भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णवसुधाकर · अध्याय 1

1.1

थे रसार्णव-सुधाकर ओf सिंहभूपाल.
अब्ब्रेविअतिओन्स् उसेद्:
अमरु. = अमरु-शतकम्
अ.रा. = अनर्घ-राघव
बा.रा. = बाल-रामायण
भ.ना.शा. = भरत नाट्य-शास्त्र
भा.प्र. = भाव-प्रकाशिका (शरदा-तनय)
ह.ना. = हनुमन्-नाटकः
करुणाकन्दल
का.आ. = काव्यादर्श
कु.आ. = कुवलयावलि (सिंह-भूपाल)
कु.सं. = कुमार-सम्भव (कालिदास)
कृ.क. = कृष्ण-कर्णामृतम् (लीला-शुकः)
गाथा. = गाथा-सत्तसाइ
मा.मा. = मालती-माधव
मा.अ.मि. = मालविकाग्निमित्रम्
शि.व. = शिशुपाल-वधः (माघ)
मे.दू. = मेघदूत ओर् मेघ-सन्देश.
नागा. = नागानन्द
र.आ. = रत्नावली (श्री-हर्षस्य)
र.वं. = रघुवंशः (कालिदास)
स.क.आ. = सरस्वती-कण्ठाभरणम् (भोज)
शकु. ओर् अ.श. = अभिज्ञान-शकुन्तलम् (कालिदास)
उ.रा.च. = उत्तर-राम-चरित
वै.श. = वैराग्य-शतकम् ओf भर्तृहरिः
वि.उ. = विक्रमोर्वशीयः
वि.पु. = विष्णु-पुराणम्
वे.सं. = वेणि-संहारः ओf नारायण-भट्ट
श्री-सिंह-भूपाल-विरचितो
रसार्णव-सुधाकरः
(1)
प्रथमो विलासः
रञ्जकोल्लासः
शृङ्गार-वीर-सौहार्दं मौग्ध्य-वैयात्य-सौरभम् ।
लास्य-ताण्डव-सौजन्यं दाम्पत्यं तद् भजामहे

1.2

वीणाङ्कित-करां वन्दे वानीम् एणीदृशं सदा ।
सदानन्द-मयीं देवीं सरोजासन-वल्लभाम्

1.3

अस्ति किञ्चित् परं वस्तु परमानन्द-कन्दलम् ।
कमलाकुच-काठिन्य-कुतूहलि-भुजान्तरम्

1.4

तस्य पादाम्बुजाज् जातो वर्णो विगत-कल्मषः ।
यस्य सोदरतां प्राप्तं भगीरथ-तपः-फलम्

1.5

तत्र रेचर्लवंशाब्धि-शरद्-राका-सुधाकरः ।
कला-निधिर् उदार-श्रीर् आसीद् दाचय-नायकः

1.6

यस्यासि-धारा-मार्गेण दुर्गेणापि रणाङ्गणे ।
पाण्ड्य-राज-गजानीकाज् जय-लक्ष्मीर् उपागता

1.7

अङ्ग-नारायणे यस्मिन् भवति श्रीर् अतिस्थिरा ।
भूर् अभूत् करिणी वश्या दुष्ट-राज-गजाङ्कुशे

1.8

तस्य भार्या महाभाग्या विष्णोः श्रीर् इव विश्रुता ।
पोचमाम्बा गुणोदारा जाता तामरसान्वयात्

1.9

तयोर् अभूवन् क्षिति-कल्प-वृक्षाः
पुत्रास् त्रयस् त्रासित-वैरि-वीराः ।
सिंह-प्रभुर् वेन्नमनायकश् च
वीराग्रणी रेच-मही-पतिश् च

1.10

कलाव् एक-पदो धर्मो यैर् एभिश् चरणैर् इव ।
सम्पूर्ण-पदतां प्राप्य नाकाङ्क्षति कृतं युगम्

1.11

तत्र सिंह-महीपाले पालयत्य् अखिलां महीम् ।
नमताम् उन्नतिश् चित्रं राज्ञाम् अनमतां नतिः

1.12

कृष्णैलेश्वर-संनिधौ कृत-महा-सम्भार-मेलेश्वरे
वीतापायम् अनेकशो विदधता ब्रह्म-प्रतिष्ठापनम् ।
आनृण्य समपादि येन विभुना तत्-तद्-गुणैर् आत्मनो
निर्माणातिशय-प्रयास-गरिम-व्यासङ्गिनि ब्रह्मणि

1.13

कृतान्त-जिह्वा-कुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।
स्वेदोदयश् चेतसि संचितानां
मानोष्मणाम् आतनुते प्रशान्तिम्

1.14

श्रीमान् रेच-महीपतिः सुचरितो यस्यानुजन्मा स्फुटं
प्राप्तो वीर-गुरु-प्रथां पृथुतरां वीरस्य मुद्राकरीम् ।
लब्ध्वा लब्ध-कठारि-राय-विरुदं राहुत्तरायाङ्कितं
पुत्रं नागयनायकं वसुमती-वीरैक-चूडामणिम्

1.15

सोऽ यं सिंह-महीपालो वसुदेव इति स्फुटम् ।
अनन्त-माधवौ यस्य तनूजौ लोक-रक्षकौ

1.16

तत्रानुजो माधव-नायकेन्द्रो
दिग्-अन्तराल-प्रथित-प्रतापः ।
यस्याभवन् वंश-करा नरेन्द्रास्
तनूभवा वेद-गिरीन्द्र-मुख्याः

1.17

तस्याग्रजन्मा भुवि राज-दोषैर्
अप्रोत-भावाद् अनपोत-संज्ञाम् ।
ख्यातां दधाति स्म यथार्थ-भूताम्
अनन्त-सज्ञां च महीधरत्वम्

1.18

सोदर्यो बलभद्र-मूर्तिर् अनिशं देवी प्रिया रुक्मिणी
प्रद्युम्नस् तनयोऽ प् पौत्र-निवहो यस्यानिरुद्धादयः ।
सोऽ यं श्रीपतिर् अन्नपोत-नृपतिः किं चाननाम्भोरुहे
धत्ते चारु-सुदर्शन-श्रियम् असौ सत्वात्म-हस्ताम्बुजे

1.19

बहु-सोम-सुतं कृत्वा भूलोकं यत्र रक्षति ।
एक-सोम-सुतं रक्षन् स्वर्लोकं लज्जते हरिः

1.20

सोमकुल-परशुरांए
भुज-बल-भीमेऽ रिगाय-गोबाले ।
यत्र च जाग्रति शासति
जगतां जागर्ति नित्य-कल्याणम्

1.21

हेमाद्रि-दानैर् धरणी-सुराणां
हेमाचलं हस्त-गतं विधाय ।
यश् चारु-सोपान-पथेन चक्रे
श्री-पर्वतं सर्व-जनाङ्घ्रि-गम्यम्

1.22

यो नैकवीरोद्दलनोऽ प्य् असङ्ख्य-
सङ्ख्योऽ प्य् अभग्नात्म-गति-क्रमोऽ पि ।
अजाति-साङ्कर्य-भवोऽ पि चित्रं
दधाति सोमान्वय-भार्गवाङ्कम्

1.23

धावं धावं रिपु-नृपतयो युद्ध-रङ्गापविद्धाः
खड्गे खड्गे फलित-वपुषं यं पुरस्ताद् विलोक्य ।
प्रत्यावृत्ता अपि तत इतो वीक्षमाणा यदीयं
संमन्यन्ते स्फुटम् अवितथं खड्ग-नारायणाङ्कम्

1.24

अन्नमाम्बेति विख्याता तस्यासीद् धरणी-पतेः ।
देवी शिवा शिवस्येव राजमौलेर् महोज्ज्वला

1.25

शत्रुघ्नं श्रुतकीर्तिर् या सुभद्रा यशसार्जुनम् ।
आनन्दयति भर्तारं श्यामा राजानम् उज्ज्वलम्

1.26

तयोर् अभूतां पुत्रौ द्वाव् आद्यो वेद-गिरीश्वरः ।
द्वितीयस् त्व् अद्वितीयोऽ सौ यशसा सिंह-भूपतिः

1.27

अथ श्री-सिंह-भूपालो दीर्घायुर् वसुधाम् इमाम् ।
निजांस-पीठे निर्व्याजं कुरुते सुप्रतिष्ठिताम्

1.28

अहीनज्याबन्धः कनक-रुचिरं कार्मुक-वरं
बलि-ध्वंसी बाणः पर-पुरम् अनेकं च विषयः ।
इति प्रायो लोकोत्तर-समर-संनाह-विधिना
महेशोऽ यं सिंह-क्षितिप इति यं जल्पति जनः

1.29

यत्र च रण-संनहिनि
तृण-चरणं निज-पुराच् च निःसरणम् ।
वन-चरणं तच्-चरणक-
परिचरणं वा विरोधिनां शरणम्

1.30

सतां प्रीतिं कुर्वन् कुवलय-विकासं विरचयन्
कलाः कान्ताः पुष्णन् दधद् अपि च जैवातृक-कथाम् ।
नितान्तं यो राजा प्रकटयति मित्रोदयम् अहो
तथा चक्रानन्दान् अपि च कमलोल्लास-सुषमाम्

1.31

तल्-लब्धानि घनाघनैर् अतितरां वारां पृषन्त्य् अम्बुधौ
स्वात्याम् एव हि शुक्तिकासु दधते मुक्तानि मुक्तात्मताम् ।
यद् दानोदक-विप्रुषस् तु सुधियां हस्ते पतन्त्योऽ भवन्
माणिक्यानि महाम्बराणि बहुशो धामानि हेमानि च

1.32

नयनम् अयं गुणम् अगुणं
पदम् अपदं निजम् अवेत्य रिपु-भूपाः ।
यस्य च नय-गुण-विदुषो
विनमन्ति पदारविन्द-पीठान्तम्

1.33

प्राणानां परिरक्षणाय बहुशो वृत्तिं मदीयां गतास्
त्वत्-सामन्त-मही-भुजः करुणया ते रक्षणीया इति ।
कर्णे वर्णयितुं नितान्त-सुहृदो कर्णान्त-विश्रान्तयोर्
मन्ये यस्य दृग्-अन्तयोः परिसरं सा काम-धेनुः श्रिता

1.34

युष्माभिः प्रतिगण्ड-भैरव-रणे प्राणाः कथं रक्षिता
इत्य् अन्तः-पुर-पृच्छया यद् अरिषु प्राप्तेषु लज्जा-वशम् ।
शंसन्त्य् उत्तर-मानन-व्यतिकर-व्यापार-पारङ्गता
गण्डान्दोलित-कर्ण-कुण्डल-हरिन्-माणिक्य-वर्णाङ्कुराः

1.35

मन्दार-पारिजातक-
चन्दन-सन्तान-कल्प-मणि-सदृशैः ।
अनपोत-दाच-वल्लभ-
वेद-गिरि-स्वामि-माद-दामय-संज्ञैः

1.36

आत्म-भवैर् अतिविभवैर्
अनितर-जन-सुलभ-दान-मुदितैर् भुवि यः ।
रत्नाकर इव राजति
राजकरार-चित-सुकमलोल्लासः

1.37

यस्याढ्यः प्रथमः कुमार-तिलकः श्री-अन्नपोतो गुणैर्
एकस्याग्रजम् आत्म-रूप-विभवे चापे द्वयोर् अग्रजम् ।
आरूढे त्रितयाग्रजं विजयते दुर्वार-दोर्-विक्रमे
सत्योक्तौ चतुरग्रजं वितरणे किं चापि पञ्चाग्रजम्

1.38

युद्धे यस्य कुमार-दाचय-विभोः खड्गाग्र-धारा-जले
मज्जन्ति प्रतिपक्ष-भूमि-पतयः शौर्योष्म-सन्तापिताः ।
चित्रं तत्-प्रमदाः प्रनष्ट-तिलका व्याकीर्ण-नीलालकाः
प्रभ्रश्यत्-कुच-कुङ्कुमाः परिगलन्-नेत्रान्त-कालाञ्जनाः

1.39

परिपोषिणि यस्य पुत्र-रत्ने
दयिते वल्लभ-राय-पूर्ण-चन्द्रे ।
समुदेति सतां प्रभाव-शेषः
कमलानाम् अभिवर्धनं तु चित्रम्

1.40

एतैर् अन्यैश् च तनयैः सोऽ यं सिंह-महीपतिः ।
षड्भिः प्रतिष्ठाम् अयते स्वामीवाङ्गैः सुसङ्गतैः

1.41

राजा स राजाचल-नामधेयाम्
अध्यास्त वंश-क्रम-राजधानीम् ।
सतां च रक्षाम् असतां च शिक्षां
न्यायानुरोधाद् अनुसन्दधानज्ञाः

1.42

विन्ध्य-श्री-शैल-मध्य-क्ष्मा-मण्डलं पालयन् सुतैः ।
वंश-प्रवर्तकैर् अर्थान् भुङ्क्ते भोग-पुरन्दरः

1.43

तस्मिन् शासति सिंह-भूमि-रमणे क्ष्माम् अन्नपोतात्मजे
काठिन्यं कुच-मण्डले तरलता नेत्राञ्चले सुभ्रुवाम् ।
वैषम्यं त्रिवलीषु मन्द-पदता लीलालसायां गतौ
कौटिल्यं चिकुरेषु किं च कृशता मध्ये परं बध्यते

1.44

सोऽ हं कल्याण-रूपस्य वर्णोत्कर्षैक-कारणम् ।
विद्वत्-प्रसादना-हेतोर् वक्ष्ये नाट्यस्य लक्षणम्

1.45

पुरा पुरन्दराद्यास् ते प्रणम्य चतुराननम् ।
कृताञ्जलि-पुटा भूत्वा पप्रच्छुः सर्व-वेदिनम्

1.46

भगवन् श्रोतुम् इच्छामः श्राव्यं दृश्यं मनोहरम् ।
धर्म्यं यशस्यम् अर्थ्यं च सर्व-शिल्प-प्रदर्शनम्

1.47

परं पञ्चमम् आम्नायं सर्व-वर्णाधिकारिकम् ।
इति पृष्टः स तैर् ब्रह्मा सर्व-वेदान् अनुस्मरन्

1.48

तेभ्यश् च सारम् आदाय नाट्य-वेदम् अथासृजत् ।
अध्याप्य भरताचार्यं प्रजापतिर् अभाषत

1.49

सह पुत्रैर् इमं वेदं प्रयोगेण प्रकाशय ।
इति तेन नियुक्तस् तु भरतः सह सूनुभिः

1.50

प्रायोजयत् सुधर्मायाम् इन्द्रस्याग्रेऽ प्सरो-गणैः ।
सर्व-लोकोपकाराय नाट्य-शास्त्रं च निर्ममे

1.51

तथा तद्-अनुसारेण शाण्डिल्यः कोहलोऽ पि च ।
दत्तिलश् च मतङ्गश् च ये चान्ये तत्-तनूद्भवाः

1.52

ग्रन्थान् नाना-विधांश् चक्रुः प्रख्यातास् ते महीतले ।
तेषाम् अतिगभीरत्वाद् विप्रकीर्ण-क्रमत्वतः

1.53

सम्प्रदायस्य विच्छेदात् तद्-विदां विरलत्वतः ।
प्रायो विरल-सञ्चारा नाट्य-पद्धतिर् अस्फुटा

1.54

तस्माद् अस्मत्-प्रयत्नोऽ यं तत्-प्रकाशन-लक्षणः ।
सारैक-ग्राहिणां चित्तम् आनन्दयति धीमताम्

1.55

नेदानीन्तन-दीपिका किम् उ तमः-सङ्हातम् उन्मूलयेज्
ज्योत्स्ना किं न चकोर-पारण-कृते तत्-काल-संशोभिनी ।
बालः किं कमलाकरान् दिन-मणिर् नोल्लासयेद् अञ्जसा
तत् सम्प्रत्य् अपि मादृशाम् अपि वचः स्याद् एव सम्प्रीतये

1.56

स्वच्छ-स्वादु-रसाधारो वस्तु-च्छाया-मनोहरः ।
सेव्यः सुवर्ण-निधिवन् नाट्य-मार्गः स-नायकः

1.57

सात्त्विकाद्यैर् अभिनयैः प्रेक्षकाणां यतो भवेत् ।
नटे नायक-तादात्म्य-बुद्धिस् तन् नाट्यम् उच्यते

1.58

रसोत्कर्षो हि नाट्यस्य प्राणास् तत् स निरूप्यते ।
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः

1.59

आनीयमानः स्वादुत्वं स्थायी भावो रसः स्मृतः ।
अथ विभावाः-
तत्र ज्ञेयो विभावस् तु रस-ज्ञापन-कारणम्

1.60

बुधैर् ज्ञेयोऽ यम् आलम्ब उद्दीपन इति द्विधा ।
आधार-विषयत्वाभ्यां नायको नायिकापि च

1.61

तत्र नायकः--
आलम्बनं मतं तत्र नायको गुणवान् पुमान् ।
तद्-गुणास् तु महा-भाग्यम् औदार्यं स्थैर्य-दक्षते

1.62

औज्ज्वल्यं धार्मिकत्वं च कुलीनत्वं च वाग्मिता ।
कृतज्ञत्वं नयज्ञत्वं शुचिता मान-शालिता

1.63

तेजस्विता कलावत्त्वं प्रजा-रञ्जकतादयः ।
एते साधारणाः प्रोक्ताः नायकस्य गुणा बुधैः

1.64

तत्र महाभाग्यम्-
सर्वातिशायि-राज्यत्वं महाभाग्यम् उदाहृतम्

1.65

64अब्
यथा-
पौत्रः कुशस्यापि कुशेशयाक्षः
ससागरां सागर-धीर-चेताः ।
एकातपत्रां भुवम् एक-वीरः
पुरार्गलादीर्घ-भुजो बुभोज

1.66

(र.वं. 18.4)
अथ औदार्यम्-
यद्-विश्राणन-शीलत्वं तद् औदार्यं बुधा विदुः

1.67

64च्द्
यथा-
जनस्य साकेत-निवासिनस् तौ
द्वाव् अप्य् अभूताम् अभिनन्द्य-सत्त्वौ ।
गुरु-प्रदेयाधिक-निःस्पृहोऽ र्थी
नृपोऽ र्थि-कामाद् अधिक-प्रदश् च

1.68

(र.वं. 5.37)
अथ स्थैर्यम्-
व्यापारं फल-पर्यन्तं स्थैर्य्म् आहुर् मनीषिणः

1.69

65अब्
यथा-
न नवः प्रभुर् आफलोदयात्
स्थिर-कर्मा विरराम कर्मणः ।
न च योग-विधेर् नवेतरः
स्थिर-धीरा परमात्म-दर्शनात्

1.70

(र.वं. 8.22)
अथ दक्षता-
दुष्करे क्षिप्र-कारित्वं दक्षतां परिचक्षते

1.71

65च्द्
यथा-
वालधिं त्रातुम् आवृत्य चमरेणार्पिते गले ।
पतन्तम् इषुम् अन्येन स कृपालुर् अखण्डयत्

1.72

[*1]
[*1] सोमे म्स्स्. हवे थे fओल्लोwइन्ग् एxअम्प्ले: स दक्षिणं तूण-मुखेन वामं । व्यापारयन् हस्तम् अलक्ष्यताजौ । आकर्ण-कृष्टा सकृद् अस्य योद्धुम् । और्वीव बाणान् सुषुवे रिपु-घ्नान् ॥(र.वं. 7.57)
अथ औज्ज्वल्यम्-
औज्ज्वल्यं नयनानन्द-कारित्वं कथ्यते बुधैः

1.73

66अब्
यथा-
ता राघवं चक्षुर्भिर् आपिबन्त्यो
नार्यो न जग्मुर् विषयान्तराणि ।
तथा हि शेषेन्द्रिय-वृत्तिर् आसां
सर्वात्मना चक्षुर् इव प्रविष्टा

1.74

(र.वं. 7.12)
अथ धर्मिकत्वम्-
धर्म-प्रवण-चित्तत्वं धार्मिकत्वम् इतीर्यते

1.75

66च्द्
यथा-
स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये ।
अप्य् अर्थ-कामौ तस्यास्तां धर्म एव मनीषिणः

1.76

(र.वं. 7.25)
अथ कुलीनत्वम्-
कुले महति सम्भूतिः कुलीनत्वम् उदाहृतम्

1.77

67अब्
यथा-
सूर्याचन्द्रमसौ यस्य मातामह-पितामहौ ।
स्वयं वृतः पतिर् द्वाभ्यां उर्वश्या च भुवा च यः

1.78

(वि.उ. 4.19)
अथ वाग्मिता-
वाग्मिता तु बुधैर् उक्ता समयोचित-भाषिता

1.79

67च्द्
यथा-
ननु वज्रिण एव वीर्यम् एतद्
विजयन्ते द्विषतो यद् अस्य पक्ष्याः ।
वसुधाधर-कन्दराद् विसर्पी
प्रतिशब्दोऽ पि हरेर् भिनत्ति नागान्

1.80

(वि.उ. 1.18)
अथ कृतज्ञत्वम्-
कृतानाम् उपकाराणाम् अभ्ज्ञत्वं कृतज्ञता

1.81

68अब्
यथा-
एकस्यैवोपकारस्य प्राणान् दास्यामि ते कपे ।
प्रत्यहं क्रियमाणस्य शेषस्य ऋणिनो वयम्

1.82

(ह.ना. 13.35)
अथ नयज्ञत्वम्-
सामाद्य्-उपाय-चातुर्यं नयज्ञत्वम् उदाहृतम्

1.83

68च्द्
यथा-
अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग् विनियोग-सत्-क्रियाः ।
फलन्त्य् उपायाः परिबृंहितायतीर्
उपेत्य सङ्घर्षम् इवार्थ-सम्पदः

1.84

(कि.आ. 1.15)
अथ शुचिता-
अन्तः-करण-शुद्धिर् या शुचिता सा प्रकीर्तिता

1.85

69अब्
यथा-
का त्वं शुभे कस्य परिग्रहो वा
किं वा मद्-अभ्यागम-कारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां
मनः पर-स्त्री-विमुख-प्रवृत्ति

1.86

(र.वं. 16.8)
अथ मानिता-
अकार्पण्य-सहिष्णुत्वं कथिता मान-शालिता

1.87

69च्द्
यथा-
सन्तुष्टे तिसृणाम् पुराम् अपि रिपौ कण्डूल-दोर्-मण्डली-
क्रीडा-कृत्त-पुनः-प्ररूढ-शिरसो वीरस्य लिप्सोर् वरम् ।
याच्ञा-दैन्य-पराञ्चि यय्स कलहायन्ते मिथ्यस् त्वं वृणु
त्वं वृण्व् इत्य् अभितो मुखानि स दशग्रीवः कथं वर्ण्यताम्

1.88

(अ.रा. 3.41)
अथ तेजस्विता-
तेजस्वित्वम् अवज्ञादेर् असहिष्णुत्वम् उच्यते

1.89

70अब्
यथा-
सोऽ यं त्रिः सप्त-वारान् अविकल-विहित-क्षत्र-तन्तु-प्रमारो
वीरः क्रौञ्चस्य भेदी कृत-धरणि-तलापूर्व-हंसावतारः ।
जेता हेरम्ब-भृङ्गि-प्रमुख-गण-चमू-चक्रिणस् तार-कारेस्
त्वां पृच्छन् जामदग्न्यः स्व-गुरु-हर-धनुर् भङ्ग-रोषाद् उपैति

1.90

(म.वी.च. 2.17)
अथ कलावत्त्वम्-
कलावत्त्वं निगदितं सर्व-विद्यासु कौशलम्

1.91

70च्द्
यथा-
गोष्ठीषु विद्वज्-जन-संचितस्य
कला-कलापस्य स तारतम्यम् ।
विवेक-सीमा विगतावलेपो
विवेद हेम्नो निकषाश्मनीव

1.92

अथ प्रजा-रञ्जकत्वम्-
रञ्जकत्वं तु सकल-चित्ताह्लादन-कारिता

1.93

71अब्
यथा-
अहम् एव मतो महीपतेर् इति सर्वः प्रकृतिष्व् अचिन्तयत् ।
उदधेर् इव निम्नगाशतेष्व् अभवन् नास्य विमानना क्वचित्

1.94

उक्तैर् गुणैश् च सकलैर् युक्तः स्याद् उत्तमो नेता । 71च्द्
मध्यः कतिपय-हीनो बहु-गुण-हीनोऽ धमो नाम

1.95

नेता चतुर्विधोऽ सौ धीरोदात्तश् च धीर-ललितश् च । 72
धीर-प्रशान्त-नामा ततश् च धीरोद्धतः ख्यातः

1.96

तत्र धीरोदात्तः-
दयावान् अतिगम्भीरो विनीतः सत्त्व-सारवान् । 73
दृढ-व्रतस् तितिक्षावान् आत्मश्लाघापराङ्मुखः ।
निगूढाहङ्कृतिर् धीरैर् धीरोदात्त उदाहृतः

1.97

74
तत्र दयावत्त्वम्-
दयातिशय-शालित्वं दयावत्त्वम् उदाहृतम्

1.98

75अब्
यथा-
स-शोणितैस् तेन शिलीमुखाग्रैर्
निक्षेपिताः केतुषु पार्थिवानाम् ।
यशो हृतं सम्प्रति राघवेण
न जीवितं वः कृपयेति वर्णाः

1.99

(र.वं. 7.65)
अतिगम्भीरता-
गाम्भीर्यम् अविकारः स्यात् सत्य् अपि क्षोभ-कारणे

1.100

75च्द्
यथा-
दधतो मङ्गल-क्षौमे वसानस्य च बल्कले ।
ददृशुर् विस्मितास् तस्य मुख-रागं समं जनाः

1.101

[रघु. 12.8]
विनीतत्वं-
अवलोक एव नृपतेः स्म दूरतो
रभसाद् रथाद् अवतरीतुम् इच्छतः ।
अवतीर्णवान् प्रथमम् आत्मना हरिर्
विनयं विशेषयति सम्भ्रमेण सः

1.102

(माघ. 13.7)
सत्त्व-सारत्वम्, यथा-
उत्स्मायित्वा महाबाहुः प्रेक्ष्य चास्थि महाबलः ।
पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दश-योजनम्

1.103

(रामा. 1.1.65)
दृढ-व्रतत्वं, यथा-
तम् अशक्यम् अपाक्रष्टुं निदेशात् स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात् कर्तुं राज्याधिदेवते

1.104

(र.वं. 12.17)
तितिक्षावत्त्वं, यथा-
प्रतिवाचम् अदत्त केशवः
शपमानाय न चेदि-भूभुजे ।
अनुहुङ्कुरुते घन-ध्वनिं
न हि गोमायु-रुतानि केसरी

1.105

(माघ. 16.25)
आत्म-श्लाथापराङ्मुखत्वं, यथा-
तस्य संस्तूयमानस्य चरितार्थैस् तपस्विभिः ।
शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः

1.106

(र.वं. 15.27)
निगूढाहङ्कारत्वं, यथा-
भूमात्रं कियद् एतद् अर्णव्मितं तत् साधितं हार्यते
यद् वीरेण भवादृशेन वदता त्रिः सप्त-कृत्वो जयम् ।
डिम्भोऽ हं नव-बाहुर् ईदृ;चम् इदं घोरं च वीर-व्रतं
तत् क्रोधाद् विरम प्रसीद भगवन् जात्यैव पूज्योऽ सि नः

1.107

(अनर्घ. 4.35)
अथ धीर-ललितः-
निश्चिन्तो धीर-ललितस् तरुणो वनिता-वशः

1.108

76अब्
यथा-
सोऽ धिकारम् अभिकः कुलोचितं
काश्चन स्वयम् अवर्तयत् समाः ।
संनिवेश्य सचिवेष्व् अतःपरं
स्त्री-विधेय-नव-यौवनोऽ भवत्

1.109

(र.वं. 19.4)
अथ धीर-शान्तः -
शम-प्रकृतिकः क्लेश-सहिष्णुश् च विवेचकः । 76च्द्
ललितादि-गुणोपेतो विप्रो वा सचिवो वणिक् ।
धीर-शान्तश् चारुदत्त-माधवादिर् उदाहृतः

1.110

77
यथा-
कुवलय-दल-श्यामोऽ प्य् अङ्गं दधत् परिधूसरं
ललित-विकट-न्यासः श्रीमान् मृगाङ्क-निभाननः ।
हरति विनयं वामो यस्य प्रकाशित-साहसः
प्रविगलद्-असृक्-पङ्कः पाणिर् ललन् नर-जाङ्गलः

1.111

(मालतीमाधवम् 5.5)
अथ धीरोद्धतः-
मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः ।
विकत्थनो भार्गवादिर् धीरोद्धत उदाहृतः

1.112

78
यथा-
न त्रस्तं यदि नाम भूत-करुणा-सन्तान-शान्तात्मनस्
तेन व्यारुजता धनुर् भगवतो देवाद् भवानी-पतेः । तत्-पुत्रस् तु मदान्ध-तारक-वधाद् विश्वस्य दत्तोत्सवः
स्कन्दः स्कन्द इव प्रियोऽ हम् अथवा शिष्यः कथं विस्मृतः

1.113

(महावीर 2.28)
एते च नायकाः सर्व-रस-साधारणाः स्मृताः ।
शृङ्गारापेक्षया तेषां त्रैविध्यं कथ्यते बुधैः

1.114

79
पतिश् चोपपतिश् चैव वैशिकश् चेति भेदतः ।
पतिस् तु विधिना पाणिग्राहकः कथ्यते बुधैः

1.115

80
यथा-
स मानसीं मेरु-सखः पितॄणां
कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनाम् अपि माननीयाम्
आत्मानुरूपां विधिनोपयेमे

1.116

(कु.सं. 1.18)
चतुर्धा सोऽ पि कथितो वृत्त्या काव्य-विचक्षणैः ।
अनुकूलः शठो धृष्टो दक्षिणश् चेति भेदतः

1.117

81
तत्र-
अनुकूलस् त्व् एक-जानिः

1.118

82अ
तत्र धीरोदात्तानुकूलो, यथा-
सीतां हित्वा दशमुख-रिपुर् नोपयेमे यद् अन्यां
तस्या एव प्रतिकृति-सखो यत् क्रतूनाजहार ।
वृत्तान्तेन श्रवण-विषय-प्रापिणा तेन भर्तुः
सा दुर्वारं कथम् अपि परित्याग-दुःखं विषेहे

1.119

(र.वं. 14.87)
धीर-ललितानुकूलो, यथा-
स कदाचिद् अवेक्षित-प्रजः
सह देव्या विजहार सुप्रजाः ।
नगरोपवने शची-सखो
मरुतां पालयितेव नन्दने

1.120

(र.वं. 8.32)
धीरशान्तानुकूलो, यथा-
प्रिय-माधवे किम् असि मय्य् अवत्सला
ननु सोऽ हम् एव यम् अनन्दयत् पुरा ।
स्वयम् आगृहीत-कमनीय-कङ्कणस्
तव मूर्तिमान् इव महोत्सवः करः

1.121

(मालती-माधवे 9.9)
धीरोद्धतानुकूलो, यथा-
किं कण्ठे शिथिलीकृतो भुज-लता-पाशः प्रमादान् मया
निद्राच्छेद-विवर्तनेष्व् अभिमुखं नाद्यासि सम्भाविता ।
अन्य-स्त्री-जन-सङ्कथा-लघुर् अहं स्वप्नेऽ पि नालक्षितो
दोषं पश्यसि कं प्रिये परिजनोपालम्भ-योग्ये मयि

1.122

(वेणी 2.9)
अथ शठः-
शठो गूढापराध-कृत्

1.123

82ब्
यथा-
स्वप्न-कीर्तित-विपक्षम् अङ्गनाः
प्रत्यभैत्सुर् अवदन्त्य् एव तम् ।
प्रच्छदान्त-गलिताश्रु-बिन्दुभिः
क्रोध-भिन्न-वलयिर् विवर्तनैः

1.124

(र.वं. 19.22)
अथ धृष्टः-
धृष्टो व्यक्तान्य-युवती-भोग-लक्ष्मापि निर्भयः

1.125

82च्द्
यथा ममैव-
को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया

1.126

अथ दक्षिणः-
नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते

1.127

83अब्
यथा-
स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽ ङ्ग-राज-स्वसुर्
द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च ।
इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते
देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः

1.128

अथ उपपतिः-
लङ्घिताचारया यस् तु विनापि विधिना स्त्रिया । 83च्द्
सङ्केतं नीयते प्रोक्तो बुधैर् उपपतिस् तु सः

1.129

84अब्
यथा-
भर्ता निःश्वसितेऽ प्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ऊहालिहो यातरः ।
तद् दूराद् अयम् अञ्जलिः किम् अमुना दृघङ्गि-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽ यम् अत्र श्रमः

1.130

दाक्षिण्यम् आनुकूल्यं च धार्ष्ट्यं चानियतत्वतः । 84च्द्
नोचितान्यस्य शाठ्यं स्याद् अन्य-चित्तत्व-सम्भवात्

1.131

85अब्
शठोपपतिर्, यथा-
मज्झण्णे जण-सुण्णे करिणीए भक्खिदेसु कमलेसु ।
अविसेसण्ण कहं बिअ गदो सि सण-बाड्डिअं दट्ठुं

1.132

[मध्याह्ने जन-शून्ये करिण्या भक्षितेषु कमलेषु ।
अविशेषज्ञ कथम् इव गतोऽ सि शण-वाटिकां द्रष्टुम् ॥]
अत्र कयाचित् स्वैरिण्यां मयि सङ्केतं गतायां त्वं तु शाण-वाटिकायां कथापि रन्तुं गतोऽ सीति व्यङ्ग्यार्थेनान्यासङ्ग-सूचनाद् अयं शठोपपतिः ।
अथ वैशिकः-
रूपवान् शील-सम्पन्नः शास्त्रज्ञः प्रिय-दर्शनः । 85च्द्
कुलीनो मतिमान् शूरो रम्य-वेष-युतो युवा

1.133

अदीनः सुरभिस् त्यागी सहनः प्रिय-भाषणः । 86
शङ्क-विहीनो मानी च देश-काल-विभाग-वित्

1.134

दाक्ष्य-चातुर्य-माधुर्य-सौभाग्यादिभिर् अन्वितः । 87
वेश्योपभोग-रसिको यो भवेत् स तु वैशिकः

1.135

कलकण्ठादिको लक्ष्यो भाणादाव् एव वैशिकः । 88
स त्रिधा कथ्यते ज्येष्ठ-मध्य-नीच-विभेदतः

1.136

89अब्
तेषां लक्षणानि भाव-प्रकाशिकायाम् उक्तानि । यथा-
असङ्गोऽ पि स्वभावेन सक्तवच् चेष्टते मुहुः ।
त्यागी स्वभाव-मधुरः सम-दुःख-सुखः शुचिः

1.137

काम-तन्त्रेषु निपुणः क्रुद्धानुनय-कोविदः ।
स्फुरिते चाधरे किंचिद् दयिताया विरज्यति

1.138

उपचार-परो ह्य् एष उत्तमः कथ्यते बुधैः ।
व्यलीक-मात्रे दृष्टेऽ स्या न कुप्यति न रज्यति

1.139

ददाति काले काले च भावं गृह्णाति भावतः ।
सर्वार्थैर् अपि मध्य-स्थस् ताम् एवोपचरेत् पुनः

1.140

दृष्टे दोषे विरज्येत स भवेन् मध्यमः पुमान् ।
काम-तन्त्रेषु निर्लज्जः कर्कशो रति-केलिषु

1.141

अविज्ञात-भयामर्षः कृत्याकृत्य-विमूढ-धीः ।
मूर्खः प्रसक्त-भावश् च विरक्तायाम् अपि स्त्रियाम्

1.142

मित्रैर् निवार्यमाणोऽ पि पारुष्यं प्रापितोऽ पि च ।
अन्य-स्नेह-परावृत्तां संक्रान्त-रमणाम् अपि ।
स्त्रियं कामयते यस् तु सोऽ धमः परिकीर्तितः

1.143

[भा.प्र. 5.37-44] इति ।
अथ शृङ्गार-नेतॄणां साहाय्य-करणोचिताः । 89च्द्
निरूप्यन्ते पीठमर्द-विट-चेट-विदूषकाः

1.144

तथ पीठमर्दः-
नायकानुचरो भक्तः किञ्चिद् ऊनश् च तद्-गुणैः । 90
पीठमर्द इति ख्यातः कुपित-स्त्री-प्रसादकः

1.145

काम-तन्त्र-कला-वेदी विट इत्य् अभिधीयते । 91
सन्धान-कुशलश् चेटः कलहंसादिको मतः ।
विकृताङ्ग-वचो-वेषैर् हास्य-कारी विदूषकः

1.146

92
अथ सहाय-गुणाः-
देश-कालज्ञता भाषा-माधुर्यं च विदग्धता ।
प्रोत्साहने कुशलता यथोक्त-कथनं तथा । 93
निगूढ-मन्त्रतेत्य् आद्याः सहायानां गुणा मताः

1.147

इति नायक-प्रकरणम्
अथ नायिका निरूप्यन्ते-
नेतृ-साधारण-गुणैर् उपेता नायिका मता । 94
स्वकीया परकीया च सामान्या चेति सा त्रिधा

1.148

तत्र स्वकीया-
सम्पत्-काले विपत्-काले या न मुञ्चति वल्लभम् । 95
शीलार्जव-गुणोपेता सा स्वकीया कथिता बुधैः

1.149

यथा-
किं तादेण णरिन्द-सेहर-सिहालीढग्गपादेण मे
किं वा मे ससुरेण वासव-महा-सिंहासणद्धासिणा ।
ते देसा गिरिणो अ दे वणमही सच्चेअ मे वल्लहा
कोसल्लातणअस्स जत्थ चलणे वन्दामि णन्दामि अ

1.150

(बाल-रामायण 6.79)
[किं तातेन नरेन्द्र-शेखर-शिखालीढाग्र-पादेन मे
किं वा मे श्वशुरेण वासव-महा-सिंहासनाध्यासिना ।
ते देशा गिरयश् च ते वन-मही सा चैव मे वल्लभाः
कौसल्या-तनयस्य यत्र चरणौ वन्दे च नन्दामि च ॥]
सा च स्वीया त्रिधा मुग्धा मध्या प्रौढेति कथ्यते

1.151

96
तत्र मुग्धा-
मुग्धा नव-वयः-कामा रतौ वामा मृदुः क्रुधि ।
यतते रत-चेष्टायां गूढं लज्जा-मनोहरम्

1.152

97
कृतापराधे दयिते वीक्षते रुदती सती ।
अप्रियं वा प्रियं वापि न किञ्चिद् अपि भाषते

1.153

98
वयसा मुग्धा, यथा ममैव-
उल्लोलितं हिमकरे निविडान्धकारम्
उत्तेजितं विषम-साधक-बाण-युग्मम् ।
उन्मज्जितं कनक-कोरक-युग्मम्
अस्याम् उल्लासिता च गगने तनु-वीचि-रेखा

1.154

नव-कामा, यथा ममैव-
बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
आलज्जते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भाव-नवावतारः

1.155

रतौ वामत्वं, यथा ममैव-
आलोक्य हार-मणि-बिम्बितम् आत्म-कान्तम्
आलिङ्गतीति सहसा परिवर्तमाना ।
आलम्बिता करतले परिवेपमाना
सा सम्भ्रमात् सहचरीम् अवलम्बते स्म

1.156

मृदु-कोपत्वं, यथा ममैव-
व्यावृत्ति-क्रमणोद्यमेऽ पि पदयोः प्रत्युद्गतौ वर्तनं
भ्रूभेदोऽ पि तद् ईक्षण-व्यसनिना व्यस्मारि मे चक्षुषा ।
चाटूक्तानि करोति दग्ध-रसना रुक्षाक्ष्रेऽ प्य् उद्यता
सख्यः किं करवाणि मान-समये सङ्घात-भेदो मम

1.157

स-व्रीड-सुरत-प्रयतनं, यथा-
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे
संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः

1.158

(रत्नावली 1.2)
क्रोधाद् अभाषणा रुदती, यथा ममैव-
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोज-शशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुम् अपारयन्त्याम्
इन्दीवर-द्वयम् अवाप तुषार-धाराम्

1.159

अथ मध्या-
समान-लज्जा-मदना प्रोद्यत्-तारुण्य-शालिनी ।
मध्या कामयते कान्तं मोहान्त-सुरत-क्षमा

1.160

99
अथ तुल्य-लज्जा-स्मरत्वं, यथा ममैव-
कान्ते पश्यति सानुरागम् अबला साचीकरोत्य् आननं
तस्मिन् काम-कलाप-कुशले व्यावृत्त-वक्त्रे किल ।
पश्यन्ती मुहुर् अन्तरङ्ग-मदनं दोलायमानेक्षणा
लज्जा-मन्मथ-मध्यगापि नितरां तस्याभवत् प्रीतये

1.161

प्रोद्यत्-तारुण्य-शालित्वं, यथा ममैव-
नेत्राञ्चलेन ललिता वलिता च दृष्टिः
सख्यं करोति जघनं पुलिनेन साकम् ।
चक्र-द्वयेन सदृशी कुच-कुड्मलौ च नित्या
विभाति नितरां मदनस्य लक्ष्मीः

1.162

मोहान्त-सुरत-क्षमत्वं, यथा ममैव-
आकीर्ण-घर्म-जलम् आकुल-केश-पाशम्
आमीलिताक्षि-युगम् आदृत-पारवश्यम् ।
आनन्द-कन्दलितम् अस्तमितान्य-भावम्
आशास्महे किम् अपि चेष्टितम् आयताक्ष्याः

1.163

मध्या त्रिधा मान-वृत्तेर् धीराधीरोभयात्मिका

1.164

तत्र धीरा-
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासं सागसं प्रियम्

1.165

100
यथा ममैव-
को दोषो मणि-मालिका यदि भवेत् कण्ठे न किं शङ्करो
धत्ते भूषणम् अर्ध-चन्द्रम् अमलं चन्द्रे न किं कालिमा ।
तत् साध्व् एव कृतं कृतं भणितिभिर् नैवापराद्धं त्वया
भाग्यं द्रष्टुम् अनीशयैव भवतः कान्तापराद्धं मया

1.166

[*2]
[*2] अल्सो अप्पेअर्स् अस् 1.125.
अथ अधीरा-
अधीरा परुषैर् वाक्यैः खेदयेद् वल्लभं रुषा

1.167

101अब्
यथा ममैव-
निःशङ्कम् आगतम् अवेक्ष्य कृतापराधं
काचिन् नितान्त-परुषं विनिवृत्त-वक्त्रा ।
किं प्रार्थनाभिर् अधिकं सुखम् एधि याहि
याहीति खिन्नम् अकरोद् असकृद् ब्रुवाणा

1.168

अथ धीराधीरा-
धीराधीर तु वक्रोक्त्या स-बाष्पं वदति प्रियम्

1.169

101च्द्
यथा ममैव-
आश्लेषोल्लसिताशयेन दयिताप्य् आर्द्रा त्वया चुम्बिता
चित्रोक्ति-श्रवणोत्सुकेन कलिता तस्यां निशानाथता ।
तद् युक्तं दिवसागमेऽ त्र जडता कार्श्यं कला-हीनता
राजन्न् इत्य् उदिताश्रु-गद्गद-पदं काचिद् ब्रवीति प्रियम्

1.170

अथ प्रगल्भा-
सम्पूर्ण-यौवनोन्मत्ता प्रगल्भा रूढ-मन्मथा ।
दयिताङ्गे विलीनेव यतते रति-केलिषु । 102
रत-प्रारम्भ-मात्रेऽ पि गच्छत्य् आनन्द-मूर्च्छताम्

1.171

103अब्
सम्पूर्ण-यौवनत्वम्, याथा-
उत्तुङ्गौ कुच-कुम्भौ रम्भा-स्तम्भोपमानम् ऊरु-युगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किम् आहितं सुकृतम्

1.172

रूढ-मन्मथा, याथा ममैव-
निःश्वासोल्लसद्-उन्नत-स्तन-तटं निर्दष्ट-बिम्बाधरं
निर्मृष्टाङ्ग-विलेपनैश् च करणैश् चित्रे प्रवृत्ते रते । काञ्ची-दाम विभिन्नम् अङ्गद-युगं भग्नं तथापि प्रियं
सम्प्रोत्साहयति स्म सा विदधती हस्तं क्वणत्-कङ्कणम्

1.173

मान-वृत्तेः प्रगल्भापि त्रिधा धीरादि-भेदतः

1.174

103च्द्
तत्र धीर-प्रगल्भा-
उदास्ते सुरते धीरा सावहित्था च सादरा

1.175

104अब्
यथा-
न प्रत्युद्गमनं करोति रशना-व्यासञ्जनादि-च्छलान्
नादत्ते नव-मञ्जरीम् अलि-भय-व्याजेन दत्ताम् अपि ।
दत्ते दर्पणम् आदरेण न गिरं रूक्षाक्षरं मानिनी
चातुर्याद् विदधाति मानम् अथवा व्यक्तीकरोति प्रिया

1.176

अथ अधीर-प्रगल्भा-
सन्तर्ज्य निष्ठुरं रोषाद् अधीरा ताडयेत् प्रियम्

1.177

104च्द्
यथा ममैव-
कान्ते सागसि काचिद् अन्तिक-गते निर्भर्त्स्य रोषारुणैर्
भ्रूभङ्गी-कुटिलैर् अपाङ्ग-वलनैर् आलोकमाना मुहुः ।
वध्वा मेखलया सपत्न-रमणी-पादाब्ज-लाक्षाङ्कितं
लीलानीलसरोरुहेण निटिलं हन्ति स्म रोषाकुला

1.178

अथ धीराधीर-प्रगल्भा-
धीराधीर-गुणोपेता धीराधीरेति कथ्यते

1.179

105अब्
यथा, ममैव-
प्रत्यासीदति सागसि प्रियतमे सा सम्भ्रमाद् उत्थिता
वैयात्यात् पुरतः स्थिते सति पुनर् मानावधूताशया ।
रात्रौ क्वासि न चेत् क्वचिन् माणिमयी माला कुतस् ते वदेत्य्
उक्त्वा मेखलया हतेन सहसाश्लिष्टा स-बाष्पं स्थिता

1.180

द्वेधा ज्येष्ठा कनिष्ठेति मध्या प्रौढापि तादृशी

1.181

105च्द्
उभे अपि, यथा-
एकत्रासन-सङ्गते प्रियतमे पश्चाद् उपेत्यादराद्
एकस्या नयने निमील्य विहित-क्रीडानुबन्ध-च्छलः ।
ईषद्-वक्रिम-कन्धरः स-पुलकः प्रेमोल्लसन्-मानसाम्
अन्तर्-हास-लसत्-कपोल-फलकां धूर्तोऽ परां चुम्बति

1.182

[अमरु 19]
अत्रेतरस्यां पश्यन्त्याम् अपि सम्भावनार्हतया पिहित-लोचनाया ज्येष्ठत्वम् । तत्र समक्षं सम्भावनानर्हत्वात् चुम्बितायाः कनीयस्त्वम् । एवम् इतरद्-उदाहार्यम् ।
धीराधीरादि-भेदेन मध्या-प्रौढे त्रिधा त्रिधा ।
ज्येष्ठा-कनिष्ट्ःआ-भेदेन ताः प्रत्येकं द्विधा द्विधा । 106
मुग्धा त्व् एक-विधा चैवं सा त्रयोदशधोदिता

1.183

107अब्
अथ परकीया-
अन्यापि द्विविधा कन्या परोढा चेति भेदतः

1.184

107च्द्
तत्र कन्या त्व् अनूढा स्यात् स-लज्जा पितृ-पालिता ।
सखी-केलिषु विस्रब्धा प्रायो मुग्धा-गुणान्विता

1.185

108
यथा-
तां नारदः काम-चरः कदाचित्
कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैक-वधूं भवित्रीं
प्रेम्णा शरीरार्ध-हरां हरस्य

1.186

[कु.सं. 1.50]
प्रधानम् अप्रधानं वा नाटकादाव् इयं भवेत् ।
मालती-माधवे लक्ष्ये मालती-मदयन्तिके

1.187

109
अथ परोढा-
परोढा तु परेणोढाप्य् अन्य-सम्भोग-लालसा ।
लक्ष्या क्षुद्र-प्रबन्धे सा सप्त-शत्यादिके बुधैः

1.188

110
यथा वा-
भर्ता निश्वसितेऽ प्य् असूयति मनो-जिघ्रः सपत्नी-जनः
श्वश्रूर् इङ्गित-दैवतं नयनयोर् ईहालिहो यातरः ।
तद् दूराद् अयम् अङ्जलिः किम् अमुना दृभङ्ग-पातेन ते
वैदग्धी-रचना-प्रपञ्च-रसिक व्यर्थोऽ यम् अत्र श्रमः

1.189

[*3]
[*3] थिस् वेर्से इस् नोत् fओउन्द् इन् अल्ल् एदितिओन्स्. वेन्कतछरि हस् नोत् इन्च्लुदेद् इत् इन् हिस् एदितिओन्.
अथ सामान्या-
साधारण-स्त्री गणिका कला-प्रागल्भ्य-धार्ष्ट्य-युक्

1.190

111अब्
यथा-
गाढालिङ्गन-पीडित-स्तन-तटं स्विद्यत्-कपोल-स्थलं
सन्दष्टाधर-मुक्त-सीत्कृतम् अतिभ्राम्यद्-भ्रु-नृत्यत्-करम् ।
चाटु-प्राय-वचो-विचित्र-भणितैर् यातै रुतैश् चाङ्कितं
वेश्यानां धृति-धाम पुष्प-धनुषः प्राप्नोति धन्यो रतम्

1.191

(शृङ्गार-तिलके 1.127)
एषा स्याद् द्विविधा रक्ता विरक्ता चेति भेदतः

1.192

111च्द्
तत्र रक्ता तु वर्ण्या स्याद् अप्राधान्येन नाटके ।
अग्निमित्रस्य विज्ञेया यथा राज्ञ इरावती

1.193

112
प्रधानम् अप्रधानं वा नाटकेतर-रूपके ।
सा चेद् दिव्या नाटके तु प्राधान्येनैव वर्ण्यते

1.194

113
यथा-
आ दर्शनात् प्रविष्टा सा मे सुर-लोक-सुन्दरी हृदयम् ।
बाणेन मकर-केतोः कृत-मार्गम् अबन्ध्य-पातेन

1.195

(विक्रमो. 2.2)
विरक्ता तु प्रहसन-प्रभृतिष्व् एव वर्ण्यते ।
तस्या धौर्य-प्रभृतयो गुआष् तद्-उपयोगिनः

1.196

114
छन्न-कामान् रतार्थाज्ञान् बाल-पाषण्ड-षण्डकान् ।
रक्तेव रञ्जयेद् इभ्यान् निःस्वान् मात्रा विवासयेत्

1.197

115
छन्न-कामाः श्रोत्रियादयः । रतार्था रति-सुख-प्रयोजनाः । अज्ञा मूढाः । शेषाः प्रसिद्धाः ।
अत्र केचिद् आहुः-
गणिकाया नानुरागो गुणवत्य् अपि नायके ।
रसाभास-प्रसङ्गः स्याद् अरक्तायाश् च वर्णने

1.198

अतश् च नाटकादौ तु वर्ण्या सा न भवेद् इति

1.199

116अब्
तथा चाहुः [शृ.ति. 1.62,64}-
सामान्या वनिता वेश्या सा द्रव्यं परम् इच्छता

1.200

गुण-हीने च न द्वेषो नानुरागो गुणिन्य् अपि ।
शृङ्गाराभास एतासु न शृङ्गारः कदाचन

1.201

इति ।
तन्-मतं नानुमनुते धीमान् श्री-सिंह-भूपतिः । 116
भावानुबन्धाभावे च नायिकात्व-पराहतेः

1.202

तस्याः प्रकरणादौ च नायिकात्व-विधानतः ।117
अनायिका-वर्णने तु रसाभास-प्रसङ्गतः

1.203

तथा प्रकरणादीनाम् अरसाश्रयतागतेः ।118
रसाश्रयं तु दशधेत्य् आदि-शास्त्र-विरोधतः

1.204

तस्मात् साधारण-स्त्रीणां गुण-शालिनि नायके । 119
भावानुबन्धः स्याद् एव रुद्रटस्यापि भाषणात्

1.205

120अब्
तत्राह रुद्रटः-(शृ.ति. 1.69)
ईर्ष्या कुल-स्त्रीषु न नायकस्य
निःशङ्क-केलिर् न पराङ्गनासु ।
वेश्यासु चैतद् द्वितयं प्ररूढं
सर्वस्वम् एतास् तद् अहो स्मरस्य

1.206

इति ।
उदात्तादि-भिदां केचित् सर्वासाम् अपि मन्वते । 120च्द्
तास् तु प्रायेण दृश्यन्ते सर्वत्र व्यवहारतः

1.207

प्रथमं प्रोषित-पतिका वास्क-सज्जा ततश् च विरहोत्का । 121
अथ खण्डिता मता स्यात् कलहान्तरिताभिसारिका चैव

1.208

कथिता च विप्रलब्धा स्वाधीन-पतिस् तथा चान्या । 122
शृङ्गार-कृतावस्थाभेदात् ताश् चाष्टधा भिन्नाः

1.209

तत्र प्रोषित-पतिका-
दूर-देशं गते कान्ते भवेत् प्रोषित-भर्तृका । 123
अस्यास् तु जागरः कार्श्यं निमित्तादि-विलोकनम्

1.210

मालिन्यम् अनवस्थानं प्रायः शय्या-निवेषणम् । 124
जाड्य-चिन्ता-प्रभृतयो विक्रियाः कथिता बुधैः

1.211

125अब्
यथा मम-
दूरे तिष्ठति सोऽ धुना प्रियतमः प्राप्तो वसन्तोदयः
कष्टं कोकिल-कूजितानि सहसा जातानि दम्भोलयः ।
अङ्गान्य् अप्य् अवशानि यान्ति तनुतां यातीव मे चेतना
हा कष्टं मम दुष्कृतस्य महिमा चन्द्रोऽ पि चण्डायते

1.212

अथ वासक-सज्जिका-
भरतादयैर् अभिदधे स्त्रीणाम् वारस् तु वासकः । 125च्द्
स्ववासक-वशात् कान्ते समेष्यति गृहान्तरम्

1.213

सज्जी-करोति चात्मानं या सा वासक-सज्जिका । 126
अस्यास् तु चेष्टाः सम्पर्क-मनोरथ-विचिन्तनम्

1.214

सखी-विनोदो हृल्-लेखो मुहुर् दूति-निरीक्षणम् । 127
प्रियाभिगमन-मार्गाभिवीक्षण-प्रमुखा मताः

1.215

128अब्
यथ ममैव-
केली-गृहं गमित-शयनं भूषितं चात्म-देहं
दर्शं दर्शं दयित-पदवीं सादरं वीक्षमाणा ।
काम-क्रीडां मनसि विविधां भाविनी कल्पयन्ती
सारङ्गाक्षी रण-रणिकया निःश्वसन्ती समास्ते

1.216

अथ विरहोत्कण्ठिता-
अनागसि प्रियतमे चिरयत्य् उत्सुका तु या । 128
विरहोत्कण्ठिता भाव-वेदिभिः सा समीरिता

1.217

अस्यास् तु चेष्टा हृत्-तापो वेपथुश् चाङ्ग-सादनम् । 129
अरतिर् बाष्प-मोक्षश् च स्वावस्था-कथनादयः

1.218

130अब्
यथा ममैव-
चिरयति मनः-कान्ते कान्ता निरागसि सोत्सुका
मधु मलयजं माकन्दं वा निरीक्षितुम् अक्षमा ।
गलित-पलितं नो जानीते कराद् अपि कङ्कणं
परभृत-रुतं श्रुत्वा बाष्पं विमुञ्चति वेपते

1.219

अथ खण्डिता-
उल्लङ्घ्य समयं यस्याः प्रेयान् अन्योपभोगवान् । 130च्द्
भोग-लक्ष्माञ्चितः प्रातर् आगच्छेत् सा हि खण्डिता

1.220

अस्यास् तु चिन्ता निःश्वासस् तूष्णीं-भावोऽ श्रु-मोचनम् । 131
खेद-भ्रान्त्य्-अस्फुटालापा इत्य् आद्या विक्रिया मताः

1.221

यथा ममैव-
प्रभाते प्राणेशं नव-मदन-मुद्राङ्कित-तनुं
वधूर् दृष्ट्वा रोषात् किम् अपि कुटिलं जल्पति मुहुः ।
मुहुर् धत्ते चिन्तां मुहुर् अपि परिभ्राम्यति मुहुर्
विधत्ते निःश्वासं मुहुर् अपि च बाष्पं विसृजति

1.222

अथ कलहान्तरिता-
या सखीनां पुरः पाद-पतितं वल्लभं रुषा । 132
निरस्य पश्चात् तपति कलहान्तरिता हि सा

1.223

अस्यास् तु भ्रान्ति-संलापौ मोहो निःश्वसितं ज्वरः । 133
मुहुः प्रलाप इत्य् आद्या इष्टाश् चेष्टा मनीषिभिः

1.224

यथा ममैव-
निःशङ्का नितरां निरस्य दयितं पादानतं प्रेयसी
कोपेनाद्य कृतं मया किम् इदम् इत्य् आर्ता सखीं जल्पति ।
सोद्वेगं भ्रमति क्षिपत्य् अनुदिशं दृष्टिं विलोलाकुलां
रम्यं द्वेष्टि मुहुर् मुहुः प्रलपति श्वासाधिकं मूर्च्छति

1.225

अथ अभिसारिका (स्वीया)-
मदनानल-सन्तप्ता याभिसारयति प्रियम् । 134
ज्योत्स्ना-तामस्विनी यान-योग्याम्बर-विभूषणा

1.226

स्वयं वाभिसरेद् या तु सा भवेद् अभिसारिका । 135
अस्याः सन्ताप-चिन्ताद्या विक्रियास् तु यथोचितम्

1.227

कान्ताभिसरणए स्वीया लज्जानाशादि-शङ्कया । 136
व्याघ्र-हुङ्कार-सन्त्रस्त-मृग-शाव-विलोचना

1.228

नील्यादि-रक्त-वसन-रचिताङ्गावगुण्ठना । 137
स्वाङ्गे विलीनावयवा निःशब्दं पाद-चारिणी

1.229

सुस्निग्धैक-सखी-मात्र-युक्ता याति समुत्सुका । 138
मृषा प्रिये तु निद्राणे पार्श्वे तिष्ठति निश्चला

1.230

गर्वातिरेक-निभृता शीतैः स्रग्-दाम-चन्दनैः । 139
भावज्ञा बोधयत्य् एनं तद्-भावावेक्षणोत्सुका

1.231

यथा-
तमः-सवर्णं विदधे विभूषणं
निनाद-दोषेण नुनोद नूपुरम् ।
प्रतीक्षितुं न स्फुट-चन्द्रिका-भयाद्
इयेष दूतीम् अभिसारिका-जनः

1.232

यथा वा-
मल्लिका-माल-भारिण्यः
सर्वाङ्गीणार्द्र-चन्दनाः ।
क्षौमवत्यो न लक्ष्यन्ते
ज्योत्स्नायाम् अभिसारिका

1.233

(काव्यादर्श 2.213)
(अन्याङ्गनाभिसारिका-कन्यका)
स्वीयावत् कन्यका ज्ञेया कान्ताभिसरण-क्रमे

1.234

140
(वेश्याभिसारिका)
वेश्याभिसारिका त्व् एति हृष्टा वैशिक-नायकम् ।
आविर्भूत-स्मित-मुखी मद-घूर्णित-लोचना

1.235

141
अनुलिप्ताखिलाङ्गी च विचित्राभरणान्विता ।
स्नेहाङ्कुरित-रोमाञ्च-स्फुटीभूत-मनोभवा

1.236

142
संवेष्टिता परिजनैर् भोगोपकरणान्वितैः ।
रशनाराव-माधुर्य-दीपितानङ्ग-वैभवा

1.237

143
चरणाम्बुज-संलग्न-मणि-मञ्जीर-मञ्जुला ।
एषा च मृदु-संस्पर्शैः केश-कण्डूयनादिभिः । 144
प्रबोधयति तद्-बोधे प्रणयात् कुपितेक्षणा

1.238

यथा मम-
मासि मधौ चन्द्रातप-धवलायां निशि सखी-जनालापैः ।
मदनातुराभिसरति प्रणयवती यं स एव खलु धन्यः

1.239

अथ प्रेष्याभिसारिका-
बाहु-विक्षेप-लुलित-स्रस्त-धम्मिल्ल-मल्लिका । 145
चलित-भ्रू-विकारादि-विलास-ललितेक्षणा

1.240

मैरेयाविरतास्वाद-मद-स्खलित-जल्पिता । 146
प्रेष्याभियाति दयितं चेटीभिः सह गर्विता

1.241

प्रियं कङ्कण-निक्वाण-मञ्जु-व्यजन-वीजनैः । 147
विबोध्य निर्भर्त्सयति नासाभङ्ग-पुरःसरम्

1.242

यथा-
स्रस्त-स्रक्-कबरी-भरं सललित-भ्रूवल्-लिहालामदा-
व्यक्तालापम् इतस् ततः प्रतिपदं विक्षिप्त-बाहालता ।
सोत्कण्ठं दयिताभिसृत्य शयितं कान्तं क्वणत्-कङ्कण-
क्वाणेन प्रतिबोध्य भर्त्सयति यं धन्यः स एकः पुमान्

1.243

अथ विप्रलब्धा-
कृत्वा सङ्केतम् अप्राप्ते दैवाद् व्यथिता तु या । 148
विप्रलब्धेति सा प्रोक्ता बुधैर् अस्यास् तु विक्रिया ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसनादयः

1.244

149
यथा ममैव-
चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः

1.245

अथ स्वाधीन-भर्तृका-
स्वायत्तासन्न-पतिका हृष्टा स्वाधीन-वल्लभा ।
अस्यास् तु चेष्टाः कथिताः स्मर-पूजा-महोत्सवः । 150
वन-केलि-जल-क्रीडा-कुसुमापचयादयः

1.246

यथा ममैव-
सलीलं धम्मिल्ले दर-हसित-कह्लार-रचनां
कपोले सोत्कम्पं मृग-मद-मयं पत्र-तिलकम् ।
कुचाभोगे कुर्वन् ललित-मकरीं कुङ्कुम-मयीं
युवा धन्यः सोऽ यं मदयति च नित्यं प्रियतमाम्

1.247

उत्तमा मध्यमा नीचेत्य् एवं सर्वाः स्त्रियस् त्रिधा

1.248

151
तत्रोत्तमा-
अभिजातैर् भोग-तृप्तैर् गुणिभिर् या च काम्यते ।
गृह्णाति कारणे कोपम् अनुनीता प्रसीदति

1.249

152
विदधत्य् अप्रियं पत्यौ स्वयम् आचरति प्रियम् ।
वल्लभे सापराधेऽ पि तूष्णीं तिष्ठति सोत्तमा

1.250

153
अथ मध्यमा-
पुंसः स्वयं कामयते काम्यते या च तैर् वधूः ।
सक्रोधे क्रुध्यति मुहुः सानृतेऽ नृत-वादिनी

1.251

154
सापकारेऽ पकर्त्री स्यात् स्निग्धे स्निह्यति वल्लभे ।
एवम् आदि-गुणोपेता मध्यमा सा प्रकीर्तिता

1.252

155
अथ नीचा-
अकस्मात् कुप्यति रुषं प्रार्थितापि न मुञ्चति ।
सुरूपं वा कुरूपं वा गुणवन्तम् अथागुणम्

1.253

156
स्थविरं तरुणं वापि या वा कामयते मुहुः ।
ईर्ष्या-कोप-विवादेषु नियता साधमा स्मृता

1.254

157
आसाम् उदाहरणानि लोकत एवावगन्तव्यानि ।
स्वीया त्रयोदश-विधा विविधा च वराङ्गना ।
वैशिकैवं षोडशधा ताश् चावस्थाभिर् अष्टभिः

1.255

158
एकैकम् अष्टधा तासाम् उत्तमादि-प्रभेदतः ।
त्रैविध्यम् एवं स-चतुरशीतिस् त्रिशती भवेत्

1.256

159
अवस्था-त्रयम् एवेति केचिद् आहुः पर-स्त्रियाः

1.257

यथा-
त्र्य्-अवस्थैव पर-स्त्री स्यात् प्रथमं विरहोन्मनाः ।
ततो æभिसारिका भूत्वाभिसरन्ती व्रजेत् स्वयं

1.258

सङ्केताच् चेत् परिभ्रष्टा विप्रलब्धा भवेत् पुनः ।
पराधीन-पतित्वेन नान्यावस्थात्र सङ्गता

1.259

इति । (भाव-प्रकाश)
अथ नायिका-सहायाः-
आसां दूत्यः सखी चेटी लिङ्गिनी प्रतिवेशिनी । 160
धात्रेयी शिल्पकारी च कुमारी कथिनी तथा ।
कारुर् विप्रश्निका चेति नेतृ-मित्र-गुणान्विताः

1.260

161
लिङ्गिनी पण्डित-कौशिक्यादिः । प्रतिवेशिनी समीप-गृह-वर्तिनी । शिल्प-कारी वीणा-वादनादि-निपुणा । कारू रजक्यादिः । विप्रश्निका दैवज्ञा । शेषाः प्रसिद्धाः । इतर-रसालम्बनानाम् अनति-निरूपणीयतया पृथक्-प्रकरणारम्भस्यानुपयोगात् तत्-तद्-रस-प्रसङ्ग एव निरूपणं करिष्यामः ॥
इति नायिका-प्रकरणम् ॥
अथ शृङ्गारस्योद्दीपन-विभावः-
उद्दीपनं चतुर्धा स्याद् आलम्बन-समाश्रयम् ।
गुण-चेष्टालङ्कृतयस् तटस्थाश् चेति भेदतः

1.261

162
तत्र गुणाः-
यौवनं रूप-लावण्ये सौन्दर्यम् अभिरूपता ।
मार्दवं सौकुमार्यं चेत्य् आलम्बन-गता गुणाः

1.262

163
तत्र यौवनम्-
सर्वासाम् अपि नारीणां यौवनं तु चतुर्विधम् ।
प्रतियौवनम् एतासां चेष्टितानि पृथक् पृथक्

1.263

164
तत्र प्रथम-यौवनम्-
ईषच्-चपल-नेत्रान्तं स्मर-स्मेर-मुखाम्बुजम् ।
स-गर्व-जरजोगण्डम् असमग्रारुणाधरम्

1.264

165
लावण्योद्भेद-रम्याङ्गं विलसद्-भाव-सौरभम् ।
उन्मीलिताङ्कुर-कुचम् अस्फुटाङ्गक-सन्धिकम्

1.265

166
प्रथमं यौवनं तत्र वर्तमाना मृगेक्षणा ।
अपेक्षते मृदु-स्पर्शं सहते नोद्धतां रतिम्

1.266

167
सखी-केलि-रता स्वाङ्ग-संस्कार-कलितादरा ।
न कोप-हर्षौ भजते सपत्नी-दर्शनादिषु । 168
नातिरज्यति कान्तस्य सङ्गमे किं तु लज्जते

1.267

यथा-
विस्तारी स्तन-भार एष गमितो न स्वोचिताम् उन्नतिं
रेखोद्भासि तथा वलि-त्रयम् इदं न स्पष्ट-निम्नोत्तम् ।
मध्येऽ स्या ऋजु-रायतार्ध-कपिशा रोमावली दृश्यते
रम्यं यौवन-शैशव-व्यतिकरोन्मिश्रं वयो वर्तते

1.268

(दशरूपकावलोकेऽ पि उद्धृतम् इदम्)
अस्याश् चेष्टा, यथा ममैव-
आविर्भवत्-प्रथम-दर्शन-साध्वसानि
सावज्ञम् आदृत-सखी-जन-जल्पितानि ।
स-व्याज-कोप-मधुराणि गिरेः सुताया
वः पान्तु नूतन-समागम-चेष्टितानि

1.269

अथ द्वितीय-यौवनम्-
स्तनौ पीनौ तनुर् मध्यः पाणिपादस्य रक्तिमा । 169
ऊरू करिकराकाराव् अङ्गं व्यक्ताङ्ग-सन्धिकम् ।
नितम्बो विपुलो नाभिर् गभीरा जघनं घनम्

1.270

170
व्यक्ता रोमावली स्नैग्ध्यम् अङ्ग-केशरदाक्षिषु ।
द्वितीय-यौवने तेन कलिता वाम-लोचना

1.271

171
सखीषु स्वाशयज्ञासु स्निग्धा प्रायेण मानिनी ।
न प्रसीदत्य् अनुनये सपत्नीष्व् अभ्यसूयिनी

1.272

172
नापराधान् विषहते प्रणयेर्ष्याकषायिता ।
रति-केलिष्व् अनिभृता चेष्टते गर्विता रहः

1.273

173
यथा-
तन्वी श्यामा शिखरी-दशना पक्व-बिम्बाधरौष्ठी
मध्ये क्षामा चकित-हरिणी-प्रेक्षणा निम्न-नाभिः ।
श्रोणी-भाराद् अलस-गमना स्तोक-नम्रा स्तनाभ्यां
या तत्र स्याद् युवती-विषये सृष्टिर् आद्यैव धातुः

1.274

[मे.दू. 2.22]
अथ तृतीय-यौवनम्-
अस्निग्धता नयनयोर् गण्डयोर् म्लान-कान्तिता ।
विच्छायता खर-स्पर्शोऽ प्य् अङ्गानां श्लथता मनाक्

1.275

174
अधरे मसृणो रागस् तृतीये यौवने भवेत् ।
तत्र स्त्रीणाम् इयं चेष्टा रति-तन्त्र-विदग्धता

1.276

175
वल्लभस्यापरित्यागस् तदाकर्षण-कौशलम् ।
अनादरोऽ पराधेषु सपत्नीष्व् अप्य् अमत्सरः

1.277

176
यथा आनन्द-कोश-प्रहसने-
वक्त्रैः प्रयत्न-विकचैर् वलिभैश् च गण्डैर्
मध्यैश् च मांसलतरैः शिथिलैर् उरोजैः ।
घण्टा-पथे रतिपतेर् अपि नूनम् एता
वृन्तश्लथानि कुसुमानि विडम्बयन्ति

1.278

अथ चतुर्थ-यौवनम्-
जर्जरत्वं स्तन-श्रोणि-गण्डोरु-जघनादिषु ।
निर्मांसता च भवति चतुर्थे यौवने स्त्रियाः

1.279

177
तत्र चेष्टा रति-विधाव् अनुत्साहोऽ समर्थता ।
सपत्नीष्व् आनुकूल्यं च कान्तेनाविरह-स्थितिः

1.280

178
यथा आनन्द-कोश-प्रहसने-
क्षामैश् च गण्ड-फलकैर् विरलैश् च दन्तैर्
लम्बैः कुचैर् गत-कथा-प्रचुरैः प्रसङ्गैः ।
अङ्गैर् अयत्न-शिथिलैश् च कदाप्य् असेव्या
भर्तुः पणान् अभिलषन्त्य् अहहालसाङ्ग्यः

1.281

तत्र शृङ्गार-योग्यत्वं सरसाह्लाद-कारणम् ।
आद्य-द्वितीययोर् एव न तृतीय-चतुर्थयोः

1.282

179
अथ रूपम्-
अङ्गान्य् अभूषितान्य् एव प्रक्षेपाद्यैर् विभूषणैः ।
येन भूषितवद् भाति तद् रूपम् इति कथ्यते

1.283

180
यथा-
स्थातुं विमुक्ताभरणा विमाल्या
भूयोऽ सहा भूषयितुं शरीरम् ।
अगाद् बहिः काचिद् उदार-रूपा
यां वीक्ष्य लज्जां दधिरे सभूषाः

1.284

अथ लावण्यम्-
मुक्ताफलेषु छायायास् तरलत्वम् इवान्तरा ।
प्रतिभाति यद् अङ्गेषु लावण्यं तद् इहोच्यते

1.285

181
यथा-
अङ्गेषु स्फटिकादर्श-दर्शनीयेषु जृम्भते ।
अमला कोमला कान्तिर् ज्योत्स्नेव प्रतिबिम्बिता

1.286

अथ सौन्दर्यम्-
अङ्ग-प्रत्यान्गकानां यः सन्निवेशो यथोचितम् ।
सुस्लिष्ट-सन्धि-बन्धः स्यात् तत् सौन्दर्यम् इतीर्यते

1.287

182
यथा-
दीर्घाक्षं शरद्-इन्दु-कान्ति-वदनं बाहू नतावंसयोः
सङ्क्षिप्तं निविडोन्नत-स्तनम् उरः पार्श्वे प्रमृष्टे इव ।
मध्यः पाणिम् इतो नितम्बि जघनं पादावरालङ्गुली
छन्दो नर्तयितुर् यथैव मनसि श्लिष्टं तथास्या वपुः

1.288

(मालविकाग्नि-मित्रम् 2.3)
अथ अभिरूपता-
यदात्मीय-गुणोत्कर्षैर् वस्त्व् अन्यन् निकट-स्थितम् ।
सारूप्यं नयति प्राज्ञैर् आभिरूप्यं तद् उच्यते

1.289

183
यथा-
एकोऽ पि त्रय इव भाति कन्दुकोऽ यं
कान्तायाः करतल-राग-रक्त-रक्तः ।
भूमौ तच्-चरण-नखांशु-गौर-गौरः
खस्थः सन् नयन-मरीचि-नील-नीलः

1.290

(भोज-चरित्रे 298)
अथ मार्दवम्-
स्पृष्टं यत्राङ्गम् अस्पृष्टम् इव स्यान् मार्दवं हि तत्

1.291

184अब्
यथा-
याभ्यां दुकूलान्तर-लक्षिताभ्यां
विस्रंसते स्नैग्ध्य-गुणेन दृष्टिः ।
निर्माण-कालेऽ पि ततस् तद्-ऊर्वोः
संस्पर्श-शङ्का न विधेः कराभ्याम्

1.292

अत्र अमूर्तापि दृष्टिर् विस्रंसते । मूर्तौ करौ किम् उतेति श्लक्ष्णत्वातिशय-कथनान् मार्दवम् ।
अथ सौकुमार्यम्-
या स्पर्शासहताङ्गेषु कोमलस्यापि वस्तुनः । 184च्द्
तत् सौकुमार्यं त्रेधा स्यान् मुख्य-मध्याधम-क्रमात्

1.293

अथ उत्तम-सौकुमार्यम्-
अङ्गं पुष्पादि-संस्पर्शासहं येन तद् उत्तमम्

1.294

185
यथा-
महार्ह-शय्या-परिवर्तन-च्युतैः
स्वकेश-पुष्पैर् अपि या स्म दूयते ।
अशेत सा बाहु-लतोपधायिनी
निषेदुषी स्थण्डिल एव केवले

1.295

[कु.सं. 5.12]
अत्र यद्यप्य् उत्तरार्धे स्थण्डिल-स्पर्श-सहत्वम् उक्तम् । तथापि स्थिराग्रहस्यैव मनसः क्लेश-सहिष्णुत्वं प्रतीयते न पुनः शरीरस्येत्य् अत्रोत्तम-सौकुमार्यम् उपपद्यते ।
अथ मध्यम-सौकुमार्यम्-
न सहेत कर-स्पर्शं येनाङ्गं मध्यमं हि तत्

1.296

186अब्
यथा-
लाक्षां विधातुम् अवलम्बित-मात्रम् एव
सख्याः करेण तरुणाम्बुज-कोमलेन ।
कस्याश्चिद् अग्र-पदम् आशु बभूव रक्तं
लाक्षा-रसः पुनर् अभून् न तु भूषणाय

1.297

(उत्प्रेक्षा-वल्लभस्येति सूक्ति-मुक्तावलिः)
अथ अधम-सौकुमार्यम्-
येनाङ्गमातपादीनाम् असहं तद् इहाधमम्

1.298

186
यथा-
आमोदम् आमोदनम् आदधानं
निलीन-नीलालक-चञ्चरीकम् ।
क्षणेन पद्मा-मुख-पद्मम् आसीत्
त्विषा रवेः कोमलयापि ताम्रम्

1.299

तच्-चेष्टा लीला-विलासादयः । तेऽ प्य् अनुभाव-प्रकरणे वक्ष्यन्ते ।
अथ अलङ्कृतिः-
चतुर्धालङ्कृतिर् वासो-भूषा-माल्यानुलेपनैः

1.300

187अब्
तत्र वस्त्रालङ्कारो, यथा-
क्षीरोद-वेलेव सफेन-पुञ्जा
पर्याप्त-चन्द्रेव शरत्-त्रियामा ।
नवं नव-क्षौम-निवासिनी सा
भूयो बभौ दर्पणम् आदधाना

1.301

[कु.सं. 7.26]
भूषालङ्कारो, यथा-
सा सम्भवद्भिः कुसुमैर् लतेव
ज्योतिर्भिर् उद्यद्भिर् इव त्रियामा । सरिद् विहङ्गैर् इव लीयमानैर्
आमुच्यमानाभरणा चकाशे

1.302

[कु.सं. 7.27]
माल्यानुलेपनालङ्कारो, यथा-
आलोलैर् अनुमीयते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुभूयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः

1.303

अथ तटस्थाः-
तटस्थाश् चन्द्रिका धारा-गृह-चन्द्रोदयाव् अपि । 187
कोकिलालापम् आकन्द-मन्द-मारुत-षट्-पदाः ।
लता-मण्डप-भूगेह-दीर्घिका-जल-दारवाः

1.304

188
प्रासाद-गर्भ-सङ्गीत-क्रीडाद्रि-सरिद्-आदयः ।
एवम् ऊह्या यथा कालम् उपभोगोपयोगिनः

1.305

189
तत्र चन्द्रिकाय उद्दीपनत्वम्, यथा-
दुरासदे चन्द्रिकया सखी-गणै-
र्लतालि-कुञ्जे ललिता निगूहिता ।
चकोर-चञ्चु-च्युत-कौमुदी-कणं
कुतोऽ पि दृष्ट्वा भजति स्म मूर्च्छनाम्

1.306

धारा-गृहस्य, यथा-
सा चन्द्रकान्ताम् अपि चन्द्र-कान्त-
वेदीम् अधिष्ठातुम् अपारयन्ती ।
धारा-गृहं प्राप्य तद् अप्य् अनङ्ग-
घोरासिधारा-गृहम् अन्वमंस्त

1.307

चन्द्रोदयस्य, यथा-
चन्द्र-बिम्बम् उदयाद्रिम् आगतं
पश्य तेन सखि वञ्चिता वयम् ।
अत्र किं निज-गृहं नयस्व मां
तत्र वा किम् इति विव्यथे वधूः

1.308

कोकिलालापस्य, यथा-
चूताङ्कुरास्वाद-कषाय-कण्ठः
पुंस्कोकिलो यन् मधुरं चुकूज ।
मनस्विनी-मान-विघात-दक्षं
तद् एव जातं वचनं स्मरस्य

1.309

[कु.सं. 3.32]
माकन्दस्य, यथा-
चिर-लालित एष बाल-चूतः
स्वकरावर्जित-कुम्भ-वारि-सेकैः ।
कुसुमायुध-सायकान् प्रसूते
पयसा पन्नग-वर्धन्ं तद् एतत्

1.310

माकन्द इत्य् अशोकादीनाम् उपलक्षणम् ।
मन्द-मारुतस्य, यथा-
भृशं निपीतो बुजगाङ्गनाभिर्
विनिर्गतस् तद्-गरलेन साकम् ।
तद् अन्यथा चेत् कथम् अक्षिणोत् ताम्
अदक्षिणो दक्षिण-मातरिश्वा

1.311

षट्पद-स्वनस्य, यथा-
मधुव्रतानां मद-मन्थराणां
मन्त्रैर् अपूर्वैर् इव मञ्जुनादैः ।
मधुश्रियो मानवती-जनानां
मान-ग्रहोच्चाटनम् आचरन्ति

1.312

लता-मण्डपस्य, यथा-
एषा पूगवनी प्रफुल्ल-कुसुमा पर्यन्त-चूत-द्रुमा
तन्-मध्येऽ पि सरोवरं निधुवनान्तानन्द-मन्दानिलम् ।
तत्-तीरे कदली-गृहं विलसितं तस्यान्तरे मल्लिका-
वल्ली-मण्डपम् अत्र सा सुनयना त्वन्-मार्गम् अवेक्षते

1.313

भूगेहस्य, यथा-
कालागरूद्गार-सुगन्धि-गन्ध-
धूपाधिवासाश्रय-भू-गृहेषु ।
न तत्रसुर् माघ-समीरणेभ्यः
श्यामाकुचोष्माश्रयिणः पुमांसः

1.314

दीर्घिकाया, यथा-
एतस्मिन् मद-कल-मल्लिकाक्ष-पक्ष-
व्याधूत-स्फुरद्-उरु-दण्ड-पुण्डरीकाः ।
बाष्पाम्भः परिपतनोद्गमान्तराले
दृशन्ताम् अविरहित-श्रियो विभागाः

1.315

(मालती-माधव 9.14)
जलदारवस्य, यथा-
मनस्विनीनां मनसोऽ पि मानस्
तथापनीतो घन-गर्जितेन ।
यथोपगूढाः प्रथितागसोऽ पि
क्षणं विदग्धाः कुपिता इवासन्

1.316

अत्र जलदारव-ग्रहणं विद्युद्-आदीनाम् अप्य् उपलक्षणम् । विद्युतो, यथा-
वर्षासु तासु क्षण-रुक्-प्रकाशा-
द्गोपाङ्गना माधवम् आलिलिङ्ग ।
विद्युच् च सा वीक्ष्य तद्-अङ्ग-शोभां
ह्रीणेव तूर्णं जलदं जगाहे

1.317

प्रासाद-गर्भस्य, यथा-
गोपानसी-संश्रित-बर्हिणेषु
कपोत-पाली-स्थ-कपोतकेषु ।
प्रासाद-गर्भेषु रसाद्वितीयो
रेमे पयोदानिल-दुर्गमेषु

1.318

सङ्गीतस्य, यथा-
माधवो मधुर-माधवी-लता-
मण्डपे पटु-रटन्-मधुव्रते ।
संजगौ श्रवण-चारु गोपिका-
मान-मीन-वडिशेन वेणुना

1.319

क्रीडाद्रेर्, यथा-
नीचैर् आख्यं गिरिम् अधिवसेस् तत्र विश्राम-हेतोस्
त्वत्-सम्पर्कात् पुलकितम् इव प्रौढ-पुष्पैः कदम्बैः ।
यः पुण्य-स्त्री-रति-परिमलोद्गारिभिर् नागराणाम्
उद्दामानि प्रथयति शिला-वेश्मभिर् यौवनानि

1.320

[मे.दू. 1.26]
सरितो, यथा-
अथोर्मि-मालोन्मद-राज-हंसे
रोधो-लता-पुष्प-वहे सरय्वाः ।
विहर्तुम् इच्छा वनिता-सखस्य
तस्याम्भसि ग्रीष्म-सुखे बभूव

1.321

(र.वं. 16.54)
इत्य् आद्य् अन्यद् अप्य् उदाहार्यम् ।
--ओ)0(ओ--
अथानुभावाः-
आलम्बन-गताश् चेष्टा अनुभावा विवक्षिताः ।
भावं मनोगतं साक्षात् स्व-हेतुं व्यञ्जयन्ति ये ।
तेऽ नुभावा इति ख्याता भ्रू-क्षेप-स्मितादयः

1.322

190
ते चतुर्धा चित्त-गात्र-वाग्-बुद्ध्यारम्भ-सम्भवाः ।
तत्र च भावो हावो हेला शोभा कान्ति-दीप्ती च

1.323

191
प्रागल्भ्यं माधुर्यं धैर्यौदार्यं च चित्तजा भावाः ।
निर्विकारस्य चित्तस्य भावः स्याद् आदि-विक्रिया

1.324

192
तत्र भावः, तथोक्तं हि प्राक्तनैर् अपि-
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।
तत्राद्या विक्रिया भावो बीजस्यादि-विकारवत्

1.325

इति ।
(fरोम् शारदतनयऽस् भाव-प्रकाश)
भावो, यथा ममैव-
बाला प्रसाधन-विधौ निदधाति चित्तं
दत्तादरा परिणये मणि-पुत्रिकाणाम् ।
सा शङ्कते निज-सखी-जन-मन्द-हासैर्
आलक्ष्यते तद् इह भावनवावतारः

1.326

(अबोवे 1.154)
अत्र पूर्वं शैशवेन रसानभिज्ञस्य चित्तस्य प्रसाधन-विधित्सा-पाञ्चालिका-परिणयादर-सखी-जन-हास-शङ्कादीनां तत्-प्रथमम् एव सम्भूतत्वाद् भावः ।
अथ हावः-
ग्रीवा-रेचक-संयुक्तो भ्रू-नेत्रादि-विलास-कृत् ।
भाव ईषत्-प्रकाशो यः स हाव इति कथ्यते

1.327

193
यथा-
धात्री-वचोभिर् ध्वनि-मर्म-गर्भैः
क्षणं सरोष-स्मित-मात्त-लज्जा ।
पाञ्चालिका-द्वन्द्वम् अयोजयत् सा
सम्बन्धिनी स्वस्य सखी-जनस्य

1.328

अत्र चित्त-विकाराणां रोष-हर्ष-लज्जादीनां कुटिलेक्षण-स्मित-नताननत्वादिभिर् ईषत्-प्रकाशनाद् अयं हावः ।
अथ हेला-
नाना-विकारैः सुव्यक्तः शृङ्गाराकृति-सूचकैः ।
हाव एव भवेद् धेला ललिताभिनयात्मिका

1.329

194
यथा-
विवृण्वती शैल-सुता भावम् अङ्गैः
स्फुरद् बाल-कदम्ब-कल्पैः ।
साचीकृता चारुतरेण तस्थौ
मुखेन पर्यस्त-विलोचनेन

1.330

[कु.सं. 3.68]
अत्र रोमाञ्च-मुख-साचीकरण-पर्यस्त-विलोचनत्वादि-विकारैश् चित्त-व्यापारस्यातिप्रकाशत्वेन हेला ।
तत्र शोभा--
सा शोभा रूप-भोगाद्यैर् यत् स्याद् अङ्ग-विभूषणम्

1.331

195अब्
यथा-
अशिथिल-परिरम्भाद् अर्ध-शिष्टाङ्ग-रागाम्
अविरत-रत-वेगाद् अंस-लम्बोरु-चूलीम् ।
उषस् इ शयन-गेहाद् उच्चलन्तीं स्खलन्तीं
कर-तल-धृत-नीवीं कातराक्षीं भजामः

1.332

अथ कान्तिः--
शोभैव कान्तिर् आख्याता मन्मथाप्यायनोज्ज्वला

1.333

195च्द्
यथा-
उत्तिष्ठन्त्या रतान्ते भरम् उरगपतौ पाणिनैकेन कृत्वा
धृत्वा चान्येन वासः शिथिलित-कवरी-भारम् अंसे वहन्त्याः ।
भूयस् तत्-काल-कान्ति-द्विगुणित-सुरत-प्रीतिना शौरिणा वः
शय्याम् आलिङ्ग्य नीतं वपुर् अलस-लसद्-बाहु लक्ष्म्याः पुनातु

1.334

(वेणी-संहार 1.3)
अत्र पूर्व-रतान्त-जनिताया वपुः-कान्तेर् उत्तर-रतारम्भ-हेतुत्वान् मन्मथाप्यायकत्वम् ।
अथ दीप्तिः--
कान्तिर् एव वयो-भोग-देश-काल-गुणादिभिः ।
उद्दीपितातिविस्तारं याता चेद् दीप्तिर् उच्यते

1.335

196
यथा-
यत्र स्त्रीणां प्रियतम-भुजोच्छ्वासितालिङ्गितानाम्
अङ्ग-ग्लानिं सुरत-जनितां तन्तु-जालावलम्बाः ।
त्वत्-संरोधापगम-विशदश् चन्द्र-पादैर् निशीथे
व्यालुम्पन्ति स्फुट-जल-लव-स्यन्दिनश् चन्द्र-कान्ताः

1.336

[मेघदूत 2.9]
अत्र प्रियतमालिङ्गन-सौध-ज्योत्स्नादि-गुणैः सुरत-ग्लानि-व्यालोपनाद् उत्तर-सुरतोत्साह-रूपा दीप्तिः प्रतीयते ।
अथ प्रागल्भ्यम्--
निःशङ्कत्वं प्रयोगेषु प्रागल्भ्यं परिकीर्त्यते

1.337

197अब्
शिष्यतां निधुवनोपदेशिनः
शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवति-नैपुणं तया
यत् तद् एव गुरु-दक्षिणी-कृतम्

1.338

[कु.सं. 8.17]
अत्र गुरु-दक्षिणी-कृतम् इत्य् अनेन प्रतिकरण-रूपं प्रागल्भ्यं प्रतीयते ।
अथ माधुर्यम्--
माधुर्यं नाम चेष्टानां सर्वावस्थासु मार्दवम्

1.339

197च्द्
यथा-
वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामाविटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं
नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम्

1.340

(मालविकाग्नि-मित्रम् 2.6)
अत्र पादाङ्गुष्ठेन कुसुम-लोलनादि-क्रियाणां नृत्तान्त-परिश्रान्ताव् अपि चारुत्वान्[*4] माधुर्यम् ।
[*4] नोते थत् चारुता, अस् fओउन्द् इन् उज्ज्वल-नीलमणि, इस् थे wओर्द् उसेद् हेरे इन् थे प्लचे ओf मार्दव.
अथ धैर्यम्-
स्थिरा चित्तोन्नतिर् या तु तद् धैर्यम् इति संज्ञितम्

1.341

198अब्
यथा-
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूत्भृतां नाथः प्रमाणीक्रियताम् इति

1.342

[कु.सम्. 6.1]
अथ औदार्यम्-
औदार्यं विनयं प्राहुः सर्वावस्थानुगं बुधाः

1.343

198च्द्
यथा-
कल्याण-बुद्धेर् अथवा तवायं
न काम-चारो मयि शङ्कनीयः ।
ममैव जन्मान्तर-पातकानां
विपाक-विस्फूर्जथुर् अप्रसह्यः

1.344

(र.वं. 14.62)
अत्रानपराधेऽ पि निष्कासयतो रामस्यानुपालम्भात् सीताया औदार्यं प्रतीयते । सर्वावस्था-समत्वाविदितेङ्गिताकारत्व-रूपयोर् लक्षणयोश् चित्त-धैर्य एवान्तर्भूतत्वात् भोज-राज-लक्षितौ स्थैर्य-गाम्भीर्य-रूपाव् अन्यौ द्वौ चित्तारम्भौ चास्मद्-उक्ते धैर्य एवान्तर्भूताव् इति दशैव चित्तारम्भाः ।
अथ गात्रारम्भाः-
लीला विलासो विच्छित्तिर् विभ्रमः किलकिञ्चितम् ।
मोट्टायितं कुट्टमितं बिब्बोको ललितं तथा । 199
विहृतं चेति विज्ञेया योषितां दश गात्रजाः

1.345

तत्र लीला-
प्रियानुकरणं यत् तु मधुरालाप-पूर्वकैः । 200
चेष्टितैर् गतिभिर् वा स्यात् सा लीलेति निगद्यते

1.346

यथा-
दुष्ट-कालिय तिष्ठाद्य कृष्णोऽ हम् इति चापरा ।
बाहुम् आस्फोट्य कृष्णस्य लीला-सर्वस्वम् आददे

1.347

[वि.पु. 5.13.27]
अथ विलासः-
प्रिय-सम्प्राप्ति-समये भ्रू-नेत्रानन-कर्मणाम् । 201
तात्कालिको विशेषो यः स विलास इतीरितः

1.348

यथा-
बाला सखी-तनु-लतान्तरिता भवन्तम्
आलोक्य मुग्ध-मधुरैर् अलसैर् अपाङ्गैः ।
सिंह-क्षमा-रमण चित्तज-मोहनास्त्रैर्
लक्ष्मीर् अभित्ति-लिखितेव चिरं समास्ते

1.349

अथ विच्छित्तिः-
आकल्प-कल्पनाल्पापि विच्छित्तिर् अतिकान्ति-कृत्

1.350

202
यथा-
आलोलैर् अवगम्यते मधुकरैः केशेषु माल्य-ग्रहः
कान्तिः कापि कपोलयोः प्रथयते ताम्बूलम् अन्तर्गतम् ।
अङ्गानाम् अनुमीयते परिमलैर् आलेपन-प्रक्रिया
वेषः कोऽ पि विदग्ध एष सुदृशः सूते सुखं चक्षुषोः

1.351

अथ विभ्रमः-
प्रिया-गमन-वेलायां मदनावेश-सम्भ्रमात् ।
विभ्रमोऽ ङ्गद-हारादि-भूषा-स्थान-विपर्ययः

1.352

203
यथा-
चकार काचित् सित-चन्दनाङ्के
काञ्ची-कलापं स्तन-भार-युग्मे ।
प्रियं प्रति प्रेषित-दृष्टिर् अन्या
नितम्ब-बिम्बे च बबन्ध हारम्

1.353

अथ किलकिञ्चितम्-
शोक-रोषाश्रु-हर्षादेः सङ्करः किल-किञ्चितम्

1.354

204अब्
यथा-
दत्तं श्रुतं द्यूत-पणं सखीभ्यो
विवक्षति प्रेयसि कुञ्चित-भ्रूः ।
कण्ठं कराभ्याम् अवलम्ब्य तस्य
मुखं पिधत्ते स्म कपोलकेन

1.355

यथा वा-
रति-क्रीडा-द्यूते कथम् अपि समासाद्य समयं
मया लब्धे तस्याः क्वणित-कल-कण्ठार्धम् अधरे ।
कृत-भ्रू-भङ्गासौ प्रकटित-विलक्षार्ध-रुदित-
स्मित-क्रोधोद्भ्रान्तं पुनर् अपि विदध्यान् मयि मुखम्

1.356

(धनिकस्य अवलोकः तो द.रू. 2.39)
अथ मोट्टायितम्-
स्वाभिलाष-प्रकटम् मोट्टायितम् इतीरितम्

1.357

204
यथा ममैव-
आकर्ण्य कर्ण-युगलैक-रसायनानि
तन्व्या प्रियस्य गदितानि सखी-कथासु ।
आलोल-कङ्कण-झणत्करणाभिरामम्
आवेल्लिते भुज-लते ललिताङ्ग-भङ्गम्

1.358

अथ कुट्टमितम्-
केशाधरादि-ग्रहणे मोदमानेऽ पि मानसे ।
दुःखितेव बहिः कुप्येद् यत्र कुट्टमितं हि तत्

1.359

205
यथा--
पाणि-पल्लव-विधूननम् अन्तः-
शीत्कृतानि नयनार्ध-निमेषाः ।
योषितां रहसि गद्गद-वाचाम्
अस्त्रताम् उपययुर् मदनस्य

1.360

[किराट 9.50]
अत्र रहसीति सामान्य-सूचितानां केशाधर-ग्रहणादीनां कार्य-भूतैः पाणि-पल्लव-विधूनन-सीत्कृतादिभिर् बहिर् एव कोपस्य प्रतीयमानत्वात् कुट्टमितम् ।
अथ बिब्बोकः-
इष्टेऽ प्य् अनादरो गर्वान् मानाद् बिब्बोक ईरितः

1.361

206अब्
गर्वाद्, यथा-
पुंसानुनीता शत-साम-वादैर्
गर्वान् निरीहेव चुचुम्ब काचित् ।
अर्थानभीष्टान् अपि वाम-शीलाः
स्त्रियः परार्थान् इव कल्पयन्ति

1.362

मानाद्, यथा-
निर्विभुज्य दशन-च्छदं ततो
वाचि भर्तुर् अवधीरणा-परा ।
शैल-राज-तनया समीपगाम्
आललापि विजयाम् अहेतुकम्

1.363

[कु.सं. 8.49]
अत्र सन्ध्या-निमित्तं मानाद् अनादरेण बिब्बोकः ।
अथ ललितम्-
विन्यास-भङ्गि-रङ्गानां भ्रू-विलास-मनोहराः ।206
सुकुमारा भवेद् यत्र ललितं तद्-उदीरितम्

1.364

यथा-
चरण-कमल-कान्त्या देहलीम् अर्चयन्ती
कनक-मय-कवाटं पाणिना कम्पयन्ती ।
कुवलय-मयम् अक्ष्णा तोरणं पूरयन्ती
वरतनुर् इयम् आस्ते मन्दिरस्येव लक्ष्मीः

1.365

अथ विहृतम्-
ईर्ष्यया मान-लज्जाभ्यां न दत्तं योग्यम् उत्तरम् । 207
क्रियया व्यज्यते यत्र विहृतं तद् उदीरितम्

1.366

ईर्ष्यया, यथा-
तथागतायां परिहास-पूर्वं
सख्यां सखी वेत्र-भृद् आबभाषे ।
आर्ये व्रजावोऽ न्यत इत्य् अथैनां
वधूर् असूयाकुटिलं ददर्श

1.367

अत्र न व्रजाव इत्य् उत्तरम् अदत्त्वा कुटिल-दर्शनेनैव व्यञ्जनाद् विहृतम् ।
मानेन, यथा-
अद्यापि तन्-मनसि सम्परिवर्तते मे
रात्रौ मयि क्षुतवति क्षिति-पाल-पुत्र्या ।
जीवेति मङ्गल-वचः परिहृत्य रोषात्
कर्णेऽ र्पितं कनक-पत्रम् अनालपन्त्या

1.368

[चौर-पञ्चाशिका 11]
लज्जया, यथा-
अप्य् अवस्तुनि कथा-प्रवृत्तये
प्रश्न-तत्परम् अनङ्ग-शासनम् ।
वीक्षितेन परिगृह्य पार्वती
मूर्ध-कम्पमयम् उत्तरं ददौ

1.369

[कु.सं. 8.6]
इत्थं श्री-सिंह-भूपेन सत्त्वालङ्कार-शालिना । 208
कथिताः सत्त्वजाः स्त्रीणाम् अलङ्कारास् तु विंशतिः

1.370

सत्त्वाद् दशैव भावाद्या जाता लीलादयस् तु न । 209
अतो हि विंशतिर् भावाः सात्त्विका इति नोचितम्

1.371

युज्यते सात्त्विकत्वं च भावादि-सहचारिणः । 210
लीलादि-दशकस्यापि छत्रि-न्याय-बलात् स्फुटम्

1.372

भोजेन क्रीडितं केलिर् इत्य् अन्यौ गात्रजौ स्मृतौ । 211
अतो विंशतिर् इत्य् अत्र सङ्ख्येयं नोपपद्यते

1.373

तथा हि लक्षितम् अनेनैव च-
क्रीडितं केलिर् इत्य् अन्यौ गात्रारम्भाव् उदाहृतौ ।
बाल्य-यौवन-कौमार-साधारण-विहार-भाक् ।
विशेषः क्रीडितं केलिस् तद् एव दयिताश्रयम्

1.374

इति ।
उदाहृतं च । क्रीडितं, यथा-
मन्दाकिनी-सैकत-वेदिकाभिः
सा कन्दुकैः कृत्रिम-पुत्रकैश् च ।
रेमे मुहुर् मध्य-गता सखीनां
क्रीडा-रसं निर्विशतीव बाल्ये

1.375

[कु.सं. 7.29]
केलिर्, यथा-
व्यपोहितुं लोचनतो मुखानिलैर्
अपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिद् उन्मनाः
प्रियं जघानोन्नत-पीवर-स्तनी

1.376

[किराट 8.19] इति ।
अत्रोच्यते भाव-तत्त्व-वेदिना सिंह-भूभुजा । 212
आद्यः प्राग् एव भावादि-समुत्पत्तेश् च शैशवे

1.377

कन्या-विनोद-मात्रत्वाद् अनुभावेषु नेष्यते । 213
प्रेम-विस्रम्भ-मात्रत्वान् नान्यस्याप्य् अनुभावता ।
अतो विंशतिर् इत्य् एषा सङ्ख्या सङ्ख्यावतां मता

1.378

214
अथ पौरुष-सात्त्विकाः-
शोभा विलासो माधुर्यं धैर्यं गाम्भीर्यम् एव च ।
ललितौदार्य-तेजांसि सत्त्व-भेदास् तु पौरुषाः

1.379

215
तत्र शोभा-
नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता ।
यत्र प्रकटतां यान्ति सा शोभेति प्रकीर्तिता

1.380

216
नीचे दयाधिके स्पर्धा, यथा-
क्षुद्राः सन्त्रासम् एनं विजहितहरयो भिन्न-शक्रेभ-कुम्भा
युष्मद्-गात्रेषु लज्जां दधति परमम् अमी सायकाः सम्पतन्तः ।
सौमित्रे तिष्ठ पात्रं त्वम् अपि न हि रुषां नन्व् अहं मेघनादः
किञ्चिद् भ्रू-भङ्ग-लीला-नियमित-जलधिं रामम् अन्वेषयामि

1.381

(हनुमन्-नाटके 12.2)
अत्र प्रथमार्धे क्षुद्र-कपि-विषये दया, उत्तरार्धे राम-विषया स्पर्धा चेन्द्रजितः प्रतीयते । शौर्ये सत्त्व-सारः । उत्साहः स्थैर्यम् । दक्षता क्षिप्र-कारित्वम् । एषां नायक-गुण-निरूपणावसर एवोदाहरणानि दर्शितानि ।
अथ विलासः-
वृषभस्येव गम्भीरा गतिर् धीरं च दर्शनम् ।
सस्मितं च वचो यत्र स विलास इतीरितः

1.382

217
गम्भीर-गमनं, यथा-
तान् अर्घ्यान् अर्घ्यम् आदाय दूरं प्रत्युद्ययौ गिरिः ।
नमयन् सार-गुरुभिः पाद-न्यासैर् वसुन्धराम्

1.383

[कु.सं. 6.50]
धीर-दृष्टिर्, यथा-
तत् गम्भीरं विनिवर्तितेन
प्रभात-पङ्केरुह-बन्धुरेण ।
अपश्यद् अक्ष्णा मधुमात्मजन्मा
प्रत्याबभाषे स च दैत्य-दूतम्

1.384

सस्मितं वचो, यथा-
द्योतितान्तः-सभैः कुन्द-कुड्मलाग्र-दतः स्मितैः ।
स्नपितेवाभवत् तस्य शुद्ध-वर्णा सरस्वती

1.385

(माघ. 2.7)
अथ माधुर्यम्-
तन् माधुर्यं यत्र चेष्टा-दृष्ट्य्-आदेः स्पृहणीयता

1.386

218अब्

1.387

मिस्सिन्ग्
यथा-
ऋजुतां नयतः स्मरामि ते
शरम् उत्सङ्ग-निषण्ण-धन्वनः ।
मधुना सह सस्मितां कथां
नयनोपान्त-विलोकितं च यत्

1.388

[कु.सं. 4.23]
धैर्य-गाम्भीर्ये तु नायक-गुण-वर्णनावसर एवोक्ते ।
अथ ललितम्-
शृङ्गार-प्रचुरा चेष्टा यत्र तल् ललितं भवेत्

1.389

218च्द्
यथा-
कपोले जानक्याः करिकल-भदन्त-द्युति-मुषि
स्मर-स्मेरं गण्डोड्डमर-पुलकं वक्त्र-कमलम् ।
मुहुः पश्यन् शृण्वन् रजनिचर-सेना-कलकलं
जटाजूट-ग्रन्थिं द्रढयति रघूणां परिवृढः

1.390

(हनुमन्-नाटके 1.19)
औदार्य-तेजसोर् अपि नायक-प्रसङ्ग एव लक्षणोदाहरणे प्रोक्ते ।
अत्र गाम्भीर्य-धैर्ये द्वे चित्तजे गात्रजाः परे ।
एके साधारणान् एतान् मेनिरे चित्त-गात्रयोः

1.391

219
अथ वाग्-आरम्भाः-
आलापश् च विलापश् च संलापश् च प्रलापकः ।
अनुलापापलापौ च सन्देशश् चातिदेशकः

1.392

220
निर्देशश् चोपदेशश् चापदेशो व्यपदेशकः ।
एवं द्वादशधा प्रोक्ता कीर्तिता वाग्-आरम्भा विचक्षणैः

1.393

221
तत्र आलापः-
तत्रालापः प्रियोक्तिः स्यात्

1.394

222अ
यथा ममैव-
कस् ते वाक्यामृतं त्यक्त्वा शृणोत्य् अन्य-गिरं बुधः ।
सहकार-रसं त्यक्त्वा निम्बं चुम्बति किं शुकः

1.395

यथा वा-
धत्से धातुर् मधुप कमले सौख्यम् अध्यासिकायां
मुग्धाक्षीणां वहसि मृधुना कुन्तलेनोपमानम् ।
चापे किं च व्रजसि गुणतां शम्बरारेः किम् अन्यत्
पूजा-पुष्पं भवति भवतो भुक्त-शेषं सुराणाम्

1.396

अथ विलापः-
विलापो दुःखजं वचः

1.397

222ब्
यथा-
सीतां स्व-हस्तेन वने विमोक्तुं
श्रोतुं च तस्याः परिदेवितानि ।
सुखेन लङ्का-समरे मृतं माम्
अजीवयन् मारुतिर् आत्त-वैरः

1.398

[ह.ना. 14.91]
अथ संलापः-
उक्ति-प्रत्युक्तिमद्-वाक्यं संलाप इति कीर्तितम्

1.399

222च्द्
यथा-
भिक्षां प्रदेहि ललितोत्पल-पत्र-नेत्रे
पुष्पिण्य् अहं खलु सुरासुर-वन्दनीय ।
बाले तथा यदि फलं त्वयि विद्यते मे
वाक्यैर् अलं फल-भुग् ईश परोऽ स्ति याहि

1.400

अथ प्रलापः--
व्यर्थालापः प्रलापः स्यात्

1.401

223अ
यथा-
मुखं तु चन्द्र-प्रतिमं तिमं तिमं
स्तनौ च पीनौ कठिनौ ठिनौ ठिनौ ।
कटिर् विशाला रभसा भसा भसा
अहो विचित्रं तरुणी रुणी रुणी

1.402

अथ अनुलापः-
अनुलापो मुहुर् वचः ॥401॥ 223ब्
यथा-
तमस् तमो नहि नहि मेचकाः कचाः
शशी शशी नहि नहि दृक्-सुखं मुखम् ।
लते लते नहि नहि सुन्दरौ करौ
नभो नभो नहि नहि चारु मध्यमम्

1.403

अथापलापः-
अपलापस् तु पूर्वोक्तस्यान्यथा योजनं भवेत्

1.404

223च्द्
यथा-
त्वम् रुक्मिणी त्वं खलु सत्यभामा
किम् अत्र गोत्र-स्खलनं ममेति । प्रसादयन् व्याज-पदेन राधां
पुनातु देवः पुरुषोत्तमो वः

1.405

अत्र नायिका-वाचकयोः रुक्मिणी-सत्यभामा-पदयोः पूर्वोक्तयोः सुवर्णवत्त्व-सत्य-कोपत्व-लक्षणेनार्थेन योजनाद् अपलापः ।
अथ सन्देशः-
सन्देशस् तु प्रोषितस्य स्व-वार्ता-प्रेषणं भवेत्

1.406

224अब्
यथा-
एतस्मान् मां कुशलिनम् अभिज्ञान-दानाद् विदित्वा
मा कौलीनाद् असित-नयने मय्य् अविश्वासिनी भूः ।
स्नेहान् आहुः किम् अपि विरहे ध्वंसिनस् ते त्व् अभोगाद्
इष्टे वस्तुन्य् उपचित-रसाः प्रेम-राशी-भवन्ति

1.407

[मे.दू. 2.52]
अथ अतिदेशः-
सोऽ तिदेशो मद्-उक्तानि तद्-उक्तानीति यद् वचः

1.408

224च्द्
यथा-
तनयां तव याचते हरिर्
जगद्-आत्मा पुरुषोत्तमः स्वयम् ।
गिरि-गह्वर-शब्द-संनिभां
गिरम् अस्माकम् अवेहि वारिधे

1.409

अथ निर्देशः-
निर्देशस् तु भवेत् सोऽ यम् अहम् इत्य् आदि-भाषणम्

1.410

225अब्
यथा-
एते वयम् अमी दाराः कन्येयं कुल-जीवितम् ।
ब्रूत येनात्र वः कार्यम् अनास्था बाह्य-वस्तुषु

1.411

[कु.सं. 6.63]
अथ उपदेशः-
यत्र शिक्षार्थ-वचनम् उपदेशः स उच्यते

1.412

225
यथा-
अनुभवत दत्तं वित्तं
मान्यं मानयत सज्जनं भजत ।
अतिपरुष-पवन-विलुलित-
दीप-शिखा-चञ्चला लक्ष्मीः

1.413

अथ अपदेशः-
अन्यार्थ-कथनं यत्र सोऽ पदेश इतीरितः

1.414

226अब्
यथा-
कोश-द्वन्द्वम् इयं दधाति नलिनी कादम्ब-चञ्चु-क्षतं
धत्ते चूत-लता नवं किसलयं पुंस्कोकिलास्वादितम् ।
इत्य् आकर्ण्य मिथः सखी-जन-वचः सा दीर्घिकायास् तटे
चेलान्ते तिरोदधे स्तन-तटं बिम्बाधरं पाणिना

1.415

अथ व्यपदेशः-
व्याजेनात्माभिलाषोक्तिर् यत्रायं व्यपदेशकः

1.416

226च्द्
यथा-
अहिण-वमहुलोलुबो तुमं
तह परिचुंबिअ चूद-मञ्जरिं ।
कमल-बसै-मेत्त-णिब्बुदो
महर बिह्मरिदोऽ सि णं कहं

1.417

[सकु. 5.1]
[अस्य छाया-
अभिनव-मधु-लोलुपस् त्वं
तथा परिचुम्ब्य चूत-मञ्जरीम् ।
कमल-वसति-मात्र-निर्वृतो
मधुकर विस्मृतोऽ स्येनां कथम् ॥]
--ओ)0(ओ--
अथ बुद्ध्य्-आरम्भाः-
बुद्ध्य्-आरम्भास् तथा प्रोक्ता रीति-वृत्ति-प्रवृत्तयः

1.418

तत्र रीतिः ।
रीतिः स्यात् पद-विन्यास-भङ्गी सा तु त्रिधा मता । 227
कोमला कठिना मिश्रा चेति स्यात् तत्र कोमला

1.419

द्वितीय-तुर्य-वर्णैर् या स्वल्पैर् वर्गेषु निर्मिता । 228
अल्प-प्राणाक्षर-प्राया दश-प्राण-समन्विता

1.420

समास-रहिता स्वल्पैः समासैर् वा विभूषिता । 229
विदर्भ-जन-हृद्यत्वात् सा वैदर्भीति कथ्यते

1.421

महा-प्रणवार्णाल्पत्वम् अल्प-प्राणाक्षर-प्रायत्वं च, यथा ममैव-
उत्फुल्ल-गण्ड-युगम् उद्गत-मन्द-हासम्
उद्वेल-रागम् उररीकृत-काम-तन्त्रम् ।
हस्तेन हस्तम् अवलम्ब्य कदा नु सेवे
संलाप-रूपम् अमृतं सरसीरुहाक्ष्याः

1.422

[कु. 3.4]
समास-राहित्यं, यथा-
अथ यन्तारम् आदिश्य धुर्यान् विश्रामयेति सः ।
ताम् अवारोपयत् पत्नीं रथाद् अवततार च

1.423

[रघु. 1.54]
दश-प्राणास् तु-
श्लेषः प्रसादः समता माधुर्यं सुकुमारता । 230
अर्थ-व्यक्तिर् उदारत्वम् ओजः कान्ति-समाधयः ।
एते वैदर्भ-मार्गस्य प्राणा दश गुणाः स्मृताः

1.424

231
तत्र श्लेषः-
केवलाल्प-प्राण-वर्ण-पद-सन्दर्भ-लक्षणम् ।
शैथिल्यं यत्र न स्पृष्टं स श्लेषः समुदाहृतः

1.425

232
यथा ममैव उत्फुल्ल-गण्ड-युगम् [कु. 3.4][*5] इत्य् आदौ श्लिष्ट-वर्ण-मिश्रित-बन्धत्वात् श्लेषः ।
[*5] qउओतेद् जुस्त् अबोवे.
अथ प्रसादः-
प्रसिद्धार्थ-पदत्वं यत् स प्रसादो निगद्यते

1.426

233अब्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्र पदानाम् अक्लेशेनैवार्थ-बोधन-सामर्थ्यात् प्रसादः ।
अथ समता-
बन्ध-वैषम्य-राहित्यं समता पद-गुम्फने । 233च्द्
बन्धो मृदुः स्फुटो मिश्र इति त्रेधा स निगद्यते

1.427

234अब्
तत्र मृदु-वर्ण-बन्धस्य समता, यथा-
चरण-कमल-कान्त्या देहलीम् अर्चयन्ती
कनक-मय-कवाटं पाणिना कम्पयन्ती ।
कुवलयमयम् अक्ष्णा तोरणं पूरयन्ती
वर-तनुर् इयम् आस्ते मन्दिरस्येव लक्ष्मीः

1.428

अत्र मृदु-वर्ण-प्राय-बन्धस्य निर्व्यूढत्वान् मृदु-बन्ध-समता ।
स्फुट-बन्ध-समता, यथा-
मधुरया मधु-बोधित-माधवी-
मधु-समृद्धि-समेधित-मेधया ।
मधुकराङ्गनया मुहुर् उन्मद-
ध्वनि-भृतानिभृताक्षरम् उज्जगे

1.429

[माघे 6.20]
अत्र स्फुट-वर्ण-प्राय-बन्धस्य निर्व्यूढत्वात् स्फुट-बन्ध-समता ।
मिश्र-बन्ध-समता, यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् आदौ । अत्र मिश्री-भूत-मृदु-स्फुट-वर्ण-बन्धस्य निर्वाहाद् मिश्र-बन्ध-समता ।
अथ माधुर्यम्-
तन् माधुर्यं भवेद् यत्र शब्देऽ र्थे च स्फुटो रसः

1.430

234च्द्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्र शब्दार्थयोः शृङ्गार-परिवाहित्वेन माधुर्यम् ।
अथ सुकुमारता-
यद् अनिष्ठुर-वर्णत्वं सौकुमार्यं तद् उच्यते

1.431

235अब्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] उद्गत-मन्द-हासम् इत्य् अत्र संयुक्ताक्षर-सद्भावेऽ प्य् अनिष्ठुरत्वात् सौकुमार्यम् ।
अथ अर्थ-व्यक्तिः-
श्रूयमाणस्य वाक्यस्य विना शब्दान्तर-स्पृहाम् । 235च्द्
अर्थावगमकत्वं यद् अर्थ-व्यक्तिर् इयं मता

1.432

236अब्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्र सर्वेषां पदानाम् अध्याहारय-पद-निराकाङ्क्षतया अर्थ-व्यक्तिः ।
अथ उदारत्वम्-
उक्ते वाक्ये गुणोत्कर्ष-प्रतिभानम् उदारता

1.433

236च्द्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्रान्योन्यानुरागोत्कर्ष-प्रतिभानाद् उदारत्वम् ।
अथ ओजः-
समास-बहुलत्वं यत् तद् ओजः इति गीयते

1.434

237अब्
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्र यथोचित-समास-बाहुल्याद् ओजः ।
अथ कान्तिः-
लोक-स्थितिम् अनुल्लङ्घ्य हृद्यार्थ-प्रतिपादनम् । 237च्द्
कान्तिः स्याद् द्विविधा ख्याता वार्तायां वर्णनासु च

1.435

238अब्
वार्ता नाम कुशल-प्रश्न-पूर्विका सङ्कथा । तत्र यथा-
परिधौत-भवत्-पदाम्बुना नव-चन्द्रातप-शीतलेन मे ।
अपि सन्तत-मर्म-कृन्तनः कृत-निर्वाण इवौर्व-पावकः

1.436

अत्र ब्राह्मण-पादोदकस्य सन्ताप-शमन-रूपां लौकिकीं स्थितिम् अनुल्लङ्घ्यैव समुद्रेण मुनीनां पुरतः सङ्कथनात् कान्तिः ।
वर्णनायां, यथा ममैव-
उत्तुङ्गौ स्तन-कलशौ सम्भा-स्तम्भोपमानम् ऊरु-युगम् ।
तरले दृशौ च तस्याः सृजता धात्रा किम् आहितं सुकृतम्

1.437

अत्र विशिष्ट-वस्तु-निर्माणम् अपुण्य-कृतां न भवतीति लोक-स्थित्य्-अनुरोधेनैव वर्णनात् कान्तिः ।
अथ समाधिः-
समाधिः सोऽ न्य-धर्माणां यद् अन्यत्राधिरोपणम्

1.438

238
यथा उत्फुल्ल-गण्ड-युगम् [कु. 3.4] इत्य् अत्रोत्फुल्लोद्गतोद्वेलत्व-रूपाणां पुष्प-प्राणि-समुद्र-धर्माणं गण्ड-स्थल-मन्द-हास-रागेषु समारोपितत्वात् समाधिः ।
अथ कठिन-रीतिः-
अतिदीर्घ-समास-युता बहुलैर् वर्णैर् युता महा-प्राणैः ।
कठिना सा गौडीयेत्य् उक्ता तद्-देश-बुध-मनोज्ञत्वात्

1.439

239
यथा-
गण्ड-ग्राव-गरिष्ठ-गैरिक-गिरि-क्रीडत्-सुधान्धो-वधू-
बाधा-लम्पट-बाहु-सम्पद्-उदयद्-दुर्वार-गर्वाशयम् ।
मर्त्यामर्त्य-विरावणं बल-गृहीतैर् आवणं रावणं
बाणैर् दाशरथी रथी रथ-गतं विव्याध दिव्यायुधः

1.440

अत्र दीर्घ-सम्सत्वं महा-प्राणाक्षर-प्रायत्वं च स्पष्टम् ।
अथ मिश्र-रीतिः-
यत्रोभय-गुण-ग्राम-संनिवेशस् तुलाधृतः ।
सा मिश्रा सैव पाञ्चालीत्य् उक्ता तद्-देशज-प्रिया

1.441

240
यथा-
परिम्लानं पीन-स्तन-जघन-सङ्गाद् उभयतस्
तनोर् मध्यस्यान्तः परिमिलनम् अप्राप्य हरितम् ।
इदं व्यस्त-न्यासं प्रशिथिल-भुजाक्षेप-वलनैः
कृशाङ्ग्याः सन्तापं वदति विसिनी-पत्र-शयनम्

1.442

[रत्नावली 2.12]
अत्राल्प-समासत्व-दीर्घ-समासत्व-रूपयोः प्रसाद-स्फुट-बन्धत्व-रूपयोर् अनिष्ठुराक्षर-प्रायत्व-रूपयोः पृथक्-पदत्व-ग्रन्थिलत्वयोश् च उभय-रीति-धर्मयोस् तुलाधृतयोर् इव संनिवेशान् मिश्रेयं रीतिः ।
आन्ध्री लाटी च सौराष्ट्रीत्य् आदयो मिश्र-रीतयः ।
सन्ति तत्-तद्-देश-विद्वत्-प्रिय-मिश्रण-भेदतः

1.443

241
त एव पद-सङ्घातास् ता एवार्थ-विभूतयः ।
तथापि नव्यं भवति काव्यं ग्रथन-कौशलात्

1.444

242
तासां ग्रन्थ-गडुत्वेन लक्षणं नोच्यते मया ।
भोजादि-ग्रन्थ-बन्धेषु तद्-आकाङ्क्षिभिर् ईक्ष्यताम्

1.445

243
अथ वृत्तयः-
भारती सात्वती चैव कैशिक्य् आरभटीति च ।
चतस्रो वृत्तयस् तासाम् उत्पत्तिर् वक्ष्यते स्फुटम्

1.446

244
जगत्य् एकार्णवे जाते भगवान् अव्ययः पुमान् ।
भोगि-भोगम् अधिष्ठाय योग-निद्रा-परोऽ भवत्

1.447

245
तदा वीर्य-मदोन्मत्तौ दैत्येन्द्रौ मधु-कैटभौ ।
तरसा देवदेवेशम् आगतौ रण-काङ्क्षिणौ

1.448

246
विविधैः परुषैर् वाक्यैर् अधिक्षेप-विधायिनौ ।
मुष्टि-जानु-प्रहारैश् च योधयामासतुर् हरिम्

1.449

247
तन्-नाभि-कमलोत्पन्नः प्रजापतिर् अभाषत ।
किम् एतद् भारती-वृत्तिर् अधुनापि प्रवर्तते

1.450

248
तद् इमौ नय दुर्धर्षौ निधनं त्वरया विभो ।
इति तस्य वचः श्रुत्वा निजगाद जनार्दनः

1.451

249
इदं काव्य-क्रिया-हेतोर् भारती निर्मिता ध्रुवम् ।
भाषणाद् वाक्य-बाहुल्याद् भारतीयं भविष्यति

1.452

250
अधुनैव निहन्म्य् एताव् इत्य् आभाष्य वचो हरिः ।
निर्मलैर् निर्विकारैश् च साङ्ग-हारैर् मनोहरैः

1.453

251
अङ्गैस् तौ योधयामास दैत्येन्द्रौ युद्ध-शालिनौ ।
भूमि-स्थानक-संयोगैः पद-क्षेपैस् तथा हरेः

1.454

252
भूमेस् तदाभवद् भारस् तद्-वशाद् अपि भारती ।
वल्गितैः शार्ङ्गिणस् तत्र दीप्तैः सम्भ्रम-वर्जितैः

1.455

253
सत्त्वाधिकैर् बाहु-दण्डैः सात्वत्वी वृत्तिर् उद्गता ।
विचित्रैर् अङ्ग-हारैश् च हेलया स तदा हरिः

1.456

254
यत् तौ बबन्ध केशेषु जाता सा कैशिकी ततः ।
स-संरम्भैः सवेगैश् च चित्र-चारी-समुत्थितैः

1.457

255
नियुद्ध-करणैर् जाता चित्रैर् आरभटी ततः ।
यस्माच् चित्रैर् अङ्गहारैः कृतं दानव-मर्दनम्

1.458

256
तस्माद् अब्ज-भुवा लोके नियुद्ध-समयः कृतः ।
यः शस्त्रास्त्रादि-मोक्षेषु न्यायः स पारिभाषितः

1.459

257
नाट्य-काव्य-क्रिया-योगे रस-भाव-समाश्रितः ।
स एव समयो धात्रा वृत्तिर् इत्य् एव संज्ञितः

1.460

258
हरिणा तेन यद् वस्तु वलिगितैर् यादृशं कृतम् ।
तद्वद् एव कृता वृत्तिर् धात्रा तस्याङ्ग-सम्भवा

1.461

259
ऋग्वेदाच् च यजुर्वेदात् सामवेदाद् अथर्वणः ।
भारत्य्-आद्या क्रमाज् जाता इत्य् अन्ये तु प्रचक्षते

1.462

260
तत्र भारती -
प्रयुक्तत्वेन भरतैर् भारतीति निगद्यते ।
प्रस्तावनोपयोगित्वात् साङ्गं तत्रैव लक्ष्यते

1.463

261
अथ सात्वती -
सात्त्विकेन गुणेनातित्याग-शौर्यादिना युता ।
हर्ष-प्रधाना सन्त्यक्त-शोक-भावा च या भवेत्

1.464

262
सात्वती नाम सा वृत्तिः प्रोक्ता लक्षण-कोविदैः ।
अङ्गान्य् अस्यास् तु चत्वारि संलापोत्तापकाव् अपि । 263
सङ्घात्यः परिवर्तश् चेत्य् एषां लक्षणम् उच्यते

1.465

ईर्ष्या-क्रोधादिभिर् भावै रसैर् वीराद्भुतादिभिः । 264
परस्परं गभीरोक्तिः संलाप इति शब्द्यते

1.466

265अब्
यथानर्घ-राघवे, रामः-
बन्दीकृत्य जगद्-विजित्वर-भुज-स्तम्भौघ-दुःसञ्चरं
रक्षो-राजम् अपि त्वया विदधता सन्ध्या-समाधि-व्रतम् ।
प्रत्यक्षीकृत-कार्तवीर्य-चरिताम् उन्मुच्य रेवां समं
सर्वाभिर् महिषीभिर् अम्बु-निधयो विश्वेऽ पि विस्मापिताः

1.467

(5.44)
बाली (विहस्य):
चिराय रात्रिंचर-वीर-चक्र-
माराङ्क-वैज्ञानिक पय्शतस् त्वाम् ।
सुधासधर्माणम् इमां च वाचं
न शृण्वतस् तृप्यति मानसं मे

1.468

(5.45)
अत्र धीरोदात्त-धीरोद्धतयोः राम-बालिनोः परस्परं युद्ध-चिकीर्षाभिप्राय-योगाद् अन्योन्य-पराक्रमोत्कर्ष-वर्णनात् संलापः ।
अथ उत्थापकः -
प्रेरणं यत् परस्यादौ युद्धायोत्थापकस् तु सः

1.469

265
यथानर्घ-राघवे, यथा-
नृपान् अप्रत्यक्षान् किम् अपवदसे नन्व् अयम् अहं
शिशु-क्रीडा-भग्न-त्रिपुर-हर-धन्वा तव पुरः ।
अहङ्कार-क्रूरार्जुन-भुज-वन-व्रश्चन-कला-
निसृष्टार्थो बाहुः कथय कतरस् ते परहरतु

1.470

(4.56)
अत्र रामभद्रेण प्राक् प्रहाराय जामदग्न्यः प्रेरित इत्य् उत्थापकः ।
अथ सङ्घात्यः -
मन्त्र-शक्त्यार्थ-शक्त्या वा दैव-शक्त्याथ पौरुषात् ।
सङ्घस्य भेदनं यत् तु सङ्घात्यः स उदाहृतः

1.471

266
मन्त्रो नय-प्रयोगः । तस्य शक्त्या यथा मुद्रा-राक्षसे चाणक्येन शत्रु-सहायानां भेदनात् सङ्घात्यः । अर्थ-शक्त्या यथा महाभारते आदिपर्वणि देवैस् तिलोत्तमालक्षणेनार्थेन सुन्दोपसुन्दयोर् अतिस्निग्धयोर् भेदनात् सङ्घात्यः ।
दैव-शक्त्या, यथा महावीर-चरिते माल्यवान्-
हा वत्साः खर-दूषण-प्रभृतयो वध्याः स्थ पापस्य मे
हा हा वत्स विभीषण त्वम् अपि मे कार्येण हेयः स्थितः ।
हा मद्-वत्सल वत्स रावण महत् पश्यामि ते सङ्कटं
वत्से केकसि हा हतास्मि न चिरात् त्रीन् पुत्रकान् पश्यसि

1.472

(म.वी.च. 4.11)
अत्र राघवानुकूल-दैव-मोहितेन माल्यवता खर-दूषण-त्रिशिरसां भेदः संविहित इति सङ्घात्यः ।
अथ परिवर्तकः -
पूर्वोद्युक्तस्य कार्यस्य परित्यागेन यद् भवेत् ।
कार्यान्तर-स्वीकरणं ज्ञेयः स परिवर्तकः

1.473

267
यथोत्तर-राम-चरिते पञ्चमाङ्के कुमारौ (अन्योन्यं प्रति)-अहो प्रिय-दर्शनः कुमारः । (स्नेहानुरागं विवर्ण्य)
यदृच्छा-संवादः किम् उ गुण-गणानाम् अतिशयः
पुराणो वा जन्मान्तर-निविड-बद्धः परिचयः ।
निजो वा सम्बन्धः किम् उ विधिवशात् कोऽ प्य् अविदितो
ममैतस्मिन् दृष्टे हृदयम् अवधानं रचयति

1.474

(उ.रा.च. 5.16)
अत्र लवस्य चन्द्रकेतोश् च परस्पराकार-विशेष-सन्दर्शनेन रण-संरम्भौद्धत्य-परिहारेण विनयार्जव-स्वीकार-कथनात् परिवर्तकः ।
अथ कैशिकी -
नृत्य-गीत-विलासादि-मृदु-शृङ्गार-चेष्टितैः ।
समन्विता भवेद् वृत्तिः कैशिकी श्लक्ष्ण-भूषणा

1.475

268
अङ्गान्य् अस्यास् तु चत्वारि नर्म तत्-पूर्वका इमे ।
स्फञ्ज-स्फोटौ च गर्भश् च तेषां लक्षणम् उच्यते

1.476

269
तत्र नर्म -
शृङ्गार-रस-भूयिष्ठः प्रिय-चित्तानुरञ्जकः ।
अग्राम्यः परिहासस् तु नर्म स्यात् तत् त्रिधा मतम्

1.477

270
शृङ्गार-हास्यजं शुद्ध-हास्यजं भय-हास्यजम् ।
शृङ्गार-हास्यजं नर्म त्रिविधं परिकीर्तितम्

1.478

271
सम्भोगेच्छा-प्रकटनाद् अनुराग-निवेशनात् ।
तथा कृतापराधस्य प्रियस्य प्रतिभेदनात् । 272
सम्भोगेच्छा-प्रकटनं त्रिधा वाग्-वेष-चेष्टितैः

1.479

273अब्
तत्र वाचा सम्भोगेच्छा-प्रकटनाद्, यथा-
गच्छाम्य् अच्युत दर्शनेन भवतः किं तृप्तिर् उत्पद्यते
किं त्व् एवं विजनस्थयोर् हत-जनः सम्भावयत्य् अन्यथा ।
इत्य् आमन्त्रण-भङ्गि-सूचित-वृथावस्थान-खेदालसाम्
आश्लिष्यन् पुलकोत्कराञ्चित-तनुर् गोपीं हरिः पातु वः

1.480

(काव्य-प्रकाशादिष्व् अप्य् उद्धृतम्)
अत्र निजावस्थान-विलम्बनस्य व्यर्थत्वं धीरत्वादि-सूचकैर् अच्युतादि-पदैर् वदन्त्या तयापि गोपिकया वाचा सम्भोगेच्छा प्रकटितेति नर्म ।
वेशेन सम्भोगेच्छा-प्रकटनाद्, यथा-
अभ्युद्गते शशिनि पेशल-कान्त-दूती
सन्ताप-संवलितमानस-लोचनाभिः ।
अग्रा हि मण्डन-विधिर् विपरीत-भूषा
विन्यास-हासित-सखीजनम् अङ्गनाभिः

1.481

अत्र विपरीत-न्यस्त-भूषण-लक्षणेन वेषेण जनितैः सखी-जन-हासैः कामिनीनां सम्भोगेच्छा प्रकटितेति नर्म ॥
चेष्टया सम्भोगेच्छा-प्रकटनाद्, यथा-
सालोए चिअ सूरे घरिणी घर-सामिअस्स घेत्तूण ।
णेच्छं तस्स बि पाए धुबै हसंती हसंतस्स

1.482

(गा.स. 2.30)
[सालोक एव सूर्ये गृहिणी गृह-स्वामिनो गृहीत्वा ।
नेच्छतोऽ पि पादौ धावति हसन्ती हसतः ॥]
अत्र सूर्यास्तमयात् प्राग् एव चरण-प्रक्षालन-लक्षणया क्रियया निष्क्रमण-निवारण-जनितेन हासेन सम्भोगेच्छा-प्रकटनान् नर्म ।
अनुराग-प्रकाशोऽ पि भोगेच्छा-नर्मवत् त्रिधा

1.483

273च्द्
वाचानुराग-निवेदनात्, यथा-
वयं तथा नाम यथात्थ किं वदाम्य्
अयं त्व् अकस्माद् विकलः कथान्तरे ।
कदम्ब-गोलाकृतिम् आश्रितः कथं
विशुद्ध-मुग्धः कुल-कन्यका-जनः

1.484

(मालती-माधव 7.1)
अत्र लवङ्गिकया विशुद्ध-मुग्धः कुल-कन्यका-जन इति परिहासेन मदयन्तिकानुराग-निवेदनान् नर्म ।
वेषेणानुराग-निवेदनात्, यथा-
औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया
तैस् तैर् बन्धु-वधू-जनस्य वचनैर् नीताभिमुख्यं पुनः ।
दृष्ट्वाग्रे वरम् आत्त-साध्वस-रसा गौरी नवे सङ्गमे
संरोहत्-पुलका हरेण हसता श्लिष्टा शिवायास्तु वः

1.485

(रत्नावली 1.2)[*6]
[*6] qउओतेद् अबोवे अत् 1.157.
अत्र पुलक-संरोह-लक्षण-वेष-जनितेन शिवस्य हसनेन गौरी-हृदयानुरागस्य प्रकाशनान् नर्म ।
चेष्टयानुराग-निवेदनात्, यथा-
कैतवेन शयिते कुतूहलात्
पार्वती प्रतिमुखं निपातितम् ।
चक्षुर् उन्मिषति सस्मितं
प्रिये विद्युद् आहतम् इव

1.486

[कु.सं. 8.3]
अत्र पति-मुख-दर्शन-क्रिया-जनितेन शिवस्य हासेन गौरी-हृदयानुराग-निवेदनान् नर्म ।
प्रियापराध-निर्भेदोऽ प्य् उक्तस् त्रेधा तथा बुधैः

1.487

274अब्
वाचा प्रियापराध-निर्भेदाद्, यथा मालविकाग्निमित्रे प्रथमाङ्केऽ न्ते देवी-
जै राअ-कज्जेसु ईरिसी णिउणदा अय्य-उत्तस्स तदा सोहणं हबे । (यदि राज-कार्येषु ईदृशी निपुणता आर्य-पुत्रस्य, तदा शोभनं भवेत् ।)

1.488

अत्र ईदृशी निपुणता यदीति चतुरोक्ति-परिहासेन त्वयैव मालविका-दर्शनेन नाट्याचर्ययोर् विवादः संविहित इति प्रियापराधोघाटनान् नर्म ।
वेषेण प्रियापराध-निर्भेदाद्, यथा-
आलेपः क्रियताम् अयं द्रुत-गति-स्वेदैर् इवार्द्रं वपुस्
तन्-माल्यं व्यपनीयतां रवि-कर-स्पर्शैर् इवामर्दितम् ।
इत्य् उक्तान्य् अतिधीरया दयितया स्मेराननाम्भोरुहं
चाटूक्तानि भवन्ति हन्त कृतिनां मोदाय भोगाद् अपि

1.489

अत्र स्वेदोद्गम-माल्य-म्लानत्वयोर् द्रुत-गमन-रवि-कर-स्पर्श-रूप-कारणासत्यत्व-कथन-रूपेण परिहसनेन सपत्नी-सम्भोग-रूप-प्रियापराध-निर्भेदनान् नर्म ।
चेष्टया प्रियापराध-निर्भेदाद्, यथा-
लोलद्-भ्रू-लतया विपक्ष-दिग्-उपन्यासेऽ वधूतं शिरस्
तद्-वृत्तान्त-निरीक्षणे कृत-नमस्कारो विलक्षः स्थितः ।
कोपात् ताम्र-कपोल-भित्तिनि मुखे दृष्ट्या गतः पादयोर्
उत्सृष्टो गुरु-सन्निधाव् अपि विधिर् द्वाभ्यां न कालोचितः

1.490

(अमरु 79)
अथ विलक्ष-स्थिति-शिरोधूनन-चेष्टया प्रियापराध-निर्भेदनान् नर्म ।
अथ शुद्ध-हास्यजम् -
शुद्ध-हास्यजम् अप्य् उक्तं तद्वद् एव त्रिधा बुधैः

1.491

274च्द्
तत्र वाचा शुद्ध-हास्यजं, यथा-
अर्चिष्मन्ति विदार्य वक्त्र-कुहराण्या सृक्कतो वासुकेस्
तर्जन्या विष-कर्बुरान् गणयतः संस्पृश्य दन्ताङ्कुरान् ।
एकं त्रीणि नवाष्ट सप्त षड् इति व्यस्तास्त-संख्या-क्रमा
वाचः शक्ति-धरस्य शैशव-कलाः कुर्वन्तु वो मङ्गलम्

1.492

(दशरूपावलोकेऽ प्य् उद्धृतम् इदम् । बाणस्येति सूक्ति-मुक्तावलौ)
वेषेण शुद्ध-हास्यजं, यथा-
स्नायु-न्यास-निबद्ध-कीक-सतनुं नृत्यन्तम् आलोक्य मां
चामुण्डा-करताल-कुट्टित-लयं वृत्ते विवाहोत्सवे ।
ह्री-मुद्राम् अपनुद्य यद् विहसितं देव्या समं शम्भुना
तेनाद्यापि मयि प्रभुः स जगताम् आस्ते प्रसादोन्मुखः

1.493

(बा.रा. 2.1)
अत्र भृङ्गि-रिटि-वेषेण शिवयोर् हसिताविर्भावाच् छुद्ध-हास्यजम् ।
चेष्टया शुद्ध-हास्यजं, यथा-
देव्या लीलालपित-मधुरं लास्यम् उल्लासयन्त्या
यः शृङ्गारो रहसि पुरतः पत्युर् आविष्कृतोऽ भूत् ।
युष्मान् अव्यात् तद्-उपजनितं हास्यम् अम्बानुकारी
क्रीडा-नृत्यैर् विकट-गतिभिर् व्यञ्जयन् कुञ्जरास्यः

1.494

अथ भय-हास्यजम् -
हास्याद् भयेन जनिताज् जनितं भय-हास्यजम् ।
तद् द्विधा मुखम् अङ्गं तु तद् द्वयं पूर्ववत् त्रिधा

1.495

275
मुख्यं भय-हास्यजं, यथा-
क्षेत्राधीश-शुना नवेन विकृताकारैक-विद्वेषिणा
घोरारावम् अभिद्रुतस्य विकटैः पश्चात् पदैर् गच्छतः ।
पा पा पाहि फहीति सत्वरतरं व्यस्ताक्षरं जल्पतो
दृष्ट्वा भृङ्गिरिटेर् दशां पशुपतिः स्मेराननः पातु वः

1.496

अत्र भृङ्गिरिटेर् विकृताकारेण विकट-पश्चाद्-गमनेन पाहि पाहि पाहीत्य् अत्र वर्ण-व्यत्यास-भाषणेन जनितस्य पशुपति-हासस्यान्य-रसानङ्गतया मुख्यं भय-हास्यजम् ।
वाचा अन्य-रसाङ्गं भय-हास्यजं, यथा रत्नावल्याम्-
विदूषकः-कहंण किदो पसादो देवीए ज अज्जं बिअक्खद-सरीरा चिट्ठह्म । (कथं न कृतः प्रसादो देव्या यद् अद्याप्य् अक्षत-शरीरास् तिष्ठामः ।)
राजा (स-स्मितम्)-धिङ् मूर्ख ! किम् एवम् उपहससि ? त्वत्-कृत एवायम् आपतितोऽ स्माकम् अनर्थ-क्रमः । (3.14अद्)

1.497

वेषेण, यथा-
कल्याण-दायि भवतोऽ स्तु पिनाक-पाणि-
पाणि-ग्रहे भुजग-कङ्कण-भीषितायाः ।
सम्भ्रान्त-दृष्टि सहसैव नमः शिवायेत्य्
अर्धोक्ति-सस्मित-नतं मुखम् अम्बिकायाः

1.498

(रस-कलिकायाम् अप्य् उद्धृतम् इदम्, 23 पुटे)
अत्र भुजग-कङ्कण-लक्षणेन वेषेण जनितस्य पार्वती-भय-हास्यास्य शृङ्गाराङ्गतया कथनात् तद् इदम् अङ्गं भय-हास्यजम् ।
चेष्टया, यथा-
प्रह्लाद-वत्सल वयं बिभिमो विहाराद्
अस्माद् इति ध्वनित-नर्मसु गोपिकासु । लीला-मृदु स्तन-तटेषु नखाङ्कुराणि
व्यापारयन्न् अवतु वः शिखि-पिच्छ-मौलिः

1.499

अत्र नखाङ्कुर-व्यापारेण जनितस्य गोपिका-हसितस्य प्रह्लाद-वत्सलेति चतुरोक्ति-रूपस्य शृङ्गाराङ्गतया तद् इदम् अङ्गं भय-हास्यजम् ।
अग्राम्य-नर्म-निर्माण-वेदिना सिंह-भूभुजा ।
नर्माष्टादशधा भिन्नम् एव स्फुटम् उदाहृतम्

1.500

276
अथ नर्म-स्फञ्जः -
नर्म-स्फञ्जः सुखोद्योगो भयान्तो नव-सङ्गमे

1.501

277अब्
यथा-
अपेत-व्याहारं धुत-विविध-शिल्प-व्यतिकरं
कर-स्पर्शारम्भ-प्रकलित-दुकूलान्त-शयनम् ।
मुहुर् बद्धोत्कम्पं दिशि दिशि मुहुः प्रेरित-दृशोर्
अहल्या-सुत्राम्णोः क्षणिकम् इव तत् सङ्गतम् अभूत्

1.502

(सरस्वती-कण्ठाभरणेऽ प्य् उद्धृतम् इदम्)
अथ नर्म-स्फोटः -
नर्म-स्फोटस् तु भावांशैः सूचितोऽ ल्प-रसो भवेत् । 277च्द्
अन्यैस् त्व् अकाण्डे सम्भोग-विच्छेद इति गीयते

1.503

278अब्
आद्यो यथा-
स्निग्धं वीक्षितम् अन्यतोऽ पि नयने यत् प्रेरयन्त्या तया
यातं यच् च नितम्बयोर् गुरुतया मन्दं विलासाद् इव ।
मा गा इत्य् उपरुद्धया यद् अपि सा सासूयम् उक्ता सखी
सर्वं तत् किल मत्-परायणम् अहो कामी स्वतां पश्यती

1.504

अत्र सर्वं तत् किलेत्य् अनिश्चयेनानुरागस्य स्वल्प-मात्र-सूचनया नर्म-स्फोटत्वम् ।
द्वितीयो, यथा-
प्राप्ता कथम् अपि दैवात् कण्ठम् अनीतैव सा प्रकट-रागा ।
रत्नावलीव कान्ता मम हस्ताद् भ्रंशिता भवता

1.505

(रत्नावली 2.18)
अत्र विदूषक-वाक्य सूचित-देवी-शङ्का-विसृष्ट-सागरिका-हस्तेन राज्ञा अकाण्डे त्वया सम्भोग-भङ्गः कृत इत्य् उक्तत्वात् नर्म-स्फोटः ।
अथ नर्म-गर्भः-
नेतुर् वा नायिकाया वा व्यापारः स्वार्थ-सिद्धये । 278च्द्
प्रच्छादन-परो यस् तु नर्म-गर्भः स कीर्तितः

1.506

279अब्
यथा-
श्रियो मान-ग्लानेर् अनुशय-विकल्पैः स्मित-मुखे
सखी-वर्गे गूढं कृतवसतिर् उत्थाय सहसा ।
समनेष्ये धूर्तं तम् अहम् इति जल्पन् नत-मुखीं
प्रियान्ताम् आलिङ्गन् हरिर् अरति-खेदं हरतु वः

1.507

अत्र कुपितायाः श्रियः प्रसादनार्थं पुरुषोत्तमेन प्रच्छन्न-स्थित्यादि-रूपो व्यापारः कृत इत्य् अयं नर्म-गर्भः ।
पूर्व-स्थितो विपद्येत नायको यत्र चापरस् तिष्ठेत् । 279च्द्
तम् अपीह नर्म-गर्भं प्रवदति भरतो हि नाट्य-वेद-गुरुः

1.508

280अब्
यथा-
मयेन निर्मितां लङ्कां लब्ध्वा मन्दोदरीम् अपि ।
रेमे मूर्तां दशग्रीव-लक्ष्मीम् इव विभीषणः

1.509

(सरस्वती-कण्ठाभरणेऽ प्य् उद्धृतम् इदम्)
अत्र रावणे विपन्ने तत्-पदाभिषिक्तेन विभीषणेन मन्दोदर्यादिषु तद् उचितं कर्म निर्मितम् इत्य् अयं नर्म-गर्भः । केचित् त्व् एतद् आरभटी-भेदं सङ्क्षिप्तिम् आहुः । तत्र मूलं न जानीमः ।
अथारभटी -
मायेन्द्र-जाल-प्रचुरां चित्र-युद्ध-क्रिया-मयीम् । 280च्द्
छेद्यैर् भेद्यैः प्लुतैर् युक्तां वृत्तिम् आरभटीं विदुः

1.510

अङ्गान्य् अस्यास् तु चत्वारि सङ्क्षिप्तिर् अवपातनम् । 281
वस्तूत्थापन-सम्फेटाव् इति पूर्वे बभाषिरे

1.511

तत्र सङ्क्षिप्तिः -
सङ्क्षिप्त-वस्तु-विषया या मायाशिल्प-योजिता । 282
सा सङ्क्षिप्तिर् इति प्रोक्ता भरतेन महात्मना

1.512

283अब्
यथा अनर्घ-राघवे-
नीतो दूरं कनक-हरिण-च्छद्मना रामभद्रः
पश्चाद् एनं द्रुतम् अनुसरत्य् एष वत्सः कनिष्ठः ।
बिभ्यद् बिभ्यत् प्रविशति ततः पर्णशालां च भिक्षुर्
धिग् धिक् कष्टं प्रथयति न्निजाम् आकृतिं रावणोऽ यम्

1.513

(5.7)
अत्र बहु-विधानो मायानां सङ्क्षेपेण कथनात् सङ्क्षिप्तिः ।
वदन्त्य् अन्ये तु तां नेतुर् अवस्थान्तर-सङ्गतिम्

1.514

283च्द्
यथा-
यद्-अर्थम् अस्माभिर् असि प्रकोप्तैस्
तद् अद्य दृष्ट्वा तव धाम वैष्णवम् ।
विशीर्ण-गर्वामयम् अस्मद्-आन्तरं
चिरस्य कञ्चिल् लघिमानम् अश्नुते

1.515

(अ.रा. 4.59)
अत्र रामभद्र-सहवासेन परिहृत-धीरोद्धत-विकारस्य जामदग्न्यस्य धीर-शान्तावस्था-परिग्रहात् सङ्क्षिप्तिर् इति ।
परिवर्तक-भेदत्वात् तद् उपेक्षामहे वयम्

1.516

284अब्
अथावपातनम् -
विभ्रान्तिर् अवपातः स्यात् प्रवेश-द्रव-विद्रवैः

1.517

284च्द्
यथा -
हृत्वा शन्तनु-नन्दनस्य तुरगान् सूतं कुरूणां गुरोश्
छित्त्वा द्रोण-सुतस्य कार्मुक-लतां कृत्वा विसंज्ञं कृपम् ।
कर्णस्यापि रथं विदार्य कणशो विद्राव्य चान्यद् बलं
त्वत्-पुत्रो भय-विद्रवत्-कुरुपतेः पन्थानम् अन्वेत्य् अयम्

1.518

(धनञ्जय-विजय 67)
अथ वस्तूत्थापनम् -
तद्-वस्तूत्थापनं यत् तु वस्तु मायोपकल्पितम्

1.519

285अब्
यथा-
माया-चुञ्चुर् अथेन्द्रजिद् रण-मुखे खड्गेन दीनानां
सौमित्रे द्रुतम् आर्यपुत्र चकितां मां पाहि पाहीति च ।
क्रोशन्तीं व्यथिताशयां हनुमता मा मेति सन्तर्जितः
कण्ठे कैतव-मैथिलीं कुपित-धीश् चिच्छेद तुच्छाशयः

1.520

अत्र निकुम्भिलायाम् अभिचारं चिकीर्षुणा इन्द्रजिता राघवादि-बुद्धि-प्रमोषणार्थं माया-कल्पित-मैथिली-कण्ठ-खण्डनं कृतम् इति वस्तूत्थापनम् ।
अथ सम्फेटः -
सम्फेटस् तु समाघातः क्रुद्ध-संरब्धयोर् द्वयोः

1.521

285च्द्
यथा -
अन्योन्य-सूतोन्मथनाद् अभूतां
ताव् एव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदा-व्यायत-सम्प्रहारौ
भग्नायुधौ बाहु-विमर्द-निष्ठौ

1.522

(र.वं. 7.52)
आसां च मध्ये वृत्तीनां शब्द-वृत्तिस् तु भारती ।
तिस्रोऽ र्थ-वृत्तयः शेषास् तच्-चतस्रो हि वृत्तयः

1.523

286
अन्ये तु मिश्रणाद् आसां मिश्रां वृत्तिं च पञ्चमीम् ।
अशेष-रस-सामान्यां मन्यन्ते लक्षयन्ति च

1.524

287
यथा-
यत्रारभट्य्-आदि-गणाः समन्ता
मिश्रत्वम् आश्रित्य मिथः प्रथन्ते ।
मिश्रेति तां वृत्तिम् उशन्ति धीराः
साधारणीम् अर्थ-चतुष्टयस्य

1.525

(शृ.प्र. 12) इति ।
तन् विचार-सहम् । कुतः ? तत् किं वृत्ति-धर्माणां मिश्रणम् ऐक्य-रूपेण न्यूनाधिक-भावेन वा । न प्रथमः अवैषम्येण मिश्रणाभावात् । तथा मिश्रणे तु मिश्र-वृत्ति-व्यङ्ग्यो रसोऽ पि मिश्रो न्यूनाधिकः प्रसज्येत । वृत्तीनांच रस-विशेष-नियमस्य वक्ष्यमाणत्वात् । ननु मिश्रा वृत्तिः सर्व-रस-साधारणीति चेत्, न । भारत्या वृत्त्या अपहृत-विषयत्वात् । मूल-प्रमाणाभावेन स्वोक्ति-मात्रत्वाच् च । नापि द्वितीयः । वैषम्येण वृत्ति-गुणानां मिश्रणे यत्र यद्-वृत्ति-प्रत्यभिज्ञा-हेतु-भूता बहवो गुणा लक्ष्यन्ते तत्र सैव वृत्तिर् इति निश्चयात् । ननु, तत्र प्रकरणादि-वशेन रस-विशेष-व्यक्तिर् इति चेत् तर्हि प्रस्तुत-रसानुरोधेनैव वृत्ति-विशेष-निर्धारणम् अप्य् अङ्गीकर्तव्यम् एव । तथा च भरतः-
भावो वापि रसो वापि प्रवृत्तिर् वृत्तिर् एव वा ।
सर्वेषां समवेतानां रूपं यस्य भवेद् बहु ।
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणो मताः

1.526

(ना.शा. 7.119-120) इति ।
अथैतासां रस-नियमः-
कैशिकी स्यात् तु शृङ्गारे रसे वीरे तु सात्वती ।
रदुर-बीभत्सयोर् वृत्तिर् नियतारभटी पुनः । 288
शृङ्गारादिषु सर्वेषु रसेष्व् इष्टैव भारती

1.527

289अब्
एतच् च शृङ्गारादि-ग्रहणं तज्-जन्यानां हास्यादीनाम् अप्य् उपलक्षणम् । अतश् च शृङ्गार-हास्ययोः कैशिकी । वीराद्भुतयोः सात्त्वती । रौद्र-करुणयोर् बीभत्स-भयानकयोश् च आरभटीति नियमः प्रतीयते । तथा च भरतः-
शृङ्गारं चैव हास्यं च वृत्तिः स्यात् कैशिकी श्रिता ।
सात्त्वती नाम विज्ञेया रौद्र-वीराद्भुताश्रया

1.528

भयानके च बीभत्से रौद्रे चारभटी भवेत् ।
भारती चापि विज्ञेया करुणाभुत-संश्रया

1.529

(ना.शा. 20.73-74)[*7]
[*7] वरिअन्त् fओउन्द् इन् क्.ल्.जोस्हि एदितिओन्: हास्य-शृङ्गार-बहुला कैशिकी परिचक्षिता । सात्वती चापि विज्ञेया वीराद्भुत-शमाश्रया । रौद्रे भयानके चैव विज्ञेयारभटी बुधैः । बीभत्से करुणे चैव भारती सम्प्रकीर्तिता ॥
अत्र सात्वत्या रौद्रानुप्रवेश-कथनं रौद्र-प्रतिभटस्य युद्ध-वीरस्यैव संलापादिभिः सात्वती-भेदैः परिपोषणं न तु दान-वीर-दया-वीरयोर् इति ज्ञापनार्थम् । तस्मान् न नियम-विरोधः । भारत्याश् च करुणाद्भुत-विषयत्व-कथनं तयोः प्रायेण वाग्-आरम्भ-मुखेन परिपोष इति ज्ञापनार्थम् । तेन भारत्याः सर्व-रस-साधारणयम् उपपन्नम् एव ।
केचित् तु तम् इमं श्लोकं भारतीयं नियामकम् । 289
प्रायिकाभिप्रायतया व्याचक्षाणा विचक्षणाः ।
आसां रसेषु वृत्तीनां नियमं नानुमन्वते

1.530

290
तथा च कैशिकीत्य् अनुवृत्तौ रुद्रटः-
शृङ्गार-हास्य-करुण-रसातिशय-सिद्धये ।
एषा वृत्तिः प्रयत्नेन प्रयोज्या रस-कोविदैः

1.531

[शृ.ति. 3.39॥ इति ।[*8]
[*8] शृङ्गार-तिलक रेअदिन्ग्: शृङ्गार-हास्य-करुण-रसानां परिवृद्धये । एषा वृत्तिः पर्योक्तव्या प्रयत्नेन बुधैर् यथा ॥
विचार-सुन्दरो नैष मार्गः स्याद् इत्य् उदास्महे ।
कैशिकी-वृत्ति-भेदानां नर्मादीनां प्रकल्पनम्

1.532

291
यत्र करुणम् आश्रित्य रसाभासत्व-कारणम् ।
रसाभास-प्रकरणे वक्ष्यते तद् इदं स्फुटम्

1.533

292
तत्-तन्-न्याय-प्रवीणेन न्याय-मार्गानुवर्तिना ।
दर्शितं सिंह-भूपेन स्पष्टं वृत्ति-चतुष्टयम्

1.534

293
अथ प्रवृत्तयः-
तत्-तद्-देशोचिता भाषा क्रिया वेषा प्रवृत्तयः ।
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः

1.535

294
तत्र भाषा सप्त-विधा प्राच्यावन्त्या च मागधी ।
बाह्लीका दाक्षिणात्या च शौरसेनी च मालवी

1.536

295
सप्तधा स्याद् विभाषादि शबर-द्रमिलान्ध्रजाः ।
शकाराभीर-चण्डाल-वनेचर-भवा इति

1.537

296
भाषा-विभाषाः सन्त्य् अन्यास् तत्-तद्-देश-जनोचिताः ।
तासाम् अनुपयोगित्वान् नात्र लक्षणम् उच्यते । 297
तत्-तद्-देशोचिता वेषाः क्रियाश् चातिस्फुटान्तराह्

1.538

अथ सात्त्विकाः-
अन्येषां सुख-दुःखादि-भावेषु कृत-भावनम् । 298
आनुकूल्येन यच् चित्तं भावकानां प्रवर्तते

1.539

सत्त्वं तद् इति विज्ञेयं प्राज्ञैः सत्त्वोद्भवान् इमान् । 299
सात्त्विका इति जानन्ति भरतादि-महर्षयः

1.540

सर्वेषाम् अपि भावानां यैः स्व-सत्त्वं हि भाव्यते । 300
ते भावा भाव-तत्त्व-ज्ञैः सात्त्विका समुदीरिताः

1.541

ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदश् च वेपथुः । 301
वैवर्ण्यम् अश्रु-प्रलयाव् इत्य् अष्टौ परिकीर्तिताः

1.542

तत्र स्तम्भः-
स्तम्भो हर्ष-भयामर्ष-विषादाद्भुत-सम्भवः । 302
अनुभावा भवन्त्य् एते स्तम्भस्य मुनि-संमताः ।
संज्ञा-विरहितत्वं च शून्यता निष्प्रकम्पता

1.543

303
अथ स्वेदः -
निदाघ-हर्ष-व्यायाम-श्रम-क्रोध-भयादिभिः ।
स्वेदः सञ्जायते तत्र त्व् अनुभावा भवन्त्य् अमी । 304
स्वेदापनयवातेच्छा-व्यजन-ग्रहणादयः

1.544

निदाघाद्, यथा-
करैर् उपात्तान् कमलोतक्रेभ्यो
निजैर् विवस्वान् विकचोदरेभ्यः ।
तस्या निचिक्षेप मुखारविन्दे
स्वेदापदेशान् मकरन्द-बिन्दून्

1.545

हर्षाद्, यथा-
सख्या कृतानुज्ञम् उपेत्य पश्चाद्
धून्वन् शिरोजान् करजैः प्रियायाः ।
अनार्द्रयन्न् आनन-वायुनापि
स्विन्नान्तरान् एव चकार कश्चित्

1.546

अत्रोभयोर् अन्योन्य-स्पर्श-हर्षेण स्वेदः ।
व्यायामाद्, यथा-
गत्वोद्रेकं जघन-पुलिने रुद्ध-मध्य-प्रदेशः
क्रामन्न् ऊरु-द्रुम-भुज-लताः पूर्ण-नाभि-ह्रदान्तः ।
उल्लङ्घ्योच्चैः कुच-तट-भुवं प्लावयन् रोम-कूपान्
स्वेदापूरो युवति-सरितां प्राप गण्ड-स्थलानि

1.547

[माघ. 7.74]
अत्र कुसुमापचय-पर्यटनेन व्यायामेन स्वेदः ।
श्रमो रत्य्-आदि-परिश्रान्तिः, तस्माद् यथा-
मञ्चेषु पञ्चेषु-समाकुलानां
वाताय वातायन-संश्रितानाम् ।
स्विन्नानि खिन्नानि मुखान्य् अशंसन्
सम्भोगम् अभोरुह-लोचनानाम्

1.548

आदि-शब्दाद् गीत-नृत्य-श्रान्त्य्-आदयः ।
गीत-श्रान्त्या, यथा-
गीतान्तरेषु श्रम-वारि-लेशैः
किंचित् समुच्छ्वासित-पत्र-लेखम् ।
पुष्पासवाघूर्णित-नेत्र-शोभि
प्रिया-मुखं किंपुरुषश् चुचुम्बे

1.549

[कु.सं. 3.38]
नृत्य-श्रान्त्या, यथा-
चारु-नृत्य-विगमे च तन्-मुखं
स्वेद-भिन्न-तिलकं परिश्रमात् ।
प्रेम-दत्त-वदनानिलं पिबन्न्
अत्यजीवद् अमरालकेश्वरौ

1.550

[रघु. 19.15]
क्रोधाद्, यथा-
दधत् सन्ध्यारुण-व्योम-स्फुरत्-तारानुकारिणीः ।
द्विषद्-द्वेषोपरक्ताङ्ग-सङ्गिनीः स्वेद-विप्रुषः

1.551

[माघे 2.18]
भयाद्, यथा-
कृतान्त-जिह्वा-कुटिलां कृपाणीं
दृष्ट्वा यदीयां त्रसताम् अरीणाम् ।
स्वेदोदयश् चेतसि संचितानां
मानोष्मणाम् आतनुते प्रशान्तिम्

1.552

[अत्रैव 1.13]
रोमाञ्चो विस्मयोत्साह-हर्षाद्यैस् तत्र विक्रियाः । 305
रोमोद्गमोल्लुक-सनगात्र-संस्पर्शनादयः

1.553

विस्मयेन, यथा-
राघवस्य गुरु-सार-निर्भर-
प्रौढिम् आजगव-भञ्जनोद्भटम् ।
दोर्-बलं श्रुतवतः सभान्तरे
रोमहर्षणम् अभूत् पिनाकिनः

1.554

उत्साहेन, यथा-
अन्त्रैः स्वैर् अपि संयताग्र-चरणो मूर्च्छाविराम-क्षणं
स्वाधीन-व्रणिताङ्ग-शस्त्र-विवरे रोमोद्गमं वर्मयन् ।
भग्नानुद्वलयन् निजान् पर-भटान् आतर्जयन् निष्ठुरं
धन्योद्दाम-जय-श्रियः पृथु-रण-स्तम्भे पताकायते

1.555

अत्रोत्साहेन रोमाञ्चः ।
हर्षेण, यथा-
रोमाणि सर्वाण्य् अपि बाल-भावाद्
वर-श्रियं वीक्षितुम् उत्सुकानि ।
तस्यास् तदा कोरकिताङ्ग-यष्टेर्
उद्ग्रीविकादानम् इवान् भूवन्

1.556

(नैषध 14.53)
अथ स्वर-भेदः-
वैस्वर्यं सुख-दुःखाद्यैस् तत्र स्युर् गद्गदादयः

1.557

306
सुखेन, यथा-
पश्येम तं भूय इति ब्रुवाणां
सखीं वचोभिः किल सा ततर्ज ।
न प्रीति-कर्णेजपतां गतानि
भूयो बभूवुः स्वर-वैकृतानि

1.558

अत्र प्रिय-संस्मरण-जनितेन हर्षेण भूयो वैस्वर्यम् ।
दुःखेन, यथा-
विललाप स बाष्प-गद्गदं
सहजाम् अप्य् अपहाय धीरताम् ।
अभितप्त-मयोऽ पि मार्दवं
भजते कैव कथा शरीरिषु

1.559

(र.वं. 8.43)
अथ वेपथुः-
वेपथुर् हर्ष-सन्त्रास-जरा-क्रोधादिभिर् भवेत् ।
तत्रानुभावाः स्फुरण-गात्र-कम्पादयो मताः

1.560

307
हर्षेण त्रासेन च, यथा-
तद्-अङ्गम् आनन्द-जडेन दोष्णा
पित स-बाण-व्रणम् आममर्श ।
निःश्वस्य निःश्वस्य मुहुश् च दीर्घं
प्रसूः कराभ्यां भय-कम्पिताभ्याम्

1.561

जरया, यथा-
रुन्धानया बहु-मुखीं गतिम् इन्द्रियाणां
वध्वेव गाढम् अनया जरयोपगूढः ।
अङ्गेन वेपथु-मता जडतायुजाहं
गन्तुं पदाद् अपि पदं गदितुं च नालम्

1.562

(कुवलयावली, 3.1)
क्रोधेन, यथा-
रुषा समाध्मात-मृगेन्द्र-तुङ्गं
न केवलं तस्य वपुश् चकम्पे ।
स-सिन्धु-भूभृद्-गगना च पृथ्वी
निपातितोल्का च स-तारका द्यौः

1.563

अथ वैवर्ण्यम्-
विषादातपरोषाद्यैर् वैवर्ण्यम् उपजायते ।
मुख-वर्ण-परावृत्ति-कार्श्याद्यास् तत्र विक्रियाः

1.564

308
विषादेन, यथा-
शर-काण्ड-पाण्डु-गण्ड-स्थलीयम् आभाति परिमिताभरणा ।
माधव-परिणत-पत्रा कतिपय-कुसुमेव कुन्दलता

1.565

(मा.अ.मि. 3.8)
अत्र विरह-जनितेन विषादेन पाण्डुत्वम् ।
आतपेन, यथा-
धूतानाम् अभिमुख-पातिभिः समीरैर्
आयासाद् अविशद् अलोचनोत्पलानाम् ।
आनिन्ये मद-जनितां श्रियं वधूनाम्
उष्णांशु-द्युति-जनितः कपोल-रागः

1.566

(किरातार्जुनीय 7.3)
रोषेण, यथा-
कदा मुखं वर-तनु कारणाद् ऋते तवागतं क्षणम् अयि कोप-पात्रताम् ।
अपर्वणि ग्रह-कलुषेन्दु-मण्डला विभावरी कथय कथं भविष्यति

1.567

(मालविकाग्नि-मित्र 4.16)
अथाश्रु-
विषाद-रोष-सन्तोषा-धूमाद्यैर् अश्रु तत्-क्रियाः ।
बाष्प-बिन्दु-परिक्षेप-नेत्र-संमार्जनादयः

1.568

309
विषादेन, यथा-
त्वाम् आलिख्य प्रणय-कुपितां धातु-रागैः शिलायाम्
आत्मानं ते चरण-पतितं यावद् इच्छामि कर्तुम् ।
अस्रैस् तावन् मुहुर् उपचितैर् दृष्टिर् आलुप्यते मे
क्रूरस् तस्मिन्न् अपि न सहते सङ्गमं नौ कृतान्तः

1.569

[मे.दू. 2.45]
रोषेण च, यथा ममैव-
कान्ते कृतागसि पुरः परिवर्तमाने
सख्यं सरोज-शशिनोः सहसा बभूव ।
रोषाक्षरं सुदृशि वक्तुम् अपारयन्त्याम्
इन्दीवर-द्वयम् अवाप तुषार-धाराम्

1.570

अत्र सापराध-प्रिय-दर्शन-जनितेन रोषेण मुग्धाया बाष्पोद्गमः ।
सन्तोषेण, यथा-
आनन्दजः शोकजम् अश्रु बाष्पस्
तयोर् अशीतं शिशिरो बिभेद ।
गङ्गा-सरय्वोर् जलम् उष्ण-तप्तं
हिमाद्रि-निष्यन्द इवावतीर्णः

1.571

(र.वं. 14.53)
अत्र चिर-प्रोषित-प्रत्यागत-राम-लक्ष्मण-दर्शनानन्देन कौसल्या-सुमित्रयोर् बाष्पः ।
धूमेन, यथा-
तस्मिन् क्षणे कान्तम् अलक्षयन् सा
धूमाविलैर् उद्गत-बाष्प-लेशैः ।
अन्तर्-दलैर् अम्बुरुहाम् इवार्द्रैर्
अयत्न-कर्णाभरणैर् अपाङ्गैः

1.572

अत्र विवाह-धूमेन लक्ष्म्या बाष्पोद्गमः ।
अथ प्रलयः-
प्रलयो दुःख-धाताद्यैश् चेष्टा तत्र विसंज्ञता

1.573

310अब्
दुःखेन, यथा-
वपुषा करणोज्झितेन सा
निपतन्ती पतिम् अप्य् अपातयन् ।
ननु तैल-निषेक-बिन्दुना
सह दीपार्चिर् उपैति मेदिनीम्

1.574

(र.वं. 8.38)
अत्रेन्दुमती-विपत्ति-जनितेन दुःखेनाजस्य प्रलयः ।
घातेन, यथा-
पूर्वं प्रहर्ता न जघान भूयः
प्रतिप्रहाराक्षमम् अश्वसादी ।
तुरङ्गम् अस्कन्ध-निषण्ण-देहं
प्रत्याश्वसन्तं रिपुम् आचकाङ्क्ष

1.575

(र.वं. 7.47)
अत्र प्रतिभट-प्रहारेणाश्वसादिनो मूर्च्छा ।
सर्वेऽ पि सत्त्व-मूलत्वाद् भावा यद्यपि सात्त्विकाः । 310च्द्
तथाप्य् अमीषां सत्त्वैक-मूलत्वात् सात्त्विक-प्रथा

1.576

अनुभावाश् च कथ्यन्ते भाव-संसूचनाद् अमी । 311
एवं द्वैरूप्यम् एतेषां कथितं भाव-कोविदैः

1.577

अनुभावैक-निधिना सुखानुभव-शालिना ।
श्री-सिंह-भूभुजा साङ्गम् अनुभावा निरूपिताः

1.578

312
अस्मत्-कल्प-लता-दलानि गिलति त्वत्-काम-गौर्वार्यतां
मच्-चिन्तामणि-वेदिभिः परिणमेद् दूरान् नयोच्चैर् गजम् ।
इत्य् आरूढ-वितर्दिकाः प्रतिपथं जल्पन्ति भूदेवताः
सिंह-क्ष्माभुजि कल्प-वृक्ष-सुरभी-हस्त्य्-आदि-दानोद्यते

1.579

313
रक्षायां राक्षसारिं प्रबल-विमत-विद्रावणे वीरभद्रं
कारुण्ये रामभद्रं भुज-बल-विभवारोहणे रौहिणेयम् ।
पाञ्चालं चञ्चलाक्षी-परिचरण-विधौ पूर्ण-चन्द्रं प्रसादे
कन्दर्प-रूप-दर्पे तुलयति नितरां सिंह-भूपाल-चन्द्रः

मूल पाठ: Rasārṇavasudhākara · Edition: T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979. (Adyar Library Series, 110) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc