार:: जारण>
सूतं गन्धं रसैकांशं स्तोकं स्तोकं तु खल्वगम् ।
कुट्टनात् कुट्टनात् पिष्टं भवेद्वा ताम्रपात्रगम्

1.15

तत्तुल्यं गन्धकं दत्त्वा रुद्ध्वा तं लोहसम्पुटे ।
पुटेद् भूधरयन्त्रे च यावज्जीर्यति गन्धकम्

1.16

एवं पुनः पुनर्देयं षड्गुणं गन्धचूर्णकम् ।
षड्गुणे गन्धके जीर्णे रसो निखिलरोगहा

1.17

<बन्ध:: सुब्त्य्पेस्>
पाटः खोटो जलौका च भस्माख्यश्च चतुर्थकः ।
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः

1.18

पाटः पर्पटिकाबन्धः पिष्टिबन्धस्तु खोटकः ।
जलौका पक्वबन्धः स्याद्भस्म भस्मनिभो भवेत्

1.19

<मेर्चुर्य्:: भस्मन्:: सुब्त्य्पेस्>
सूतभस्म द्विधा ज्ञेयमूर्ध्वगं तलभस्म च ।
<ऊर्ध्वभस्मन्:: प्रोदुच्तिओन्>
ऊर्ध्वभस्मकरं यन्त्रं स्थालिकासम्पुटं शृणु

1.20

कार्यं स्थालीद्वयं मध्ये सर्वतः षोडशाङ्गुलम् ।
लवणेनेषद् आर्द्रेणापूर्य स्थालीम् अधोगताम्

1.21

संधिं वस्त्रमृदा लिम्पेत् संपुटीकृत्य चान्यया ।
त्रिद्वारचुल्ल्यां संस्थाप्य चतुर्यामं दृढाग्निना

1.22

पचेत्तत्स्वाङ्गशीतं वै ह्युद्धृत्य लवणं त्यजेत् ।
लावणीमूर्ध्वगां कृत्वा क्षेप्योऽन्यस्यां रसेश्वरः

1.23

पूर्ववत् संपुटीकृत्य पश्चात्तु चुल्लके न्यसेत् ।
दृढं कृत्वालवालं तु जलं तत्र विनिक्षिपेत्

1.24

उष्णं पुनः पुनस्त्यक्त्वा क्षिपेच्छीतं मुहुर्मुहुः ।
त्रिद्वारे काष्ठमेकैकं दीर्घं हस्तमितं क्षिपेत्

1.25

हस्तवत्पिण्डमानं तु ह्यादौ प्रज्वालयेत्सुधीः ।
द्वे द्वे काष्ठे च तस्योर्ध्वं तदूर्ध्वं त्रितयं क्षिपेत्

1.26

यावद्यामद्वयं पश्चादङ्गारांश्च जलं त्यजेत् ।
ऊर्ध्वस्थाल्यां तु यल्लग्नं तदूर्ध्वं भस्म सिद्धिदम्

1.27

<मेर्चुर्य्:: तलभस्मन्:: प्रोदुच्तिओन्>
गन्धकं धूमसारं च शुद्धसूतं समं त्रयम् ।
यामैकं मर्दयेत् खल्वे काचकूप्यां विनिक्षिपेत्

1.28

रुद्ध्वा द्वादशयामं तद्वालुकायन्त्रगं पचेत् ।
स्फोटयेत्स्वाङ्गशीतं च तदूर्ध्वं गन्धकं त्यजेत्

1.29

<तलभस्मन्:: मेदिच्. प्रोपेर्तिएस्>
तलभस्म भवेद्योगवाहि स्यात् सर्वरोगहृत् ।
औषधान्तरसंयोगाद् वक्ष्ये वर्णविपर्ययम्

1.30

रक्तं पीतं तथा कृष्णं नीलं च पाण्डुरारुणम् ।
<रक्तभस्मन्>
निर्गुण्डीरससंयुक्तं चपलेन समन्वितम्

1.31

रक्तवर्णं भवेद्भस्म दाडिमीकुसुमोपमम् ।
<पीतभस्मन्>
भूधात्रीहस्तिशुण्डीभ्यां रसं गन्धं च मर्दयेत्

1.32

काचकूप्यां चतुर्यामं पक्वः पीतो भवेद्रसः ।
<कृष्णभस्मन्>
सूतं गन्धकसंयुक्तं कुमारीरसमर्दितम्

1.33

कृष्णवर्णं भवेद्भस्म देवानामपि दुर्लभम् ।
<श्याम-।नीलभस्मन्>
वाराहीकन्दसंयुक्तं रसकेन समन्वितम्

1.34

श्यामवर्णं भवेद्भस्म वलीपलितनाशनम् ।
<पाण्डुरारुणभस्मन्>
लवणान्तर्विलिप्तायां कूप्यां स्यात् पाण्डुरारुणम्

1.35

<मेर्चुर्य्:: मारण>
लवणाद्विंशतिर्भागाः सूतश्चाथैकभागिकः ।
काञ्जिके मर्दयित्वाग्नौ पुटनाद् भस्मतां व्रजेत्

1.36

उद्धृत्यान्यं रसं क्षिप्त्वा यथेच्छं मारयेद्रसम् ।
एवं ताम्राहिवङ्गाभ्रं मारितं स्याद्गुणप्रदम्

1.37

तदम्बुपूरिते पात्रे स्थाप्यं यामाष्टकं शनैः ।
त्यक्त्वा तोयं रसो ग्राह्यः पात्रस्थो भस्मसूतकः

1.38

<मेर्चुर्य्:: मारण>
मूषाद्वयमपामार्गबीजचूर्णैः प्रकल्पयेत् ।
पारदं तत्पुटे कृत्वा मलयूरसमर्दितम्

1.39

द्रोणपुष्प्याः प्रसूनानि विडङ्गमरिमेदकः ।
चूर्णम् एषाम् अधश्चोर्ध्वं दत्त्वा मुद्रां प्रकल्पयेत्

1.40

विधाय गोलकं सम्यङ्मृन्मूषासम्पुटे क्षिपेत् ।
शोषयेन्मुद्रितं कृत्वा पचेद् गजपुटे ततः

1.41

पारदो भस्मताम् इत्थं पुटेनैकेन गच्छति ।
स्वाङ्गशीतं समुद्धृत्य सर्वकर्मसु योजयेत्

1.42

प्रोत्तानखर्परे चुल्ल्यां स्फटिकालेपिते क्षिपेत् ।
पुनर्नवारसे पक्वो मर्दनान्म्रियते रसः

1.43

<मेर्चुर्य्:: मृत:: परीक्षा>
अतेजा अगुरुः शुभ्रो लोहहा चाचलो रसः ।
यदा नावर्तते वह्नौ नोर्ध्वं गच्छेत्तदा मृतः

1.44

<मेर्चुर्य्:: मृत:: मेदिच्. प्रोपेर्तिएस्>
पारदः सर्वरोगघ्नो योगवाही सरो गुरुः ।
पाण्डुताकृमिकुष्ठघ्नो वृष्यो बल्यो रसायनः

1.45

सूतो धातुरसाः सर्वे जीर्णा जीर्णा गुणाधिकाः ।
<मेर्चुर्य्:: मृत:: स्तोरगे>
दन्ते शृङ्गे मणौ वेणौ रक्षयेत्साधितं रसम्

1.46

<wएइघ्त् ओf द्रुग्स्>
पित्तानि षोडशांशेन विषाणामपि रक्तिका ।
गुटीरसेष्वनुक्तो ऽपि ज्ञेयो विधिरयं स्वयम्

1.47

<मेर्चुर्य्:: सेवन>
सर्वरोगविनाशार्थं देहदार्ढ्यस्य हेतवे ।
शुद्धकायश्च पथ्याशी सेवेत पूज्यपूजनात्

1.48

वल्लमेकं नरेऽश्वे तु गद्याणं च गजे द्वयम् ।
दत्तः सूतो हरेद्रोगान् धातुयुग्वा निजौषधैः

1.49

रसस्य विकृतौ सत्यां मूर्छा हिक्का ज्वरोऽरतिः ।
कासः श्वासो भ्रमो मोहो दाहः कम्पश्च जायते

1.50

तच्छान्त्यै बीजपूरस्य रसं शुण्ठीं च सैन्धवम् ।
पिबेद्वा गोजले सिद्धं मूलं कर्कोटजं शुभम्

1.51

यत्रागारे रसाधीशः पूज्यते बहुभक्तितः ।
तदपत्यधनैः पूर्णम् आधिव्याधिविवर्जितम्

मूल पाठ: Rasasaṃketakalikā [= Rasasaṅketakalikā] · Edition: Jadavji Tricumji, Benares: Caukhamba Amarabharati Prakashan 1984. (Chaukhamba Ayurveda Granthamala, 10) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc