रसार्णवसुधाकर · अध्याय 2
314
इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रञ्जकोल्लासो नाम
प्रथमो विलासः
॥1॥
(2)
द्वितीयो विलासः
रसिकोल्लासः
कल्याण-दायि भवतां भवेद् भव्य-गुणाकरम् ।
कमलाकुचकालेय-व्यञ्जितोरः-स्थलं महः
1
चिद्-अचित्-क्षेम-कारिण्यै नमः श्री-पर्णजादिभिः ।
वन्द्यायै वार्धि-नन्दिन्यै कराग्रस्थ-पयोरुहे
2
अथ व्यभिचारि-भावाः-
व्य्-अभी इत्य् उपसर्गौ द्वौ विशेषाभिमुखत्वयोः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति
3
वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ।
तं चारयन्ति भावस्य गतिं सञ्चारिणोऽ पि
4
उन्मज्जन्तो निमज्जन्तः स्थायिन्य् अमृत-वारिधौ ।
ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते
5
निर्वेदोऽ थ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः
6
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च
7
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः
8
तत्र (1) निर्वेदः-
तत्त्व-ज्ञानाच् च दौर्गत्याव् आपदो विप्रयोगतः ।
ईर्ष्यादेर् अपि संजातं निर्वेदः स्वावमाननम्
[*9] 9
[*9] अनोथेर् रेअदिन्ग् इन् सोमे मनुस्च्रिप्त्स्: अनुभावस् तु नैष्फल्य-मतिर् निर्वेद उच्यते । अत्र चिन्ताश्रु-निःश्वस-वैवर्ण्योच्छ्वास-दीनता ॥
तत्त्व-ज्ञानाद्, यथा-
प्राप्ताः श्रियः सकल-काम-दुघास् ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संमानिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितं तनु-भृतां तनुभिस् ततः किम्
(वैराग्य-शतक 67)
किं विद्यासु विशारदैर् अपि सुतैः प्राप्ताधिक-प्रश्रयैः
किं दारैर् अभिरूप-रूप-चरितैर् आत्मानुकूलैर् अपि ।
किं कार्यं चिर-जीवितेन विगत-व्याधि-प्रचारेण वा
दारिद्र्योपहतं यद् एतद् अखिलं दुःखाय मे केवलम्
आपदो, यथा-
सुरत-श्रम-सम्भृतो मुखे
ध्रियते स्वेद-लवोद्गमोऽ पि ते ।
अथ चास्तमिता त्वम् आत्मना
धिग् इमां देह-भृताम् असारताम्
(रघु. 8.57)
विप्रयोगाद्, यथा-
यय्सां ते दिवसास्तया सह मया नीता यथा स्वे गृहे
यत्-सम्बन्धि-कथाभिर् एव सततं दीर्घाभिर् अस्थीयते ।
एकः सम्प्रति नाशित-प्रियतमस् ताम् एव रामः कथं
पापः पञ्चवटीं विलोकयतु वा गच्छत्व् असम्भाव्य वा
(उ.रा.च. 2.29)
अत्र सीता-विप्रयुक्तस्य रामस्य वाग्-आरम्भ-सूचितेनात्मावमाननेन निर्वेदः प्रतीयते ।
ईर्ष्यया, यथा-
कुर्युः शस्त्र-कथाम् अमी यदि मनोर् वंशे मनुष्याङ्कुराः
स्याच् चेद् ब्रह्म-गणोऽ यम् आकृति-गणस् तत्रेष्यते चेद् भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ् मौर्वी-कुश-कर्षणोल्बण-किण-ग्रन्थिर् ममायं करः
(अनर्घ. 4.44)
अत्र रामचन्द्र-शतानन्द-विषयेर्ष्या-जनितेन धिग् इति वाग्-आरम्भ-सूचितेन स्वात्मावमाननेन जामदग्न्यस्य निर्वेदः ।
अथ (2) विषादः-
प्रारब्ध-कार्यानिर्वाहाद् इष्टानवाप्तेर् विपत्तितः ।
अपराध-परिज्ञानाद् अनुतापस् तु यो भवेत्
10
विषादः स त्रिधा ज्येष्ठ-मध्यमाधम-संश्रयात् ।
सहायान्वेषणोपाय-चिन्ताद्या उत्तमे मताः
11
अनुत्साहश् च वैचित्त्यम् इत्य् आद्या मध्यमे मताः ।
अधमस्यानुभावाः स्युर् वैचित्र्यम् अवलोकनम् । 12
रोदन-श्वासित-ध्यान-मुख-शोषादयोऽ पि च
प्रारब्ध-कार्यानिर्वाहाद्, यथा-
वारं वारं तिरयति दृशाव् उद्गतो बाष्प-पूरस्
तत्-सङ्कल्पोपहित-जडिम स्तम्भम् अभ्येति गात्रम् ।
सद्यः स्विद्यन्न् नयम् अविरतोत्कम्प-लोलाङ्गुलीकः
पाणिर् लेखाविधिषु नितरां वर्तते किं करोमि
(मालतीमाधव 1.38)
अत्र प्रस्तुत-चित्र-निर्माणानिर्वाहान् माधवस्य किं करोमीति वाग्-आरम्भ-सूचितया तद्-दर्शनोपाय-चिन्तया विषादो व्यज्यते ।
तत्र इष्टानवाप्तेर्, यथा-
सञ्चारिणी दीप-शिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्रम् आर्गाट्ट इव प्रपेदे
विवर्ण-भावं स स भूमि-पालः
(र.वं. 6.67)
अत्रेन्दुमतीम् आकाङ्क्षतां भूमिपतीनां तद्-अनवाप्त्या मुख-वैवर्ण्येन विषादो व्यज्यते ।
विपत्तितः, यथा-
हा हा धिक् पर-गृह-वास-दूषणं यद्
वैदेह्याः प्रशमितम् अद्भुतैर् उपायैः ।
एतत् तत् पुनर् अपि दैव-दुर्विपाकाद्
आलर्कं विषम् इव सर्वतः प्रसृप्तम्
(उ.रा.च. 1.40)
अत्र सीतापवाद-रूपाया विपत्तेर् हा हा धिग् इति वाग्-आरम्भेण रामस्य विषादो गम्यते ।
यथा वा-
सा दुर्निमित्तोपगताद् विषादात्
सद्यः परिम्लान-मुखारविन्दा ।
राज्ञः शिवं सावरजस्य भूयाद्
इत्य् आशशंशे करणैर् बाह्यैः
(रघु. 14.50)
अत्र दुर्निमित्तानुमिताया विपत्तेर् मुख-शोषणेनानुभावेन वैदेह्या विषादः ।
अपराध-परिज्ञानात्, यथा-
हा तातेति क्रन्दितम् आकर्ण्य विषण्णस्
तस्यान्विष्यन् वेतस-गूढं प्रभवं सः ।
शल्य-प्रोतं प्रेक्ष्य सकुम्भं मुनि-पुत्रं
तापाद् अन्तः-शल्य इवासीत् क्षितिपोऽ पि
(रघु. 9.75)
अथ (3) दैन्यम्-
हृत्-ताप-दुर्गतत्वाद्यैर् अनौद्धत्यं हि दीनता । 13
तत्रानुभावा मालिन्य-गात्र-स्तम्भादयो मताः
हृत्-तापात्, यथा-
एतत् कृत्वा प्रियम् अनुचित-प्रार्थना-वर्तम्नो मे
सौहार्दाद् वा विधुर इति वा मय्य् अनुक्रोश-बुद्ध्या ।
इष्टान् देशान् जलद विहर प्रावृषा सम्भृत-श्रीर्
माभूद् एवं क्षणम् अपि च ते विद्युता विप्रयोगः
(मे.दू. 2.55)
दौर्गन्ध्याद्, यथा-
दीना दीन-मुखैः स्वकीय-शिशुकैर् आकृष्ट-जीर्णाम्बरा
क्रोशद्भिः क्षुधितरि निरन्नपिठरा नेक्ष्येत चेद् गेहिनी ।
याच्ञा-दैन्य-भयेन गद्गद-गलत्-त्रुट्यद्-विलीनाक्षरं
को देहीति वदेत् स्व-दग्ध-जठरस्यार्थे मनस्वी पुमान्
अथ (4) ग्लानिः-
आधि-व्याधि-जरा-तृष्णा-व्यायाम-सुरतादिभिः । 14
निष्प्राणता ग्लानिर् अत्र क्षामाङ्ग-वचन-क्रियाः ।
कम्पानुत्साह-वैवर्ण्य-नयन-भ्रमणादयः
15
आधिना, यथा-
किसलयम् इव मुग्धं बन्धनाद् विप्रलूनं
हृदय-कुसुम-शोषी दारुणो दीर्घ-शोकः ।
ग्लपयति परिपाण्डु क्षामम् अस्याः शरीरं
शरदिज इव घर्मः केतकी-पत्र-गर्भम्
(उत्तर-राम-चरित 3.5)
व्याधिना, यथा-
तस्य पाण्डु-वदनाल्प-भूषणा
सावलम्ब-गमना मृदु-स्वना ।
राज-यक्ष्म-परिहाणिर् आययौ
काम-यान-समवस्थया तुलाम्
(रघु. 19.50)
जरया, यथा-
विवृद्धिं कम्पस्य प्रथयतितरां साध्वस-वशाद्
अविस्पष्टां दृष्टिं तिरयतितरां बाष्प-सलिलैः ।
स्खलद्-वर्णां वाणीं जनयतितरां गद्गदतया
जरायाः साहाय्यं मम हि परितोषोऽ द्य कुरुते
(रत्नावली 4.13)
अत्र हर्षस्य जरा-सहकारित्व-कथनाद् उभयानुभावैर् अपि कम्पादिभिर् जरा-ग्लानेर् एव प्राधान्यं गम्यते ।
तृष्णया, यथा-
विन्ध्या-ध्वानौ विरल-सलिलास् तर्षिणी तत्र सीता
यावन् मूर्छां कलयति किल व्याकुले रामभद्रे ।
द्राक् सौमित्रिः पुटक-कलशीं मालुधानीदलानां
तावत् प्राप्तो दधद् अतिभृतां वारिणा नैर्झरेण
(बाल-रामायण 6.50)
व्यायामेन, यथा-
अतनु-कुच-भरानतेन भूयः
श्रम-जनितानतिना शरीरकेण ।
अनुचित-गति-साद-निःसहत्वं
कल-भर-करोरुभिर् ऊरुभिर् दधानैः
(शि.व. 7.66)
सुरतेन, यथा-
अति-प्रयत्नेन रतान्त-तान्ता
कृष्णेन तल्पावरोपिता सा ।
आलम्ब्य तस्यैव करं करेण
ज्योत्स्ना-कृतानन्दम् अलिन्दम् आप
अथ (5) श्रमः-
श्रमो मानस-खेदः स्याद् अध्व-नृत्य-रतादोभिः ।
अङ्ग-मर्दन-निःश्वासौ पाद-संवाहनं तथा
16
जृम्भणं मन्दयानं च मुखनेत्र-विघूर्णनम् ।
सीत्कृतिश् चेति विज्ञेया अनुभावाः श्रमोद्भवाः
17
अध्वना, यथा-
सद्यः पुरी-परिसरेऽ पि शिरीष-मृद्वी
सीता जवात् त्रिचतुराणि पदानि गत्वा ।
गन्तव्यम् अद्य कियद् इत्य् असकृद् ब्रुवाणा
रामाशुणः कृतवती प्रथमावतारम्
(बाल-रामायण 6.34)
नृत्येन, यथा-
स्वेद-क्लेदित-कङ्कणां भुज-लतां कृत्वा मृदङ्गाश्रयां
चेटी-हस्त-समर्पितैक-चरणा मञ्जीर-सन्धित्सया ।
सा भूयः स्तन-कम्प-सूचित-रयं निःश्वासम् आमुञ्चती
रङ्ग-स्थानम् अनङ्ग-सात्कृतवती तालावधौ तस्थुषी
रत्या, यथा ममैव-
नितान्त-सुरत-क्लान्तां चेलान्त-कृत-वीजनाम् ।
कान्तां लुलित-नेत्रान्तां कलये कल-भाषिणीम्
अथ (6) मदः-
मदस् त्व् आनन्द-संमोह-सम्भेदो मदिराकृतः ।
स त्रिधा तरुणो मध्योऽ पकृष्टश् चेति भेदतः
18
दृष्टिः स्मेरा मुखे रागः सस्मिताकुलितं वचः ।
ललिताविद्ध-गत्य्-आद्याश् चेष्टाः स्युस् तरुणे मदे
19
यथा-
भाव-हारि हसितं वचनानां
कौशलं दृशि विकार-विशेषाः ।
चक्रिरे भृशम् ऋजोर् अपि वध्वाः
कामिनेव तरुणेन मदेन
(शि.व. 10.13)
अथ मध्यमः-
मध्यमे तु मदे वाचि स्खलनं घूर्णनं दृशोः ।
गमने वक्त्रता बाह्वोर् विक्षेप-स्रस्ततादयः
20
यथा-
रुन्धती नयन-वाक्य-विकासं
सादितोभय-करा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां
क्षीबता बहु-गुणैर् अनुजह्रे
(भारवेः 9.67)
अथ नीचः-
अपकृष्टे तु चेष्टाः स्युर् गति-भङ्गो विसंज्ञता ।
निष्ठीवनं मुहुः श्वासो हिक्का छर्द्यादयो मताः
21
यथा-
निष्ठीवन्त्यो मुखरित-मुखं गौरवात् कन्धरायाः
प्रायो हिक्का-विकल-विकलं वाक्यम् अर्धं गृणन्त्यः ।
नैवापेक्षां गलित-वसने नाप्य् उपेक्षाम् अयन्ते
पायं पायं बहु-विध-मधून्य् एक-वीथ्या कुमार्यः
तरुणस् तूत्तमादीनां मध्यमो मध्य-नीचयोः ।
अपकृष्टस् तु नीचानां तत्-तन्-मद-विवर्धने
22
उत्तम-प्रकृतिः शेते मध्यो हसति गायति ।
अधम-प्रकृतिर् ग्राम्यं परुषं वक्ति रोदिति
23
उत्तम-प्रकृतेर् मद-वृद्धिर्, यथा-
तत्-क्षणं विपरिवर्तित-ह्रियोर्
नेष्यतोः शयनम् इद्ध-रागयोः ।
सा बभूव वश-वर्तिनी तयोः
प्रेयसः सुवदना मदस्य च
(कु.सं. 8.79)
मध्यमस्य मद-वृद्धिर्, यथा-
विनापि हेतुं विकटं जहास
पदेषु चस्खाल समेऽ पि मार्गे ।
विघूर्णमानः स मदातिरेकाद्
आकाशम् आलम्बनम् आललम्बे
अधमस्य मद-वृद्धिर्, यथा-
तह तह गामीण-घरिणी
मद-विवसा किंपि किंपि बाहरै ।
जह जह कुल-बहुआओ
सोऊण सरन्दि पिहिअ कण्णाओ
(तथा तथा ग्रामीण-गृहिणी
मद-विवशा किम् अपि किम् अपि व्याहरति ।
यथा यथा कुल-वध्वः
श्रुत्वा सरन्ति पिहित-कर्णाः ॥)
ऐश्वर्यादि-कृतः कैश्चित् मानो मद इतीरितः ।
वक्ष्यमाणस्य गर्वस्य भेद एवेत्य् उदास्महे
24
अथ (7) गर्वः-
ऐश्वर्य-रूप-तारुण्य-कुल-विद्या-बलैर् अपि ।
इष्ट-लाभादिनान्येषाम् अवज्ञा गर्व ईरितः
25
अनुभावा भवन्त्य् अत्र गुर्व्-आज्ञाद्य्-आज्ञा-व्यतिक्रमः ।
अनुत्तर-प्रअदानं च वैमुख्यं भाषणेऽ पि च
26
विभ्रमापह्नुती वाक्य-पारुष्यम् अनवेक्षणम् ।
अवेक्षणं निजाङ्गानाम् अङ्ग-भङ्गादयोऽ पि च
27
ऐश्वर्यम् आज्ञा-सिद्धिः । तेन यथा-
राहो तर्जय भास्करं वरुण हे निर्वाप्यतां पावकः
सर्वे वारिमुचः समेत्य कुरुत ग्रीष्मस्य दर्प-च्छिदाम् ।
प्रालेयाचल चन्द्र दुग्ध-जलधे हेमन्त मन्दाकिनि
द्राग् देवस्य गृहानुपेत भवतां सेवा-क्षणो वर्तते
(बाल-रामायण 5.22)
यथा वा-
वह्ने निह्नोतुम् अर्चिः परिचिनु पुरतः सिञ्चतो वारिवाहान्
हेमन्तस्यान्तिके स्याः प्रथयति दवथुं येन ते ग्रीष्म नोष्मा ।
मार्तण्डाश् चण्डताप-प्रशमन-विधये धत्त नाडीं जलार्द्रां
देवो नान्य-प्रतापं त्रिभुवन-विजयी मृष्यते श्री-दशास्यः
(बाल-रामायण 1.31)
रूप-तारुण्याभ्यां, यथा-
वाटीषु वाटीषु विलासिनीनां
चरन् युवा चारुतयातिदृप्तः ।
तृणाय नामन्यत पुष्प-चापं
करेण लीला-कलितारविन्दः
कुलेन, यथा-
गौडं राष्ट्रम् अनुत्तमं निरुपमा तत्रापि राढापुरी
भूरि-श्रेष्ठिक-नाम धाम परमं तत्रोत्तमो नः पिता ।
तत्-पुत्राश् च महाकुला न विदिताः कस्यात्र तेषाम् अपि
प्रज्ञा-शील-विवेक-धैर्य-विनयाचारैर् अहं चोत्तमः
(प्रबोध-चन्द्रोदयः, 2.7)
विद्यया, यथा-
बिन्दु-द्वन्द्व-तरङ्गिताग्र-सरणिः कर्ता शिरो-बिन्दुकं
कर्मेति क्रम-शिक्षितान्वय-कला ये केऽ पि तेभ्यो नमः ।
ये तु ग्रन्थ-सहस्र-शाणकषण-त्रुट्यत्-कलङ्कैर् गिराम्
उल्लेखैः कवयन्ति बिल्हण-कविस् तेष्व् एव संनह्यति
(कर्ण-सुन्दरी)
बलेन, यथा-
रुद्राद्रेस् तुलनं स्व-कण्ठ-विपिन-च्छेदो हरेर् वासनं
कारावेश्मनि पुष्पकस्य हरणं यस्योर्जिताः केलयः ।
सोऽ यं दुर्मद-बाहु-दण्ड-सचिवो लङ्केश्वरस् तस्य मे
का श्लाघा गुण-जर्जरेण धनुषाकृष्टेन भग्नेन वा
(बाल-रामायण, 1.51)
इष्ट-प्राप्त्या, यथा-
आस्तां तावद् अनङ्ग-चाप-विभवः का नाम सा कौमुदी
दूरे तिष्ठतु मत्त-कोकिल-रुतं संवान्तु मन्दानिलाः ।
हासोल्लास-तरङ्गितैर् असकलैर् नेत्राञ्चलैश् चञ्चलैः
साकूतैर् उररीकरोति तरुणी सेयं प्रणामाञ्जलिम्
अथ (8) शङ्का-
शङ्का चौर्यापराधाद्यैः स्वानिष्टोत्प्रेक्षणं मतम् ।
तत्र चेष्टामुहुः पार्श्व-दर्शनं मुख-शोषणम्
28
अवकुण्ठन-वैवर्ण्य-कण्ठ-सादादयोऽ पि च ।
शङ्का द्विद्येयम् आत्मोत्था परोत्था चेति भेदतः
29
स्वाकार्य-जनिता स्वोत्था प्रायो व्यङ्ग्येयम् इङ्गितैः ।
इङ्गितानि तु पक्ष्म-भ्रू-तारका-दृष्टि-विक्रियाः
30
अपराधात् स्वोत्था, यथा-
तत्-सख्या मरुताथ वा प्रचलिता वल्लीति मुह्यद्-धियो
दृष्ट्वा व्याकुलतारया निगदतो मिथ्या-प्रसादं मुखे ।
गङ्गा-नूतन-सङ्गिनः पशुपतेर् अन्तःपुरं गच्छतो
नूत्ना सैव दशा स्वयं पिशुनतां देवी-सखीनां गता
सैव चौर्येण, यथा-
मृद्नन् क्षीरादि-चौर्यान् मसृण-सुरभिणी सृक्वणी पाणि-घर्षैर्
आघ्रायाघ्राय हस्तं सपदि परुषयन् किङ्किणी-मेखलायाम् ।
वारं वारं विशाले दिशि दिशि विकिरन् लोचने लोलतारे
मन्दं मन्दं जनन्याः परिसरम् अयते कूट-गोपाल-बालः
परोत्था तु निजस्यैव परस्याकार्यतो भवेत् ।
प्रायेणाकार-चेष्टाभ्यां ताम् इमाम् अनुभावयेत् । 31
आकारः सात्त्विकश् चेष्टा त्व् अङ्ग-प्रत्यङ्गजाः क्रियाः
32अब्
परोत्था, यथा-
प्रीते विधातरि पुरा परिभूय मर्त्यान्
वव्रेऽ न्यतो यद् अभयं स भवान् अहंयुः ।
तन्-मर्मणि स्पृशति माम् अतिमात्रम् अद्य
हा वत्स शान्तम् अथवा दशकन्धरोऽ सि
(अनर्घ-राघव 4.9)
अत्र गर्वित-रावण-कृतेन मर्त्येतराभय-वरणेन जाता माल्यवतः शङ्का मर्मणि स्पृशतीत्यादिना वाग्-आरम्भेण प्रतीयते ।
अथ (9) त्रासः-
त्रासस् तु चित्त-चाञ्चल्यं विद्युत्-क्रव्याद-गर्जितैः । 32
तथा भूत-भुजङ्गाद्यैर् विज्ञेयास् तत्र विक्रियाः
उत्कम्प-गात्र-सङ्कोच-रोमाञ्च-स्तम्भ-गद्गदाः । 33
मुहुर् निमेष-विभ्रान्ति-पार्श्वस्थालम्बनादयः
विद्युतो, यथा-
वर्षासु तासु क्षण-रुक् प्रकाशात्
त्रस्ता रमा शार्ङ्गिणम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे
क्रव्यादो हिंस्र-सत्त्वम् । तस्माद्, यथा-
स्व-विक्रियादर्शित-साध्वसौघात्
प्रियाभिर् आलिङ्गित-कन्धराणाम् ।
अकारि भल्लूक-कुलेन यत्र
विद्याधराणाम् अनिमित्त-मैत्री
गर्जितेन, यथा-
प्रणय-कोप-भूतोऽ पि पराङ्मुखाः
सपदि वारिधरारव-भीरवः ।
प्रणयिनः परिरब्धुम् अनन्तरं
ववलिरे बलि-रेचित-मध्यमाः
(शि.व., 6.38)
गर्जितं महारवोपलक्षणम् । तेन भेर्यादि-ध्वनिर् अपि भवति ।
भेरी-ध्वनिना, यथा-
ननन्द निद्रा-रस-भञ्जनैर् अपि
प्रयाण-तूर्य-ध्वनिभिर् धरापतेः ।
अतर्कितातङ्क-विलोल-पद्मजा-
पयोधर-द्वन्द्व-निपीडितो हरिः
भूत-दर्शनाद्, यथा-
सा पत्युः परिवारेण पिशाचैर् अपि वेष्टिता ।
उत्कम्पमान-हृदया सखीभिः सम्बोध्यत
भुजङ्गमाद्, यथा-
कल्याण-दायि भवतोऽ स्तु पिनाक-पाणि-
पाणि-ग्रहे भुजग-कङ्कण-भीषतायाः ।
सम्भ्रान्त-दृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्ति-सस्मित-नतं मुखम् अम्बिकायाः
(रस-कलिकायाम् अप्य् उल्लिखितम् इदम्, 23 पुटे)
अथ (10) आवेगः-
चित्तस्य सम्भ्रमो यः स्याद् आवेगोऽ यं स चाष्टधा । 34 उत्पात-वात-वर्षाग्नि-मत्त-कुञ्जर-दर्शनात्
प्रियाप्रिय-श्रुतेश् चापि शत्रव-व्यसनाद् अपि । 35
तत्रौत्पातस् तु शैलादि-कम्प-केतूदयादयः
तज्-जाः सर्वाङ्ग-विस्रंसो वैमुख्यम् अपसर्पणम् । 36
विषाद-मुख-वैवर्ण्य-विस्मयाद्यास् तु विक्रियाः
शैल-प्रकम्पनाद्, यथा-
कैलासाद्राव् उदस्ते परिचलित-गणेषूल्लसत्-कौतुकेषु
क्रोडं मातुः कुमारे विशति विषमुचिप्रेक्षमाणे सरोषम् ।
पादावष्टम्भ-सीदद् वपुषि दशमुखे याति पाताल-मूलं
क्रुद्धोऽ प्य् आश्लिष्ट-मूर्तिर् घनतरम् उमया पातु हृष्टः शिवो वः
अत्र कैलास-कम्प-जनित-प्रमथ-गण-विस्मय-कार्तिकेयापसर्पण-कात्यायनी-साध्वसादिभिर् अनुभावैस् तत्-तद्-गत-सम्भ्रमातिशय-रूप आवेगो व्यज्यते ।
केतूदयाद्, यथा-
हन्तालोक्य कुटुम्बिनो दिविषदां धूम-ग्रहं दिङ्-मुखे
त्रस्ताङ्गास् त्वरितं परस्पर-गृहान् अभ्येत्य चिन्ता-पराः ।
धान्यानाम् अनतिव्ययाय गृहिणीर् आज्ञापयन्त्यो मुहुर्
निध्यायन्ति विनिःश्वसन्ति गणशो रथ्या-मुखेष्व् आसते
अथ वातावेगः-
त्वरयागमनं वस्त्र-ग्रहणं चावकुण्ठनम् । 37
नेत्रावमार्जनाद्याश् च वातावेग-भवाः क्रियाः
यथा-
दिक्षु व्यूढाङ्घ्रिपाङ्गस् तृण-जटित-चलत्-पांसु-दण्डोऽ न्तरिक्षे
झाङ्कारी शर्करालः पथिषु विटपिनां स्कन्ध-काषैः सधूमः ।
प्रासादानां निकुञ्जेष्व् अभिनव-जलदोद्गार-गम्भीर-धीरश्
चण्डारम्भः समीरो वहति परिदिशं भीरु किं सम्भ्रमेण
(वेणी-संहार 2.19)
अत्र वात-कृत-संरम्भो वाग्-आरम्भेण प्रतिपाद्यते ।
अथ वर्षावेगः-
छत्र-ग्रहोऽ ङ्ग-सङ्कोचो बाहु-स्वस्तिक-धावने । 38
उष्णाश्रयणम् इत्य् आद्या वर्षावेग-भवाः क्रियाः
यथा-
आमेखलं चञ्चरता घनानां
छायाम् अधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिर् आश्रयन्ते
शृङ्गाणि यस्यातपवन्ति सिद्धाः
[कु.सं. 7.5]
अत्र सिद्धानाम् अग्र-शिखर-धावनेन सूचितः ।
अथ अग्न्य्-आवेगः-
अग्न्य्-आवेगः-भवाश् चेष्टा वीजनं चाङ्ग-धूननम् । 39
व्यत्यस्त-पद-विक्षेप-नेत्र-सङ्कोचनादयः
यथा-
दूर-प्रोत्सार्यमाणाम्बर-चर-निकरोत्ताल-कीलाभिघातः
प्रभ्रश्यद्-वाजि-वर्ग-भ्रमण-नियम-नव्याकुल-ब्रध्न-सूतः ।
लेढि प्रौढो हुताशः कृत-लय-समयाशङ्कम् आकाश-वीथीं
गङ्गा-सूनु-प्रयुक्त-प्रथित-हुतवहास्त्रानुभाव-प्रसूतः
(धनञ्जय-विजय 67)
अथ कुञ्जरावेगः-
आवेगे कुञ्जरोद्भूते सत्वरं चापसर्पणम् । 40
विलोकनं मुहुः पश्चात् त्रास-कम्पादयो मताः
यथा-
निरन्तरालेऽ पि विमुच्यमाने
दूरं पथि प्राण-भृतां गणेन ।
तेजो-महद्भिस् तमसेव दीपैर्
द्विपैर् असम्बाधमयाम् बभूवे
अश्वेन, यथा-
उत्खाय दर्प-चलितेन सहैव रज्ज्वा
कीलं प्रयत्न-परमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस् तुरगेण तूर्णम्
अश्वेति विद्रुतम् अनुद्रवताश्वम् अन्यम्
प्रिय-श्रवणाद्, यथा-
प्रिय-श्रवणजे ह्य् अस्मिन् अभुत्थानोपगूहने । 41
प्रीति-दानं प्रियं वाक्यं रोमहर्षादयोऽ पि च
यथा-
जनाय शुद्धान्त-चराय शंसते
कुमार-जन्मामृत-संमिताक्षरम् ।
अदेयम् आसीत् त्रयम् एव भूपतेः
शशिप्रभं छत्रम् उभे च चामरे
(र.वं. 3.16)
अप्रिय-श्रुतेर्, यथा-
अप्रिय-श्रुतिजेऽ प्य् अस्मिन् विलापह् परिवर्तनम् । 42
आक्रन्दितं च पतनं परितो भ्रमणादयः
शात्रवाद्, यथा-
चेष्टाः स्युः शात्रवावेगे वर्म-शस्त्रादि-धारणम् । 43
रथ-वाजि-गजारोह-सहसापक्रमादयः
यथा-
रामो नाम बभूव हुं तद् अबला सीतेति हुं तां पितुर्
वाचा पञ्चवटी-वने निवसतस् तस्याहरद् रावणः ।
कृष्णस्येति पुरातनीं निज-कथाम् आकर्ण्य मात्रेरितां
सौमित्रे क्व धनुर् धनुर् धनुर् इति व्यग्रा गिरः पान्तु वः
[कृ.क.2.72]
एते स्युर् उत्तमादीनाम् अनुभावा यथोचितम्
44
अथ उन्मादः-
उन्मादश् चित्त-विभ्रान्तिर् वियोगाद् इष्ट-नाशतः ।
वियोगजे तु चेष्टाः स्युर् धावनं परिदेवनम्
45
असम्बद्ध-प्रलपनं शयणं सहसोत्थितिः ।
अचेतनैः सहालापो निर्निमित्त-स्मितादयः
46
यथा-
आशूत्थानं सदृश-गणना चेतनाचेतनेषु
प्रौढौष्माभिश्वसितम् असकृन् निर्गतो बाष्प-पूरः ।
निर्लक्ष्या वाग् गतिर् अविषया निर्निमित्तं स्मितं च
प्रायेणास्याः प्रथयतितरां भ्रान्ति-दात्रीम् अवस्थाम्
इष्ट-नाशाद्, यथा-
इष्ट-नाश-कृते त्व् अस्मिन् भस्मादि-परिलेपनम् ।
नृत्य-गीतादि-रचना तृण-निर्माल्य-धारणम् । 47
चीवरावरणादीनि प्राग्-उक्ताश् चापि विक्रियाः
यथा-
कीनाशोऽ पि बिभेति यादव-कुलाद् वृद्धस्य का मे गतिर्
भेदः स्यात् स्वजनेषु किं नु शतधा सीदन्ति गात्राणि मे ।
सोऽ यं बुद्धि-विपर्ययो मम समं सर्वे हता बान्धवा
न श्रद्देयम् इदं हि वाक्यम् अहहा मुह्यन्ति मर्माणि मे
अथ (12) अपस्मृतिः-
धातु-वैषम्य-दोषेण भूतावेशादिना कृतः । 48
चित्त-क्षोभस् त्व् अपस्मारस् तत्र चेष्टाः प्रकम्पनम्
धावनं पतनं स्तम्भो भ्रमणं नेत्र-विक्रियाः । 49
स्वोष्ठ-दंश-भुजास्फोट-लाला-फेनादयोऽ पि च
यथा-
लाला-फेन-व्यतिकर-परिक्लेदि-भुग्नोष्ठ-पार्श्वं
गायं गायं कलित-रुदितं प्रोन्नमन्तं पतन्तम् ।
स्तब्धोद्वृत्त-क्षुभित-नयनं मण्डलेन भ्रमन्तं
भूताविष्टं कम् अपि पुरुषं तत्र वीथ्याम् अपश्यम्
दोष-वैषम्यजस् त्व् एष व्याधिर् एवेत्य् उदास्महे ॥103॥ 50
अथ (13) व्याधिः-
दोषोद्रेक-वियोगाद्यैर् स्याद् व्याधिर् अत्र तु ।
गात्र-स्तम्भः श्लथाङ्गत्वं कूजनं मुख-कूणनम्
51
स्रस्ताङ्गताक्षि-विक्षेप-निःश्वासाद्यास् तु विक्रियाः ।
सशीतो दाह-युक्तः स द्विविधः परिकीर्तितः
52[*10]
हनु-सञ्चालनं बाष्पः सर्वाङ्गोत्कम्प-कूजने ।
जानु-कुञ्चन-रोमाञ्च-मुख-शोषादयोऽ पि च
53
[*10] थे fओल्लोwइन्ग् हल्f करिक इस् fओउन्द् इन् ओन्ल्य् ओने एदितिओन्: (शीत-ज्वरे तु चेष्टाः स्युः सन्तापश् चाङ्ग-सादनम् । थिस् दोएस् नोत् अप्पेअर् तो बे सेरिओउस्. (सेए करिक 54)
यथा-
रोमाञ्चम् अङ्कूरयति प्रकामं
स्पर्शेन सर्वाङ्गक-सङ्गतेन ।
दोः-स्वस्तिकाश्लिष्ट-पयोधराणां
शीत-ज्वरः कान्त इवाङ्गनानाम्
दाह-ज्वरे तु चेष्टाः स्युः शीत-माल्यादि-काङ्क्षणम् ।
पाणि-पाद-परिक्षेप-मुख-शोषादयोऽ पि च
54
यथा-
शय्या पुष्पमयी परागमयताम् अङ्गार्पणाद् अश्नुते
ताम्यन्त्य् अन्तिकतालवृन्तनलिनी-पत्राणि देहोष्मणा ।
न्यस्तं च स्तन-मण्डले मलयजं शीर्णान्तरं दृश्यते
क्वाथाद् आशु भवन्ति फेनिल-मुखा भूषामृणालाङ्कुराः
अथ (14) मोहः-
आपद्-भीति-वियोगाद्यैर् मोहश् चित्तस्य मूढता ।
विक्रियास् तत्र विज्ञेया इन्द्रियाणां च शून्यता । 55
निश्चेष्टताङ्ग-भ्रमण-पतनाघूर्णनादयः
आपदो, यथा-
ततोऽ भिषङ्गानिल-विप्रविद्धा
प्रभ्रश्यमानाभरण-प्रसूता ।
स्व-मूर्ति-लाभ-प्रकृतिं धरित्रीं
लतेव सीता सहसा जगाम
(र.वं. 14.54)
भीतेर्, यथा-
स्मरस् तथाभूतम् अयुग्म-नेत्रं
पश्यन्न् अदूरान् मनसाप्य् अधृष्यम् ।
नालक्षयत् साध्वस-सन्न-हस्तः
स्रस्तं शरं चापम् अपि स्व-हस्तात्
[कु.सं. 3.51]
वियोगाद्, यथा-
तद्-वक्त्रं नयेन च ते स्मित-सुधा-मुग्धं च तद् वाचिकं
सा वेणी स भुज-क्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्-ध्यान-बद्धात्मनो
निद्रा नो न रतिर् न चापि विरतिः शून्यं मनो वर्तते
(रस-कलिका, 32)
अथ (15) मृतिः-
वायोर् धनञ्जयाख्यस्य विप्रयोगो य आत्मना । 56
शरीरावच्छेदवता मरणं नाम तद् भवेत्
एतच् च द्विविधं प्रोक्तं व्याधिजं चाभिघातजम् । 57
आद्यं त्व् असाध्य-हृच्-छूल-विषूच्य्-आदि-समुद्भवम्
अमी तत्रानुभावाः स्युर् अव्यक्ताक्षर-भाषणम् । 58
विवर्ण-गात्रता मन्द-श्वासादि स्तम्भ-मीलने ।
हिक्का परिजनापेक्षा-निश्चेष्टेन्द्रियतादयः
59
यथा-
काये सीदति कण्ठ-रोधिनि कफे कुण्ठे च वाणी-पथे
जिह्मायां दृशि जीविते जिगमिषौ श्वासे शनैः शाम्यति ।
आगत्य स्वयम् एव नः करुणया कात्यायनी-वल्लभः
कर्णे वर्णयताद् भवार्णव-भयाद् उत्तारकं तारकम्
द्वितीयं घात-पतन-दोहोद्बन्ध-विषादिजम् ।
तत्र घातादिजे भूमि-पतन-क्रन्दनादयः
60
यथा अभिराम-राघवे-
आर्य-शर-पात-विवराद् उद्बुद्बुद-फेनिलास्र-कर्दमिता ।
अपतन् न चलति किंचिद् विकृताकृतिर् अद्य वज्र-निहतेव
विषं तु वत्सनाभाद्यम् अष्टौ वेगास् तद्-उद्भवाः ।
कार्ष्ण्यं कम्पो दाहो हिक्का फेनश् च कन्धर-भङ्गः । 61
जडता मृतिर् इति कथिता क्रमशः प्रथमाद्या वेगजाश् चेष्टाः
यथ प्रिय-दर्शिकायां (4.9)-
एषा म्लीअयतीदम् अक्षि-युगलं जाता ममान्धा दिशः
कण्ठोऽ स्या उपरुध्यते मम गिरो निर्यान्ति कृच्छ्राद् इमाः ।
एतस्याः श्वसितं हृतं मम तनुर् निश्चेष्टताम् आगता
मन्येऽ स्याः विष-वेग एव हि परं सर्वं तु दुःखं मयि
अत्राक्षि-निमीलन-कण्ठ-रोधन-निःश्वासायासादिभिर् आरण्यिकाया विष-वेग-जनिता मृतिर् अवगम्यते ।
अथ (16) आलस्यम्-
स्वभाव-श्रम-सौहित्य-गर्भ-निर्भरतादिभिः । 62
कृच्छ्रात् क्रियोन्मुखत्वं यत् तद् आलस्यम् इह क्रियाः
अङ्ग-भङ्गः क्रिया-द्वेषो जृम्भणाक्षि-विमर्दने । 63
शय्यासनैक-प्रियता तन्द्री-निद्रादयोऽ पि च
स्वभाव-श्रमाभ्यां, यथा-
मुहुर् इति वन-विभ्रमाभिषङ्गाद्
अतमि तदा नितरां नितम्बिनीभिः ।
मृदुतर-तनवोऽ लसाः प्रकृत्या
चिरम् अपि ताः किम् उत प्रयास-भाजः
(शि.व. 7.68)
सौहित्यं भोजनादि-तृप्तिः, तेन यथा-
त्रैलोक्याभय-लग्नकेन भवता वीरेण विस्मारितस्
तज्-जीमूत-मुहूर्त-मण्डन-धनुः-पाण्डित्यम् आखण्डलः ।
किं चाजस्र-मखार्पितेन हविषा सम्फुल्ल-मांसोल्लसत्
सर्वाङ्गीण-बली-विलुप्त-नयन-व्यूहः कथं वर्तते
(अ.रा. 1.28)
अत्र मन्दो-वृद्ध्या शक्रस्य सौहित्यम् । तत्-कृतम् आलस्यं कथं वर्तते इत्य् अनेन वाग्-आरम्भेण व्यज्यते ।
गर्भ-निर्भरतया, यथा-
आसनैक-प्रियस्यास्याः सखी-गात्रावलम्बिनः ।
गर्भालसस्य वपुषो भारोऽ भूत् स्वाङ्ग-धारणम्
अथ (17) जाड्यम्-
जाड्यम् अप्रतिपत्तिः स्याद् इष्टानिष्ठार्थयोः श्रुतेः । 64
दृष्टेर् वा विरहादेश् च क्रियास् तत्रानिमेषता ।
अश्रुतिः पारवश्यं च तूष्णीम्-भावादयोऽ पि च
65
इष्ट-श्रुतेर्, यथा-
प्रियेऽ परा यच्छति वाचम् उन्मुखी
निबद्ध-दृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकम् आहितं वृथा
न वेद पुष्पेषु च पाणि-पल्लवम्
(किरातार्जुनीये 8.15)
अत्र प्रिय-वाक्य-श्रवण-जनित-जाड्यम् अनिमेषत्वादिना व्यज्यते ।
प्रिय-दर्शनाद्, यथा-
एहै सो बि पौत्थो अहं अ कुप्पेज्ज सो बि अणुणेज्ज ।
इअ चिंतेंती बहुआ दट्ठूण पिअं ण किं पि सम्मरै
[*11]
[*11] पूर्वार्ध-मात्रं गाथा-सप्तशत्यां दृश्यते 1.17.
(एष्यति सोऽ पि प्रोषितः अहं च कुप्येयं सोऽ प्य् अनुनेष्यति ।
इति चिन्तयन्ती वधूर् दृष्ट्वा प्रियं न किम् अपि संस्मरति ॥)
अत्र प्रिय-दर्शन-जनितं जाड्यं पूर्व-चिन्तित-क्रिया-विस्मरणेन व्यज्यते ।
अप्रिय-श्रवणाद्, यथा-
आपुच्छन्तस्य बहू गमिदुं दैअस्स सुणिअ अद्धोत्तिम् ।
अणुमंणिदुं न जाणै ण निवारेदुं परवसा उबह
(आपृच्छमानस्य वधूर् गन्तुं दयितस्य श्रुत्वा अर्धोक्तिम् ।
अनुमन्तुं न जानाति न निवारयितुं पर-वशा पश्यत ॥)
अनिष्ट-दर्शनाद्, यथा-
ससुरेण डज्जमाणे घरणिअडभवे णिउंज-पुंजंमि ।
ण सुणै सुण्हा सुण्णा बहुसो कहिदं बि ससुराए
(श्वशुरेण दह्यमाने गृह-निकट-भवे निकुञ्ज-पुञ्जे ।
न शृणोति स्नुषा शून्या बहुशः कथितम् अपि श्वश्र्वा ॥)
वियोगाद्, यथा-
पप्रच्छ पृष्टम् अपि गद्गदिकार्त-कण्ठः
शुश्राव नोक्तम् अपि शून्य-मनाः स किञ्चित् ।
सस्मार न स्मृतम् अपि क्षणम् आत्म-कृत्यं
श्रुत्वाहम् इत्य् उपगतोऽ पि न संविवेद
(अभिनन्दस्य राम-चरिते 19.61)
अत्र सीता-विरह-जनितं रावणस्य जाड्यं पुनः-प्रश्न-श्रुत्य्-आदिभिर् अवगम्यते ।
अथ (18) व्रीडा-
अकार्य-करणावज्ञा-स्तुति-नूतन-सङ्गमैः ।
प्रतीकाराक्रियाद्यैश् च व्रीडत्वनतिधृष्टता
66
तत्र चेष्टा निगूढोक्तिर् आधोमुख्य-विचिन्तने ।
अनिर्गमो बहिः क्वापि दूराद् एवावगुण्ठनम् । 67
नखानां कृन्तनं भूमि-लेखनं चैवम् आदयः
अकार्य-करणाद्, यथा-
गुर्व्-आदेशाद् एव निर्मीयमाणो
नाधर्माय स्त्री-वधोऽ पि स्थितोऽ यम् ।
अद्य स्थित्वा श्वो गमिष्यद्भिर् अल्पैर्
लज्जास्माभिर् मीलिताक्षैर् जितैव
(अ.रा. 2.59)
अवज्ञया, यथा-
अवधूयारिभिर् नीता हरिणैस् तुल्य-वृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम्
(किरातार्जुनीय 11.58)
स्तुत्या, यथा-
तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः
(र.वं. 15.27)
नव-सङ्गमेन, यथा-
पटा-लग्ने पत्यौ नमयति मुखं जात-विनया
हठाश्लेषं वाञ्छत्य् अपहरति गात्राणि निभृतम् ।
न शक्नोत्य् आख्यातुं स्मित-मुख-सखी-दत्त-नयना
ह्रिया ताम्यत्य् अन्तः प्रथम-परिहासे नव-वधूः
(अमरु. 37)
प्रतीकाराकरणाद्, यथा-
उद्वृत्तारि-कृताभिमन्यु-निधन-प्रोद्भूत-तीव्र-क्रुधः
पार्थस्याकृत-शात्रव-प्रतिकृतेर् अन्तः शुचा मुह्यतः ।
कीर्णा बाष्प-कणैः पतन्ति धनुषि व्रीडा-जडा दृष्टयो
हा वत्सेति गिरः स्फुरन्ति न पुनर् निर्यान्ति कण्ठाद् बहिः
(नारायणस्येति शार्ङ्गधर-पद्धतिः)
अथ (19) अवहित्था-
अवहित्थाकार-गुप्तिर् जैह्म्य-प्राभव-नीतिभिः । 68
लज्जा-साध्वस-दाक्षिण्य-प्रागल्भ्यापजयादिभिः
अन्यथा-कथनं मिथ्या-धैर्यम् अन्यत्र वीक्षणम् । 69
कथा-भङ्गादयोऽ प्य् अस्याम् अनुभावा भवन्त्य् अमी
जैह्म्याद्, यथा-
लिङ्गैर् मुदः संवृत-विक्रियास् ते
ह्रदाः प्रसन्ना इव गूढ-नक्राः ।
वैदर्भम् आमन्त्र्य ययुस् तदीयां
प्रत्यर्प्य पूजाम् उपदाच्छलेन
(र.वं 7.30)
प्राभवाद्, यथा-
अनिर्भिन्नो गभीरत्वाद् अन्तर्गूढ-घन-व्यथः ।
पुट-पाक-प्रतीकाशो रामस्य करुणो रसः
(उ.रा.च. 3.1)
नीत्या, यथा-
बहिः सर्वाकार-प्रवण-रमणीयं व्यवहरन्
पराभ्यूह-स्थानान्य् अपि तनुतराणि स्थगयति ।
जनं विद्वान् एकः सकलम् अतिसन्धाय कपटैस्
तटस्थः स्वान् अर्थान् घटयति च मौनं च भजते
(मालती-माधवे 1.17)
लज्जया, यथा-
चिक्षेप् लक्ष्मीर् निटिलान् नखाग्रैः
प्रस्वेद-वार्यातपम् आक्षिपन्ती ।
जुगोप देवोऽ पि स रोमहर्षं
जडाब्धि-वाताहति-कैतवेन
(कन्दर्प-सम्भव)
साध्वसेन, यथा-
श्रुत्वा दुःश्रवम् अद्भुतं च मिथिला-वृत्तान्तम् अन्तः-पतच्-
चिन्तापह्नव-सावहित्थ-वदन-त्वग्-विप्रकीर्ण-स्मितः ।
हेलाकृष्ट-सुरावरोध-रमणी-सीमन्त-सन्तानक-
स्रग्-वासोज्ज्वल-पाणिर् अप्य् अवति मां वत्सो न लङ्केश्वरः
(अ.रा. 4.8)
दाक्षिण्याद्, यथा-
त्वय्य् अर्धासन-भाजि किं नर-गणोद्गीतैर् भवद्-विक्रमैर्
अन्तः-सम्भृत-मत्सरोऽ पि भगवान् आकार-गुप्तौ कृती ।
उन्मीलद्-भवदीय-दक्षिण-भुजा-रोमाञ्च-विद्धोच्चरद्-
बाष्पैर् एव विलोचनैर् अभिनयत्य् आनन्दम् आखण्डलः
(अ.रा. 1.29)
प्रागल्भ्येन, यथा-
एकत्रासन-सङ्गतिः परिहृता प्रत्युद्गमाद् दूरतस्
ताम्बूलानयन-च्छलेन रभसाश्लेषोऽ पि संविघ्नितः ।
आलापोऽ पि न मिश्रितः परिजनं व्यापारयन्त्य् आन्तिके- कान्तं प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः
(अमरु. 18)
अथ (20) स्मृतिः-
स्वास्थ्य-चिन्ता-दृढाभ्यास-सदृशालोकनादिभिः । 70
स्मृतिः पूर्वानुभूतार्थ-प्रतीतिस् तत्र विक्रियाः ।
कम्पनोद्वहने मूर्ध्नो भ्रू-विक्षेपादयोऽ पि च
71
स्वास्थ्येन, यथा-
रम्याणि वीक्ष्य मधुरांश् च निशम्य शब्दान्
पर्युत्सुको भवति यत् सुखितोऽ पि जन्तुः ।
तच् चेतसा स्मरति नूनम् अबोध-पूर्वं
भाव-स्थिराणि जननान्तर-सौहृदानि
(शक्. 5.2)
चिन्तया, यथा-
लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च
प्रत्युप्तेव च वज्र-लेप-घटितेवान्तर्-निखातेव च ।
सा नश् चेतसि कीलितेव विशिखैश् चेतो-भुवः पञ्चभिश्
चिन्ता-सन्तति-तन्तु-जाल-निविड-स्यूतेव लग्ना प्रिया
(मा.मा. 5.10)
दृढाभ्यासेन, यथा-
तद् वक्त्रं नयने च ते स्मित-सुधा-मुग्धं च तद् वाचिकं
सा वेणी स भुज-क्रमोऽ तिसरलो लीलालसा सा गतिः ।
तन्वी सेति च सेति सेति सततं तद्-ध्यान-बद्धात्मनो
निद्रा नो न रतिर् न चापि विरतिः शून्यं मनो वर्तते
(रस-कलिका, 32)[*12]
[*12] थिस् वेर्से अप्पेअरेद् प्रेविओउस्ल्य् अfतेर् कारिका 2.56अ.
सदृशालोकनेन, यथा-
आरक्त-राजिभिर् इयं कुसुमैर् नव-कन्दली सलिल-गर्भैः ।
कोपाद् अन्तर्-बाष्पे स्मरयति मां लोचने तस्याः
[विक्रमोर्वशीय 4.15]
अथ (21) वितर्कः-
ऊहो वितर्कः सन्देह-विमर्ष-प्रत्ययादिभिः ।
जनितो निर्णयान्तः स्याद् असत्यः सत्य एव वा । 72
तत्रानुभावाः स्युर् अमी भ्रू-शिरः- क्सेपणादयः
सन्देह-प्रत्ययनाद्, यथा-
अङ्कं केऽ पि शशङ्किरे जल-निधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच् च संजगदिरे भूमेश् च बिम्बं परे ।
इन्दौ यद् दलितेन्द्र-नील-शकल-श्यामं दरीदृश्यते
तन् मन्ये रवि-भीतम् अन्ध-तमसं कुक्षि-स्थम् आलक्ष्यते
विमर्शो विचारः । तेन, यथा-
गमनम् अलसं शून्या दृष्टिः शरीरम् असौष्ठवं
श्वसितम् अधिकं किं न्व् एतत् स्यात् किम् अन्यद् अतोऽ थ वा ।
भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं
ललित-मधुरास् ते ते भावाः क्षिपन्ति च धीरताम्
अत्र माधव-गतां चिन्ताम् उपलभ्य किम् अत्र कारणम् इति विमृशता मकरन्देन मन्मथ-निबन्धन एवायं भाव इति सत्य-निर्णयान्तो वितर्कः ।
अथ (22) चिन्ता-
इष्ट-वस्त्व्-अपरिप्राप्तेर् ऐश्वर्य-भ्रंशनादिभिः । 73
चिन्ता ध्यानात्मिका तस्याम् अनुभावा भवन्त्य् अमी ।
कार्श्याधोमुख्य-सन्ताप-निःश्वासोच्छ्र्वसनादयः
74
इष्ट-वस्त्व्-अलाभेन, यथा-
ईसि-बलिआबणआ से कूणित-पक्खंततारअ त्थिमिआ ।
दिट्ठी कपोल-पाली णिहिआ कर-पल्लवे मनो सुण्णं
[ईषद्-वलितावनताऽस्याः कूणित-पक्ष्मन्त-तारका स्तिमिता ।
दृष्टिः कपोल-पाली निहिता कर-पल्लवे मनः शून्यम् ॥]
ऐश्वर्य-नाशेन, यथा-
यमोऽ पि विलिखन् भूमिं दण्डेनास्तमित-त्विषा ।
कुरुतेऽ स्मिन्न् अमोघेऽ पि निर्वाणालात-लाघवम्
[कु.सं. 2.27]
अथ (23) मतिः-
नाना-शास्त्रारथ-मथनाद् अर्थ-निर्धारणं मतिः ।
तत्र चेष्टास् तु कर्तव्य-करणं संशय-छिदा । 75
शिष्योपदेश-भ्रू-क्षेपाव् ऊहापोहादयोऽ पि च
यथा-
दशरथ-कुले सम्भूतं माम् अवाप्य धनुर्धरं
दिनकर-कुलास्कन्दी कोऽ यं कलङ्क-नवाङ्कुरः ।
इति न वनिताम् एतां हन्तुं मनो विचिकित्सते
यद् अधिकरणं धर्म-स्थीयं तवैव वचांसि नः
(अ.रा. 2.62)
अथ (24) धृतिः-
ज्ञान-विज्ञान-गुर्वादि-भक्ति-नानार्थ-सिद्धिभिः । 76
लज्जादिभिश् च चित्तस्य नैस्पृह्यं धृतिर् उच्यते
अत्रानुभावा विज्ञेयाः प्राप्तार्थानुभवस् तथा । 77
अप्राप्तातीत-नष्टार्थान् अभिसङ्क्षोभणादयः
ज्ञानात्, यथा-
अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि मही-पृष्ठे कुर्वीमहि किम् ईश्वरैः
(वै.श. 55)
विज्ञानाद्, यथा-
अस्त्य् अद्यापि चतुः-समुद्र-परिखा-पर्यन्तम् उर्वी-तलं
वर्तन्तेऽ पि च तत्र तत्र रसिका गोष्ठीषु सक्ता नृपाः ।
एकस् तत्र निरादरो भवति चेद् अन्यो भवेत् सादरो
वाग्-देवी वदनाम्बुजे वसति चेत् को नाम दीनो जनः
गुरु-भक्त्या, यथा-
तिष्ठन् भाति पितुः पुरो भुवि यथा सिंहासने किं तथा
यत् संवाहयतः सुखं हि चरणौ तातस्य किं राज्यतः ।
किं भुक्ते भुवन-त्रये धृतिर् असौ भुक्तोज्झिते या गुरोर्
आयासः खलु राज्यम् उज्झित-गुरोस् तत्रास्ति कश्चिद् गुणः
(नागानन्द 1.7)
नानार्थ-सिद्ध्या, यथा-
क्रोधान्धैः सकलं हतं रिपु-कुलं पञ्चाक्षतास् ते वयं
पाञ्चाल्या मम दुर्नयोपजनितस् तीर्णो निकारार्णवः ।
त्वं देवः पुरुषोत्तमः सुकृतिनं माम् आदृतो भाषसे
किं नामान्यद् अतः परं भगवतो याचे प्रसन्नाद् अहम्
(वेणी-संहारः 6.45)
अथ (25) हर्षः-
मनोरथस्य लाभेन सिद्ध्या योग्यस्य वस्तुनः । 78
मित्र-सङ्गम-देवादि-प्रसादादेश् च कल्पितः
मनः-प्रसादो हर्षः स्याद् अत्र नेत्रास्य-फुल्लता । 79
प्रियाभाषणम् आश्लेषः पुलकानां प्ररोहणम् ।
स्वेदोद्गमश् च हस्तेन हस्त-सम्पीडनादयः
80
मनोरथस्य लाभेन, यथा-
निवात-पद्म-स्तिमितेन चक्षुषा
नृपस्य कान्तं पिबतः सुताननम् ।
महोदधेः पूर इवेन्दु-दर्शनाद्
गुरुः प्रहर्षः प्रबभूव नात्मनि
(र.वं. 3.17)
योग्य-वस्तु-सिद्ध्या, यथा-
स रागवान् अरुण-तलेन पाणिना
पुलोमजा-पद-तल-यावकैर् इव ।
हरिं हरिः स्तनित-गभीर-हेषितं
मुखे निरामिष-कठिने ममार्ज तम्
अत्र उच्चैःश्रवसो लाभेन देवेन्द्रस्य हर्षः ।
मित्र-सङ्गमाद्, यथा-
इभ-कुम्भ-तुङ्ग-कठिनेतरेतर- स्तन-भार-दूर-विनिवारितोदराः ।
परिफुल्ल-गण्ड-फलकाः परस्परं परिरेभिरे कुकुर-कौरव-स्त्रियः
(माघे 13.16)
मित्र-सङ्गमः पूज्यादि-सङ्गमादीनाम् अप्य् उपलक्षणम् ।
पूज्य-सङ्गमेन, यथा-
युगान्त-काल-प्रतिसंहृतात्मनो
जगन्ति यस्यां सविकासम् आसत ।
तनौ ममुस् तत्र न कटभ-द्विषस्
तपधनाभ्यागम-सम्भवा मुदः
(शि.व. 1.23)
देव-प्रसादाद्, यथा-
तस्याः प्रसन्नेन्दु-मुखः प्रसादं
गुरुर् नृपाणां गुरवे निवेद्य ।
प्रहर्ष-चिह्नानुमितं प्रियायै
शशंस वाचा पुनरुक्तयेव
(र.वं. 2.68)
आदि-शब्दाद् गुरु-राज-प्रसादादयः । गुरु-प्रसादाद्, यथा-
अस्मद्-गोत्र-महत्तरः क्रतु-भुजाम् अद्यायम् आद्यो रविर्
यज्वानो वयम् अद्य ते भगवती भूर् अद्य राजन्वती ।
अद्य स्वं बहु मन्यते सहचरैर् अस्माभिर् आखण्डलो
येनैतावद् अरुन्धती-पतिर् अपि स्वेनानुगृह्णाति नः
(अ.रा. 1.18)
राज-प्रसादाद्, यथा-
प्रीतिर् अस्य ददतोऽ भवत् तथा
येन तत्-प्रिय-चिकीर्षवो नृपाः ।
स्पर्शितैर् अधिकम् आगमन् मुदं
नाधिवेश्म-निहितैर् उपायनैः
(शि.व. 14.47)
अथ (26) औत्सुक्यम्-
कालाक्षमत्वम् औत्सुक्यम् इष्ट-वस्तु-वियोगतः ।
तद्-दर्शनाद् रम्य-वस्तु-दिदृक्षादेश् च तत्-क्रियाः
81
त्वरानवस्थितिः शय्या-स्थितिर् उत्तान-चिन्तने ।
शरीर-गौरवं निद्रा-तन्द्रा-निःश्वसितादयः
82
तत्र इष्ट-वस्तु-वियोगात्-
संक्षिप्यन्ते क्षन इव कथं दीर्घ-यामा त्रियामा
सर्वावस्थास्व् अहर् अपि कथं मन्द-मन्दातपं स्यात् ।
इत्थं चेतश् चटुल-नयने दुर्लभ-प्रार्थनं मे
गाढोष्माभिः कृतम् अशरणं त्वद्-वियोग-व्यथाभिः
[मे.दू. 2.48]
तत्र इष्ट-वस्तु-दर्शनात्-
आयाते दयिते मनोरथ-शतैर् नीत्वा कथञ्चिद् दिनं गत्वा वास-गृहं जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्य् अभिधाय सत्वर-पदं व्याधूय चीनांशुकं तन्वङ्ग्या रति-कातरेण मनसा नीतः प्रदीपः शमम् ॥179॥ [अमरु 77]
रम्य-दिदृक्षया, यथा-
कृतावशेषेण सविभ्रमेण
निष्कीलितेनाध्वनि पूरितेन ।
प्रसाधनेनाच्युत-दर्शनाय
पुर-स्त्रियः शिश्रियिरे गवाक्षान्
अथ (27) औग्र्यम्-
अपराधावमानाभ्यां चौर्याआभिग्रहणादिभिः ।
असत्-प्रलापनाद्यैश् च कृतं चण्डत्वम् उग्रता
83
क्रियास् तत्रास्य-नयन-रागो बन्धन-ताडने ।
शिरसः कम्पनं खेद-वध-निर्भर्त्सनादयः
84
अपराधाद्, यथा-
प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्
ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतः
पततु शरस्य् अकाण्डयम् अदण्डं इवैष भुजः
(मा.मा. 5.31)
अत्र मालती-निकार-रूपापराधाद् माधवस्यौग्र्यम् ।
अवमानाड्, यथा-
अज्ञात-पूर्वा द्विषताम् अवज्ञां
विज्ञापयन्तं प्रतिरुष्ट-चेताः ।
आज्ञा-हरं प्राज्ञ-विनिन्द्य-कर्मा
यज्ञाशि-वैरी गदया जघान
चौर्याभिग्रहणाद्, यथा-
भुज-विटप-मदेन व्यर्थम् अन्धम्भविष्णुर्
धिग् अपसरसि चौरंकारम् आक्रुश्यमानः ।
त्वद्-उरसि विदधातु स्वाम् अवस्कार-केलिं
कुटिल-करज-कोटि-क्रूर-कर्मा जटायुः
(अ.रा. 5.11)
असत्-प्रलापाद्, यथा-
कथम् अपि न निषिद्धो दुःखिना भीरुणा वा द्रुपद-तनय-पाणिस् तेन पित्रा ममाद्य ।
तव भुज-बल-दर्पाध्यायमानस्य वामः शिरसि चरण एष न्यस्यते वारयैनम्
(वेणी-संहार 3.40)
अथ (28) अमर्षः-
अधिक्षेपावमानाद्यैः क्रोधोऽ मर्ष इतीर्यते ।
तत्र स्वेद-शिरः-कम्पाव् आधोमुख्य-विचिन्तने । 85
उपायान्वेषणोत्साह-व्यवसादयः क्रियाः
तत्र अधिक्षेपाद्, यथा-
इति भीष्म-भाषित-वचोऽ र्थम्
अधिगतवताम् इव क्षणात् ।
क्षोभम् अगमद् अतिमात्रम्
अथो शिशुपाल-पक्ष-पृथिवी-भृतां गणः
(शि.व. 15.47)
अवमानाद्, यथा-
ध्वंसेन हृदयं सद्यः परिभूतस्य मे परैः ।
यद्य् अमर्षः प्रतीकारं भुजालम्बं न लम्भयेत्
(कि.अ. 11.57)
अथ (29) असूया-
पर-सौभाग्य-सम्पत्ति-विद्या-शौर्यादि-हेतुभिः । 86
गुणेऽ पि दोषारोपः स्याद् असूया तत्र विक्रियाः ।
मुखापवर्तनं गर्हा भ्रू-भेदानादरादयः
87
पर-सौभाग्येन, यथा-
मा गर्वम् उद्वह कपोल-तले चकास्ति
कान्त-स्वहस्त-लिखिता मम मञ्जरीति ।
अन्यापि किं न सखि भाजनम् ईदृशीनां
वैरी न चेद् भवति वेपथुर् अन्तरायः
(केशटस्येति सुभाषित-रत्न-कोशे)
पर-सम्पत्त्या, यथा-
लोकोपकारिणी लक्ष्मीः सतां विमल-चेतसाम् ।
तथापि तां विलोक्यैव दूयन्ते दुष्ट-चेतसः
पर-विद्यया, यथा-
प्रत्यक्षादि-प्रभा-सिद्ध-विरुद्धार्थाभिधायिनः ।
वेदान्ता यदि शास्त्राणि बौद्धैः किम् अपराद्ध्यते
(प्र.च. 2.4)
यथा वा-
गुणाधारे गौरे यशसि परिपूर्णे विलसति
प्रतापे चामित्रान् दहति तव सिंह-क्षितिपते ।
नवैव द्रवाणीत्य् अकथयद् अहो मूढतम-धीश्
चतुर्धा तेजोऽ पि व्यभजत कणादो मुनिर् अपि
अत्र प्रौढ-कवि-समय-प्रसिद्ध-मार्गानुसारिणो वक्तुः परिमित-द्रव्य-वादिनि कणादे महत्य् असूया मूढतम-धीर् इति वाग्-आरम्भेण व्यज्यते ।
पर-शौर्येण, यथा-
स्त्री-मात्रं ननु ताटका भृगु-सुतो रामस् तु विप्रः शुचिर्
मारीचो मृग एव भीति-भवनं वाली पुनर् वानरः ।
भोः काकुत्स्थ विकत्थसे किम् अथ वा वीरो जितः कस् त्वया
दोर्-दर्पस् तु तथापि ते यदि समं को-दण्डम् आरोपय
(हनुमन्-नाटक 14.21)
अथ (30) चापल्यम्-
राग-द्वेषादिभिश् चित्त-लाघवं चापलं भवेत् ।
चेष्टास् तत्राविचारेण परिरम्भावलम्बने । 88
निष्कासनोक्ति-पारुष्ये ताडनाज्ञापनादयः
रागेण, यथा-
विजनम् इति बलाद् अमुं गृहीत्वा
क्षणम् अथ वीक्ष्य विपक्षम् अन्तिकेऽ न्या ।
अभिपतितु-मना लघुत्व-भीतेर्
अभवद् अमुञ्चति वल्लभेऽ तिगुर्वी
(शि.व., 7.57)
द्वेषेण, यथा-
पादाघातैः सुरभिर् अभितः सत्वरं ताडनीयो
गाढामोदं मलय-मरुतः शृङ्खलादाम दत्त ।
कारागारे क्षिपत तरसा पञ्चमं राग-राजं
चन्द्रं चूर्णीकुरुत च शिलापट्टके पिष्ट-बिम्बम्
(बाल-रामायण 5.49)
अत्र सीता-विरहेण रावणस्य वसन्तादि-विषय-द्वेषेण तत्-तद्-अधिदेवतानां ताडना-ज्ञापनादिभिर् अनुभावैश् चापल्यं द्योत्यते ।
अथ (31) निद्रा-
मद-स्वभाव-व्यायाम-निश्चिन्तत्व-श्रमादिभिः । 89
मनो-निमीलनं निद्रा चेष्टास् तत्रास्य-गौरवम्
आघूर्णमान-नेत्रत्वम् अङ्गानां परिमर्दनम् । 90
निःश्वासोच्छ्वासने सन्न-गात्रत्वं नेत्र-मीलनम् ।
शरीरस्य च सङ्कोचो जाड्यं चेत्य् एवम् आदयः
91
मदाद्, यथा-
यस्मिन् महीं शंसति वाणिनीनां
निद्रां विहारार्ध-पथे गतानाम् ।
वातोऽ पि नास्रंसयद् अंशुकानि
को लम्बयेद् आहरणाय हस्तम्
(र.वं. 6.75)
स्वभावाद्, यथा-
उत्तानाम् उपधाय बाहुलतिकाम् एकाम् अपाङ्गाश्रयाम्
अन्याम् अप्य् अलसां निधाय विपुलाभोगे नितम्ब-स्थले ।
नीवीं किञ्चिद् इव श्लथां विदधती निःश्वासम् उन्मुञ्चती
तल्पोत्पीडन-तिर्यग्-उन्नत-कुचा निद्राति शातोदरी
व्यायामाद्, यथा-
अलस-लुलित-मुग्धान्यध्व-सञ्जात-खेदाद्
अशिथिल-परिरम्भैर् दत्त-संवाहनानि ।
परिमृदित-मृणाली-दुर्बलान्य् अङ्गकानि
त्वम् उरसि मम कृत्वा यत्र निद्राम् अवाप्ता
(उ.रा.च. 1.24)
नैश्चिन्त्याद्, यथा-
दत्तेन्द्राभय-विभ्रमाद्भुत-भुजासम्भार-गम्भीरया
त्वद्-वृत्त्या शिथिलीकृतस् त्रिभुवन-त्राणाय नारायणः ।
अन्तस् तोष-तुषार-सौरभ-मय-श्वासानिलापूरण-
प्राणोत्तुङ्ग-भुजङ्ग-तल्पम् अधुना भद्रेण निद्रायते
(अ.रा. 1.27)
श्रमाद्, यथा-
केवलं प्रियतमा-दयालुना
ज्योतिषाम् अवनतासु पङ्क्तिषु ।
तेन तत्-परिगृहीत-वक्षसा
नेत्र-मीलन-कुतूहलं कृतम्
(कु.सं. 8.84)
अथ (32) सुप्तिः-
उद्रेक एव निद्रायाः सुप्तिः स्यात् तत्र विक्रियाः ।
इन्द्रियोपरतिर् नेत्र-मीलनं स्रस्त-गात्रता । 92
उत्स्वप्नायितनैश् चल्य-श्वासोच्छ्वासादयोऽ पि च
यथा-
अव्यासुरन्तः-करुणारसार्द्रा
निसर्ग-निर्यन्-निगमान्त-गन्धा ।
श्वासानिलास् त्वां स्वपतो मुरारेः
शय्या-भुजङ्गेन्द्र-निपीत-शेषाः
अथ (33) बोधः-
स्वप्न-स्पर्शन-निध्वान-निद्रा-सम्पूर्णतादिभिः । 93
प्रबोधश् चेतनावाप्तिश् चेष्टास् तत्राक्षि-मर्दनम्
शय्याया मोक्षणं बाहु-विक्षेपोऽ ङ्गुलि-मोटनम् । 94
शिरः-कण्डूयनं चाङ्ग-वलनं चैवम् आदयः
स्वप्नाद्, यथा-
त्रिभाग-शेषासु निशासु च क्षणं
निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्य् अलक्ष्य-वाग्
असत्य-कण्ठार्पित-बाहु-बन्धना
(कु.सं. 5.57)
स्पर्शनाद्, यथा-
आघ्राय चाननम् अधिस्तनम् आयताक्ष्याः
सुप्तं तदा त्वरित-केलि-भुवा श्रमेण ।
प्राभातिकः पवन एष सरोज-गन्धी
प्राबोधयन् मणि-गवाक्ष-समागतो माम्
शब्दाद्, यथा-
उषसि स गज-यूथ-कर्ण-तालैः
पटु-पटह-ध्व्नैभिर् विनीत-निद्रः ।
अरमत मधुराणि तत्र शृण्वन्
विहग-विकूजित-वन्दि-मङ्गलानि
(र.वं. 9.71)
निद्रा-सम्पूर्त्या, यथा-
ते च प्रापुर् उदन्वन्तं बुबुधे चादि-पूरुषः ।
अव्याक्षेपो भविष्यन्त्याः कार्य-सिद्धेर् हि लक्षणम्
(र.वं. 10.6)
उत्तमाधम-मध्येषु सात्त्विका व्यभिचारिणः । 95
विभावैर् अनुभावैश् च वर्णनीया यथोचितम्
[*13]
उद्वेग-स्नेह-दम्भेर्ष्या-प्रमुखाश् चित्त-वृत्तयः । 96
उक्तेष्व् अन्तर्भवन्तीति न पृथक्त्वेन दर्शिताः
[*13] एद्. अद्द्स्: अनुक्त-चित्त-वृत्तीनाम् उक्तान्तर्भावः ।
तथा हि-पर-प्रतारण-रूप-दम्भस्य जिह्मतावहित्थायाम् अन्तर्-भावः । चित्त-द्रवता-लक्षणस्य स्नेहस्य हर्षेऽ न्तर्भावः । स्व-विषय-दान-मानाद्य्-अमर्षण-रूपाया ईर्ष्याया अमर्षेऽ न्तर्भावः । पर-विषयायास् त्व् असूयायाम् । उद्वेगस्य तु निर्वेद-विषादादिषु यथोचितम् अन्तर्भाव इत्य् आदि द्रष्टव्यम् । तथा च भाव-प्रकाशिका-कारः-
अन्येऽ पि यदि भावाः स्युश् चित्त-वृत्ति-विशेषतः ।
अन्तर्भावस् तु सर्वेषां द्रष्टव्यो व्यभिचारिषु
इति ।
विभावाश् चानुभावाश् च ते भवन्ति परस्परम् । 97
कार्य-कारण-भावस् तु ज्ञेयः प्रायेण लोकतः
तथा हि-सन्तापस्य दैन्यं प्रति विभावत्वं ग्लानिं प्रत्यनुभावत्वं च । प्रहारस्य प्रलय-मोहौ प्रति विभावत्वम् औग्र्यं प्रत्यनुभावत्वं च । विषादस्य उत्पातावेगं प्रत्यनुभावत्ं स्तम्भं प्रति विभावत्वम् । व्याधेर् ग्लानि-स्तम्भ-प्रलयादीन् प्रति विभावत्वम् ।
स्वातन्त्र्यात् पारतन्त्र्याच् च ते द्विधा व्यभिचारिणः । 98
पर-पोषकतां प्राप्ताः परतन्त्रा इतीरिताः ।
तद्-अभावे स्वतन्त्राः स्युर् भावा इति च ते स्मृताः
99
तत्र पारतन्त्र्येण निर्वेदो, यथा-
कुर्युः शस्त्र-कथाम् अमी यदि मनोर् वंशे मनुष्याङ्कुराः
स्याच् चेद् ब्रह्म-गणोऽ यम् आकृति-गणस् तत्रेष्यते चेद् भवान् ।
सम्राजां समिधां च साधकतमं धत्ते छिदाकारणं
धिङ् मौर्वी-कुश-कर्षणोल्बण-किण-ग्रन्थिर् ममायं करः
(अ.रा. 4.44)
इत्य् अत्र निर्वेदस्य क्रोधाङ्गत्वम् ।
निर्वेदस्य स्वतन्त्रत्वं, यथा-
प्राप्ताः श्रियः सकल-काम-दुधास् ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितास् तनुभृतां तनवस् ततः किम्
[वै.श. 67]
इत्यादि । अत्र निर्वेदस्यानन्याङ्गत्वात् स्वतन्त्रत्वम् ।
ननु निर्वेदस्य शान्त-रस-स्थायित्वं कैश्चिद् उक्तम् । तत् कथम् अस्य अन्य-रसोपकरणत्वम् इति चेद्, उच्यते । सति खलु ग्रामे सीमा-सम्भावना । स्थायित्वं नाम संस्कार-पाटवेन भावस्य (वासना-रूपेण स्थितस्य कारण-वशाद् उद्बोधितस्य) मुहुर् मुहुर् नवीभावः । तेन निर्वेद-वासना-वासितं भावक-चेतसि नैष्फल्याभिमतेषु विभावादिषु (भावकानां प्रथमं प्रवृत्तेर् एवासम्भवात्) तत्-सामग्री-फल-भूतस्य निर्वेदस्योत्पत्तिर् एव न सङ्गच्छते । किं पुनः स्थायित्वम् । किं च असति निर्वेद-स्थायिनि शान्त-रूपो भावकानाम् आस्वादश् चित्र-गत-कदली-फल-रसास्वाद-लम्पटानां राज-शुकानां विवेक-सहोदरो भवेद् इति कृतं संरम्भेण ।
विषादस्य परतन्त्रत्वं, यथा-
वारं वारं तिरयति दृ;चाम् उद्गतो बाष्प-पूरस्
तत्-सङ्कल्पोपहित-जडिम-स्तम्भम् अभ्येति गात्रम् ।
सद्यः स्विद्यन्न् अयम् अविरतोत्कम्प-लोलाङ्गुलीकः
पाणिर् लेखा-विधिषु नितरां वर्तते किं करोमि
(मा.मा. 1.38)
अत्र विषादस्य शृङ्गाराङ्गत्वम् । स्वतन्त्रत्वं, यथा-
सञ्चारिणी दीप-शिखेव रात्रौ
यं यं व्यतीयाय पतिंवरा सा ।
नरेन्द्र-मार्गाट्ट इव प्रपेदे
विवर्ण-भावं स स भूमि-पालः
(र.वं. 6.67)
इत्य् अत्र विषादस्यानन्याङ्गत्वम् । एवम् अन्येषाम् अपि स्वतन्त्रत्व-परतन्त्रत्वे तत्र तत्रोहनीये ।
आभासता भवेद् एषाम् अनौचित्य-प्रवर्तिताम् ।
असत्यत्वाद् अयोग्यत्वाद् अनौचित्यं द्विधा भवेत् । 100
असत्यत्व-कृतं तत् स्याद् अचेतन-गतं तु यत्
यथा-
कस् त्वं भोः, कथयामि दैव-हतकं मां विद्धि शाखोटकं वैराग्याद् इव वक्षि, साधु विदितं, कस्माद् इदं, कथ्यते ।
वामेनात्र वटस् तम् अध्वग-जनः सर्वात्मना सेवते न च्छायापि परोपकार-करणे मार्ग-स्थितस्यापि मे
अत्र वृक्ष-विशेषत्वाद् अचेतने शाखोटके चित्त-विकारस्यासम्भवानुचितो निर्वेदोऽ यम् आभासत्वम् आपद्यते ।
अयोग्यत्व-कृतं प्रोक्तं नीच-तिर्यङ्-नराश्रयम्
101
तत्र नीच-तिर्यग्-गतं, यथा-
वेला-तटे प्रसूयेथा मा भूः शङ्कित-मानसा ।
मां जानाति समुद्रोऽ यं टिट्टिभं साहस-प्रियम्
अत्र यदि समुद्र-वेलायां प्रसूये तर्हि उद्वेल-कल्लोल-मालाभिर् ममापत्यानि हृतानि भवेयुर् इति शङ्कितायां निज-गृहिण्यां कश्चित् टिट्टिभः पक्षि-विशेषो गर्वायते । तद् अयं गर्वो नीच-तिर्यग्-गतत्वाद् आभासो नातीव स्वदते ।
नीच-नराश्रयो, यथा-
अत्युत्तान-शयालुना कर-युग-प्राप्तोपधान-श्रिया
गन्धूरस्य तरोस् तले घुट-पुट-ध्वानानुसन्धायिभिः ।
दीर्घैः श्वास-भरैः सफूत्कृति-शतैर् आस्फोटितोष्ठ-द्वयं
तत्-पूर्वं कृषि-कर्मणि श्रमवता क्षुद्रेण निद्रायते
उत्पत्ति-सन्धि-शावल्य-शान्तयो व्यभिचारिणाम् ।
दशाश् चतस्रस् तत्र उत्पत्तिर् भाव-सम्भवः
102
यथा-
एवं वादिनि देवर्षौ पार्श्वे पितुर् अधोमुखी ।
लीला-कमल-पत्राणि गणयामास पार्वती
(कु.सं. 6.84)
अत्र लज्जायाः हर्षस्य वा समुत्पत्तिः ।
सरूपम् असरूपं वा भिन्न-कारण-कल्पितम् ।
भाव-द्वयं मिलति चेत् स सन्धिर् इति गीयते
103
स्वरूपयोः सन्धिर्, यथा-
अरि-व्रजानाम् अनपोत-सिंह-
खड्ग-प्रहारैर् अवनि गतानाम् ।
प्रिया-जनाङ्क-प्रहिताङ्गकानां
भवन्ति नेत्रान्त-निमीलनानि
अत्र नायक-खड्ग-प्रहार-प्रिया-जनाङ्ग-स्पर्शाभ्यां कल्पितयोः प्रतिनायकेषु मोहयोः सन्धिर् नेत्रान्त-निमीलनेन व्यज्यते ।
असरूपयोः सन्धिर्, यथा-
श्री-सिंह-भूप-प्रतिनायकानां
स्विद्यन्ति गात्रान्य् अतिवेपितानि ।
तत् तूर्य-संवादिषु गर्जितेषु
प्रियाभिर् आलम्बित-कन्धराणाम्
अत्र गर्जितेषु नायक-संनाह-निःसाण-शङ्कयाङ्कुरितस्य प्रतिनायकानां त्रासस्य प्रियालिङ्गन-तरङ्गितस्य च हर्षस्य स्वेद-वेपथु-सादृश्य-कल्पित-संश्लेषः सन्धिः ।
अत्यारूढस्य भावस्य विलयः शान्तिर् उच्यते
104अब्
यथा-
शुद्धान्तस्य निवारितोऽ प्य् अनुनयैर् निःशङ्कम् अङ्कूरितो
वृद्धामात्य-हितोपदेश-वचनै रुद्धोऽ पि वृद्धिं गतः ।
मानोद्रेक-तरुः प्रतिक्षिति-भुजाम् आमूलम् उन्मूल्यते
वाहिन्याम् अनपोत-सिंह-नृपतेर् आलोकितायाम् अपि
अत्र हितोपदेशानादराधिरूढस्य प्रतिनायक-गतस्य गर्वस्य शान्तिर् आमूलम् उन्मूल्यत इति वाग्-आरम्भेण व्यज्यते ।
शवलत्वं तु भावानां संमर्दः स्यात् परस्परम्
104
यथा-
को वा जेष्यति सोम-वंश-तिलकान् अस्मान् रण-प्राङ्गणे
हन्तास्मासु पराङ्मुखो हत-विधिः किं दुर्गम् अध्यास्महे ।
अस्मत्-पूर्व-नृपान् असौ निहतवान् दीर्घान् धिग् अस्मद्-भुजान्
किं वाक्यैर् अनपोत-सिंह-नृपतेः सेवैव कृत्यं परम्
अत्र गर्व-विषादासूया-चिन्ता-स्मृत्य्-अमर्ष-निर्वेद-मतीनां संमर्दो भाव-शावल्यम् इत्य् उच्यते ।
दिग्-अन्तराल-सञ्चार-कीर्तिना सिंह-भूभुजा ।
एवं सञ्चारिणः सर्वे स-प्रपञ्चं निरूपिताः
105
इति सञ्चारि-भावाः ।
अथ स्थायिनः-
सजातीयैर् विजातीयैर् भावैर् ये त्व् अतिरस्कृताः ।
क्ष्राब्धिवन् नयन्त्य् अन्यान् स्वात्मत्वं स्थायिनो हि ते
106
भरतेन च ते कथिता रति-हासोत्साह-विस्मय-क्रोधाः ।
शोकोऽ थ जुगुप्सा भयम् इत्य् अष्टौ लक्ष्म वक्ष्यते तेषाम्
107
तत्र रतिः-
यूनोर् अन्योन्य-विषया स्थायिनीच्छा रतिर् भवेत् ।
निसर्गेणाभियोगेन संसर्गेणाभिमानतः
108
उपमाध्यात्म-विषयैर् एषा स्यात् तत्र विक्रियाः ।
कटाक्ष-पात-भ्रू-क्षेप-प्रिय-वाग्-आदयो मताः
109
तत्र निसर्गेण रतिर्, यथा-
अलं विवादेन यथा श्रुतस् त्वया
तथाविधस् तावद् अशेषम् अस्तु सः ।
ममात्र भावैक-रसं मनः स्थितं
न काम-वृत्तिर् वचनीयम् ईक्षते
(कु.सं. 5.82)
अत्र रूपादि-दृष्ट-कारण-निरपेक्षा पार्वत्याः रतिर् जन्मान्तर-वासना-रूपा निसर्गाद् एव भवति । अभियोगोऽ भिनिवेशः । तद्-एक-परत्वम् इति यावत् ।
तेन, यथा-
तन् मे मनः क्षिपति यत् सरस-प्रहारम्
आलोक्य माम् अगणित-स्खलद्-उत्तरीया ।
त्रस्तैक-हायन-कुरङ्ग-विलोल-दृष्टिः
साश्लिष्टवत्य् अमृत-संवलितैर् इवाङ्गैः
(मा.मा. 4.8)
अत्रोत्तरीय-स्खलनादि-सूचितेन मदयन्तिका-प्रेमाभियोगेन मकरन्दस्य तत्र रतिर् उत्पद्यते ।
संसर्गेण, यथा-
उत्पत्तिर् देव-यजनाद् ब्रह्म-वादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिर् अस्यां स्नेहं करोति मे
(म.वी.च. 1.21)
अत्र देव-यजन-जनकादि-सम्बन्ध-गौरवेण सीतायां रामस्य रतिः ।
अथ अभिमाणः । इदम् एव मम प्रियं नान्यद् इत्य् अभिप्रायोऽ भिमानः । तेन, यथा-
जगति जयिनस् ते ते भावा नवेन्दु-कलादयः
प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये । मम तु यद् इयं याता लोके विलोचन-चन्द्रिका
नयन-विषयं जन्मन्य् एकः स एव महोत्सवः
(मा.मा. 1.39)
अत्र माधवस्य विल्चन-चन्द्रिका-नयन-महोत्सवाद्य्-अभिमानेन इतर-रमणीय-वस्तु-नैःस्पृह्येण च मालत्यां रतिः ।
उपमया, यथा-
अपि तुरग-समीपाद् उत्पतन्तं मयूरं
न स रुचिर-कलापं बाण-लक्ष्यीचकार ।
सपदि गत-मनस्कश् चित्र-माल्यानुकीर्णे
रति-विगलित-बन्धे केश-पाशे प्रियायाः
(र.वं. 9.67)
अत्र मृगयान्तरितापि दशरथस्य प्रिया-विषया रतिस् तदीय-केश-कलाप-सदृश-केकि-कलाप-दर्शनेनोत्पद्यते ।
अध्यात्मं स्वात्म-प्रामाण्य-मात्रम् । तेन, यथा-
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस् तनयान् ।
बलवत् तु दूयमानं प्रत्याययतीव मे हृदयम्
(शकु. 5.31)
अत्र दुष्यन्तस्य निज-चित्त-सन्ताप-प्रत्ययेन शाप-विस्मृतायाम् अपि शकुन्तलायां रतिः ।
विषयाः शब्दादयः । तत्र शब्देन, यथा ममैव-
सखि मे नियति-हतायास्
तद्-दर्शनम् अस्तु वा मा वा ।
पुनर् अपि स वेणु-नादो
यदि कर्ण-पथे पतेत् तद् एवालम्
अत्र प्राग्-अदृष्टेऽ पि कृष्णे वेणु-नादेन कामवल्ल्या रतिः ।
स्पर्शेन, यथा-
यद् अयं रथ-सङ्क्षोभाद् अंसेनांसो रथाङ्ग-सुश्रोण्याः ।
स्पृष्टः सरोम-विक्रियम् अङ्कुरितं मनोभवेनेव
(वि.उ. 1.11)
रूपेण, यथा-
अयं रामो नायं स तु जनक-धर्मं दलितवान्
अयं कामो नायं स तु मधुमदामोदित-मनाः ।
सखि ज्ञातं सोऽ यं युवति-नयनोत्पादन-फलं
निदानं भाग्यानां जयति खलु सिंह-क्षितिपतिः
अत्र रामादि-स्मरण-हेतुना नायक-रूपातिशयेन कस्याश्चिद् रतिः ।
रसेन, यथा-
हरस् तु किञ्चित् परिलुप्त-धैर्यश्
चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमा-मुखे बिम्ब-फलाधरोष्ठे
व्यापारयामास विलोचनानि
(कु.सं. 3.67)
अत्र यद्यपि सम्भोगात् प्राग्-अज्ञातस्याधर-रसस्य रसं प्रति विभावता न सङ्गच्छते, तथापि प्रसिद्देह्ः सम्भावितस्य रसस्यैव विभावत्वं बिम्ब-फलाधरोष्ठ इति पदेन व्यज्यते । अथवा समास्वादित-दाक्षायणी-बिम्बाधरस्य परमेश्वरस्य तद्-रसेनैव जननान्तर-सङ्गतायाम् अपि तस्यां रतिः ।
गन्धेन, यथा ममैव-
उन्मीलन्-नव-मालती-परिमल-न्यक्कार-बद्ध-व्रतैर्
आलोलैर् अलि-मण्डलैः प्रतिपदं प्रत्याशम् आसेवितः ।
अङ्गानाम् अभिजात-चम्पक-रुचाम् अस्या मृगाक्ष्या स्फुरन्-
नामोदोऽ यम् अदृष्ट-पूर्व-महिमा बध्नाति मे मानसम्
अत्र पराशर-मुनि-प्रसादेन लब्धेन दिव्येन सत्यवती-शरीर-सौरभेण शन्तनोस् तस्यां रतिः ।
भोजस् तु सम्प्रयोगेण रतिम् अन्याम् उदाहरत्
110अ
यथा-
उन्नमय्य सकच-ग्रहम् ओष्ठं
चुम्बति प्रियतमे हठ-वृत्त्या ।
हुं हुं मुञ्च म म मेति च मन्दं
जल्पितं जयति बाल-वधूनाम्
(विज्जिकाया इदम् इति सुभाषितावलिः)
वाकृतं च तेनैव । अत्र तर्जनार्थमोक्षणार्थ-वारणार्थाणां मन्दं मण्दं प्रयोगान् मानवत्याः सम्प्रयोगे रत्य्-उत्पत्तिः प्रतीयत इति ।
सम्प्रयोगस्य शब्दादिष्व् अन्तर्भावान् न तन्-मतम्
110
तथा हि-उक्तोदाहरणे मानवती-जल्पितस्य शब्द-रूपत्वम् एव । तथा च-
आअरपसारिओट्ठं अघडिअणासं अचुंबिअणिडाकं ।
बण्णघिअलिप्पमुहिए तीए परिचुम्बणं भरिमो
(गाथा 1.22)
[आदर-प्रसारितोष्ठम् अघटित-नासम् अचुम्बित-निटिलम् ।
वर्ण-घृत-लिप्त-मुख्यास् तस्याः परिचुम्बनं स्मरामः ॥]
इत्य् आदिषु चुम्बनादीनाम् अपि स्पर्शेष्व् अन्तर्-भावः ।
[अथ रत्य्-अवस्थाः]
अङ्कुर-पल्लव-कलिका-प्रस्पुनफलभोग-भाग् इयं क्रमशः ।
प्रेमा मानः प्रणयः स्नेहो रागोऽ नुरागश् च
111
अथ प्रेमा-
स प्रेमा भेद-रहितं यूनोर् यद् भाव-बन्धनं
112अ
यथा-
रथाङ्ग-नाम्नोर् इव भाव-बन्धनं
बभूव यत् प्रेम परस्पराश्रयम् ।
विभक्तम् अप्य् एक-सुतेन तत् तयोः
परस्परस्योपरि पर्यचीयत
(रघु. 3.24)
अत्र भेद-कारणे सुत-स्नेहे सत्य् अपि सुदक्षिणा-दिलीपयो रतेर् अपरिहाणेन भेद-रहितत्वम् ।
[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-
चिर-विरहिणोर् उत्कण्ठार्ति-श्लथीकृत-गात्रयोर्
नवम् इव जगज् जातं भूयश् चिराद् अभिनन्दतोः ।
कथम् अपि दिने दीर्घे याते निशाम् अधिरूढयोः
प्रसरति कथा बह्वी यूनोर् यथा न तथा रतिः ॥ (अमरु. 39)]
अथ मानः-
यत् तु प्रेमानुबन्धेन स्वातन्त्र्याद् धृदयङ्गमम् । 112
बह्नाति भाव-कौटिल्यं सोऽ यं मान इतीर्यते
यथा-
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः
प्रियं जघानोन्नत-पीवर-स्तनी
(किराट 8.19)
अत्रापराध-सम्भावनायाम् अपि प्रेम-कल्पित-स्वातन्त्र्येण अवज्ञा-रूपं चित्त-कौटिल्यम् ।
[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-
मुञ्च कोपम् अनिमित्त-लोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्म-चारिणं
चक्रवाक-सम-वृत्तिम् आत्मनः ॥ (कु.सं. 8.57)]
अथ प्रणयः-
बाह्यान्तरोपचारैर् यत् प्रेम-मानोपकल्पितैः । 113
बध्नाति भाव-विश्रम्भं सोऽ यं प्रणय उच्यते
यथा-
प्रतिश्रुतं द्यूत-पणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चित-भ्रूः ।
कण्ठं कराभ्याम् अवलम्ब्य तस्य
मुखं पिधत्ते स्वकपोलकेन
अत्र भाव-बन्धनापराध-कौटिल्ययोर् अनुवृत्तौ कण्ठालम्बनादिनोपचारेण विस्रम्भः ।
[केषुचित् लिपिषु इदम् उदाहरणम् अत्र दृश्यते-
काञ्च्या गाढतरावरुद्ध-वसन-प्रान्ता किम्-अर्थं पुनर्
मुग्धाक्षी स्वपितीति तत्-परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुम् अपीह वारयति माम् इत्य् आहित-क्रोधया
पर्यस्य स्वपन-च्छलेन शयने दत्तोऽ वकाशस् तया ॥ (अमरु. 18)]
अथ स्नेहः-
विश्रम्भे परमां काष्ठाम् आरूढे दर्शनादिभिः । 114
यत्र द्रवत्य् अन्तरङ्गं स स्नेह इति कथ्यते
दर्शनेन, यथा कन्दर्प-सम्भवे-
उभे तदानीम् उभयोस् तु चित्ते
कदुष्ण-निःश्वास-चरिष्णुकेन ।
एकीकरिष्यन्न् अनुराग-शिल्पी
रागोष्मणैव द्रवताम् अनैषीत्
अत्र लक्ष्मी-नारायणयोर् अन्योन्य-दर्शनेनान्तः-करण-द्रवीभावः ।
स्पर्शनेन, यथा-
गाढालिङ्गन-वामनीकृत-कुच-प्रोद्भिन्न-रोमोद्गमा
सान्द्र-स्नेह-रसातिरेक-विगलत्-श्रीमन्-नितम्बाम्बरा ।
मा मा मानद माति माम् अलम् इति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम्
(अमरु 36)
स त्रेधा कथ्यते प्रौढ-मध्य-मन्द-विभेदतः । 115
प्रवासादिभिर् अज्ञात-चित्त-वृत्तौ प्रिये जने ।
इतर-क्लेश-कारी यः स प्रौढः स्नेह उच्यते
116
यथा-
एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा
मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी भवन्ति
[मे.दू. 2.52]
अत्र प्रोषिते यक्षे स्नेह-जनितया तद्-अन्यासङ्ग-शङ्कया जनितः प्रिया-क्लेशः मय्य् अविश्वासिनी मा भूर् इति प्रत्याश्वासनेन व्यज्यते ।
अथ मध्यमः-
इतरानुभवापेक्षां सहते यः स मध्यमः
117अ
यथा-
किं देव्याः कृत-दीर्घ-रोष-मुषित-स्निग्ध-स्मितं तन्-मुखं
किं वा सागरिकां क्रमोद्धत-रुषा सन्तर्ज्यमानां तथा ।
बद्ध्वा नीतम् इतो वसन्तकम् अहं किं चिन्तयाम्य् अद्य भोः
सर्वाकार-कृत-व्यथः क्षणम् अपि प्राप्नोमि नो निर्वृतिम्
(रत्ना. 3.19)
अत्र सागरिकानुभवापेक्षया राज-स्नेहो वासवदत्तायां मध्यमः ।
अथ मन्दः-
द्वयोर् एकस्य मानादौ तद् अन्यस्य करोति यः । 117
नैवोपेक्षां न चापेक्षां स स्नेहो मन्द उच्यते ॥270॥
यथा-
मन्ये प्रियाहृतमनास् तस्याः प्रणिपात-लङ्घनं सेवाम् ।
एवं हि प्रणयवती सा शक्यम् उपेक्षितुं कुपिता
(मा.अ.मि. 3.23)
अत्र कुपितायाम् इरावत्याम् उपेक्षापेक्षाभावस्य कथनेन राज्ञः स्नेहस् तद्-विषयो मन्दः । आदि-शब्दाद् अतिपरिचयादयः । यथा-
यः कौमार-हरः स एव हि वरस् ता एव चैत्र-क्षपास्
ते चोन्मीलित-मालती-सुरभयः प्रौढाः कदम्बानिलाः
सा चैवास्मि तथापि तत्र सुरत-व्यापार-लीला-विधौ
रेवा-रोधसि वेतसी-तरु-तले चेतः समुत्कण्ठते
अत्र कस्याश्चित् स्वैरिण्या गृहिणीत्व-परिचयेन पति-दशां प्राप्तेऽ पि जारे उपेक्षापेक्षयोर् अभाव-कथनान् मन्दः स्नेहः ।
अथ रागः-
दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते । 118
येन स्नेह-प्रकर्षेण स राग इति गीयते
कुसुम्भ-नीली-मञ्जिष्ठ-राग-भेदेन स त्रिधा । 119
कुसुम्भ-रागः स ज्ञेयो यश् चित्ते रज्यति क्षणात् ।
अतिप्रकाशमानोऽ पि क्षणाद् एव विनश्यति
120
यथा-
बहु-बल्लहस्स जा होइ बल्लहा कहबि पञ्जदि अहाइं ।
सा किं छट्ठं मग्गई कत्तो मिट्ठं अ बहुअं अ
(गाथा 1.72)
[बहु-वल्लभस्य या भवति वल्लभा कथम् अपि पञ्च-दिवसानि ।
सा किं षष्ठं मृगयते कुतो मृष्टं च बहुकं च ॥]
नीली-रागस् तु यः सक्तो नापैति न च दीप्यते
121अ
यथा-
यदैव पूर्वे जनने शरीरं
सा दक्ष-रोषात् सुदती ससर्ज ।
तदा-प्रभृत्य् एव विमुक्त-सङ्गः
पतिः पशूनाम् अपरिग्रहोऽ भूत्
(कु.सं. 3.53)
अत्र पशुपति-चित्त-रागः सती-सङ्गमाभाव-निश्चयेनापि नापैति । विषयाभावान् न प्रकाशते च ।
अचिरेणैव संसक्तश् चिराद् अपि न नश्यति । 121
अतीव शोभते योऽ सौ माञ्जिष्ठो राग उच्यते
यथा-
अद्वैतं सुख-दुःखयोर् अनुगतं सर्वास्व् अवस्थासु यद्
विश्रामो हृदयस्य यत्र जरसा यस्मिन्न् अहार्यो रसः ।
कालेनावरणात्ययात् परिणते यत् स्नेह-सारे स्थितं
भद्रं तस्य सुमानुषस्य कथम् अप्य् एकं हि तत् प्राप्यते
(उ.रा.च. 1.38)
राग एव स्वयं वेद्य-दशा-प्राप्त्या प्रकाशितः । 122
यावद्-आश्रय-वृत्तिश् चेद् अनुराग इतीरितः ॥279॥
यथा ममैव-
अश्रान्त-कण्ठकोद्गमम् अनवरत-स्वेदम् अविरतोत्कम्पम् ।
अनिश-मुकुलितापाङ्गं मिथुनं कलयामि तद्-अविनाभूतम्
अत्र पार्वती-परमेश्वरयो रतिः शरीरैक्य-सम्बन्धेन यावद्-आश्रय-वृत्तिः अनुभूत-सर्व-रागोपप्लवतया स्व-संवेद्य-दशा-प्रकाशित-नित्य-भोग-रूपा अश्रान्त-रोमाञ्चादिभिर् अनुभावैर् व्यज्यते ।
अन्ये प्रीतिं रतेर् भेद्म् आमनन्ति न तन्-मतम् । 123
असम्प्रयोग-विषया सेयं हर्षान् न भिद्यते ॥280॥
अथ हासः-
भाषणाकृति-वेषाणं क्रियायाश् च विकारतः । 124
लौल्यादेश् च परस्थानाम् एषाम् अनुकृतेर् अपि
विकारश् चेतसो हासस् तत्र चेष्टाः समीरिताः । 125
दृष्टेर् विकारो नामौष्ठ-कपोल-स्पन्दनादयः
भाषा-विकारो भाषणासम्बद्धत्वादिः । आकृति-विकृतिर् अतिवामन-दन्तुरत्वादिः । वेष-विकारो विरुद्धालङ्कार-कल्पना । क्रिया-विकारो विकट-गतित्वादिः । एषाम् उदाहरणानि कैशिक्यां शुद्ध-हास्यजे नर्मणि निरूपितानि द्रष्टव्यानि ।
लौल्याद्, यथा-
बालेय-तण्डुल-विलोप-कदर्थिताभिर्
एताभिर् अग्नि-शरणेषु सधर्मिणीभिः ।
उत्रासहेतुम् अपि दण्डम् उदस्यमानम्
आघ्रातुम् इच्छति मृगे मुनयो हसन्ति
(अ.रा. 2.20)
अत्र मृगाणां सन्त्रासन-यष्टि-समाघ्राण-लौल्येन मुनीनां हासः ।
पुरानुकरणेन, यथा-
पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे
त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।
इति स्खलित-जल्पितं मद-वशात् कुरङ्गीदृशः
प्रगे हसित-हेतवे सहचरीभिर् अध्यैयत
(स.क.आ.)
अथ उत्साहः-
शक्तिर् धरिय-सहायाद्यैः फल-श्लाघ्येषु कर्मसु । 126
सत्वरा मानसी वृत्तिर् उत्साहस् तत्र विक्रियाः
कालाद्यवेक्षणं धैर्यं वाग्-आरम्भादयोऽ पि च । 127
सहजाहार्य-भेदेन स द्विधा परिभाष्यते
शक्त्या सहजोत्साहो, यथा-
अथो महेन्द्रं गिरिम् आरुरोह
वारां निधिं लङ्घयितुं हनूमान् ।
वामेतराक्षि-स्फुरणेन जान
कर-स्थितां राघव-कार्य-सिद्धिम्
स एव धैर्येण, यथा-
शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे
निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्तेति निरुन्धतः कपि-भटानस्योर्जितात्म-स्थितेः
सौमित्रेर् अधियुद्ध-भूमि गदिता वाचस् त्वया न श्रुताः
अत्र रावण-शक्ति-प्रहारेण क्षीण-शक्तेर् अपि लक्ष्मणस्य धैर्य-जनितोत्साहः कपि-भटाश्वासनादिभिर् व्यज्यते ।
सहायेन सहजोत्साहो, यथा-
स गुप्त-मूल-प्रयत्नः शुद्ध-पार्ष्णिर् अयान्वितः ।
षड्-विधं बलम् आदाय प्रतस्थे विजिगीषया
(र.वं. 4.26)
शक्त्याहार्योत्साहो, यथा-
हस्तालम्बितम् अक्ष-सूत्र-वलयं कर्णावतंसीकृतं
स्रस्तं भ्रू-युगम् उन्नमय्य रचितं यज्ञोपवीतेन च ।
संनद्धा जघने च वल्कल-पटी पाणिश् च धत्ते धनुर्
दृष्टं भो जनकस्य योगिन इदं दान्तं विरक्तं मनः
(बा.रा. 1.53)
धैर्य-सहायाभ्याम् आहार्यो, यथा-
तव प्रसादात् कुसुमायुधोऽ पि
सहायम् एकं मधुम् एव लब्ध्वा ।
कुर्यां हरस्यापि पिनाक-पाणेर्
धैर्य-च्युतिं के मम धन्विनोऽ न्ये
(कु.सं. 3.10)
अत्र स्वभाव-शक्ति-रहितस्य मन्मथस्य इन्द्र-प्रोत्साहन-जनितेन धैर्येण वसन्त-सहायेन चाहृतोत्साहो धैर्य-च्युति-चिकीर्षा-कथनाद् अभिव्यज्यते ।
अथ विस्मयः-
लोकोत्तर-पदार्थानां तत्-पूर्व-लोकनादिभिः । 128
विस्तारश् चेतसो यस् तु विस्मयः स निगद्यते ।
क्रियास् तत्राक्षि-विस्तार-साधूक्ति-पुलकादयः
129
यथा-
शिला कम्पं धत्ते शिव शिव वियुङ्क्ते कठिनताम्
अहो नारीच्छायाम् अयति वनिताभूयम् अयते ।
वदत्य् एवं रामे विवलित-मुखी बल्कलम् उरः-
स्थले कृत्वा बद्ध्वा कच-भरम् उदस्थाद् ऋषि-वधूः
अथ क्रोधः-
वधावज्ञादिभिश् चित्त-ज्वलनं क्रोध ईरितः ।
एष त्रिधा भवेत् कोर्ध-कोप-रोष-प्रभेदतः
130
वध-च्छेदादि-पर्यन्तः क्रोधः क्रूर-जनाश्रयः ।
अभ्यर्थनावधिः प्रायः कोपो वीर-जनाश्रयः
131
शत्रु-भृत्य-सुहृत्-पूज्याश् चत्वारो विषयास् तयोः ।
मुहुर् दष्टोष्ठता भुग्न-भ्रुकुटी-दन्त-घट्टनम्
132
हस्त-निष्पीडनं गात्र-कम्पः शस्त्र-प्रतीक्षणम् ।
स्व-भुजावेक्षणं कण्ठ-गर्जाद्याः शात्रव-क्रुधि
133
वधेन शत्रु-विषय-क्रोधो, यथा-
कृतम् अनुमतं दृष्टं वा यैर् इदं गुरु-पातकं
मनुज-पशुभिर् निर्मर्यादैर् भवद्भिर् उदायुधैः ।
नरक-रिपुणा सार्धं तेषां सभीम् अकिरीटिनाम्
अयम् अहम् असृङ्-मेदो-मांसैः करोमि दिशां बलिम्
(वे.सं. 3.24)
अवज्ञया शत्रु-विषय-क्रोधो, यथा-
श्रुति-शिखर-निषद्यावद्य-मान-प्रभावं
पशुपतिम् अवमन्तुं चेष्टते यस्य बुद्धिः ।
प्रलय-शमन-दण्डोच्चण्डम् एतस्य सोऽ हं
शिरसि चरणम् एनं पातयामि त्रि-वारम्
अत्र परमेश्वरावज्ञया जनितो दक्ष-विषयो दधीचि-क्रोधः परुष-वाग्-आरम्भेण व्यज्यते ।
भृत्य-क्रोधे तु चेष्टाः स्युस् तर्जनं मूर्ध-धननम् ।
निर्भर्त्सनं च बहुधा मुहुर् निर्वर्णनादयः
134
यथा वीरानन्दे-
आधूत-मूर्ध-दशकं तरलाङुलीकं
रूक्षेक्षणं परुष-हुङ्कृति-गर्भ-कण्ठम् ।
पश्यन् निशाचर-मुखानि ततोऽ वतीर्णः
सौधात् प्लवङ्ग-पति-मुष्टि-हतो दशास्यः
अत्र सुग्रीव-सम्पाते पलायितेषु भृत्येषु रावणस्य क्रोधो मूर्ध-धूननादिभिर् अनुभावैर् व्यज्यते ।
मित्र-क्रोधे विकाराः स्युर् नेत्रान्तः-पतद्-अश्रुता ।
तूष्णीं ध्यानं च नैश्चल्यं श्वसितानि मुहुर् मुहुः । 135
मौनं विनम्र-मुखता भुग्न-दृष्ट्यादयोऽ पि च
यथा ममैव-
सुभद्रायाः श्रुत्वा तद्-अनुमतिमत् तेन हरणं
कृतं कौन्तेयेन क्षुभित-मनसः स्तब्ध-वपुषः ।
नमद्-वक्त्राः स्वान्ते किम् अपि विलिखन्तोऽ तिकुटिलैर्
अपश्यन्न् उद्बाष्पैर् यदु-पतिम् अपाङ्गैर् यदु-भटाः
अत्र सुभद्रा-हरणानुमत्या जनितः कृष्ण-विषयो यदूनां क्रोधः कुटिल-वीक्षणादिभिर् व्यज्यते ।
पूज्य-क्रोधे तु चेष्टाः स्युः स्व-निन्दा नम्र-वक्त्रता । 136
अनुत्तर-प्रदानाङ्ग-स्वेद-गद्गदिकादयः
यथा वीरानन्दे-
राम-प्रवास-जननीं जननीं विलोक्य
रूक्षं विवक्षुर् अपि गद्गदिकां दधानः ।
नम्राननः कुटिल-रज्यद्-अपाङ्ग-दृष्टिर्
जज्वाल चेतसि परं भरतो महात्मा
शत्रु-क्रोधे तु चेष्टाः स्युर् भाव-गर्भित-भाषणम् । 137
भ्रूभेद-निटिल-स्वेद-कटाक्षआरुणिमादयः
यथा-
कोपेन प्रविधूत-कुन्तल-भरः सर्वाङ्गजो वेपथुः
किञ्चित् कोकनद-च्छदेन सदृशे नेत्रे स्वयं रज्यतः ।
धत्ते कान्तिम् इदं च वक्त्रम् अनयोर् भङ्गेन भीम-भ्रुवोश्
चन्द्रस्योद्भट-लाञ्छनस्य कमलस्योद्भ्रान्त-भृङ्गस्य च
(उ.रा.च. 5.36)
अत्र लवस्य चन्द्रकेतोश् च परस्पर-विषयः कोपो भ्रू-भेदादिभिर् व्यज्यते ।
भृत्यादि-कोप-त्रितये तत्-तत्-क्रोधादिताः क्रियाः
138
अथ रोषः-
मिथः स्त्री-पुंसयोर् एव रोषह् स्त्री-गोचरः पुनः ।
प्रत्ययावधिर् अत्र स्युर् विकाराः कुटिलेक्षणम् । 139
अधर-स्फुरणापाङ्ग-राग-निःश्वसितादयः
यथा वीरानन्दे-
भ्रू-भङ्ग-भिन्नम् उपरञ्जित-लोचनान्तम्
आकम्पिताधरम् अतिश्वसितानुबन्धम् ।
पत्युर् मुखं क्षिति-सुता परिलोकयन्ती
कारा-विमुक्तिर् अपि कष्टतरेति मेने
अत्र रावण-कारागार-शङ्कया जनितः सीता-विषयो रामस्य रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।
प्रत्ययावधित्वं, यथा-
दिष्ट्यार्ध-श्रुत-विप्रलम्भ-जनित-क्रोधाद् अहं नो गतो
दिष्ट्या नो परुषं रुषार्ध-कथिते किञ्चिन् मया व्याहृतम् ।
मां प्रत्याययितुं विमूढ-हृदयं दिष्ट्या कथान्तं गता
मिथ्या-दूषित-यानया विरहितं दिष्ट्या न जातं जगत्
(वे.सं. 2.13)
अत्र स्वप्न-वृत्तान्त-श्रवण-भ्रान्ति-जनितस्य भानुमती-विषयकस्य सुयोधन-रोषस्य स्वप्न-शेष-श्रवण-जनित-प्रत्यय-कृता शान्तिः दिष्ट्येत्य्-आदि-वाग्-आरम्भेण व्यज्यते ।
द्वेधा निगदितः स्त्रीणां रोषः पुरुष-गोचरः । 140
सपत्नी-हेतुर् आद्यः स्याद् अन्यः स्याद् अन्य-हेतुकः
सपत्नी-हेतुको रोषो विप्रलम्भे प्रपञ्च्यते । 141
अन्य-हेतु-कृते त्व् अत्र क्रियाः पुरुष-रोषवत्
यथा-
मय्य् एव विस्मरण-दारुण-चित्त-वृत्तौ
वृत्तं रहः-प्रणयम् अप्रतिपद्यमाने ।
भेदाद् भ्रुवोः कुटिलयोर् अतिलोहिताक्ष्या
भग्नं शरासनम् इवातिरुषा स्मरस्य
(शकु. 5.23)
अत्र प्राक्तन-वृत्तान्तापह्नव-जनितो दुष्यन्त-विषयकः शकुन्तला-रोषो भ्रू-भङ्गादिभिर् अनुभावैर् व्यज्यते ।
अथ शोकः-
बन्धु-व्यापत्ति-दौर्गत्य्-अधन-नाशादिभिः कृतः । 142
चित्त-क्लेश-भरः शोकस् तत्र चेष्टा विवर्णता
बाष्पोद्गमो मुखे शोषः स्तम्भ-निःश्वसितादयः । 143
उत्तमानम् अयं प्रौढो विभावैर् अन्य-संश्रितैः
आत्म-स्थैर् अतिरूढोऽ पि प्रायः शौर्येण शाम्यति । 144
तत्र चेष्टा गुणाख्यान-निगूढ-रुदितादयः
पर-गत-विभावैर्, यथा-
देवो रक्षतु वः किलानन-परिव्याकीर्ण-चूडा-भरां
भर्तुर् भस्मनि पेतुषीं करतल-व्यामृष्ट-पार्श्व-क्षितिम् ।
हा प्राणेश्वर हा स्मरेति रुदतीं बास्पाकुलाक्षीं रतिं
दृष्ट्वा यस्य ललाट-लोचनम् अपि व्याप्ताश्रु निर्वापितम्
अत्र रति-गत-शोच्य-दशा-विलोकनेन देवस्य शोको बाष्पोद्गमेन व्यज्यते ।
आत्म-गतैर्, यथा-
अयि कर्ण कर्ण-सुभगां प्रयच्छ मे
गिरम् उद्वमन्न् इव मुदं मयि स्थिराम् ।
सततावियुक्तम् अकृताप्रियं कथं
वृषसेन-वत्सल विहाय यासि माम्
(वे.सं. 5.14)
स्याद् एष मृति-पर्यन्तः स्व-परस्थैस् तु मध्यमे । 145
अनतिव्यक्त-रुदित-प्रमुखास् तत्र विक्रियाः
स्वगतैर् मध्यमस्य, यथा करुणा-कन्दले-
न्यायोपाधिर् अयं यद् अश्रु-कणिका मुञ्चन्ति बन्धु-व्यये
रागोपाधिर् अयं त्यजन्ति विषयान् यज् ज्ञातयो दुस्त्यजान् ।
प्राणानां पुनर् उत्क्रमः किम् उपधिस् तत् केन विज्ञायते
देवं चानकदुन्दुभिं दशरथं चेक्ष्वाकु-वंश्यं विना
अत्र वसुदेवस्य बन्धु-विपत्तिजः शोकः प्राणोत्क्रमणेन व्यज्यते ।
पर-गतैर्, यथा-
निर्भिद्यन्त इवाङ्गकान्य-सुहरैर् आक्रन्द-संस्तम्भनैः
कण्ठे गर्व-निरुद्ध-बाष्प-विगमे वाचां गतिर् गद्गदा ।
धावत्य् अन्तर-संस्तुतान् अपि जनान् कण्ठे ग्रहीतुं मनः
काष्ठा तस्य ममेदृशी यदुकुले कुल्यः कथं जीवति
[*14]
[*14] करुणा-कन्दलाद् इति भाति ।
अत्र यदु-कुल-ध्वंसनेन नारदस्य शोकः ।
हेतुभिः स्वगतैर् एव प्रायः स्त्री-नीचयोर् अयम् । 146
मरण-व्यवसायान्तस् तत्र भू-परिवेष्टनम् ।
उरस्ताडन-निर्भेद-पातोच्चै रोदनादयः
147
अथ नीच-गतो, यथा करुणा-कन्दले-
कचैर् अर्ध-च्छिन्नैः कर-निहित-रक्तैः कुच-तटैर्
नखोत्कृत्तैर् गण्डैर् उपल-हति-शीर्णैश् च निटिलैः ।
विदीर्णैर् आक्रन्दाद् विकल-गदितैः कण्ठ-विवरैर्
मनस् तक्ष्णोत्यन्तः-पुर-परिजनानां स्थितिर् इयम्
स्त्री-गतो, यथा-
अथ सा पुनर् एव विह्वला
वसुधालिङ्गन-धूसर-स्तनी ।
विललाप विकीर्ण-मूर्धजा
सम-दुःखाम् इव कुर्वती स्थलीम्
[कु.सं. 4.4]
अथ जुगुप्सा-
अहृद्यानां पदार्थानां दर्शन-श्रवणादिभिः ।
सङ्कोचनं यन् मनसह् सा जुगुप्सात्र विक्रियाः
148
नासापिधानं त्वरिता गतिर् आस्य-विकूणनम् ।
सर्वाङ्ग-धूननं कुत्सा मुहुर् निष्ठीवनादयः
149
अहृद्य-दर्शनाद्, यथा-
निष्टाप-स्विद्यद्-अस्थ्नः क्वथन-परिणमन् मेदसः प्रेतकायान्
आकृष्यासक्त-धूपान् अपि कुणप-भुजो भूयसीभ्यश् चिताभ्यः ।
उत्पक्व-स्रंसि मांस-प्रचलद्-उभयतः सन्धि-निर्मुक्त-माराद्
एते निश्चूष्य जङ्घान् अलकम् उदयिनीर् मज्ज-धाराः पिबन्ति
(मा.मा. 5.17)
अत्र जङ्घा-निश्चूषण-मज्ज-धारा-पानादि-जनिता पिशाच-विषया माधवस्य जुगुप्सा गर्हणेन एते कुणप-भुज इत्य् अनेन व्यज्यते ।
श्रवणाद्, यथा-
मेदो-मज्जा-शोणितैः पिच्छिलेऽ न्तस्
त्वक्-प्रच्छन्ने स्नायु-बद्धास्थि-सन्धौ ।
साधुर् देहे कर्म-चण्डाल-गेहे
बध्नात्य् उद्यत्-पूति-गन्धे रतिं कः
अत्र कस्यचिद् वस्तु-तत्त्व-विचारागम-श्रवण-जनिता देहे जुगुप्सा-रूपा निन्दा व्यज्यते ।
घृणा शुद्धा जुगुप्सान्या दश-रूपे निरूपिता ।
सा हेय-श्रवणोत्पन्न-जुगुप्साया न भिद्यते
150
अथ भयम्-
भयं तु मन्तुना घोर-दर्शन-श्रवणादिभिः ।
चित्तस्यातीव चाञ्चल्यं तत् प्रायो नीच-मध्ययोः
151
उत्तमस्य तु जायेत कारणैर् अतिलौकिकैः ।
भये तु चेष्टा वैवर्ण्यं स्तब्धत्वं गात्र-कम्पनम्
152
पलायनं परावृत्य वीक्षणं स्वात्म-गोपनम् ।
आस्य-शोषणम् उत्क्रोश-शरणान्वेषणादयः
153
मन्तुर् अपराधः । तस्माद्, यथा-
विभूषण-प्रत्युपहार-हस्तम्
उपस्थितं वीक्ष्य विशाम्पतिस् तम् ।
सौपर्णम् अस्त्रं प्रतिसञ्जहार
प्रह्वेष्व् अनिर्बन्ध-रुषो हि सन्तः
(र.वं. 16.80)
घोर-दर्शनाद्, यथा-
पराजितश् चोल-भयेन पाण्ड्यः
पलायमानो दिशि दक्षिणस्याम् ।
समाकुलो वारिनिधिं विगाह्य
सेतु-च्छिदं दाशरथिं निनिन्द
अत्र युद्ध-संरम्भ-भीमस्य चोलस्य दर्शनात् पाण्ड्यस्य भयं पलायनादिभिर् व्यज्यते ।
घोर-श्रवणाद्, यथा-
श्रुत्वा निःसाण-राणं रण-भुवि भवतो माधव-क्ष्माधवेन्द्र
प्राप्य प्रत्यर्थि-वीराः कुल-शिखरि-गुहां गूढ-गाढान्धकाराम् ।
लीना लून-प्रतापा निज-कटक-मणि-श्रेणिकान्ति-प्रकर्ष-
स्रष्टारं नष्ट-धैर्याः कमल-भुवम् अहो हन्त निन्दन्ति मन्दम्
अतिलौकिकात् कारणाद् उत्तमस्य, यथा-
अशक्नुवन् सोढुम् अधीर-लोचनः
सहस्र-रश्मेर् इव यस्य दर्शनम् ।
प्रविश्य हेमाद्रि-गुहा-गृहान्तरं
निनाय बिभ्यद् दिवसानि कौशिकः
[माघ 1.53]
अत्र वर्णनीयतया उत्तम-रावणं प्रति देवेन्द्रस्य (भीतत्व-वर्णनात्) मध्यमत्वं (एवेति तस्य उत्तमत्वं कथम् इति) नाशङ्कनीयम् । यतः प्रकृतिर् एव कारणं पुंसाम् उत्तमत्वे । न तु वर्णना । वर्णनायाः कारणत्वे प्रियेण तस्यानपराध-बाधिताः (माघे 1.61) इत्य् आदिभिः औग्र्यादि-भाव-कथनम् (वर्णनीयतया) उत्तमस्य रावणस्य नोचितं स्यात् । तस्माद् उत्तम-प्रकृतेर् अपि देवेन्द्रस्य लोकातिरिक्त-वर-प्रभाव-भीषणाद् रावणाद् भयम् उपपद्यते ।
उत्तमस्यापि हेतुज-भयानङ्गीकारे-
विद्राणे द्रव्य-नाथे सवितरि तरले जात-शङ्के शशाङ्के
वैकुण्ठे कुण्ठ-गर्वे द्रवति मघवति क्लान्त-कान्तौ कृतान्ते ।
अब्रह्म्ण्यं ब्रुवाणे वियति शत-धृताव् उद्धृतैकाग्र-हस्ते
पायाद् वः काल-कूटं झटिति कवलयन् लीलया नील-कण्ठः
इत्य् अत्र विद्राव-तारल्यादिभिर् उद्घोषितस्य द्रव्य-नाथ-सवित्रादि-गत-भयस्य अपलापः कथम् अभिधेयः । तद्-अपलापे च काल-कूट-भक्षणस्य सुकरत्वात् तत्-कार्य-निर्वहणैक-प्राणस्य नीलकण्ठ-प्रभावोत्कर्षस्य कथं मस्तकोन्नमनं स्यात् ।
हेतुजाद् इतरे प्रोक्ते भये सोढल-सूनुना ।
कृत्रिमं तूत्तम-गतं गुर्व्-आदीन् प्रत्यवास्तवम्
154
विभीषिकोत्थं बालादेर् वित्रासितकम् इत्य् उभे ।
तत्रान्त्यम् अन्तर्भूतं स्याद् घोर-श्रवणजे भये
155
भिक्षु-भल्लूक-चोरादि-सूचना-कल्पितत्वतः ।
आद्यं तु युक्ति-काक्ष्यायां भय-कक्ष्यां न गाहते
156
गुर्व्-आदि-संनिधौ यस्मान् नीचैः स्थित्य्-आदि-सूचितम् ।
भावो विनय एव स्याद् अथ स्यान् नाटके यदि
157
अवहित्थतया तस्य भयत्वं दूरतो गतम् ।
अतो हेतुजम् एवैकं भयं स्याद् इति निश्चयः
158
तथा च भारतीये-
एतत् स्वभावजं स्यात्
सत्त्व-समुत्थं तथैव कर्तव्यम् ।
पुनर् एभिर् एव भावैः
कृतकं मृदु-चेष्टितैः कार्यम्
इति । (ना.शा. 6.71)
ननु चात्र स्वभावजं कृतकं चेति द्विविधं भयं प्रतीयते । तस्मात् तद्-विरोध इति चेत्, मैवम् । भरताद्य्-अभिप्रायम् अजानतां पेलवोक्ति-मात्र-तात्पर्येण न शङ्कितव्यम् । तथा हि-यथा लोके मञ्जिष्ठादि-द्रव्यं सहजो रक्तिमा गाढतरं व्याप्नोति । एवं मध्य-नीचयोर् भयं स्वल्प-कारण-मात्रेऽ पि सहजवद् दृश्यत इति सहजम् इत्य् उपचर्यते । यथा कृतको लाक्षा-रसः प्रयत्न-सज्जितोऽ पि काष्ठादिकम् अन्तर् न व्याप्नोति, एवम् उत्तम-गतं भयम् इति अलौकिक-कारण-प्रकर्षेणापि कृतकवद् एव प्रतीयत इति कृतकम् इत्य् उपचर्यते । अन्यथा (तस्य वास्तवत्वे) स्वाभाविकस्य भयस्य दाम-दर्शनेऽ पि समुत्पत्ति-प्रसङ्गात् ।
ननु यदि स्वाभाविकं भयं (उत्तमस्य) न विद्यते (तर्हि)-
द्वारे नियुक्त-पुरुषानुमत-प्रवेशः
सिंहासनान्तिक-चरेण सहोपसर्पन् ।
तेजोभिर् अस्य विनिवारित-दृष्टि-पातैर्
वाक्याद् ऋते पुनर् इव प्रतिवारितोऽ स्मि
(मा.अ.मि. 1.12)
इत्य् आदिषु कथं भयोत्पत्तिर् इति चेद् उच्यते । भीषणास् त्रिविधाः-आकृति-भीषणाः क्रिया-भीषणाः माहात्म्य-भीषणाश् चेति । तत्राकृति-भीषणाः रक्षः-पिशाचादयः । क्रिया-भीषणाः वीरभद्र-परशुराम-शार्दूल-वृकादयः । माहात्म्य-भीषणा देव-नरदेवादयः । ततोऽ त्र माहात्म्य-भीषण-राज-दर्शनाद् भयं नाट्याचार्यस्य (हर-दत्तस्य) जायते । न पुनः स्वभावात् । तद् एतन् निःशंशयं कृतम् अहो दुरासदो राज-महिमा इति पूर्व-वाक्यं ग्रथ्नता तेनैव कालिदासेनेति सर्वं कल्याणम् ।
भोजेनोक्ताः स्थायिनोऽ न्ये गर्वः स्नेहो धृतिर् मतिः ।
स्थास्नुर् एवोद्धत-प्रेयः शान्तोदात्त-रसेष्व् अपि । 159
तत्र स्नेहो रतेर् भेदस् त्रिधा चेच्छात्म-तत्-कृतः
तथा हि-इदं खलु तेनैव प्रेयो-रस-वादिना महाराजेनोदाहृतम्-
यद् एव रोचते मह्यं तद् एव कुरुते प्रिया ।
इति वेत्ति न जानाति तत् प्रियं यत् करोति सा
इति ।
तेनैव व्याकृतं च-वत्सल-प्रकृतेर् धीर-ललित-नायकस्य प्रियालम्बन-विभावाद् उत्पन्नः स्नेहः स्थायि-भावो विषय-सौन्दर्यादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमानैर् मति-धृति-स्मृत्य्-आदिभिर् व्यभिचारि-भावैर् अनुभावैश् च प्रशंसादिभिः संसृज्यमानो निष्पन्नः प्रेयो-रस इति प्रतीयते । रति-प्रीत्योर् अपि चायम् एव मूल-प्रकृतिर् इष्यते ।
न तावद् अस्य स्नेहस्य रतिं प्रति मूल-प्रकृतित्वम् । रत्य्-अङ्कुर-दशायाम् अस्यासम्भवात् । सम्भोगेच्छा-मात्रं हि रतिः । सैव प्रेम-मान-प्रणयाख्याभिस् तिसृभिः पूर्व-दशाभिर् उत्कटीभूता चतुर्थ-दशायां चित्त-द्रवी-भाव-लक्षण-स्नेह-रूपताम् आप्नोति । तथा च भाव-प्रकाशिकायाम्-
इयम् अङ्कुरिता प्रेम्णा मानात् पल्लविता भवेत् ।
सकोरका प्रणयतः स्नेहात् कुसुमिता भवेत्
इति ।
अतोऽ स्मिन्न् उदाहरणे स्नेहस्य रति-रूपेणैवास्वाद्यत्वं न पृथक् स्थायित्वेन । एवं च स्नेहस्य रति-भेदत्व-कथनात् प्रेयो-रसस्यापि शृङ्गाराद् अपृथक्त्वम् अर्थ-सिद्धम् ।
अन्ये पोषा-सहिष्णुत्वान् नैव स्थायि-पदोचिताः
160
तथापि गर्व-स्थायित्वम् उदाहृतम्-
अपकर्ताहम् अस्मीति मा ते मनसि भूद् भयम् ।
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति
(स.क.आ., काव्यादर्श 2.293)
व्याकृतं च-अत्र मयापकारः कृत इति यत् ते चेतसि भयं तन् मा भूत् । मम खड्गः पराङ्मुखेषु न कदाचिद् अपि परहर्तुम् उत्सहत इति सर्वथैव रूढोऽ हङ्कारः प्रतीयते । सोऽ यं गर्व-प्रकृतिर् उद्धतो नाम रसो निष्पद्यते इति ।
न तावद् अत्र गर्वः । किं तु पूर्वम् अपकर्तारं पश्चाद् भीतं द्विषन्तम् अवलोक्य जातया सम-रवि-मुखं न हन्मि मा भैषीर् इति वाक्-सूचितया नीचे दयया कस्यचिद् वीर-सार्वभौमस्य शोभा नाम पौरुष-सात्त्विक-भावः प्रतीयते । यदि वा अभीतम् अपि शत्रुं भीतो यदि तर्हि पलायस्वेत्य् अधिक्षिपतीति गर्व इति चेद् अस्तु वा गर्वः । तथाप्य् असत्यभीतिकल्पना-रूप-चित्ताध्यवसाय-प्रकाशन-द्वारेण शत्रु-गत-क्रोधम् एव पुष्णाति । किं च विमुखाप्रहार-रूपात्म-सम्भावना-रूप-गर्वस्य असत्य-भीति-कल्पनोपबृंहणात् पोषो भावकानां वैरस्याय, न केवलं स्वादाभावायेति नास्मिन्न् उदाहरणे गर्वस्य स्थायित्वम् उपपद्यते ।
धृतेः स्थायित्वम् अपि तेनैवोदाहृतम्, तथा हि-
सर्वाः सम्पत्तयस् तस्य सन्तुष्टं यस्य मानसम् ।
उपानद्-गूढ-पादस्य ननु चर्मास्तृतैव भूः
(स.क.आ.) इति ।
व्याकृतं च । अत्र कस्यचिद् उपशान्त-प्रकृतेर् धीर-शान्त-नायकस्य अर्थोपगमन-मनोऽ नुकूल-दारादि-सम्पत्तेर् आलम्बन-विभाव-भूतायाः समुत्पन्नो धृति-स्थायि-भावो वस्तु-तत्त्वालोचनादिभिर् उद्दीपन-विभावैर् उद्दीप्यमानः समुपजायमान-स्मृति-मत्य्-आदिभिर् व्यभिचारि-भावैर् वाग्-आरम्भादिभिश् चानुभावैर् अनुषज्यमानो निष्पन्नः शान्तो रस इति गीयते । अन्ये पुनर् अस्य शमं प्रकृतिम् आमनन्ति । स तु धृतेर् एव विशेषो भविष्यतीति ।
अत्र तावद् अनुकूल-दार-सिद्धि-जनितायाः धृतेस् तु रति-परतन्त्रत्वम् आबाल-गोपाल-प्रसिद्धम् । ननु, वस्तुतत्त्वालोचनादिभिर् अस्याः स्थायित्वं कल्प्यते इति चेत्, न । नैःस्पृह्य-वासना-वासिते भावक-चित्ते विभावादिष्व् अपि नैःस्व्पृह्योन्मेषाद् धृतेर् मूल-च्छेद-प्रसङ्गात् । अर्थ-सम्पत्ति-जनिता धृतिस् तु अगृध्नु-लक्षण-लोकोत्तरत्व-प्राप्ति-व्यवसाय-रूपम् उत्साहम् अनुसरन्ती वीरोपकरणताम् आप्नोतीति नात्र धृतेः स्थायित्वम् । धृति-स्थायित्व-निराकरण-संरम्भेणैव नष्टस् तद्-विषयः शम-स्थायी कुत्र वा लीनो न ज्ञायते ।
मतेः स्थायित्वं तेनैवोदाहृतम् । तथा हि-
साधारण्यान् निरातङ्कः कन्याम् अन्योऽ पि याचते ।
किं पुनर् जगतां जेता प्रपौत्रः परमेष्ठिनः
[म.वी.च. 1.31] इति ।
व्याकृतं च-रामस्य उदात्त-प्रकृतेर् निसर्गत एव तत्त्वाभिनिवेशिनी मतिर् नान्य-विषये प्रवर्तते । न च प्रवृत्ता उपरमति । सा च सीतेयं मम स्वीकार-योग्येत्य् एवं-रूपेण प्रवृत्ता रावण-प्रार्थना-लक्ष्मण-प्रोत्साहनाभ्याम् उद्दीप्यमाना समुपजायमान-चिन्ता-वितर्क-व्रीडावहित्थ-स्मृत्य्-आदिभिः कालोचितोत्तरानु-मीयमानैर् विवेक-चातुर्य-धैर्यौदार्यादिभिः संसृज्यमाना उदात्त-रस-रूपेण निष्पद्यते इति ।
अत्र तावत् सीता-विषया आत्म-स्वीकार-योग्यत्व-निश्चय-रूपा रामस्य मतिस् तु रतेर् उत्पत्ति-मात्र-कारणम् एव । तद्-अनिश्चये रतेर् अनौचित्यात् । अत्र कन्यायाः साधारण्य-निश्चयो मतिः । तस्याः स्थायित्वम् इच्छाम इति चेत्, न । सा हि रावण-विषय-लज्जासूया-दोष-निवारण-द्वारेण कार्य-करणापराङ्मुखीभाव-लक्षण-लोकोत्तर-तत्-प्राप्ति-व्यवसाय-रूपा रामोत्साहं भावकास्वाद-योग्यतया प्रोत्साहयति ।
तद् अष्टाव् एव विज्ञेयाः स्थायिनो मुनि-संमताः ।
स्थायिनोऽ ष्टौ त्रयस्त्रिंशच् चारिणोऽ ष्टौ च सात्त्विकाः
161
एवम् एकोनपञ्चाशद् भावाः स्युर् मिलिता इमे ।
एवं हि स्थायिनो भावान् सिंह-भूपतिर् अभ्यधात्
162
अथैषां रस-रूपत्वम् उच्यते सिंह-भूभुजा ।
विद्वन्-मानस-हंसेन रस-भाव-विवेकिना
163
एते च स्थायिनः स्वैः स्वैर् विभावैर् व्यभिचारिभिः ।
सात्त्विकैश् चानुभावैश् च नटाभिनय-योगतः
164
साक्षात्कारम् इवानीताः प्रापिताः स्वादु-रूपताम् ।
सामाजिकानां मनसि प्रयान्ति रस-रूपताम्
165
दध्यादि-व्यञ्जन-द्रव्यैश् चिञ्चादिभिर् अथौषधैः ।
गुडादि-मधुर-द्रव्यैर् यथा-योगं समन्वितैः
166
यद्वत् पाक-विशेषेण षाडवाख्यो रसः परः ।
निष्पद्यते विभावाद्यैः प्रयोगेण तथा रसः । 167
सोऽ यम् आनन्द-सम्भेदो भावकैर् अनुभूयते
ननु नायक-निष्ठस्य स्थायि-प्रकर्ष-लक्षणस्य रसस्य सामाजिकानुभव-योग्यता नोपपद्यते । अन्य-भवस्य तस्यान्यानुभवायोगात् इति चेत् सत्यम् । को वा नायक-गतं रसम् आचष्टे । तथा हि-स च नायको दृष्टः श्रुतोऽ नुकृतो वा रसस्याश्रयताम् आलम्बते । नाद्यः । साक्षाद् दृष्ट-नायक-रत्यादेर् व्रीडा-जुगुप्सादि-प्रतीप-फलत्वेन स्वादाभावात् । न द्वितीय-तृतीयौ । तयोर् अविद्यमानत्वात् । न ह्य् असति आश्रये तद्-आश्रितस्यावस्थानम् उपपद्यते ।
ननु भवतु नामैवम् । तथापि रसस्य नट-गतत्वे न सामाजिकानुभवानुपपत्तिर् इति चेत्, न । नटे रस-सम्भवः किम् अनुभावादि-सद्-भावेन विभावादि-सम्भवेन वा । नाद्यः, अभ्यास-पाटवादिनापि तत्-सिद्धेः । किं च सामाजिकेषु यथोचितम् अनुभाव-सद्भावेऽ पि त्वया तेषां रसाश्रयतानङ्गीकारात् । यदि विभावेन तत्रापि किम् अनुकार्य-मालविकादिना (उत) अनुकारिणा स्वकान्तादिना वा । नाद्यः, अनौचित्यात् । नापि द्वितीयः, नटे साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः ।
ननु, मालाविकादि-विभाव-विशेषस्यानौचित्यात् (स्व-वि-)भावस्यासंनिहितत्वात् (सन्निहितत्वेऽ पि साक्षाद्-दृष्ट-नायकवद् अश्लीलता-प्रतीतेः) च सामाजिकानाम् अपि नटवद् एव रसान् आश्रयत्वं प्रसज्यते इति चेत्, अत्र केचन समादधते-
विभावादि-भावानाम् अनपेक्षित-बाह्य-सत्त्वानां शब्दोपधानाद् एवासादित-सद्-भावानाम् अनुकार्यापेक्षया निःसाधारणानाम् अपि काव्ये नाट्ये च अभिधा-पर्यायेण साधारणीकरणात्मना भावना-व्यापारेण स्व-सम्बन्धितया विभावितानां साक्षाद् भावक-चेतसि विपरिवर्तमानानाम् आलम्बनत्वाद्य्-अविरोधाद् अनौचित्यादि-विप्लव-रहितः स्थायी निर्भरानन्द-विश्रान्ति-स्वभावेन भोगेन भावकैर् भुज्यते इति ।
अन्ये त्व् अन्यथा समाधानम् आहुः । लोके प्रमदादि-कारणादिभिः स्थाय्य्-अनुमाने अभ्यास-पाटववतां सहृदयानां काव्ये नाट्ये च विभावादि-पद-व्यपदेश्यैः (ममैवैते शत्रोर् एवैते तटस्थस्यैवैते न ममैवैते न शत्रोर् एवैते न तटस्थस्यैवैते इति सम्बन्ध-विशेष-स्वीकार-परिहार-नियमान् अध्यवसायात्) स्व-सम्बन्धित्वेन अन्य-सम्बन्धित्वेन च साधारण्यात् प्रतीतैर् अभिव्यक्तीभूतो वासनात्मतया स्थितः स्थायी रत्यादिः पानक-रस-न्यायेन चर्व्यमाणो लोकोत्तर-चमत्कार-कारी परमानन्दम् इव कन्दलयन् रस-रूपताम् आप्नोतीति ।
एवं च भुक्ति-व्यक्ति-पक्षयोर् उभयोर् अपि सामाजिकानां रसाश्रयत्वोपपत्तेर् अन्यतर-पक्ष-परिग्रहाग्रहाद् उदास्महे ।
प्रायेण भारतीय-मतानुसारिणां प्रक्रिया तु (इत्थम्)-लोके कारण-कार्य-सहकारिताम् उपगतैः काव्ये नाट्ये वा सरस-सूक्ति-सुधा-माधुरी-धुरीणैर् यथोक्ताभिनय-समेतैर् वा पदार्थत्वेन विभावानुभाव-सञ्चारि-व्यपदेशं प्रापितैः नायिका-नायक-चन्द्र-चन्द्रिका-मलयानिलादि-भ्रू-विक्षेप-कटाक्ष-पात-स्वेद-रोमाञ्चादि-निर्वेद-हर्षादि-रूपैर् वासनात्मकैर् आत्म-सम्बन्धित्वेनाभि-मतैर् भावैः धर्म-कीर्ति-रतानां षड्-अङ्ग-नाट्य-समय-ज्ञानां नाना-देश-वेष-भाषा-विचक्षणानां निखिल-कला-कलाप-कोविदानां सन्त्यक्त-मत्सराणां सकल-सिद्धान्त-वेदिनां रस-भाव-विवेचकानां काव्यार्थ-निहित-चेतसां सामाजिकानां मनसि मुद्रा-मुदित्र-न्यायेन विपरित्वर्तिताः वासिताश् चाभिवर्धिताः स्थायिनो भावाः (वाक्यार्थ-स्थानीयाः) काव्यार्थत्वेनाभिमताः बाह्यार्थावलम्बनात्मकाः सन्तो विकास-विस्तर-क्षोभ-विक्षेपात्मकतया विभिन्नाः तत्-तद्-रूपेण (रत्य्-उत्साहादि-रूपेण सामाजिकैः) आस्वाद्यमानाः परमानन्द-रूपताम् आप्नुवन्तीति सकल-सहृदय-संवेदन-सिद्धस्य रसस्य प्रमाणान्तरेण संसाधन-परिश्रमः श्रोतृ-जन-चित्त-क्षोभाय न केवलं, प्रत्युत नोपयोगायेति प्रकृतम् अनुसरामः ॥
अष्टधा स च शृङ्गार-हास्य-वीराद्भुता अपि । 168
रौद्रः करुण-बीभत्सौ भयानक इतीरितः
एषूत्तरस् तु पूर्वस्मात् सम्भूतो विषमात् समः । 169
बहु-वक्तव्यता-हेतोः सकलाह्लादनाद् अपि
रसेषु तत्र शृङ्गारः प्रथमं लक्ष्यते स्फुटम् । 170
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः
नीता सदस्य-रस्यत्वं रतिः शृङ्गार उच्यते । 171
स विप्रलम्भः सम्भोग इति द्वेधा निगद्यते
अयुक्तयोस् तरुणयोर् योऽ नुरागः परस्परम् । 172
अभीष्टालिङ्गनादीनाम् अनवाप्तौ प्रकृष्यते
स विप्रलम्भो विज्ञेयः स चतुर्धा निगद्यते । 173
पूर्वानुराग-मानौ च प्रवास-करुणाव् इति
अत्रायम् अर्थः-नायिका-नायकयोः प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा (परस्परम् अनुरक्तयोः) स्वोचित-विभावैर् अनुभाविश् चोपजायमानः परस्परानुरागोऽ न्यतरानुरागो वा स्वाभिलषितालिङ्गनादीनाम् अनवाप्तौ सत्याम् उत्पद्यमानैर् व्यभिचारिभिर् अनुभावैश् च प्रकृष्यमाणो विप्रलम्भ-शृङ्गार इत्य् आख्यायते । स च पूर्वानुरागादि-भेदेन चातुर्विध्यम् आपद्यते ।
तत्र पूर्वानुरागः-
यत् प्रेम सङ्गमात् पूर्वं दर्शन-श्रवणादिभिः । 174
पूर्वानुरागः स ज्ञेयः श्रवणं तद्-गुण-श्रुतिः
श्रवणेन पूर्वानुरागो, यथा-
साधु त्वया तर्कितम् एतद् एव
स्वेनानलं यत् किल संश्रयिष्ये ।
विनामुना स्वात्मनि तु प्रहर्तुं
मृषा-गिरं त्वां नृपतौ न कुर्याम्
(नैषधीये 3.77)
अत्र हंस-मुखान् नल-गुण-श्रवणेन दमयन्त्याः पूर्वानुरागः ।
प्रत्यक्ष-चित्र-स्वप्नादौ दर्शनं दर्शनं मतम् ॥367॥ 175
प्रत्यक्ष-दर्शनाद्, यथा-
तं वीक्ष्य सर्वावयवानवद्यं
न्यवर्तनान्योपगमात् कुमारी ।
न हि प्रफुल्लं सहकारम् एत्य
वृक्षान्तरं काङ्क्षति षट्-पदाली
(र.वं. 6.69)
चित्र-दर्शनेन, यथा-
लीलावधूत-कमला कलयन्ती पक्षपातम् अधिकं नः ।
मानसम् उपैति केयं चित्र-गता राजहंसीव
(रत्नावली 2.8)
अत्र चित्रगत-रत्नावली-दर्शनाद् वत्स-राजस्य पूर्वानुरागः ।
स्वप्न-दर्शनेन, यथा-
स्वप्ने दृष्टाकारा तम् अपि समादाय गतवती भवती ।
अन्यम् उपायं न लभे प्रसीद रम्भोरु दासाय
अत्र काम् अपि स्वप्ने दृष्टवतः कस्यचिन् नायकस्य पूर्वानुरागः ।
यतः पूर्वानुरागोऽ यं सङ्कल्पात्मा प्रवर्तते ।
सोऽ यं पूर्वानुरागाख्यो विप्रलम्भ इतीरितः
176
पारतन्त्र्याद् अयं द्वेधा दैव-मानुष-कल्पनात् ।
तत्र सञ्चारिणो ग्लानिः शङ्कासूये श्रमो भयम्
177
निर्वेदौत्सुक्य-दैन्यानि चिन्ता-निद्रे प्रबोधता ।
विषादो जडतोन्मादो मोहो मरणम् एव च
178
तत्र दैव-पारतन्त्र्येण, यथा-
शैलात्मजापि पितुर् उच्छिरसोऽ भिलाषं
व्यर्थं समर्थ्य ललितं वपुर् आत्मनश् च ।
सख्योः समक्षम् इति चाधिक-जात-लज्जा
शून्या जगाम भवनाभिमुखी कथंचित्
(कु.सं. 3.75)
अत्र जनकाद्य्-आनुकूल्येऽ पि दैव-पारतन्त्र्येण पार्वत्याः पूर्वानुरागः ।
मानुष-पारतन्त्र्येण, यथा-
दुल्लहो पिओ मे तस्मिं भव हिअअ णिरासं
अम्मो अपंगो मे परिप्फुरै किं बि वामो ।
एसो सो चिर-दिट्ठो कहं उण दक्खिदब्बो
णाह मं पराहीणं तुइ परिगणअ सतिण्हं
(मा.अ.मि. 2.4)
[दुर्लभः प्रियो मे तस्मिन् भव हृदय-निरासं
अम्हो अपाङ्गो मे परिस्फुरति किम् अपि वामः ।
एष स चिर-दृष्टः कथं पुनर् द्रष्टव्यः
नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥]
अत्र (चतुष्पद-वस्तुके गीते) देवयानी-पारतन्त्र्येण शर्मिष्ठायाः ययाति-विषयः पूर्वानुरागः ।
एतस्मिन्न् अभिलाषादि मरणान्तम् अनेकधा ।
तत्-तत्-सञ्चारि-भावानाम् उत्कटत्वाद् दशा भवेत्
179
तथापि प्राक्तनैर् अस्या दशावस्थाः समासतः ।
प्रोक्तास् तद्-अनुरोधेन तासां लक्षणम् उच्यते
180
अभिलाषश् चिन्तानुस्मृति-गुण-सङ्कीर्तनोद्वेगाः ।
सविलापा उन्माद-व्याधी जडता मृतिश् च ताः क्रमशः
181
तत्र अभिलाषः-
सङ्गमोपाय-रचित-प्रारब्ध-व्यवसायतः ।
सङ्कल्पेच्छा-समुद्भूतिर् अभिलाषोऽ त्र विक्रियाः
182
प्रवेश-निर्गमौ तूष्णीं तद्-दृष्टि-पथ-गामिनौ ।
राग-प्रकाशन-पराश् चेष्टाः स्वात्म-प्रसाधनम् । 183
व्याजोक्तयश् च विजने स्थितिर् इत्य् एवम् आदयः
यथा-
अलोलैश् च श्वास-प्रविदलित-लज्जा-परिमलैः
प्रमोदाद् उद्वेलैश् चकित-हरिणी-वीक्षण-सखैः ।
अमन्दैर् औत्सुक्यात् प्रणय-लहरी-मर्म-पिशुनैर्
अपाङ्गैः सिंह-क्ष्मा-रमणम् अबला वीक्षितवती
अत्र राग-प्रकाशन-परैर् दृष्टि-विशेषैर् नायके कस्याश्चिद् अभिलाषो व्यज्यते ।
अथ चिन्ता-
केनोपायेन संसिद्धिः कदा तस्य समागमः । 184
दूती-मुखेन किं वाच्यम् इत्य् आद्य् ऊहस् तु चिन्तनम्
अत्र नीव्यादि-संस्पर्शः शय्यायां परिवर्तनम् । 185
स-बाष्पाकेकरा दृष्टिर् मुद्रिकादि-विवर्तनम् ।
निर्लक्ष्य-वीक्षणं चैवम् आद्या विकृतयो मताः
186
यथा-
उद्यानं किम् उपागतास्मि सुकृती देवो न किं दर्शितः
श्री-सिंहः स्व-सखी-मुखेन स कथं नेयः स किं वक्ष्यति ।
सिद्ध्येत् तेन कदा समागम इति ध्यानेन सव्याकुला
शय्यायां परिवर्तने श्वसिति च क्षिप्त्वा कपोलं करे
अथ अनुस्मृतिः-
अर्थानाम् अनुभूतानां देश-कालानुवर्तिनाम् । सान्तत्येन परामर्शो मानसः स्याद् अनुस्मृतिः
187
तत्रानुभावा निःश्वासो ध्याणं कृत्य-विहस्तता ।
शय्यासनादि-विद्वेष इत्य् आद्याः स्मर-कल्पिताः
188
यथा-
आरामे रतिराज-पूजन-विधावासन्न-सञ्चारिणो
व्यापाराननपोत-सिंह-नृपते रागानुसन्धायकान् ।
स्मारं स्मारम् अमुं क्षणं शशिमुखी श्वासैर् विवर्णाधरा
नान्यत् काङ्क्षति कर्म कर्तुम् उचितं नास्ते न शेते क्वचित्
अतह् गुण-कीर्तनम्-
सौन्दर्यादि-गुण-श्लाघा गुण-कीर्तनम् अत्र तु ।
रोमाञ्चो गद्गदा वाणी भाव-मन्थर-वीक्षणम् । 189
तत्-सङ्ग-चिन्तनं सख्या गण्ड-स्वेदादयोऽ पि च
यथा-
किं कामेन किम् इन्दुना सुरभिणा किं वा जयन्तेन किं
मद्-भाग्यआद् अनपोत-सिंह-नृपते रूपं मया वीक्षितम् ।
अन्यास् तत्-परिचर्ययेव सुदृशो हन्तेति रोमाञ्चिता
स्विद्यद्-गण्ड-तलं सगद्गद-पदं साख्याति सख्याः पुरः
अथ उद्वेगः-
मनसः कम्प उद्वेगः कथितस् तत्र विक्रियाः । 190
चिन्ता सन्ताप-निःश्वासौ द्वेषः शय्यासनादिषु ।
स्तम्भ-चिन्ताश्रु-वैवर्ण्य-दीनत्वादय ईरिताः
191
यथा-
सेवाया अनपोत-सिंह-नृपतेर् यातेषु राजस्व् अथो
तत्-स्त्रीभिश् चिरयत् सुतेषु विलसच्-चेतः-समुद्भ्रान्तिभिः ।
निःश्वास-ग्लपिताधरं परिपतत्-संरुद्ध-बाष्पोदयं
कामं स्निग्ध-सखी-जने विरचिता दीना दृशोर् वृत्तयः
अथ विलापः-
इह मे दृक्-पथं प्रापद् इहातिष्ठद् इहास्त च ।
इहालपद् इहावात्सीद् इहैव न्यवृतत् तथा
192
इत्य् आदि-वाक्य-विन्यासो विलाप इति कीर्तितः ।
तत्र चेष्टास् तु कुत्रापि गमनं क्वचिद् ईक्षणम् । 193
क्वचित् क्वचिद् अवस्थानं क्वचिच् च भ्रमणादयः
यथा-
अत्राभूद् अनपोत-सिंह-नृपतिस् तत्राहम् अस्मिन् लता-
कुञ्जे सादरम् ईक्षिताहम् इह मम् आनन्दयन् स स्मितैः ।
इत्य् आलापवती विलोकितम् अपि व्यालोकते सम्भ्रमाद्
यातं याति च सत्वरा तरु-तलं लीलात एकाकिनी
अथ उन्मादः-
सर्वावस्थासु सर्वत्र तन्-मनस्कतया सदा । 194
अतस्मिंस् तद् इति भ्रान्तिर् उन्मादो विरहोद्भवः
तत्र चेष्टास् तु विज्ञेया द्वेषः स्वेष्टेऽ पि वस्तुनि । 195
दीर्घं मुहुश् च निःश्वासो निर्निमेषतया स्थितिः ।
निर्निमित्त-स्मित-ध्यान-गान-मौनादयोऽ पि च
196
औत्सुक्याद् अनपोत-सिंह-नृपतेर् आकारम् आलिख्य सा
निर्वर्ण्यायम् असौ मम प्रिय इति प्रेमाभियोग-भ्रमात् ।
आशूत्थाय ततोऽ पसृत्य तरसा किंचिद् विवृत्तानना
सासूयं सदर-स्मितं स-चकितं साकाङ्क्षम् आलोकते
अथ व्याधिः-
अभीष्ट-सङ्गमाभावाद् व्याधिः सन्ताप-लक्षणः ।
अत्र सन्ताप-निःश्वासौ शीत-वस्तु-निषेवणम्
197
जीवितोपेक्षणं मोहो मुमूर्षा धृति-वर्जनम् ।
यत्र क्वचिच् च पतनं स्रस्ताक्षत्वादयोऽ पि च
198
यथा-
सङ्गत्याम् अनपोत-सिंह-नृपतेर् आसक्त-चेतो-गतैः
कन्दर्पानल-दीपितानि सुतनोर् अङ्गानि पर्याकुलाः ।
व्यालिम्पन् हिम-बालुका-परिचितैः श्री-गन्ध-सार-द्रवैः
सख्यः पाणि-तलानि पत्र-मरुता निर्वापयन्त्यो मुहुः
अथ जडता-
इदम् इष्टम् अनिष्टं तद् इति वेत्ति न किञ्चन ।
नोत्तरं भाषते प्रश्ने नेक्षते न शृणोति च
199
यत्र ध्यायति निःसंज्ञं जडता सा प्रकीर्तिता ।
अत्र स्पर्शानभिज्ञत्वं वैवर्ण्यं शिथिलाङ्गता । 200
अकाण्ड-हुङ्कृतिः स्तम्भो निःश्वास-कृशतादयः
यथा-
सङ्कल्पैर् अनपोत-सिंह-नृपतौ संरूढ-मूलाङ्कुरैर्
आक्रान्ता तनुतां गता स्मर-शरैः शातेव शातोदरी ।
अस्मन्-मूलम् इदं तनुत्वम् इति किं लज्जालसे लोचने
प्राप्ते पक्ष्म-पुटावृतिं रतिपतेस् तत्-केतनं जृम्भताम्
अथ मरणं-
तैस् तैः कृतैः प्रतीकारैर् यदि न स्यात् समागमः । 201
ततः स्यान् मरणोद्योगह् कामाग्नेस् तत्र विक्रियाः
लीला-शुक-चकोरादि-न्यासः स्निग्ध-सखी-करे । 202
कल-कण्ठ-कलालाप-श्रुतिर् मन्दानिलादरः ।
ज्योत्स्ना-प्रवेश-माकन्द-मञ्जरी-वीक्षणादयः
203
यथा-
तन्वी दर्शन-संज्ञयैव लैत्काम् आपृच्छ्य संवर्धितां
न्यासीकृत्य च शारिकां परिजने स्निग्धे समं वीणया ।
ज्योत्स्नाम् आविशती विशारद-सखी-वर्गेण कर्णान्तिके
सिक्तेन ह्य् अनपोत-सिंह-नृपतेर् नाम्ना पुनर् जीविता
अत्र केचिद् अभिलाषात् पूर्वम् इच्छोत्कण्ठा-लक्षणम् अवस्था-द्वयम् अङ्गीकृत्य द्वादशावस्था इति वर्णयन्ति । तत्रेच्छा पुनर् अभिलाषान् न भिद्यते । तत्-प्राप्ति-त्वरालक्षणा उत्कण्ठा तु चिन्तनान् नातिरिच्यते इत्य् उदासितम् ।
अथ मान-विप्रलम्भः-
मुहुः-कृतो मेति नेति प्रतिषेधार्थ-वीप्सया ।
ईप्सितालिङ्गनादीनां निरोधो मान उच्यते
204
सोऽ यं सहेतु-निर्हेतु-भेदाद् द्वेधात्र हेतुजः ।
ईर्ष्यया सम्भवेद् ईर्ष्या त्व् अन्यासङ्गिनि वल्लभे
205
असहिष्णुत्वम् एव स्याद् दृष्टेर् अनुमितेः श्रुतेः ।
ईर्ष्या-माने तु निर्वेदावहित्थ-ग्लानि-दीनताः । 206
चिन्ता-चापल्य-जडता-मोहाद्या व्यभिचारिणः
तत्र दर्शनेर्ष्या-मानो, यथा-
पच्चक्ख-मंतु-कारअ ज{इ} चुम्बसि मह इमे हद-कपोले ।
ता मज्झ पिअ-सहीए बिसेसओ कीस बिण्णओ
[प्रत्यक्ष-मन्तु-कारक यदि चुम्बसि ममैमौ हत-कपोलौ ।
ततो मम प्रिय-सख्या विशेषकः कस्माद् विज्ञातः ॥]
अत्र नायिका-कपोल-चुम्बन-व्याजेन तत्-प्रतिबिम्बितां सखीं चुम्बति नायके तद्-ईर्ष्यया जनितो नायिका-मानः प्रत्यक्ष-मन्तुकारकेत्य् अनया सम्बुद्ध्या व्यज्यते ।
भोगाङ्क-गोत्र-स्खलनोत्स्वप्नैर् अनुमितिस् त्रिधा
207
भोगाङ्कानुमिति-जनितेर्ष्यमानो, यथा ममैव-
को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया
[*15]
[*15] थिस् वेर्से अप्पेअरेद् प्रेविओउस्ल्य् इन् 1.125.
अत्र मणि-मालिकादि-लक्षण-मदन-मुद्रानुमिति-प्रियापराध-जनितेर्ष्या-सम्भूतो मानः तत् साध्व् एव कृतम् इत्य् आदिभिर् विपरीत-लक्षणोक्तिभिर् व्यज्यते ।
गोत्र-स्खलनेन यथा ममैव-
नाम-व्यतिक्रम-निमित्त-रुषारुणेन
नेत्राञ्चलेन मयि ताडनम् आचरन्त्याः ।
मा मा स्पृशेति परुषाक्षर-वाद-रम्यं
मन्ये तद् एव मुख-पङ्कजम् आयताक्ष्याः
उत्स्वप्नेर्ष्यया, यथा-
स्वप्न-कीर्तित-विपक्षम् अङ्गनाः
प्रत्यभित्सुर् अवदन्त्य एव तम् ।
प्रच्छदान्त-गलिताश्रु-बिन्दुभिः
क्रोध-भिन्न-वलयैर् विवर्तनैः
(र.वं. 19.22)
श्रुतिः प्रियापराधस्य श्रुतिर् आप्त-सखी-मुखात्
208अब्
श्रुति-जनितेर्ष्यया मानो, यथा-
अङ्गुल्य्-अग्र-नखेन बाष्य-सलिलं विक्षिप्य विक्षिप्य
किं तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेश-वचनैर् मानेऽ तिभूमिं गते
निर्विण्णोऽ नुनयं प्रति प्रियतमो मध्यस्थताम् एष्यति
(अमरु. 5)
अत्र पिशुन-सखी-जनोपदेश-जनितो मानो बाष्पादिभिर् व्यज्यते ।
कारणाभास-सम्भूतो निर्हेतुः स्याद् द्वयोर् अपि । 208
अवहित्थादयस् तत्र विज्ञेया व्यभिचारिणः
तत्र पुरुषस्य, यथा-
लिखन्न् आस्ते भूमिं बहिर् अवनतः प्राण-दयितो
निराहाराः सख्यः सतत-रुदितोच्छूण-नयनाः ।
परित्यक्तं सर्वं हसित-पठितं पञ्जर-शुकैस्
तवावस्था चेयं विसृज कठिने मानम् अधुना
(अमरु. 7)
यथा वा-
अलिअ-पसुत्तअ विणिमीलिअच्छ देहि सुहअ मज्झ ओआसं ।
गण्ड-परिचुंबणापुलैअङ्ग ण पुणो चिराइस्सं
(गा.स. 1.20)
(अलीक-प्रसुप्त विनिमीलिताक्ष देहि सुभग ममावकाशम् ।
गण्ड-परिचुम्बना-पुलकिताङ्ग न पुनश् चिरयिष्यामि ॥)
अत्रालीक-स्वापाक्षि-निमीलनादि-सूचित-पुरुष-मान-कारणस्य प्रसाधन-गृह-व्यापार-निमित्तं विलम्बनस्याभासत्वम् ।
स्त्रिया, यथा-
मुञ्च कोपम् अनिमित्त-लोचने
सन्ध्यया प्रणमितोऽ स्मि नान्यथा ।
किं न वेत्सि सहधर्म-चारिणं
चक्रवाक-सम-वृत्तिम् आत्मनः
(कु.सं. 8.57)
अत्र पार्वती-मान-कारणस्य परमेश्वर-कृत-सन्ध्या-प्रणामस्याभासत्वम् ।
ननु अलिअपसुत्तेत्य् अत्र गण्ड-परिचुम्बनस्य निषेधो नास्ति । एवं मुञ्च कोपम् इत्य् अत्र च निषेधो न श्रूयते । तत् कथम् अस्य निर्हेतुकस्य (मेति वा नेति वा निषेधाभावेऽ पि) मानत्वम् इति चेत् । मेति नेति वाचिक-निषेधस्य उपलक्सणत्वात् (अलिअपसुत्तेति) पूर्वस्मिन्न् उदाहरणे अप्रतिक्रियया चुम्बनानङ्गीकार-लक्षणो निषेधो विद्यत एव । अपरत्र (मुञ्च कोपम् इत्य् अत्र) पुनर् अनुत्तर-दानादिना अनङ्गीकार-लक्षणो निषेधो वक्तव्य एव ।
ननु निर्हेतुकस्य मानस्य भाव-कौटिल्य-रूप-मानस्य च को भेद इति चेद् उच्यते । निर्हेतुक-माने तु कोप-व्याजेन चुम्बनादि-विलम्बनात् प्रेम-परीक्षणं फलम् । भाव-कौटिल्य-माने तु चुम्बनाद्य्-अविलम्बः फलम् इति स्पष्ट एव तयोर् भेदः ।
निर्हेतुकः स्वयं शाम्येत् स्वयं ग्राहस्मितादिभिः
209
यथा-
इदं किम् आर्येण कृतं ममाङ्गे
मुग्धे किम् एतद् रचितं त्वयेति ।
तयोः क्रियान्तेष्व् अनुभोग-चिह्नैः
स्मितोत्तरोऽ भूत् कुहनाविरोधः
अत्र लक्ष्मी-नारायणयोर् अन्योन्य-मानस्य परस्पर-कृत-भोग-चिह्न-लक्षण-कारणाभास-जनितस्य स्मितोत्तरतया स्वयं शान्तिर् अवगम्यते ।
हेतुजस् तु शमं याति यथायोग्यं प्रकल्पितैः ।
साम्ना भेदेन दानेन नत्य्-उपेक्षा-रसान्तरैः । 210
तत्र प्रियोक्ति-कथनं यत् तु तत् साम गीयते
तत्र यथा ममैव-
अनन्य-साधारण एष दासः
किम् अन्यथा चेतसि शङ्कयेति ।
प्रिये वदत्य् आदृतया कयाचिन्
नाज्ञायि मानोऽ पि सखी-जनोऽ पि
अत्र प्रिय-सामोक्ति-जनिता कस्याश्चिद् मान-शान्तिः सखी-जन-मानाद्य्-अज्ञान-सूचितैर् आलिङ्गनादिभिर् व्यज्यते ।
सख्यादिभिर् उपालम्भ-प्रयोगो भेद उच्यते
211
यथा-
विहायैतन् मान-व्यसनम् अनयोस् तन्वि कुचयोर्
विधेयस् ते प्रेयान् यदि वयम् अनुल्लङ्घ्य-वचसः ।
सखीभ्यः स्निग्धाभ्यो गिरम् इति निशम्यैण-नयना
निवापाम्भो दत्ते नयन-सलिलैर् मान-सुहृदे
व्याजेन भूषणादीनां प्रदानं दानम् उच्यते
212अब्
यथा-
मुहुर् उपहसिताम् इवालि-नादैर्
वितरसि नः कलिकां किम्-अर्थम् एनाम् ।
अधिरजनि गतेन धाम्नि तस्याः
शठः कलिर् एव महांस् त्वयाद्य दत्तः
(शि.व. 7.55)
नतिः पाद-प्रणामः स्यात्
212च्
तया, यथा-
पिशुन-वचन-रोषात् किंचिद् आकुञ्चित-भ्रूः
प्रणमति निज-नाथे पाद-पर्यन्त-पीठम् ।
युवतिर् अलम् अपाङ्ग-स्यन्दिनो बाष्प-बिन्दून्
अनयत कुच-युग्मे निर्गुणां हार-वल्लीम्
तूष्णीं स्थितिर् उपेक्षणम्
212द्
यथा-
चरणोआसणिसण्णस्स तस्स भरिमो अणालबन्तस्स ।
पाअङ्गुट्ठाबेट्ठिअ केस-दिढाअड्ढण-सुहं
(गाथा 2.8)
[चरणावकाश-निषण्णस्य तस्य स्मरामोऽ नालपतः ।
पादाङ्गुष्ठावेष्ठित केश-दृढाकर्षण-सुखम् ॥]
अत्र शय्यायां चरणावकाश-स्थिति-मौनादिभिर् उपेक्षा । तया जनिता मानस्य शान्तिश् चरणाङ्गुष्ठ-वेष्टित-केश-दृढाकर्षणेन व्यज्यते ।
आकस्मिक-भयादीनां कल्पना स्यद् रसान्तरम् ।
यादृच्छिकं बुद्धि-पूर्वम् इति द्वेधा निगद्यते । 213
अनुकूलेन दैवेन कृतं यादृच्छिकं भवेत्
तेन मान-शान्तिर्, यथा-
मानम् अस्या निराकर्तुं पादयोर् मे पतिष्यतः ।
उपकाराय दिष्ट्यैतद् उदीणं घन-गर्जितम्
(का.आ. 2.290)
अत्र मान-प्रणोदन-घन-गर्जित-सन्त्रासस्य प्रिय-प्रयत्नैर् विना दैव-वशेन सम्भूतत्वाद् यादृच्छिकत्वम् ।
प्रत्युत्पन्न-धिया पुंसा कल्पितं बुद्धि-पूर्वकम्
214
यथा-
लीला-तामरसाहतोऽ न्य-वनिता-निःशङ्क-दष्टाधरः
कश्चित् केसर-दूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततयाथ सा नतिम् ऋते तेनानिशं चुम्बिता
(अमरु 72)
अत्र मानापनोदनस्य प्रिय-त्रासस्य नेत्र-व्यावृत्ति-नटन-लक्षणतया नायकस्य प्रत्युत्पन्न-मत्या कल्पितत्वाद् बुद्धि-पूर्वकत्वम् ।
अथ प्रवासः-
पूर्व-सङ्गतयोर् यूनोर् भवेद् देशान्तरादिभिः ।
चरण-व्यवधानं यत् स प्रवास इतीर्यते
215
तज्-जन्यो विप्रलम्भोऽ पि प्रवासत्वेन संमतः ।
हर्ष-गर्व-मद-व्रीडा वर्जयित्वा समीरिताः
216
शृङ्गार-योग्याः सर्वेऽ पि प्रवास-व्यभिचारिणः ।
कार्यतः सम्भ्रमाच् छापात् स त्रिधा तत्र कार्यजः
217
बुद्धि-पूर्वतया यूनोः संविधान-व्यपेक्षया ।
वृत्तो वर्तिष्यमाणश् च वर्तमान इति त्रिधा
218
धर्मार्थ-सङ्ग्रहाय बुद्धि-पूर्वो व्यापारः कार्यम् । तेन वृत्तो, यथा-
क्रिया-प्रबन्धाद् अयम् अध्वराणाम्
अजस्रम् आहूत-सहस्र-नेत्रः ।
शच्याश् चिरं पाण्डु-कपोल-लम्बान्
मन्दार-शून्यान् अलकांश् चकार
(र.वं. 6.23)
अत्र पुरन्दरस्य पूर्वं शचीम् आमन्त्र्य पश्चाद् अध्वर-प्रदेश-गमनेन तयोः संविधान् अव्यपेक्षया (कार्यतो) विप्रलम्भस्य भूत-पूर्वत्वम् ।
वर्तिष्यमाणो, यथा-
भवतु विदितं छद्मालापैर् अलं प्रिय गम्यतां
तनुर् अपि न ते दोषोऽ स्माकं विधिस् तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नम् इमां दशां
प्रकृति-चपले का नः पीडा गते हत-जीविते
(अमरु 30)
वर्तमानो, यथा-
यामीति प्रिय-पुष्टायाः प्रियायाः कण्ठ-लग्नयोः ।
वचो-जीवितयोर् आसीत् पुरो निःसरणे रणः
अथ सम्भ्रमात्-
आवेगः सम्भ्रमः सोऽ पि नैको दिव्यादिभेदतः
219अ
तत्र दिव्यो, यथा-
तिष्ठेत् कोप-वशात् प्रभाव-पिहिता दीर्घं न सा कुप्यति
स्वर्गायोत्पतिता भवेन् मयि पुनर्-भावार्द्रम् अस्या मनः ।
तां हर्तुं विबुध-द्विषोऽ पि न च मे शक्ताः पुरो-वर्तिनीं
सा चात्यन्तम् अगोचरं नयनयोर् यातेति कोऽ यं विधिः
(वि.उ. 4.9)
अत्र विप्रलम्भस्य कारणान्तर-निरासेन कोऽ यं विधिर् इति विधेः कारणत्वाभिप्रायेण दिव्य-सम्भ्रम-जनितत्वं प्रतीयते ।
अथ शापः-
शापो वैरूप्यताद् रूप्य-प्रवृत्तेर् द्विविधो भवेत् । 219
प्रवासः शाप-वैरूप्याद् अहल्या-गौतमादिषु
ताद्रूप्येण, यथा-
कश्चित् कान्ता-विरह-गुरुणा स्वाधिकारात् प्रमत्तः
शापेनास्तंगमित-महिमा वर्ष-भोग्येण भर्तुः ।
यक्षश् चक्रे जनक-तनया-स्नान-पुण्योदकेषु
स्निग्ध-च्छाया-तरुषु वसतिं राम-गिर्य्-आश्रमेषु
[मे.दू. 1.1]
अथ करुण-विप्रलम्भः-
द्वयोर् एकस्य मरणे पुनर् उज्जीवनावधौ । 220
विरहः करुणोऽ न्यस्य सङ्गमाशानुवर्तनात्
करुण-भ्रम-कारित्वात् सोऽ यं करुण उच्यते । 221
सञ्चारिणोऽ नुभावाश् च करुणेऽ पि प्रवासवत्
यथा-
अथ मदन-वधूर् उपप्लवान्तं
व्यसन-कृशो प्रतिपालयां बभूव ।
शशिन इव दिवातनस्य रेखा
किरण-परिक्षय-धूसरा प्रदोषम्
(कु.सं. 4.46)
अत्राकाश-सरस्वती-प्रत्ययेन रतेर् विप्रलम्भः कृशत्वाद्य्-अनुमितैर् ग्लान्य्-आदिभिः व्यभिचारि-भावैः पोषितः समय-परिपालनादिभिर् अनुभावैर् व्यज्यते ।
अत्र केचिद् आहुः-करुणो नाम विप्रलम्भ-शृङ्गारो नास्ति । उभयालम्बनस्य तस्य एकत्रैवासम्भवात् । यत्र त्व् एकस्यापाये सति तद्-इतर-गताः प्रलापादयो भवन्ति स शोकान् न भिद्यते इति । तद् अयुक्तम् । यत्र पुनर्-उज्जीवनेन सम्भोगो नास्ति, तत्र सत्यं शोक एव । यत्र सोऽ स्ति तत्र विप्रलम्भ एव । अन्यथा सम्भोग-शिरस्के अन्यतरापाय-लक्षणे वैरूप्य-शाप-प्रवासेऽ पि शोक-रूपत्वापत्तेः ।
नन्व् एवं प्रवास-करुणयोः को भेद इति चेद् उच्यते-शरीरेण देशान्तर-गमने प्रवासः । प्राणैर् देशान्तर-गमने करुण इति ।
अत्र केचिद् अयोग-शब्दस्य पूर्वानुराग-वाचकत्वं विप्रयोग-शब्दस्य मानादि-वाचकत्वं चाभिप्रेत्य अयोगो विप्रयोगश् चेति सम्भोगाद् अन्यस्य शृङ्गारस्य विभागम् आहुः । विप्रलम्भ-पदस्याप्रयोगे च कारणं ब्रुवते-(सङ्केत-स्थानम् आगमिष्यामीति) उक्त्वा सङ्केतम् अप्राप्तौ तद्-व्यतिक्रमे (ततो) नायिकान्तरानुसरणे च विप्रलम्भ-शब्दस्य (मुख्यः) प्रयोगः । वञ्चनार्थत्वात् तस्य । (अयोग-विप्रयोग-विशेषत्वाद् विप्रलम्भस्य तादृश-विशेषाभिधायकस्य विप्रलम्भ-शब्दस्य) तत्-सामान्याभिधायित्वे तु विप्रलम्भ-शब्दस्य उपचरितत्वापत्तेर् इति । तद् अयुक्तम् । चतुर्विधेऽ पि विप्रलम्भे वञ्चन-रूपस्यार्थस्य मुख्यत एव सिद्धेः । तथा च श्री-भोजः-
विप्रलम्भस्य यदि वा वञ्चनामात्र-वाचिनः ।
विना समासे चतुराश् चतुरोऽ र्थान् नियुञ्जते
पूर्वानुरागे विविधं वञ्चनं व्रीडितादिभिः ।
माने विरुद्धं तत् प्राहुः पुनर् ईर्ष्यायितादिभिः
न्याविद्धं दीर्घ-कालत्वात् प्रवासे तत् प्रतीयते ।
विनिषिद्धं तु करुणे करुणत्वेन गीयते
(स.क.आ. 5.63,65-6)
अथ सम्भोगः-
स्पर्शनालिङ्गनादीनाम् आनुकूल्यान् निषेवणम् । 222
घटते यत्र यूनोर् यत् स सम्भोगश् चतुर्विधः
अत्रायम् अर्थः-प्राग्-असङ्गतयोः सङ्गत-वियुक्तयोर् वा नायिका-नायकयोः परस्पर-समागमे प्राग्-उत्पन्ना तदानीन्तनी वा रतिः प्रेप्सितालिङ्गनादीनां प्राप्तौ सत्यां उपजायमानैर् हर्षादिभिः संसृज्यमाना चन्द्रोदयादिभिर् उद्दीपिता स्मितादिभिर् व्यज्यमाना प्राप्त-प्रकर्षा सम्भोग-शृङ्गार इत्य् आख्यायते । स च वक्ष्यमाण-क्रमेण चतुर्विधः ।
सङ्क्षिप्तः सङ्कीर्णः सम्पन्नतरः समृद्धिमान् इति ते । 223
पूर्वानुराग-मान-प्रवास-करुणानुसम्भवाः क्रमतः
तत्र सङ्क्षिप्तः-
युवानौ यत्र संक्षिप्तान् साध्वस-व्रीडितादिभिः । 224
उपचारान् निषेवेते स संक्षिप्त इतीरितः
पुरुष-गत-साध्वसेन सङ्क्षिप्तो, यथा-
लीला-हितुलिअ-सेलो रक्खदु वो राहिआइ त्थण-पट्ठे ।
हरिणो पुढम-समाअम-सद्धस-बस-बेबिलो हत्थो
(लीलाभितुलित-शैलो रक्षतु वो राधिका-स्तन-स्पर्शे ।
हरेः प्रथम-समागम-साध्वस-वश-वेपन-शीलो हस्तः ॥)
स्त्री-साध्वसात् सङ्क्षिप्तो, यथा-
चुम्बनेष्व् अधर-दान-वर्जितं
सन्न-हस्त-मदयोपगूहने ।
क्लिष्ट-मन्मथम् अपि प्रियं प्रभोर्
दुर्लभ-प्रतिकृतं वधूरतम्
(कु.सं. 8.8)
अथ सङ्कीर्णः-
सङ्कीर्णस् तु पराधीन व्यलीक-मरणादिभिः । 225
सङ्कीर्यमाणः सम्भोगः किञ्चित् पुष्पेषु-पेशलः
यथा-
विमर्द-रम्याणि समत्सराणि
विभेजिरे तैर् मिथुनै रतानि ।
वैयात्य-विस्रम्भ-विकल्पितानि
मानावसादाद् विशदीकृतानि
अथ सम्पन्नः-
भय-व्यलीक-स्मरणाद्य्-अभावात् प्राप्त-वैभवः । 226
प्रोषितागतयोर् यूनोर् भोगः सम्पन्न ईरितः
यथा-
दंत-क्खअं कबोले कअग्गहुब्बेल्लिओ अ धम्मिल्लो ।
परिघुम्मिराअ दिट्ठी पिआगमं साहै बहूए
(दन्त-क्षतं कपोले कच-ग्रहोद्वेएल्लितश् च धम्मिल्लः ।
परिघूर्णन-शीला च दृष्टिः प्रियागमं साधयति वध्वाः ॥)
अत्र अप्रथम-सम्भोगत्वाद् भयाभावः । दन्त-क्षतादिष्व् अङ्गार्पणानुकूल्येन व्यलीक-स्मरणाद्य्-अभावः । ताभ्याम् उपारूढ-वैभवः सम्पद्यते सम्भोगः ।
अथ समृद्धिमान्-
पुनर् उज्जीवने भोग-समृद्धिः कियती भवेत् । 227
शिवाभ्याम् एव विज्ञेयम् इत्य् अयं हि समृद्धिमान्
यथा-
चन्द्रापीडं सा च जग्राह कण्ठे
कण्ठ-स्थानं जीवितं च प्रपेदे । तेनापूर्वा सा समुल्लास-लक्ष्मीम्
इन्दु-स्पृष्टां सिन्धु-लेखेव भेजे
(अभिनन्दस्य कादम्बरी-कथा-सारे, 8.80)
यथा वा-
अकलिअ-परिरम्भ-बिब्भमाइ
अजणिअ-चुम्बण-डम्बराइ दूरं ।
अघडिअ-घण-ताडणाइ णिच्चं
णमह अणंग-रहीण मोहणाइं
(अकलित-परिरम्भ-विभ्रमाणि
अजनित-चुम्बन-डम्बराणि दूरम् ।
अघटित-घन-ताडनानि नित्यं
नमतानङ्ग-रत्योर् मोहनानि ॥)
अत्र पुनर्-उज्जीवितेनअ कामेन सह रत्या रतेर् बाह्योपचारानपेक्षयैव तत्-फल-रूप-सुख-प्राप्ति-कथनात् सम्भोगः समृद्ध्यति ।
अथ हास्यः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 228
हासः सदस्य-रस्यत्वं नीतो हास्य इतीर्यते
तत्रालस्य-ग्लानि-निद्रा-व्याध्य्-आद्या व्यभिचारिणः । 229
एष द्वेधा भवेद् आत्म-पर-स्थिति-विभागतः
आत्मस्थस् तु यदा स्वस्य विकारैर् हसति स्वयम् । 230
यथा बाल-रामायणे-भृङ्गिरिटिः (आत्मानं निर्वर्ण्य सोपहासम्)-अहो त्रिभुवनाधिपतेर् अस्य अनुचरस्य महार्ह-वेषता ।
कौपीनाच्छादने वल्कम् अक्ष-सूत्रं जटा-च्छटाः ।
रुद्राङ्कुशस् त्रिपुण्ड्रं च वेषो भृङ्गिरिटेर् अयम्
(बा.रा. 2.2)
अत्र भृङ्गिरिटिः स्व-वेष-वैकृतेनैव स्वयम् आत्मानं हसति ।
परस्थस् तु पर-प्राप्तैर् एतैर् हसति चेत् परम्
231अ
यथा-
त्रस्तः समस्त-जन-हास-करः करेणोस्
तावत् खरः प्रखरम् उल्ललयांचकार ।
यावच् चलासन-विलोल-नितम्ब-बिम्ब-
विस्रस्त-वस्त्रम् अवरोध-वधूः पपात
(शि.व. 5.7)
प्रकृति-वशात् स च षोढा स्मित-हसिते विहसितावहसिते च । 231
अपहसितातिहसितके ज्येष्ठादीनां क्रमाद् द्वे द्वे ॥469॥
तत्र स्मितम् -
स्मितं चालक्ष्य-दशनं दृक्-कपोल-विकाश-कृत्
232
यथा-
उत्फुल्ल-गण्ड-मण्डलम् उल्लसित-दृग्-अन्त-सूचिताकूतम् ।
नमयन्त्यापि मुखाम्बुजम् उन्नमितं राग-साम्राज्यम्
(कु.आ. 2.15)
अत्र गण्ड-मण्डल-विकास-दृग्-अन्तोल्लासाभ्यां नायिकायाः स्मितं व्यज्यते ।
हसितं, यथा-
तद् एव लक्ष्य-दशन-शिखरं हसितं भवेत्
233अ
स्मयमानम् आयताक्ष्याः
किंचिद् अभिव्यक्त-दशन-शोभि मुखम् ।
असमग्र-लक्ष्य-केसरम्
उच्छ्वसद् इव पङ्कजं दृष्टम्
(मा.अ.मि. 2.11)
अत्र किञ्चिद् अभिव्यक्त-दशनत्वाद् इदं हसितम् ।
विहसितं, यथा-
तद् एव कुञ्चितापाङ्ग-गण्डं मधुर-निःस्वनम् । 233
कालोचितं सानुरागम् उक्तं विहसितं भवेत्
यथा-
सविधेऽ पि मय्य् अपश्यति शिशुजन-चेष्टा-विलोकन-व्याजात् ।
हसितं स्मरामि तस्याः स-स्वनम् आकुञ्चितापाङ्गम्
अवहसितम्, यथा-
फुल्ल-नासा-पुटं यत् स्यान् निकुञ्चित-शिरोऽ ंसकम् । 234
जिह्मावलोक-नयनं तच् चावहसितं मतम्
यथा-
खर्वाट-धम्मिल्ल-भरं करेण
संस्पृष्ट-मात्रं पतितं विलोक्य ।
निकुञ्चितांसं कुटिलेक्षणान्तं
फुल्लाग्र-नासं हसितं सखीभिः ॥
कम्पिताङ्गं साश्रु-नेत्रं तच् चापहसितं भवेत्
235
यथा-
समं पुत्र-प्रेम्णा करट-युगलं चुम्बितु-मनो
गजास्ये कृष्टास्ये निविड-मिलद्-अन्योन्य-वदनम् ।
अपायात् पायाद् वः प्रमथ-मिथुनं वीक्ष्य तद् इदं
हसन् क्रीडानृत्त-श्लथ-चलित-तुन्दः स च शिशुः
अतिहसितम्, यथा-
करोपगूढ-पार्श्वं यद् उद्धतायत-निःस्वनम् ।
बाष्पाकुलाक्ष-युगलं तच् चातिहसितं भवेत्
236
यथा-
इति वाचम् उद्धतम् उदीर्य
सपदि सह वेणु-दारिणा ।
सोढ-रिपु-बल-भरोऽ सहनः
स जहास दत्त-कर-तालम् उच्चकैः
(शि.व. 15.39)
अथ वीरः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।
नीतः सदस्य-रस्यत्वम् उत्साहो वीर उच्यते
237
एष त्रिधा समासेन दान-युद्ध-दयोद्भवाः ।
दान-वीरो धृतिर् हर्षो मत्याद्या व्यभिचारिणः
238
स्मित-पूर्वाभिभाषित्वं स्मित-पूर्वं च वीक्षितम् ।
प्रसादे बहु-दातृत्वं तद्वद् वाचानुमोदितम् । 239
गुणागुण-विचाराद्यास् त्व् अनुभावाः समीरिताः
यथा-
अमुष्मै चौराय प्रतिनिहत-मृत्यु-प्रतिभिये
प्रभुः प्रीतः प्रादाद् उपरितन-पाद-द्वय-कृते ।
सुवर्णानां कोटीर् दश दशन-कोटि-क्षत-गिरीन्
गजेन्द्रानप्य् अष्टौ मद-मुदित-कूजन् मधुलिहः
युद्ध-वीरे हर्ष-गर्वामर्षादया व्यभिचारिणा । 240
असाहाय्येऽ पि युद्धेच्छा समराद् अपलायनम् ।
भीताभय-प्रदानाद्या विकारास् तत्र कीर्तिताः
241
यथा-
रथी निषङ्गी कवची धनुष्मान्
दृप्तह् स राजन्यकम् एक-वीरः ।
विलोलयामास महा-वराहः
कल्प-क्षयोद्वृत्तम् इवार्णवाम्भः
(र.वं. 7.56)
दया-वीरे धृति-मति-प्रमुखा व्यभिचारिणः ।
स्वार्थ-प्राण-व्ययेनापि विपन्न-त्राण-शीलता । 242
आश्वासनोक्तयः स्थैर्यम् इत्य् आद्यास् तत्र विक्रियाः
यथा-
आर्तं कण्ठ-गत-प्राणं परित्यक्तं स्व-बान्धवैः ।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः
(नागानन्द 4.11)
अथ अद्भुतः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 243
नीतः सदस्य-रस्यत्वं विस्मयोऽ द्भुततां व्रजेत्
अत्र धृत्यावेग-जाड्य-हर्षाद्या व्यभिचारिणः । 244
चेष्टास् तु नेत्र-विस्तार-स्वेदाश्रु-पुलकादयः
यथा-
सोढाहे नमतेति दूत-मुखतः कार्योपदेशान्तरं
तत् तादृक् समराङ्गणेषु भुजयोर् विक्रान्तम् अव्याहतम् ।
भीतानां परिरक्षणं पुनर् अपि स्वे स्वे पदे स्थापनं
स्मारं स्मारम् अरातयः पुलकिता रेचर्ल-सिंह-प्रभोः
अत्र नायक-गुणातिशय-जनितो विरोधिनां विस्मयः स्मृति-हर्षादिभिः व्यभिचारिभिर् उपचितः पुलकादिभिर् अनुभावैर् व्यज्यमानोऽ द्भुतत्वम् आपद्यते ।
अथ रौद्रः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 245
क्रोधः सदस्य-रस्यत्वं नीतो रौद्र इतीर्यते
आवेग-गर्वौग्र्यामर्ष-मोहाद्या व्यभिचारिणः । 246
प्रस्वेद-भ्रुकुटी-नेत्र-रागाद्यास् तत्र विक्रियाः
यथा करुणाकन्दले-
आत्माक्षेप-क्षोभितैः पीडितोष्ठैः
प्राप्तोद्योगैर् यौगपद्याद् अभेद्यैः ।
भिन्धि-च्छिन्धि-ध्वानिभिर् भिल्ल-वर्गैर्
दर्पाद् अन्धैर् आनिरुद्धिर् निरुद्धः
अत्र वज्र-विषयो भिल्ल-वर्ग-क्रोधः स्वात्माक्षेपादिभिर् उद्दीपिता दर्पान्ध-परुष-वाग्-आरम्भाद्य्-अनुमितैर् गर्वासूयादिभिः परिपोषितः स्वोष्ठ-पीडन-शत्रु-निरोधादिभिर् अनुभावैर् अभिव्यक्तो रौद्रतया निष्पद्यते ।
अथ करुणः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 247
नीतः सदस्य-रस्यत्वं शोकः करुण उच्यते
अत्राष्टौ सात्त्विका जाड्य-निर्वेद-ग्लानि-दीनताः । 248
आलस्यापस्मृति-व्याधि-मोहाद्या व्यभिचारिणः
यथा करुणाकन्दले-
कुलस्य व्यापत्त्या सपदि शतधोद्दीपित-तनुर्
मुहुर् बाष्पं श्वासान् मलिनम् अपि रागं प्रकटयन् ।
श्लथैर् अङ्गैः शून्यैर् असकृद् उपरुद्धैश् च करणैर्
युतो धत्ते ग्लानिं करुण इव मूर्तो यदुपतिः
अत्र बन्धु-व्यापत्ति-जनितो वसुदेवस्य शोको बन्धु-गुण-स्मरणादिभिर् उद्दीपितो म्लानत्वेन्द्रिय-शून्यत्वादि-सूचितैर् दैन्य-मोह-ग्लान्यादि-सञ्चारिभिः प्रपञ्चितो मुहुर् बाष्प-श्वास-मलिन-मुख-रागादिभिर् अनुभावैर् अभिव्यक्तः करुणत्वम् आपद्यते ।
अथ बीभत्सः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः । 249
जुगुप्सा पोषम् आपन्ना बीभत्सत्वेन रस्यते
अत्र ग्लानि-श्रमोन्माद-मोहापस्मार-दीनताः । 250
विषाद-चापलावेग-जाड्याद्या व्यभिचारिणः ।
स्वेद-रोमाञ्च-नामाग्र-च्छादनाद्याश् च विक्रियाः
251
यथा-
अंहः-शेषैर् इव परिवृतो मक्षिकामण्डलीभिः
पूय-क्लिन्नं व्रणम् अभिमृशन् वाससः खण्डकेन ।
रथोपान्ते द्रुतम् अपसृतं सङ्कुचन् नेत्र-कोणं
छन्न-घ्राणं रचयति जनं दद्रु-रोगी दरिद्रः
अत्र दर्दु-रोगि-विषया रथ्या-जन-जुगुप्सा मक्षिका-पूयादिभिर् उद्दीपिता त्वरापसरणानुमितैर् विषादादिभिः पोषिता नेत्र-सङ्कोचनादिभिर् अभिव्यक्ता बीभत्सताम् आप्नोति ।
अथ भयानकः-
विभावैर् अनुभावैश् च स्वोचितैर् व्यभिचारिभिः ।
भयं सदस्य-रस्यत्वं नीतं प्रोक्तं भयानकः
252
तत्र सन्त्रास-मरण-चापलावेग-दीनताः ।
विषाद-मोहापस्मार-शङ्काद्या व्यभिचारिणः । 253
विक्रियास् त्व् आस्य-शोषाद्याः सात्त्विकाश् चाश्रु-वर्जिताः
यथा-
श्री-सिंह-क्षिति-नायकस्य रिपवो धाटी-श्रुतेर् आकुलाः
शुष्यत्-तालु-पुटं स्खलत्-पद-तलं व्यालोकयन्तो दिशः ।
धावित्वा कथम् अप्य् उपेत्य तमसा गाढोपगूढां गुहाम्
अन्विष्यन्ति तद्-अन्तरेऽ पि कर-संस्पर्शेन गर्तान्तरम्
अत्र नायक-प्रतिभूपतिनां भयं तद्-धाटी-श्रवणादिनोद्दीपितं व्याकुलत्व-तालु-शोष-पद-स्खलनाद्य्-अनुमितैर् आवेग-शङ्कात्रासादिभिर् व्यभिचारिभिर् उपचितं पलायन-गुहा-प्रवेश-गर्तान्तरान्वेषणादिभिर् अनुभावैर् अनुभूयमानं भयानकत्वेन निष्पद्यते ।
केचित् समान-बलयो रसयोः सङ्करं विदुः । 254
न परीक्षाक्षमम् इदं मतं प्रेक्षावतां भवेत्
तुष्यत्वे पूर्व आस्वादः कतरस्येत्य् अनिश्चयात् । 255
स्पर्धापरत्वाद् उभयोर् अनास्वाद-प्रसङ्गतः
तयोर् अन्यतरस्यैव प्रायेणास्वादनाद् अपि । 256
युगपद् रसनीयत्वं नोभयोर् उपपद्यते ।
एषाम् अङ्गाङ्गि-भावेन सङ्करो मम संमतः
257
तथा च भारतीये-
भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ॥
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः
(ना.शा. 7.119) इति ।
तुलाधृतत्वम् अनयोर् न स्यात् प्रकरणादिना ।
कवि-तात्पर्य-विश्रान्तेर् एकत्रैवावलोकनात्
258
अथ परस्पर-विरुद्ध-रस-प्रतिपादनम्-
उभौ शृङ्गार-बीभत्साव् उभौ वीर-भयानकौ ।
रौद्राद्भुताव् उभौ हास्य-करुणौ प्रकृति-द्विषौ
259
स्वभाव-वैरिणोर् अङ्गाङ्गि-भावेनापि मिश्रणम् ।
विवेकिभ्यो न स्वदते गन्ध-गन्धकयोर् इव
260
विरोधिनोऽ पि सांनिध्याद् अतिरस्कार-लक्षणम् ।
पोषणं प्रकृतस्येति चेद् अङ्गत्वं न तावता
261
यत् किञ्चिद् उपकारित्वाद् अङ्गस्याङ्गित्वम् अङ्गिनि ।
न तत्-संनिधि-मात्रेण चर्वणानुपकारतः
262
अन्यथा पानकाद्येषु शर्करादेर् इवापतेत् ।
अन्तरा पतितस्यापि तृणादेर् उपकारिता । 263
तच् चर्वणाभिमाने स्यात् सतृणाभ्यवहारिता
निसर्ग-वैरिणोर् अङ्गाङ्गि-भावात् स्वादाभावो, यथा-
लाला-जलं स्रवतु वा दशनास्थि-पूर्णम्
अप्य् अस्तु वा रुधिर-बन्धुरिताधरं वा ।
सुस्निग्ध-मांस-कलितोज्ज्वल-लोचनं वा
संसार-सारम् इदम् एव मुखं भवत्याः
अत्र शृङ्गार-रसाङ्गताम् अङ्गीकृतवता बीभत्सेन अङ्गिनोऽ पि विच्छेदाय मूले कुठारो व्यापारितः । एवम् अन्येषाम् अपि विरोधिनाम् अङ्गाङ्गि-भावेनास्वादाभावस् तत्र तत्रोदाहरणे द्रष्टव्यः ।
भृत्योर् नायकस्येव निसर्ग-द्वेषिणोर् अपि । 264
अङ्गयोर् अङ्गिनो वृद्धौ भवेद् एकत्र सङ्गतिः
यथा-
कस्तूर्या तत्-कपोल-द्वय-भुवि मकरी-निर्मितौ प्रस्तुतायां
निर्मित्सूनां स्व-वक्षस्य् अतिपरिचयनात् त्वत्-प्रशस्तीर् उपांशु ।
वीर श्री-सिंह-भूप त्वद्-अहित-कुभुजां राज्य-लक्ष्मी-सपत्नीम्
आनव्याजेन लज्जां सपदि विदधते स्वावरोधे प्रगल्भाः
अत्र प्रतिनायक-गतयोः शृङ्गार-बीभत्सयोः नायक-गत-वीर-रसाङ्गत्वाद् एकत्र समावेशो न दोषाय ।
नन्व् अत्र शत्रूणां स्व-वक्षसि नायक-विरुद-विलेखनेन जीवितान्त-निर्मित-स्थानीयेन जनिता निज-जीवित-जुगुप्सा स्वावरोध-सांनिध्यादिभिर् उद्दीपिता लज्जानुमितैर् निर्वेद-दैन्य-विषादादिभिर् उपचिता तद्-अनुमितैर् एव मानसिक-कुत्सादिभिः अभिव्यक्ता सती नायक-गतं शरणागत-रक्षा-लक्षणं वीरं पुष्णातीति प्रतीयते । न पुनः प्रतिनायक-गतस्य शृङ्गारस्य नायक-वीरोपकरणत्वम् (इति चेद्), उच्यते-नायक-कृपा-कटाक्ष-स्थिरीकृत-राज्यानां प्रतिनायकानां तादृशाः (शृङ्गार-) विनोदाः सम्भवेयुः । नान्यथेति तस्य शृङ्गारस्य नायक-वीरोपकरणत्व-विरुद-धारणादि-परिचयेन राज्य-लक्ष्मी-सपत्नी-पद-प्रयोगेण चाभिव्यज्यते ।
अथ रसाभासः-
अङ्गेनाङ्गी रसः स्वेच्छा-वृत्ति-वर्धित-सम्पदा । 265
अमात्येनाविनीतेन स्वामीवाभासतां व्रजेत्
तथा च भाव-प्रकाशिकायाम्-
शृङ्गारो हास्य-भूयिष्ठः शृङ्गाराभास ईरितः ।
हास्यो बीभत्स-भूयिष्ठो हास्याभास इतीरितः
वीरो भयानक-प्रायो वीराभास इतीरितः ।
अद्भुतः करुणाश्लेषाद् अद्भुताभास उच्यते
रौद्रः शोक-भयाश्लेषाद् रौद्राभास इतीरितः ।
करुणो हास्य-भूयिष्ठः करुणाभास उच्यते
बीभत्सोऽ द्भुत-शृङ्गारी बीभत्साभास उच्यते ।
स स्याद् भयानकाभासो रौद्र-वीरोपसङ्गमात्
इति ।
अत्र शृङ्गार-रसस्य अरागाद् अनेक-रागात् तिर्यग्-रागात् म्लेच्छ-रागाच् चेति चतुर्विधम् आभास-भूयस्त्वम् । तत्र अरागस् त्व् एकत्र रागाभावः । तेन रसस्याभासत्वं, यथा-
स रामो नः स्थाता न युधि पुरतो लक्ष्मण-सखो
भवित्री रम्भोरु त्रिदश-वदन-ग्लानिर् अधुना ।
प्रयास्यत्य् एवोच्चैर् विपदम् अचिराद् वानर-चमूर्
लघिष्ठेदं षष्ठाक्षर-पर-विलोपात् पठ पुनः
(ह.ना. 10.12)
अत्र सीतायां रावण-विषय-रागात्यन्ताभावाद् आभासत्वम् ।
नन्व् एकत्र रागाभावाद् रसस्याभासत्वं न युज्यते । प्रथमम् अजातानुरागे वत्स-राजे जातानुरागायाः रत्नावल्याः-
दुल्लह-जणाणुराओ लज्जा गुरुई परब्बसो अप्पा ।
पिअ-सहि विसमं पेम्मं मरणं सरणं नु वरम् एक्कं
(र.आ. 2.1)
[दुर्लभ-जनानुरागो लज्जा गुर्वी पर-वश आत्मा ।
प्रिय-सखि विषमं प्रेम मरणं शरणं नु वरम् एकम् ॥]
इत्य् अत्र पूर्वानुरागस्याभासत्व-प्रसङ्ग इति चेद् उच्यते । अभावो हि त्रिविधः प्राग्-अभावोऽ त्यन्ताभावः प्रध्वंसाभावश् चेति । तत्र प्राग्-अभावे दर्शनादि-कारणेषु सम्भावितेषु रागोत्पत्ति-सम्भावनया नाभासत्वम् । इतरयोस् तु कारण-सद्-भावेऽ पि रागानुत्पत्तेर् आभासत्वम् एव । अन्ये तु स्त्रिया एव रागाभावे रसस्याभासत्वं प्रतिजानते । न तद् उपपद्यते । पुरुषेऽ पि रागाभावे रसस्यानास्वादनीयत्वात् । यथा-
गते प्रेमावेशे प्रणय-बहु-मानेऽ पि गलिते
निवृत्ते सद्-भावे जन इव जने गच्छति पुरः ।
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रिय-सखि गतांस् तांश् च दिवसान्
न जाने को हेतुर् दलति शतधा यन् न हृदयम्
(अमरु 43)
अत्र हृदय-दलनाभाव-पूर्व-गत-दिवसोत्प्रेक्षाद्य्-अनुमितैर् निर्वेद-स्मृत्य्-आदिभिर् अभिव्यक्तोऽ पि स्त्रिया अनुरागः प्रेमावेश-श्लथनादि-कथितेन पुरुष-गत-राग-ध्वंसनेन चारुतां नाप्नोति ।
पुरुष-रागात्यन्ताभावेन रसाभासत्वं, यथा-
ध्यान-व्याजम् उपेत्य चिन्तयसि काम् उन्मील्य चक्षुः क्षणं
पश्यानङ्ग-शरातुरं जनम् इमं त्रातापि नो रक्षसि ।
मिथ्या-कारुणिकोऽ सि निर्घूणतरस् त्वत्तः कुतोऽ न्यः पुमान्
सेर्ष्यं मार-वधूभिर् इत्य् अभिहितो बुद्धो जिनः पातु वः
(नागा. 1.1)
अत्र जिनस्य रागात्यन्ताभावेन रसाभासत्वम् ।
अनेकत्र योषितो रागाभासत्वं, यथा-
परस्परेण क्षतयोः प्रहर्त्रोर्
उत्क्रान्तवाय्वोः समकालम् एव ।
अमर्त्य-भावेऽ पि कयोश्चिद् आसीद्
एकाप्सरः-प्रार्थनयोर् विवादः
(र.वं. 7.53)
अत्र कस्याश्चिद् दिव्य-वनिताया वीर-द्वये रणानिवृत्ति-मरण-प्राप्त-देवताभावे अनुरागस्य निरुपमानशूर-गुणोपाधेर् अवैषम्येण प्रतिभासनादाभासत्वम् ।
अनेकत्र पुंसो रागाद्, यथा-
रम्यं गायति मेनका कृत-रुचिर् वीणा-स्वनैर् उर्वशी
चित्रं वक्ति तिलोत्तमा परिचयं नानाङ्ग-हार-क्रमे ।
आसां रूपम् इदं तद् उत्तमम् इति प्रेमानवस्था द्विषा
भेजे श्री-यनपोत-सिंह-नृपते त्वत्-खड्ग-भिन्नात्मना
अत्र नायक-खड्ग-धारा-गलितात्मनः कस्यचित् स्वर्ग-प्रतिनायक-वीरस्य मेनकादि-स्वर्लोक-गणिकासु अवैषम्येण रागाद् आभासत्वम् ।
नन्व् एवं दक्षिणादीनाम् अपि रागस्याभासत्वम् इति चेत्, न । दक्षिणस्य नायकस्य नायिकासु अनेकासु वृत्ति-मात्रेणैव साधारण्यम् । न रागेण । तद् एकस्याम् एव रागस्य प्रौढत्वम् । इतरासु तु मध्यमत्वं मन्दत्वं चेति तद्-अनुरागस्य नाभासता । अत्र तु अवैषम्येण अनेकत्र प्रवृत्तेर् आभासत्वम् उपपद्यते ।
तिर्यग्-रागाद्, यथा-
मधु द्विरेफः कुसुमैक-पात्रे
पपौ प्रियां स्वाम् अनुवर्तमानः ।
शृङ्गेण च स्पर्श-निमीलिताक्षीं
मृगीम् अकण्डूयत कृष्ण-सारः
(कु.सं. 3.36)
म्लेच्छ-रागाद्, यथा-
अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए
(गाथा 4.60)
[आर्यां मोहन-सुखितां मृतेति मुक्त्वा पलायिते हलिके ।
दर-स्फुटित-वृन्त-भारावनतया हसितम् इव कार्पास्या ॥]
अत्र सुरत-मोहन-सुप्ति-मरण-दशयोर् विवेकाभावेन हालिकस्य म्लेच्छत्वं गम्यते ।
ननु तिर्यङ्-म्लेच्छ-गतयोर् आभासत्वं न युज्यते । तयोर् विभावादि-सम्भवात् । आस्वाद-योग्यता-प्रतीतेर् इति चेत्, न । भो म्लेच्छ-रस-वादिन् ! उक्तलाधिपतेः शृङ्गार-रसाभिमानिनो नरसिंहदेवस्य चित्तम् अनुवर्तमानेन विद्याधरेण कविना बाढम् अभ्यन्तरी-कृतोऽ सि । एवं खलु समर्थितम् एकावल्याम् अनेन-
अपरे तु रसाभासं तिर्यक्षु प्रचक्षते । तन् न परीक्षा-क्षमम् । तेष्व् अपि विभावादि-सम्भवात् । विभावादि-ज्ञान-शून्यास् तिर्यञ्चो न भाजनं भवितुम् अर्हन्ति रसस्येति चेत्, न । मनुष्येष्व् अपि केषुचित् तथा-भूतेषु रस-विषय-भावाभाव-प्रसङ्गात् । विभावादि-सम्भवो हि रसं प्रति प्रयोजकः । न विभावादि-ज्ञानम् । ततश् च तिरश्चाम् अप्य् अस्त्य् एव रसः इति । (एकावल्याम् 106)
न तावत् तिरश्चां विभावतम् उपपद्यते । शृङ्गारे हि समुज्ज्वलस्य शुचिनो दर्शनीयस्यैव वस्तुनो मुनिना विभावत्वेनाम्नातम् । तिरश्चम् उद्वर्तन-मज्जनाकल्प-रचनाद्य्-अभावाद् उज्ज्वल-शुचि-दर्शनीयत्वानाम् असम्भावना प्रसिद्धैव ।
अथ स्व-जाति-योग्यैर् धर्मैः कारिणां करिणीं प्रति (ददौ सरः पङ्कज इत्य् आदि (कु.सं. 3.37) पद्ये इव) विभावत्वम् इति चेन्, न । तस्यां कक्ष्यायां करिणां करिणी-रागं प्रति कारणत्वं न पुनर् विभावत्वम् ।
किं च, जाति-योग्यैर् धर्मैर् वस्तुनो न विभावत्वम् । अपि तु भावक-चित्तोल्लास-हेतुभिः रति-विशिष्टैर् एव ।
किं च, विभावादि-ज्ञानं नाम औचित्य-विवेकः । तेन शून्यास् तिर्यञ्चो न विभावताम् अर्हन्ति ।
तर्हि विभावादि-ज्ञान-रहितेषु मनुष्येषु रसाभास-प्रसङ्ग इति चेत्, नैष दोषः । विवेक-रहित-जनोपलक्षण-म्लेच्छ-गतस्य रसस्याभासत्वे स्वेष्टावाप्तेः ।
किं च विभावादि-सम्भवो हि रसं प्रति प्रयोजको न विभावादि-ज्ञानम् इत्य् एतन् न युज्यते । तथा हि-विभावादेर् विशिष्टस्य वस्तु-मात्रस्य वा सम्भवो रसं प्रति प्रयोजकः । विशिष्ट-प्रयोजकत्वाङ्गीकारे विवेकादि-प्रवेशोऽ ङ्गीकृत इति अस्मद्-अनुसरणम् एव शरणं गतोऽ सि ।
अत्र विवेकं विना तद्-इतर-विशेषवत्त्वं वैशिष्ट्यम् इति चेन्, न । विशेषाणां धर्मिणि परमोत्कर्षानुसन्धान-तत्-पराणाम् अन्योन्य-सहिष्णूनाम् इयत्तया नियमासम्भवात् ।
अथ यदि वस्तु-मात्रस्य तर्हि अन्वासितम् अरुन्धत्या स्वाहयेव हविर् भुजम् (र.वं. 1.56) इत्य् आदाव् अपि स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्-भावाद् अन्वासनालक्षणानुभाव-सम्भवाच् च शृङ्गारः स्वदनीयः प्रसज्येत । किं च-
अज्जं मोहण-सुहिअं मुअत्ति मोत्तू पलाइए हलिए ।
दर-फुडिअ-बेण्ट-भारोणआइ हसिअं ब फलहीए ॥[*16]
[*16] 529 सङ्ख्यक-पद्यं द्रष्टव्यम् ।
इत्य् आदिषु स्त्री-पुंस-व्यक्ति-मात्र-विभाव-सद्भावः स्फुट एव । तद्-अविवेक-जनित-हास्य-पङ्क-निर्मग्नं शृङ्गार-गन्ध-गजम् उद्धर्तुं त्वरताम् इत्य् अलं रसाभासापलाप-संरम्भेण ।
ननु सीतादि-विभावैर् वस्तु-मात्रैर् एव योषिन्-मात्र-प्रतीतौ सामाजिकानां रसोदयः । न पुनर् विशिष्टैः । तत् कथम् इति चेद्, उच्यते । अत्र जनक-तनयत्व-राम-परिग्रहत्वादि-विरुद्ध-धर्म-परिहारेण ललितोज्ज्वल-शुचि-दर्शनीयत्वादि-विशिष्ट एव शब्दतः । (प्रतिपद्यमानो) सीतादि-विभावो योषित्-सामान्यं तादृशम् एव ज्ञापयति । न पुनः स्त्री-जाति-मात्रम् इति सकलम् अपि कल्याणम् ।
हरिश्चन्द्रो रक्षाकरण-रुचि-सत्येषु वचसां
विलासे वागीशो महति नियमे नीति-निगमे ।
विजेता गाङ्गेयं जन-भरण-संमोहन-कला-
व्रतेषु श्री-सिंह-क्षितिपतिर् उदारो विहरते
267
नित्य श्रीयन्नपोत-क्षितिपति-जनुषः सिंह-भूपाल-मौलेः
सौन्दर्यं सुन्दरीणां हरिण-विजयिनां वागुरा लोचनानाम् ।
दानं मन्दार-चिन्तामणि-सुर-सुरभी-गर्व-निर्वापणाङ्कं
विज्ञानं सर्व-विद्या-निधि-बुध-परिषच्-छेमुषी-भाग्य-रेखा
मूल पाठ: Rasārṇavasudhākara · Edition: T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979. (Adyar Library Series, 110) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0