रसार्णवसुधाकर · अध्याय 3
268
इति श्रीमद्-आन्ध्र-मण्डलाधीश्वर-प्रतिगण्ड-भैरव-श्रीमद्-अनपोत-नरेन्द्र-नन्दन-भुज-बल-भीम-श्री-सिंह-भूपाल-विरचिते रसार्णव-सुधाकर-नाम्नि नाट्यालङ्कार-शास्त्रे रसिकोल्लासो नाम
द्वितीयो विलासः
॥2॥
(3)
तृतीयो विलासः
भावकोल्लासः
स क्षेमदायी कमलानुकूलः
कठोर-पारावत-कण्ठ-नीलः ।
कृपा-निधिर् भव्य-गुणाभिरामः
परः पुमान् रज-महीध्र-वासी
1
भवत्व् इति सम्बन्धः स्मरणीयः ।
तद् ईदृश-रसाधारं नाट्यं रूपकम् इत्य् अपि ।
नटस्यातिप्रवीणस्य कर्मत्वान् नाट्यम् उच्यते
2
यथा मुखादौ पद्मादेर् आरोपे रूपक-प्रथा ।
तथैव नायकारोपो नटे रूपकम् उच्यते । 3
तच् च नाट्यं दश-विधं वाक्यार्थाभिनयात्मकम्
4अ
तथा च भारतीये (18.2-3)-
नाटकं सप्रकरणम् अङ्को व्यायोग एव च ।
भाणः समवकारश् च वीथी प्रहसनं डिमः ।
ईहामृगश् च विज्ञेयो दशधा नाट्य-लक्षणम् ।
रसेतिवृत्त-नेतारस् तत्-तद्-रूपक-भेदकाः । 4
लक्षितौ रसनेताराव् इतिवृत्तं तु कथ्यते
इतिवृत्त-कथा-वस्तु-शब्दाः पर्याय-वाचिनः । 5
इतिवृत्तं प्रबन्धस्य शरीरं त्रिविधं हि तत्
ख्यातं कल्प्यं च सङ्कीर्णं ख्यातं राम-कथादिकम् । 6
कवि-बुद्धि-कृतं कल्प्यं मालती-माधवादिकम्
सङ्कीर्णम् उभयायत्तं लव-राघव-चेष्टितम् । 7
लक्ष्येष्व् एतत् तु बहुधा दिव्य-मर्त्यादि-भेदतः
तच् चेतिवृत्तं विद्वद्भिः पञ्चधा परिकीर्तितम् । 8
बीजं बिन्दुः पताका च प्रकरी कार्यम् इत्य् अपि
अथ बीजः-
यत् तु स्वल्पम् उपक्षिप्तं बहुधा विस्तृतिं गतम् । 9
कार्यस्य कारणं प्राज्ञैस् तद् बीजम् इति कथ्यते ।
उप्तं बीजं तरोर् यद्वद् अङ्कुरादि-प्रभेदतः
10
फलाय कल्पते तद्वन् नायकादि-विभेदतः ।
फलायैतद् भवेद् यस्माद् बीजम् इत्य् अभिधीयते
11
यथा बाल-रामायणे प्रथम-द्वितीयाङ्कयोः कल्पिते मुख-सन्धौ स्वल्पो रामोत्साहो बीजम् इत्य् उच्यते ।
अथ बिन्दुः-
फले प्रधाने बीजस्य प्रसङ्गोक्तैः फलान्तरैः ।
विच्छिन्ने यद् अविच्छेद-कारणं बिन्दुर् उच्यते
12
जल-बिन्दुर् यथा सिञ्चंस् तरु-मूलं फलाय हि ।
तथैवायम् उपक्षिप्तो बिन्दुर् इत्य् अभिधीयते
13
यथा तत्रैव [बाल-रामायणे] तृतीय-चतुर्थाङ्कयोः कल्पिते प्रतिमुख-सन्धौ निक्षिप्तो रावण-विरोध-मूलं सीता-परिग्रहो बिन्दुर् उच्यते ।
अथ पताका--
यत् प्रधानोपकरण-प्रसङ्गात् स्वार्थम् ऋच्छति ।
सा स्यात् पताका सुग्रीव-मकरन्दादि-वृत्तवत्
14
अथ प्रकरी-
यत् केवलं परार्थस्य साधकं च प्रदेश-भाक् ।
प्रकरी सा समुद्दिष्टा नव-वृन्दादि-वृत्तवत्
15
पताका-प्रकरी-व्यपदेशो भाव-प्रकाशिका-कारेणोक्तः, यथा-
यथा पताका कस्यापि शोभाकृच् चिह्न-रूपतः ।
स्वस्योपनायकादीनां वृत्तान्तस् तद्वद् उच्यते
शोभायै वेदिकादीनां यथा पुष्पाक्षतादयः ।
तथ र्तु-वर्णनादिस् तु प्रसङ्गे प्रकरी भवेत्
इति (भाव-प्रकाशे) ।
अथ पताका-स्थानकानि-
अङ्गस्य च प्रधानस्य भाव्यवस्थस्य सूचकम् ।
यद् आगन्तुक-भावेन पताका-स्थानकं हि तत्
16
एतद् द्विधा तुल्य-संविधानं तुल्य-विशेषणम् ।
तत्राद्यं त्रि-प्रकारं स्याद् द्वितीयं त्व् एकम् एव हि ।17
एवं चतुर्विधं ज्ञेयं पताका-स्थानकं बुधैः
18अ
तथा च भरतः (19.31)-
सहसैवार्थ-सम्पत्तिर् गुणवत्य् उपचारतः ।
पताका-स्थानकम् इदं प्रथमं परिकीर्तितम्
इति ।
यथा रत्नावल्याम्-
विदूषकः- भोः ! एसा क्खु अबरा देबी बासबदत्ता । (भोः ! एषा खलु अपरा देवी वासवदत्ता ।)
राजा (सशङ्कं रत्नावली-हस्तं विसृजति ।)
इत्य् अत्र इयं वासवत्तेत्य् अनेनोपचार-प्रयोगेण भाविनो वासवदत्ता-कोपस्य सूचनात् सहसार्थ-सम्पत्ति-रूपम् इदम् एकं पताका-स्थानकम् ।
तथा च (19.32)-
वचः सातिशयं श्लिष्टं काव्य-बन्ध-समाश्रयम् ।
पताका-स्थानकम् इदं द्वितीयं परिकीर्तितम्
इति ।
यथा उत्तर-राम-चरिते (1.38)-
इयं गेहे लक्ष्मीर् इयम् अमृत-वर्तिर् नयनयोर्
असाव् अस्याः स्पर्शो वपुषि बहलश् चन्दन-रसः ।
अयं कण्ठे बाहुः शिशिर-मसृणो मौक्तिक-सरः
किम् अस्या न प्रेयो यदि परम् असह्यस् तु विरहः
(प्रविश्य) प्रतीहारी-देव उपस्थितः ।
रामः-अये कः ? इत्य् अत्र भविष्यतः सीता-विरहस्य सूचनाद् इदं श्लिष्टं नाम द्वितीयं पताका-स्थानकम् ।
तथा च (19.33)-
अर्थोपक्षेपणं यत्र लीनं स-विनयं भवेत् ।
श्लिष्ट-प्रत्युत्तरोपेतं तृतीयम् इदम् इष्यते
यथा वेणी-संहारे (2.23), राजा-
लोलांशुकस्य पवनाकुलितांशुकान्तं
त्वद्-दृष्टि-हारि मम लोचन-बान्धवस्य ।
अध्यासितुं तव चिरं जघन-स्थलस्य
पर्याप्तम् एव करभोरु मओरु-युग्मम्
(प्रविश्य सम्भ्रान्तः) कञ्चुकी-देव भग्नम् । देव भग्नम् !
राजा-केन ?
कञ्चुकी-देव भीमेन ।
राजा-आः किं प्रलपसि ?
इत्य् अत्र श्लिष्ट-प्रत्युत्तरेण कञ्चुकि-वाक्येन भाविनो दुर्योधनोरु-भङ्गस्य सूचनेन श्लिष्टोत्तरं नाम तृतीयम् इदं पताका-स्थानकम् ।
तथा च (19.34) -
द्व्य्-अर्थो वचन-विन्यासः सुश्लिष्टः काव्य-योजितः ।
उपन्यास-सुयुक्तश् च तच् चतुर्थम् उदाहृतम्
इति ।
यथा-
उद्दामोत्कलिकां विपाण्डुर् अरुचं प्रारब्ध-जृम्भां क्षणाद्
आयासं श्वसनोद्गमैर् अविरलैर् आतन्वतीम् आत्मनः ।
अद्योद्यान-लताम् इमां समदनां नारीम् इवान्यां ध्रुवं
पश्यन् कोप-विपाटल-द्युति मुखं देव्याः करिष्याम्य् अहम्
(रत्नावल्यां 2.4)
इत्य् अत्र विशेषण-श्लेषेण भाविनो रत्नावली-सन्दर्शनस्य सूचनात् तुल्य-विशेषणं नाम चतुर्थं पताका-स्थानकम् इदम् ।
अथ कार्यम्-
वस्तुनस् तु समस्तस्य धर्म-कामार्थ-लक्षणम् । 18
फलं कार्यम् इति शुद्धं मिश्रं वा कल्पयेत् सुधीः
19अ
शुद्धं, यथा मालती-माधवे (10.23), कामन्दकी-
यत् प्राग् एव मनोरथैर् वृतम् अभूत् कल्याणम् आयुष्मतोस्
तत् पुण्यैर् मद्-उपक्रमैश् च फलितं क्लेशोऽ पि मच्-छिष्ययोः ।
निष्णातश् च समागमोऽ भिविहितस् त्वत्-प्रेयसः कान्तया
सम्प्रीतौ नृप-नन्दनौ यद् अपरं प्रेयस् तद् अप्य् उच्यताम्
इत्य् अत्र काव्योपसंहार-श्लोकेन तृतीय-पुरुषार्थस्यैव फल-कथनात् शुद्धं कार्यम् इदम् ।
मिश्रं, यथा बाल-रामायणे (10.104)-
रुग्णं चाजगवं न चातिकुपितो भर्गः सुर-ग्रामणीः
सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।
पौलस्त्यश् चरम-स्थितश् च भगवान् प्रीतः श्रुतीनां कविः
प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च
इत्य् अनेनोपसंहार-श्लोकेन मिश्रस्य त्रिवर्ग-फलस्य कथनान् मिश्रम् इदम् ।
प्रधानम् अङ्गम् इति च तद् वस्तु द्विविधं पुनः । 19
प्रधानं नेतृ-चरितं प्रधान-फल-बन्धि च
काव्ये व्यापि प्रधानं तद् यथा रामादि-चेष्टितम् । 20
नायकार्थ-कृद्-अङ्गं स्यान् नायकेतर-चेष्टितम्
नित्यं पताका प्रकरी चाङ्गं बीजादयः क्वचित् । 21
बीजत्वाद् बीजम् आदौ स्यात् फलत्वात् कार्यम् अन्ततः
तयोः सन्धान् अ-हेतुत्वान् मध्ये बिन्दुं प्रकल्पयेत् । 22
यथायोगं पताकायाः प्रकर्याश् च नियोजनम्
अथ कार्यस्य पञ्चावस्थाः-
कार्यस्य पञ्चधावस्था नायकादि-क्रिया-वशात् । 23
आरम्भ-यत्न-प्राप्त्य्-आशा-नियताप्ति-फलागमाः ।
तत्र मुख्य-फलोद्योग-मात्रम् आरम्भ इष्यते
24
यथा बाल-रामायणे मुख-सन्धौ रामस्य लोकोत्तरोत्कर्ष-प्राप्तये व्यवसाय-मात्रम् आरम्भः ।
अथ यत्नः-
यत्नस् तु तत्-फल-प्राप्त्याम् औत्सुक्येन तु वर्तनम्
25अ
यथा तत्रैव प्रतिमुख-सन्धौ ताटक-पातन-भूत-पति-धनुर्-दलनादिषु रामस्य यत्नः ।
अथ प्राप्त्य्-आशा-
प्राप्त्य्-आशा तु महार्थस्य सिद्धि-सद्भाव-भावना[*17]
25ब्
[*17] सिद्ध-सद्-भावना मता.
यथा तत्रैव गर्भ-सन्धौ मालवन् माया-प्रयोग-वन-प्रवास-सीतापहरणादिभिर् अन्तरितायाः रामस्य परमोत्कर्ष-प्राप्तेर् धनुर्-भङ्गादि-सुग्रीव-सन्धि-सेतु-बन्धनादिभिः सिद्धि-सद्-भाव-भावना-कथनात् प्राप्त्य्-आशा ।
अथ नियताप्तिः-
नियताप्तिर् अविघ्नेन कार्य-संसिद्धि-निश्चयः
26अ
यथा तत्रैव [बाल-रामायणे] विमर्श-सन्धौ निखिल-रक्षः-कुल-निबर्हणाद् अविघ्नेन रामस्य फल-संसिद्धि-निश्चयो नियताप्तिः ।
अथ फलागमः-
समग्रेष्ट-फलावाप्तिर् भवेद् एव फलागमः
26ब्
यथा तत्रैव [बाल-रामायणे] निर्वहण-सन्धौ रामस्य ताताज्ञा-निर्बहण-वैर-प्रशमन-राज्योपभोगैर् लोकोत्तर-त्रिवर्ग-फलस्यावाप्तिः फलागमः ।
अथ सन्धिः-
एकैकस्यास् त्व् अवस्थायाः प्रकृत्या चैकयैकया ।
योगः सन्धिर् इति ज्ञेयो नाट्य-विद्या-विशारदैः
27
पताकायास् त्व् अवस्थानं क्वचिद् अस्ति न वा क्वचित् ।
पताका-विरहे बीजं बिन्दुं वा कल्पयेत् सुधीः
28
मुख्य-प्रयोजन-वशात् कथाङ्गानां समन्वये ।
अवान्तरार्थ-सम्बन्धः सन्धिः सन्धान-रूपतः
29
(तत्र पञ्च-सन्धयो भवन्ति-)
मुख-प्रतिमुखे गर्भ-विमर्शाव् उपसंहृतिः ।
पञ्चैते सन्धयः
(मुख-सन्धिस् तद्-अङ्गानि चेत्थम्-)
तेषु यत्र बीज-समुद्भवः
30
नाना-विधानाम् अर्थानां रसानाम् अपि कारणम् ।
तन् मुखं तत्र चाङ्गानि बीजारम्भानुरोधतः
31
उपक्षेपः परिकरः परिन्यासो विलोभनम् ।
युक्तिः प्राप्तिः समाधानं विधानं परिभावना । 32
उद्भेद-भेदौ करणम् इति द्वादश योजयेत्
33अ
तत्रोपक्षेपः-
उपक्षेपस् तु बीजस्य सूचना कथ्यते बुधैः
33ब्
यथा बाल-रामायणे प्रतिज्ञात-पौलस्त्य-नामनि प्रथएऽ ङ्के-
(ततः प्रविशति विश्वामित्र-शिष्यः) शुनःशेपः-प्रातःसवन एव यजमानं द्रष्टुम् इच्छामिइत्य् उपक्रम्यà राक्षस-रक्षौषधं रामम् आनेतुं सिद्धाश्रमाद् अयोध्यां गतवता तात-विश्वामित्रेण यज्ञोपनिमन्त्रितस्य परम-सुहृदः श्रोत्रिय-क्षत्रियस्य सीरध्वजस्य स्व-प्रतिनिधिः प्रेषितोऽ स्मि इत्य् अन्तेन (1.23 पद्यात् पूर्वम्] रावणादि-दुष्ट-राक्षस-शिक्षा-लक्षण-रामोत्साहोपबृंहक-विश्वामित्रारम्भ-रूपस्य बीजस्य सूचनाद् उपक्षेपः ।
अथ परिकरः-
परिक्रिया तु बीजस्य बहुलीकरणं मतम्
34अ
यथा तत्रैव [बाल-रामायणे] (प्रविश्य तापस-च्छमना) राक्षसः-
सम्प्रेषितो माल्यवताम् अहम् अद्य
ज्ञातुं प्रवृत्तिं कुशिकात्मजस्य ।
पुरीं निमीनां मिथिलां च गन्तुं
तां चाप्य् अयोध्यां रघु-राजधानीम्
(1.23)
कुल-पुत्रकेति सप्रसामद् आश्लिष्टोऽ स्मि इत्य् उपक्रम्यà स हि नक्तं-चराणां निसर्गामित्रो विश्वामित्रो व्रत-चर्यया, वीर-व्रत-चर्यया समर्थो दशरथोऽ पि तथाविध एव एव (1.25 पद्याद् अनन्तरं] इत्य् अन्तेन विश्वामित्रारम्भस्य माल्यवदादि-वितर्क-गोचरत्वेन बहुलीकरणात् परिकरः ।
अथ परिन्यासः-
बीज-निष्पत्ति-कथनं परिन्यास इतीर्यते
34ब्
यथा तत्रैव [बाल-रामायणे] राक्षसः (पुरोऽ वलोक्य)-कथं तापसः । (प्रत्यभिज्ञाय) तत्रापि विश्वामित्र-धर्म-पुत्रः शुनःशेपः इत्य् उपक्रम्यà सम्प्रत्य् एव राक्षस-भयात् सत्रे दीक्षिष्यमाणः स भगवान् गोप्तारं रामभद्रं वरीतुम् अयोध्यां गतः । राक्षसः (स-त्रासं स्वगतम्)-हन्त कथम् एतद् अपि निष्पन्नम् । (प्रकाशम्) भगवन् मा कोपीः इत्य् आदिना (स्वगतम्) कृतं यत् कर्तव्यम् । सम्प्रति चार-सञ्चारस्यायम् अवसरः (1.27 पद्याद् अनन्तरम्] इत्य् अन्तेन विश्वामित्रानुभाव-कथनात् सराक्षत्रास-कथनाच् च बीज-निष्पत्तेः परिन्यासः ।
अथ विलोभनम्-
नायकादि-गुणानां यद् वर्णनं तद् विलोभनम्
35अ
यथा तत्रैव [बाल-रामायणे] रावणः-
यस्यारोपण-कर्मणापि बहवो वीर-व्रतं त्याजिताः
इत्य् उपक्रम्य, रावणः (सप्रत्याशम्)-
निर्माल्यं नयन-श्रियः कुवलयं वक्त्रस्य दासः शशी
कान्तिः प्रावरणं तनोर् मधुमुचो यस्याश् च वाचः किल ।
विंशत्या रचिताञ्जलिः कर-पुटैस् त्वां याचते रावणस्
तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु
(1.40)
इत्य् अन्तेन तद्-गुण-वर्णनाद् विलोभनम् ।
अथ युक्तिः-
सम्यक् प्रयोजनानां हि निर्णयो युक्तिर् इष्यते
35ब्
यथा तत्रैव [बाल-रामायणे] परशुराम-रावणीय-नामनि द्वितीयाङ्के-
(ततः प्रविशति) भृङ्गिरिटिः (परिक्रामन्न् आत्मानं निर्वर्ण्य)-अये निरूपतापि क्वचिन् महतेऽ भुयदयाय इत्य् उपक्रम्य, भृङ्गिरिटिः-आम्, नारद यथा समर्थयसे । तथा हि-
एकं कैलासम् अद्रिं कर-गतम् अकरोच् चिच्छदे क्रौञ्चम् अन्यो
लङ्काम् एकः कुबेराद् अहृत वसतये कोङ्कणानब्धितोऽ न्यः ।
एकः शक्रस्य जेता समिति भगवतः कार्तिकेयस्य चान्यस्
तत् कामं कर्म-साम्यात् किम् अपरम् अनयोर् मध्यगा वीर-लक्ष्मीः
(2.15)
इत्य् अन्तेन राघव-प्रतिनायकयोर् भार्गव-रावणयोः कर्म-साम्य-निर्णय-कथनाद् युक्तिः ।
अथ प्राप्तिः-
प्राज्ञैः सुखस्य सम्प्राप्तिः प्राप्तिर् इत्य् अभिधीयते
36अ
यथा तत्रैव [बाल-रामायणे] नारदः (सहर्षं हस्तम् उद्यम्य)-
चित्रं नेत्र-रसायनं त्रिदशतासिद्धेर् महा-मङ्गलं
मोक्ष-द्वारम् अपावृतं मम मनः-प्रह्लादना-भेषजम् ।
साकं नाक-पुरन्धिर्भिर् नव-पति-प्राप्त्य्-उत्सुकाभिः सुराः
सर्वे पश्यत राम-रावण-रणं वक्त्य् एष वो नारदः
(2.16)
इत्य् अत्र नारदस्य युद्धावलोकन-हर्ष-प्राप्तेः प्राप्तिः ।
अथ समाधानं-
बीजस्य पुनर् आधानं समाधानम् इहोच्यते
36ब्
यथा तत्रैव [बाल-रामायणे] भृङ्गिरिटिः-युद्ध-रुचे मा निर्भरं संरम्भस्व । इत्य् उपक्रम्य । अयोध्यां गत्वा परं राम-रावणीयं योजयिष्यामि (2.16 पद्याद् अनन्तरम्] इत्य् अन्तेन राघवोत्साह-बीजस्य नारदेन पुनर् आधानात् समाधानम् ।
अथ विधानं-
सुख-दुःख-करं यत् तु तद् विधानं बुधा विदुः
37अ
यथा तत्रैव [बाल-रामायणे] प्रथमाङ्के, सीता (स-साध्वसौत्सुक्यम्)-अम्मो रक्खसो त्ति सुणिअ सच्चं सज्झस-कोदहलाणं मज्झे बट्टामि । (अंहो राक्षस इति श्रुत्वा सत्यं साध्वस-कौतूहलयोर् अन्तरे वर्ते ।) इत्य् उपक्रम्य सीता-तादसदानंदमिस्साणं अन्तरे उबबिसिस्सं (तात-शतानन्द-मिश्राणाम् अन्तरे उपवेक्ष्यामि) । (1.42 पद्यात् पूर्वम्] इत्य् अन्तेन सीतायाः अदृष्ट-पूर्व-राक्षस-दर्शनेन सुख-दुःख-व्यतिकराख्यानाद् विधानम् ।
अथ परिभावना-
श्लाघ्यैश् चित्त-चमत्कारो गुणाद्यैः परिभावना
37ब्
यथा तत्रैव [बाल-रामायणे], रावणः (सौत्सुक्यं विलोक्य स्वगतम्)-अहो त्रिभुवनातिशायि मकरध्वज-सञ्जीवनं रामणीयकम् अस्याः । तथा हि-
इन्दुर् लिप्त इवाञ्जनेन जडिता दृष्टिर् मृगीणाम् इव
प्रम्लानारुणिमेव विद्रुमलता श्यामेव हेम-प्रभा ।
पारुष्यं कलया च कोकिल-वधू-कण्ठेष्व् इव प्रस्तुतं
सीतायाः पुरतश् च हन्त शिखिनां बर्हाः सगर्हा इव
(1.42)
इत्य् उपक्रम्य, शतानन्दः (अपवर्य)-अहो लङ्काधिपतेर् अपूर्व-गर्व-गरिमा । यन् ममापि शतानन्दस्य न निश्चिनुते चेतः । किं भविष्यति (1.46 पद्याद् अनन्तरम्] इत्य् अन्तेन रावणस्य सीता-रामणीयक-दर्शनेन शतानन्दस्य रावणोत्साह-दर्शनेन च तयोश् चित्त-चमत्कार-कथनात् परिभावना ।
अथोद्भेदः-
उद्घातनं यद् बीजस्य स उद्भेदः प्रकीर्तितः
38अ
यथा तत्रैव [बाल-रामायणे] द्वितीयाङ्के, रावणः-त्रैयाम्बकः परशुर् एष निसर्ग-चण्ड (2.36) इत्य् आदि पठति । जामदग्न्यः-अपकुर्वतापि भवता परम् उपकृतम् । यद् एष स्मारितोऽ स्मीत्य् उपक्रम्य (2.44 पद्यात् पूर्वम्]-
लोकोत्तरं चरितम् अर्पयति प्रतिष्ठां
पुंसां कुलं न हि निमित्तम् उदारतायाः ।
वातापितापन-मुनेः कलशात् प्रसूतिर्
लीलायितं पुनर् अमुष्य समुद्र-पानम्
(2.51)
इत्य् अन्तेन गूढ-शङ्कर-धनुर् अधिक्षेपोद्घाटनाद् वा लोकोत्तर-चरित-सामान्य-वर्णनेन तिरोहित-रामचन्द्रोत्साहोद्घाटनाद् वा उद्भेदः ।
अथ भेदः-
बीजस्योत्तेजनं भेदो यद् वा सङ्घात-भेदनम्
38ब्
यथा तत्रैव [बाल-रामायणे] रावणः (विलोक्य)-अथ याचित-परशुना परशुरामेण किम् अभिहितम् आसीत् ।
मायामयः-त्रैलोक्य-माणिक्य रामोदन्तम् आकर्णयतु स्वामी ।
पौलस्त्यः प्रणयेन याचत इति श्र्तुवा मनो मोदते
देयो नैष हर-प्रसाद-परशुस् तेनाधिकं ताम्यति ।
तद् वाच्यः स दशाननो मम गिरा दत्ता द्विजेभ्यो मही
तुभ्यं ब्रूहि रसातल-त्रिदिवयोर् निर्जित्य किं दीयताम्
(2.20)
रावणः-कदा नु खलु परशुरामो रसातल-त्रिदिवयोर् जेता दाता च संवृत्तः । रावणः पुनः प्रतिग्रहीता च । ततस् त्वया किम् असौ प्रत्युक्तः । इत्य् उपक्रम्य
मायामयः-देव प्रकृति-रोषणो रेणुकापुत्रः । तत् तम् एवागतम् अहम् उत्प्रेक्षे ।
रावणः-प्रियं नः (2.24 पद्यात् पूर्वम्] इत्य् अन्तेन प्रतिनायक-रूप-भार्गव-रावणयोर् उत्तेजनाद् भेदः ।
अथ करणम्-
प्रस्तुतार्थ-समारम्भं करणं परिचक्षते
39अ
यथा तत्रैव [बाल-रामायणे] (2.25 पद्याद् अनन्तरम्] उभाव् अपि चापारोपणं नाटयतः इत्य् उपक्रम्य आ अङ्क-परिसमाप्तेः जामदग्न्य-रावणयोः प्रस्तुत-युद्धारम्भ-कथनात् करणम् ।
अथ प्रतिमुख-सन्धिः-
बीज-प्रकाशनं यत्र दृश्यादृश्यतया भवेत् । 39
तत् स्यात् प्रतिमुखं बिन्दोः प्रयत्नस्यानुरोधतः
इह त्रयोदशाङ्गानि प्रयोज्यानि मनीषिभिः । 40
विलास-परिसर्पौ च विधुतं शम-नर्मणी
नर्म-द्युतिः प्रगमनं निरोधः पर्युपासनम् । 41
पुष्पं वज्रम् उपन्यासो वर्ण-सङ्ग्रहनं तथा
तत्र विलासः-
विलासः सङ्गमार्थस् तु व्यापारः परिकीर्तितः
42
यथा तत्रैव [बाल-रामायणे] विलक्ष-लङ्केश्वर-नामनि तृतीयाङ्के (3.21 पद्यात् पूर्वम्] रामः-अये इयम् असौ सा सीता, यस्याः स्वयं वसुमती माता याग-भूर् जन्म-मन्दिरं इन्दु-शेखर-कार्मुकारोपणं च पणः । (स-स्पृहं निर्वर्ण्य) इत्य् आरभ्य, प्रतीहारः-
एतेनोच्चैर् विहसितम् असौ काकली-गर्भ-कण्ठो
लौल्याच् चक्षुः प्रहितम् अमुना साङ्ग-भङ्गः स्थितोऽ यम् ।
हारस्याग्रं कलयति करेणैष हर्षाच् च किंचित्
स्त्रैणः पुंसां नव-परिगमः कामम् उन्माद-हेतुः
(3.26)
इत्य् अन्तेन रामादीनां सीतालम्बनाभिलाष-कथनाद् विलासः ।
अथ परिसर्पः-
पूर्व-दृष्टस्य बीजस्य त्व् अङ्क-च्छेदादिना तथा ।
नष्टस्यानुस्मृतिः शश्वत् परिसर्प इति स्मृतः
43
यथा तत्रैव [बाल-रामायणे] प्रतीहारः (स्वगतम्)-कथम् एते क्षत्रिय-जन-समुचितेऽ पि चापारोपण-कर्मणि निखिलाः क्षत्रियाः वितथ-सामर्थ्याः वर्तन्ते । तद् एष परम् अनाकलित-सारो विकर्तन-कुल-कुमार आस्ते । यद् वा, किम् अनेनापि-
यस्य वज्र-मणेर् भेदे भिद्यन्ते लोह-सूचयः ।
करोतु तत्र किं नाम नारी-नख-विडम्बनम्
(3.66)
(विचिन्त्य) भवतु । तथापि सङ्कीर्तयाम्य् एनम् । अनाकलित-सारो हि वीर-प्रकाण्ड-सम्भूतिः इत्य् उपक्रम्य ।
हेमप्रभा-संपण्णं च पिअ-सहीए पाणि-ग्गहणम् (3.79 पद्याद् अनन्तरम्] (सम्पन्नं च प्रिय-सख्या पाणि-ग्रहणम्) इत्य् अन्तेन पूर्वं ताटकादि-वध-दृष्टस्य पश्चान् निखिल-क्षत्रिय-दुरारोप-धूर्जटि-चापारोपण-प्रभाव-वर्णनाद् नष्टस्य रामभद्रोत्साहस्य तद्-धनुर्-भङ्ग-क्रिया-रूपेण स्मरणात् परिसर्पः ।
अथ विधुतम्-
नायकादेर् ईप्सितानाम् अर्थानाम् अनवाप्तितः ।
अरतिर् यद् भवेद् तद् धि विद्वद्भिर् विधुतं मतम् । 44
अथवानुनयोत्कर्षं विधुतं स्यान् निराकृतिः
45अ
यथा तत्रैव [बाल-रामायणे] भार्गव-भङ्ग-नामनि चतुर्थेऽ ङ्के, शतानन्दः-
यस्यास्ते जननी स्वयं क्षितिर् अयं योगीश्वरस् ते पिता
(4.42)
इत्य् आरभ्य, रामः (विचिन्त्य स्वगतम्)-रुदत्य् अपि कमनीया जानकी-इत्य् अन्तेन (4.47 पद्याद् अनन्तरं] सीतायाः बन्धु-विरह-जनितारति-कथनाद् विधुतम् । अथ वा मतान्तरेण तत्रैव, रामः (समुपसृत्य)-भगवन् भार्गव सदयं प्रसीद इत्य् आरभ्य, जामदग्न्यः-नाभिवादन-प्रसाद्यो रेणुका-सूनुः (4.58 पद्यात् पूर्वम्] इत्य् अत्र रामानुनयस्य भार्गवेणास्वीकाराद् विधूतम् ।
अथ शमः-
अरतेः शमनं तज्-ज्ञाः शमम् आहुर् मनीषिणः
45ब्
यथा तत्रैव [बाल-रामायणे] (4.57 पद्यात् पूर्वं) हेमप्रभा-जुज्जै पफुल्ल-कोदूहल-त्तणं । परसुराम-दंसणेण उण ससज्झ-सत्तणं भग्ग-धन-द्दण्ड-चण्ड-चरितस्स पुरदो रामचंदस्स । (युज्यते प्रफुल्ल-कौतूहलत्वं परशुराम-दंशनेन पुनः स-साध्वसत्वं भग्न-धनुर्-दण्ड-चण्ड-चरितस्य पुरतो रामचन्द्रस्य) इत्य् अत्र रामचन्द्र-पराक्रम-कथनात् सीतायाः अरति-शमनात् शमः ।
अथ नर्म-
परिहास-प्रधानं यद् वचनं नर्म तद् विदुः
46
यथा तत्रैव [बाल-रामायणे] तृतीयेऽ ङ्के, रामः (सकण्ठ-रोधम्)-
वाचा कार्मुकम् अस्य कौशिक-पतेर् आरोपणायार्पितं
मद्-दोर्-दण्ड-हठाञ्चनेन तद् इदं भग्नं कृत-न्यक्-कृति ।
नो जाने जनकस् तद् अत्र भगवान् व्रीडा-वशाद् उत्तरं
निक्षेप्त्रे नत-कन्धरो भगवते रुद्राय किं दास्यति
(3.71)
इत्य् अत्र जनकाधिपापलापेन हास-प्रधानं नर्म ।
अथ नर्म-द्युतिः-
कोपस्यापह्नवार्थं यद् धास्यं नर्म-द्युतिर् मता
46
यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के विश्वामित्रो जामदग्न्यं प्रति-
रामः शिष्यो भृगुभव भवान् भागिनेयी-सुतो मे
वामे बाहाव् उत तद्-इतरे कार्यतः को विशेषः ।
दिव्यास्त्राणां तव पशुपतेर् अस्य लाभस् तु मत्तस्
तत् त्वां याचे विरम कलहाद् आर्यकर्मारभस्व
(4.69)
जामदग्न्यः (विहस्य) : मातुर् मातुल न किंचिद् अन्तरं भवतो भवानीवल्लभस्य च । (इत्य् उपक्रम्य)
रामः (विहस्य) : जामदग्न्य ! एकः पुनर् अयं शस्त्र-ग्रहणाधिकारो यद् गुरुष्व् अपि तिरस्कारः (तत्रैव किञ्चित् परस्तात्) इत्य् अन्तेन भार्गव-राघवयोः पूज्य-विषय-क्रोधापह्नवार्थं हास्य-कथनान् नर्म-द्युतिः ।
अथ प्रगमणम्-
तत् तु प्रगमनं यत् स्याद् उत्तरोत्तर-भाषणम्
47अ
यथा तत्रैव [बाल-रामायणे], रामः-
किं पुनर् इमाः सर्वङ्कषा रोष-वाचः ।
सर्वत्यागी परिणत-वयाः सप्तमः पद्म-योनेः
(4.71)
इति श्लोकान्ते जामदग्न्यः: तत् किम् ?
रामः (स-खेदम्) :
यस्याचार्यकम् इन्दु-मौलिर् अकरोत् स-ब्रह्मचारी चिरं
जातो यत्र गुहश् चकार च भुवं यद् गीत-वीर-व्रताम् ।
तत् कोदण्ड-रहस्यम् अद्य भगवन् द्रष्टैष रामः स ते
हेलोज्जृम्भित-जृम्भकेण धनुषा क्षत्रं च नालं वयम्
(4.72)
जामदग्न्यः : साधु रे क्षत्रिय-डिम्भ, साधु । इत्य् अन्तेन भार्गव-राघवयोर् उक्ति-प्रत्युक्ति-कथनात् प्रगमनम् ।
अथ निरोधः-
यत्र व्यसनम् आयाति निरोधः स निगद्यते
47ब्
यथा तत्रैव [बाल-रामायणे] जामदग्न्यः-
पक्व-कर्पूर-निष्पेषम् अयं निरपिषत् त्रयम् ।
मम व्रीडां च चण्डीश-चापं च स्वं च जीवितम्
(4.65)
जनकः-कथं सन्न्यस्त-शस्त्रस्यापि पुनर् अस्त्र-ग्रहण-क्षणो वर्तते इत्य् उपक्रम्य,
प्रहिणु तद् इह बाणान् वार्धकं मां दुनोति
(4.67)
दशरथः-भोः सम्बन्धिन् कृतं कार्मुक-परिग्रह-व्यसनेन-इत्य् अन्तेन जनकस्य भार्गव-निमित्तस्य जरा-निमित्तस्य वा व्यसनस्य कथनाद् निरोधः ।
अथ पर्युपासनम्-
रुष्टस्यानुनयो यः स्यात् पर्युपासनम् ईरितम्
48अ
यथा तत्रैव [बाल-रामायणे] विश्वामित्रः (जामदग्न्यं प्रति)-
रामः शिष्यो भृगु-सुत भवान् भागिनेयी-सुतो मे
(4.69)
इत्य् अत्र श्लोके रोषान्धस्य भार्गवस्यानुनयो विश्वामित्रेण कृत इति पर्युपासनम् ।
अथ पुष्पम्-
स-विशेषाभिधानं यत् पुष्पं तद् इति संज्ञितम्
48ब्
यथा तत्रैव [बाल-रामायणे] तृतीयाङ्के (प्रविश्य) कोहलः-
कर्पूर इव दग्धोऽ पि शक्तिमान् यो जने जने
[बा.रा. 3.11] इत्य् उपक्रम्य,
प्रकटित-रामाम्भोजः कौशिकवा सपदि लक्ष्मणानन्दी ।
सुर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः
[बा.रा. 3.16]
इत्य् अन्ते रामचन्द्र-लक्षणार्थ-विशेषाभिधानात् पुष्पम् ।
अथ वज्रम्-
वज्रं तद् इति विज्ञेयं साक्षान् निष्ठुर-भाषणम्
49अ
यथा तत्रैव [बाल-रामायणे] चतुर्थाङ्के, जामदग्न्यः-निदर्शित-लाघव राघव तद् आकर्णय यत् ते करोमि-
त्रुटित-निविड-नाडी-चक्रवाल-प्रणाली-
प्रसृत-रुधिर-धारा-चर्चितोच्चण्ड-रुण्डम् ।
मडमडित-मृडानी-कान्त-चापस्य भङ्क्तुः
परशुर् अमर-वन्द्यः खण्डयत्य् अद्य मुण्डम्
[बा.रा. 4.61]
इत्य् उपक्रम्य, यः प्रेत-नाथस्यातिथ्यम् अनुभवितु-काम इत्य् अन्तेन वज्र-निष्ठुर-भाषणाद् वज्रम् ।
अथोपन्यासः-
युक्तिभिः सहितो योऽ र्थः उपन्यासः स इष्यते
49ब्
यथा तत्रैव [बाल-रामायणे] मातलिः-अयं हि पितृ-भक्त्य्-अतिशयः परशुरामस्य यद् उत रेणुका-शिरश्-छेदः [4.29 पद्याद् अनन्तरम्] इत्य् उपक्रम्य-
यद् वा ते गुरवोऽ विचिन्त्य-चरितास् तेभ्योऽ यम् अस्त्व् अञ्जलिः
[बा.रा. 4.33]
इत्य् अन्तेन उपपत्तिभिः पितुर् निदेश-करणाद् अपि मातृ-वध-करणस्यैव प्रतिपादनाद् वा गुरूणाम् अविचिन्त्य-चरितत्वोपन्यासेन सर्वोपपन्नत्व-प्रतिपादनाद् वा उपन्यासः ।
अथ वर्ण-संहारः-
सर्व-वर्णोपगमनं वर्ण-संहार उच्यते
50अ
यथा तत्रैव [बाल-रामायणे] जामदग्न्यः (कर्णं दत्त्वा आकाशे)-किं ब्रूथ ? केन न वर्णितं दाशरथेः शङ्कर-कार्मुकारोपणम् ? को न विस्मितस् तद्-भङ्गेन ? (साक्षेपम्) (केन न वर्णितम् इत्य् आदि पठति) शृणुत भोः ।
यः कर्ता हर-चाप-दण्ड-दलने यश् चानुमन्ता ननु
द्रष्टा यश् च परीक्षिता च य इह स्तोता च वक्ता च यः
[बा.रा. 4.56]
इत्य् उपक्रम्य-
रामो राम-मयं स्वयं गुह-सहाध्यायी समन्विष्यति
[बा.रा. 4.57]
इत्य् अन्तेन हर-चाप-दलनस्य निषिद्धया कर्तृतया अनुमन्तृतया स्तोतृतया च राघव-विश्वामित्र-पीरादि-परामर्शेन ब्राह्मण-क्षत्रियादि-वर्णानां सङ्ग्रहणाद् वर्ण-संहारः ।
अथ गर्भ-सन्धिः-
दृष्टादृष्टस्य बीजस्य गर्भस् त्व् अन्वेषणं मुहुः । 50ब्
अत्राप्य् आचापताकानुरोधाद् अङ्गानि कल्पयेत्
अभूताहरणं मार्गो रूपोदाहरणे क्रमः । 51
सङ्ग्रहश् चानुमानं च तोटकाधिबले तथा ।
उद्वेगः सम्भ्रमाक्सेपौ द्वादशैषां तु लक्षणम्
52
तत्राभूताहरणम्-
अभूताहरणम् तत् स्याद् वाक्यं यत् कपटाश्रयम्
53अ
यया तत्रैव [बाल-रामायणे] उन्मत्त-दशानन-नामनि पञ्चमाङ्के माल्यवान् (हसित्वा)-वृद्ध-बुद्धिर् हि प्रथमं पश्यति चरमं कार्यम् । यन् मया धूर्जटि-धनुर्-अधिक्षेपतः प्रभृति मति-चक्षुषा दृष्टम् एव यद् उत दशकन्धरोऽ नुसन्धास्यति सीता-हरणम् ।
माया-मयः : ततस् ततः ?
माल्यवान्: ततश् च मया मन्दोदरी-पितुर् माया-गुरोर् मयस्य प्रथम-शिष्यो विशारद-नामा यन्त्र-कारः स-बहुमानं नियुक्तः सीता-प्रतिकृति-करणाय । विरचिता च सा रावणोपच्छन्दनार्थम् । अभिहितं च-
सूत्र-धार-चलद्-दारु-गात्रेयं यन्त्र-जानकी ।
वक्त्रस्थ-शारिकालाप लङ्केन्द्रं वञ्चयिष्यति
[बा.रा. 5.5]
इत्य् उपक्रम्य, रावणः (पुनर् निरूप्य शारिकाधिष्ठित-वक्त्रं सीता-प्रतिकृति-यन्त्रं): अहो मतिमान् मायामयः । छालितोऽ सि जनक-राज-पुत्र्याः प्रतिकृति-समर्पणेन (5.20 पद्याद् अनन्तरम्] इत्य् अन्तेन माल्यवत् कपट-वाक्य-संविधानाद् अभूताहरणम् ।
अथ मार्गः-
मार्गस् तत्त्वार्थ-कथनम्
53ब्
यथा तत्रैव [बाल-रामायणे] निर्दोष-दशरथ-नामनि षष्ठाङ्के माया-मयः-आर्य किम् अपि द्विषताम् अप्य् आवर्जकम् उदात्त-जन-चरितम् । पश्य-
क्रूर-क्रमा किम् अपि राक्षस-जातिर् एका
तत्रापि कार्य-परतेति मयि प्रकर्षः ।
रामेण तु प्रवसता पितुर् आज्ञयैव
बाष्पाम्भसाम् अहम् अपीह कृतो रसज्ञः
[बा.रा. 6.9]
इत्य् उपक्रम्य, मायामयः-ततश् च वामदेव-प्रभृतिभिर् मन्त्रिभिर् यथा-वृत्तम् अभिधाय सपादोपग्रहं निवारितोऽ पि तद् इदम् अभिधाय प्रस्थितः-
मया मूर्ध्नि प्रह्वे पितुर् इति धृतं शासनम् इदं
स यक्षो रक्षो वा भवतु भगवान् वा रघुपतिः ।
निवर्तिष्ये सोऽ हं भरत-कृत-रक्षां रघुपुरीं
समाः सम्यङ् नीत्वा वन-भुवि चतस्रश् च दश च
[बा.रा. 6.11]
इत्य् अन्तेन राम-प्रवास-विषयस्य मायमय-दुःखस्य सत्यस्यैव व्यक्तत्वाद् वा मायामयादेः कपटत्व-ज्ञानेऽ पि रामचन्द्रेण सत्यतयाङ्गीकाराद् वा मार्गः ।
अथ रूपम्-
रूपं सन्देह-कृद् वचः
53ब्
यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के कैकेयी (सोद्वेगम्)-पणमामि भअवदिं सरऊं जा पुब्बं दीसमाणा णयण-पीऊस-गण्डूस-कबलं करेंति असि । सा संपदं हालाहल-कबड-पडिरूबा पडिहाअदि । किं पुण मे अओज्झा-दंसणे बि अकारण-पज्जाउलं हिअअं । [प्रणमामि भगवतीं सरयूं या पूर्वं दृश्यमाना नयण-पीयूष-गण्डूष-कवलं कुर्वती आसीत्, सा सम्प्रतं हालाहल-कवल-प्रतिरूपा प्रतिभाति । किं पुनर् मे अयोध्या-दर्शनेऽ पि अकारण-पर्याकुलं हृदयम् ।]
इत्य् उपक्रम्य, दशरथः (अकर्णितकेन)-
एतच् छ्रान्त-विचित्र-चत्वर-पथं विश्रान्त-वैतालिक-
श्लाघा-श्लोकम् अगुञ्जि-मञ्जु-मुरजं विध्वस्त-गीत-ध्वनि ।
व्यावृत्ताध्ययनं निवृत्त-सुकवि-क्रीडा-समस्यं नमद्-
विद्वद्वद् वाद-कथं कथं पुरम् इदं मौन-व्रते वर्तते
[बा.रा. 6.12]
इत्य् अन्तेन कैकेयी-दशरथयोर् अयोध्या-विषय-विषाद-वितर्क-विन्यासाद् रूपम् ।
अथोदाहरणम्-
सोत्कर्ष-वचनं यत् तु तद् उदाहरणं मतम्
54अ
यथा तत्रैव [बाल-रामायणे] असम-पराक्रम-नामनि सप्तमाङ्के विभीषणः-सखे सुग्रीव ! अतिशशाङ्क-शेखरम् इदम् आचेष्टितं रामदेवस्य यद् अनेन-
निर्वाणं जल-पान-पीडन-बलैर् यस्मिन् युगान्तानलैर्
यस्याभाति कुकूल-मुर्मुर-मृदुः क्रोडे शिखी बाडवः ।
तस्याप्य् अस्य कृशानु-सङ्क्रम-कृत-ज्योतिः-शिखण्डैः शरैर्
दत्तश् चण्ड-दवाग्नि-अम्बर-विधिर् देवस्य वारां-निधेः
(7.32)
इत्य् उपक्रम्य, समुद्रः-तर्हि बाल-नारायणं रामम् एवोपसर्पामः । न हि राकामृगाङ्कम् अन्तरेण चन्द्र-मणेर् आनन्द-जल-निष्यन्दः (7.36 पद्याद् पूर्वम्] इत्य् अन्तेन समुद्र-क्षोभक-रामचन्द्रोत्साहोत्कर्ष-कथनाद् उदाहरणम् ।
अथ क्रमः-
भाव-ज्ञानं क्रमो यद् वा चिन्त्यमानार्थ-सङ्गतिः
54ब्
यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [6.4 पद्याद् अनन्तरम्] माल्यवान् (स्मृति-नाटिकेन)-न जाने किं हि वृत्तं कैकेयी-दशरथयोः ।
(उपसर्पितकेन) मायमयः-जयत्व् आर्यः ।
शूर्पणखा-जेदु जेदु कणिट्ठमादाम् अहो । [जयतु जयतु कनिष्ठ-मातामहः ।]
माल्यवान्-अथ किं वृत्तं तत्र ?
मायमयः-यथादिष्टम् आर्येण । इत्य् उपक्रम्य ।
माल्यवान् (सहर्षम्)-तर्हि विस्तरतः कथ्यताम् ।
इत्य् अन्तेन माल्यवच् चिन्ता-समकालम् एव शूर्पणखा-मायामययोर् उपगमनाद् वा माल्यवतो विलम्बासहाभिप्राय-परिज्ञानवता मायामयेन निष्पन्नस्य कार्यस्य सङ्क्षेप-कथनाद् वा क्रमः ।
अथ सङ्ग्रहः-
सङ्ग्रहः सामदानार्थ-संयोगः परिकीर्तितः
55अ
यथा तत्रैव [बाल-रामायणे] सप्तमाङ्के, समुद्रः (साभ्यर्थनम्)-
इन्दुर् लक्ष्मीर् अमृत-मदिरे कौस्तुभः पारिजातः
स्वर्-मातङ्गः सुर-युवतयो देव धन्वन्तरिश् च ।
मन्थाम्रेडैः स्मरसि तद् इदं पूर्वम् एव त्वयात्त
सम्प्रत्य् अब्धिः शृणु जल-धनस् त्वां प्रपन्नः प्रशाधि
[बा.रा. 7.36]
रामः (सगौरवम्)-भगवन् रत्नाकर ! नमस् ते । इत्य् उपक्रम्य,
समुद्रः-यथा सप्तमो वैकुण्ठावतारः [7.44 पद्यात् पूर्वम्] इत्य् अन्तेन समुद्र-रामचन्द्रयोः परस्पर-प्रिय-वचन-सङ्ग्रहणात् सङ्ग्रहः ।
अथ अनुमानम्-
अर्थस्याभ्यूहनं लिङ्गाद् अनुमानं प्रचक्षते
55ब्
यथा तत्रैव [बाल-रामायणे, 7.21 पद्यात् पूर्वम्] प्रतीहारी (समन्ताद् अवलोक्य)-कथम् अयम् अन्यादृश इव लक्ष्यतेऽ म्बुराशिः ।
वन्दी (यथोपलक्षित-मार्गेण स-चमत्कारं पुरोऽ वलोक्य)-पश्य । विलीयमान-जल-मानुष-मिथुनम् अत्यर्थ-कदर्थ्यमान-शङ्खिनी-यूथम् इत्य् उपक्रम्य,
प्रतीहारी-
आं ज्ञातं धाम्नि वारां रघुपतिर्
विशिखाः प्रज्वलन्तः पतन्ति
[बा.रा. 7.30]
इत्य् अन्तेन समुद्र-क्षोभ-लिङ्गानुमित-रामोत्साहार्थ-कथनाद् अनुमानम् ।
अथ तोटकम्-
संरम्भं तु वचनं सङ्गिरन्ते हि तोटकम्
56अ
यथा तत्रैव [बाल-रामायणे] हनुमान्-यथादिशति स्वामी । (सर्वतोऽ वलोक्य)-
दृप्यद्-विक्रम-केलयः कपि-भटाः शृण्वन्तु सुग्रीवजाम्
आज्ञां मौलि-निवेशिताञ्जलि-पुटाः सतोर् इह व्यूहने ।
दोर्-दण्ड-द्वय-ताडन-श्लथ-धरा-बन्धोद्धृतान् भूधरान्
आनेतुं सकलाः प्रयात ककुभः किं नाम वो दुष्करम्
[बा.रा. 7.46]
इत्य् उपक्रम्याङ्क-परिसमाप्तेः कपि-राक्षसादि-संरम्भ-कथनात् तोटकम् ।
अथ अधिबलम्-
बुधैर् अधिबलं प्रोक्तं कपटेनातिवञ्चनम्
56ब्
यथा तत्रैव [बाल-रामायणे] षष्ठाङ्के [6.5 पद्यात् पूर्वम्] मायामयः-अथैकदा दयित-स्नेह-मय्या कैकेय्या समम् असुरानीक-विजयाय पूरित-सुहृन्-मनोरथे दशरथे त्गिर्विष्टप-तिलक-भूतं पुरुहूतं प्रभाववति समुपस्थितवति तद्-रूप-धारिणौ कुवलयाभिरामं रामं सपरिच्छदं छलयितुं अयोध्यां शूर्पणखा अहं च प्राप्तवन्तौ । इत्य् उपक्रम्य,
माल्यवान्-किम् असाध्यं वैदग्ध्यस्य [6.5 पद्याद् अनन्तरं] इत्य् अन्तेन मायामय-शूर्पणखाभ्यां कपट-वेष-धारणेन राम-वामदेव-वञ्चनाद् अधिबलम् ।
अथ उद्वेगः-
शत्रु-वैरादि-सम्भूतं भयम् उद्वेग उच्यते
57अ
यथा तत्रैव [6.56 पद्यात् पूर्वम्] (ततः प्रविशति गगनार्धावतरण-नाटितकेन रत्न-शिखण्डः)-स्वस्ति महाराज-दशरथाय ।
दशरथः-अपि कुशलं वयस्यस्य जटायोः ।
रत्नशिखण्डः-प्रिय-सुहृद्-उपयोगेन । न पुनः शरीरेण ।
दशरथः-भद्र समुपविश्य कथ्यताम् । व्याकुलोऽ स्मि इत्य् उपक्रम्य,
कोसल्या-हा देब्ब तुए किद-विडंबं समत्थिअं बण-गदं राहव-कुटुंबं । [हा देव त्वया कृत-विडम्बं समर्थितं वन-गतं राघव-कुटुम्बम् । ]
सुमित्रा-ण केबलं बण-गदं । भुबण-गदं बि । [न केवलं वन-गतं । भुवन-गतम् अपि ।] (6.70 पद्याद् अनन्तरं] इत्य् अन्तेन मातृ-गत-भीतेर् उपन्यासाद् उद्वेगः ।
अथ सम्भ्रमः-
शत्रु-व्याघ्रादि-सम्भूतौ शङ्कात्रासौ च सम्भ्रमः
57ब्
यथा तत्रैव [बाल-रामायणे] वामदेवः (सास्रं स्वगतम्)-
हे मद्-वाणि निजां विमुञ्च वसति द्राग् देहि यात्रां बहिः
(राजानं प्रति प्रकाशम्)
देव स्तम्भय चेतनां श्रवणयोर् अभ्येति शुष्काशनिः ।
(दम्पती शङ्कां नाटयतः) वामदेवः-
त्वद्-रूपाद् विपिनाय चीवरधरो धन्वी जटी शासनं
रामः प्राप्य गतः कुतश्चन वनं सौमित्रि-सीता-सखः
[बा.रा. 6.13]
उभौ मूर्च्छतः । वामदेवः-देव समाश्वसिहि ।
दशरथः (समाश्वास्य)-केन पुनः कारणेन इत्य् उपक्रम्य,
दशरथः-वत्स रामभद्र मन्ये ममैव मलयाचल-निवासिनः प्रिय-वयस्यस्य जटायोर् अपि शोक-शङ्कुर् अयं सर्वङ्कषो भविष्यति । [6.55 पद्याद् अनन्तरम्] इत्य् अन्तेन कौसल्या-दशरथादीनां रक्षस्-तरक्षु-हर्यक्ष-प्रभृति-सञ्चरण-दारुणारण्यादिषु राम-प्रवास-विषय-शङ्का-त्रासानुवृत्ति-कथनात् सम्भ्रमः ।
अथ आक्षेपः-
गर्भ-बीज-समाक्षेपम् आक्षेपं परिचक्षते
58अ
यथा तत्रैव [बाल-रामायणे] पञ्चमाङ्के [5.74 पद्याद् अनन्तरं] (प्रविश्य अपटीक्षेपेण छिन्न-नामा कृतावगुण्ठना) शूर्पणखा (साक्रन्दं पादयोर् निपत्य)-अज्ज एक्क-मादुअ पेक्ख तक्खअ-चूडामणी उप्पाडिदो । बडवाणल-जाला-कलापअं घुंतलिदं । दसकण्ठ-कनिट्ठ-बहिणिए अच्चाहिदं । [आर्य एक-मातृक प्रेक्षस्व तक्षक-चूडामणिर् उत्पाटितः । बडवानल-ज्वाला-कलापकं चूर्णितम् । दशकण्ठ-कनिष्ठ-भगिन्या अत्याहितम् ।] इत्य् उपक्रम्य,
रावणः (प्रकाशम्)-ततः किं तस्याः ?
शूर्पणखा-सापि लंकेस्सरस्स समुचिदत्ति अबहरंती तेहिं काबालिअ-ब्बद-जोग्गा किदंहि । [सापि लङ्केश्वरस्य समुचितेति व्यवहरन्ती तैः कापालिक-व्रत-योग्या कृतास्मि ।]
इत्य् अन्तेन अङ्कान्त-गत-भागेन सकल-देवता-तेजस् तिरस्करण-रावणातिशय-वर्णना-गर्भीकृतस्य रामोत्साहस्य शूर्पणखा-कर्ण-नासा-निकृन्तन-रूपेण समुद्भेदाद् आक्षेपः ।
अथ विमर्श-सन्धिः-
यत्र प्रलोभन-क्रोध-व्यसनाद्यैर् विमृश्यते । 58ब्
बीजार्थो गर्भ-निर्भिन्नः स विमर्श इतीर्यते
प्रकरी-नियताप्त्यानुगुण्याद् अत्राङ्ग-कल्पनम् । 59
अपवादोऽ थ सम्फेटो विद्रव-द्रव-शक्तयः
द्युति-प्रसङ्गौ छलन-व्यवसायौ निरोधनम् । 60
प्ररोचना विचलनम् आदानं स्युस् त्रयोदश
अथ अपवादः-
तत्रापवादो दोषाणां प्रख्यापनम् इतीर्यते
61
यथा तत्रैव [बाल-रामायणे] अष्टमाङ्के वीर-विलास-नामनि [आदौ] (ततः प्रविशतो राक्षसौ) एकः-सखे दुर्मुख किम् अपि महान् सत्त्व-भ्रंशो दशकण्ठस्य यत् कुमार-सिंहनाद-वधम् अप्य् आकर्ण्य न शोकं कृतो नाप्य् अमर्षः । इत्य् उपक्रम्य,
त्रिजटा-कहं देवेण दिण्णो लज्जा-देईए जलांजली । [कथं देवेन दत्तो लज्जा-देव्यै जलाञ्जलिः ।] [8.10 पद्याद् अनन्तरम्] इत्य् अन्तेन रावण-गत-दुर्बुद्धि-दोष-प्रख्यापनाद् अपवादः ।
अथ सम्फेटः-
दोष-सङ्ग्रथितं वाक्यं सम्फेटं सम्प्रचक्षते
62अ
यथा तत्रैव, सुमुखः (जनान्तिकम्)-सखे दुर्मुख ! किम् अपि शौर्यातिरेको रामानुजस्य यद् अमुना निकुम्भिलां प्रस्थितस्य कुमार-मेघनादस्य सन्दिष्टम्, यद् उत-
यावन् नैव निकुम्भिलाय-जनतः सिद्धे हविर् लेहिनि
प्राप्त-स्यन्दन-बाण-चाप-कवचः स्वं मन्यसे दुर्जयम् ।
वैदेही-विरह-व्यथा-विधुरितेऽ प्य् आर्ये विधाय क्रुधो
वन्ध्यास् तावद् अयं स शक्र-विजयिंस् त्वां लक्ष्मणो जेष्यति
[बा.रा. 8.15]
इत्य् उपक्रम्य, नेपथ्ये-
सीता-प्रियं च दलितेश्वर-कार्मुकं च
बालि-द्रुहं च रचिताम्बुधि-बन्धनं च ।
रक्षोहणं च विजिगीषु-विभीषणं च
रामं निहत्य चरणौ तव वन्दिताहे
[बा.रा. 8.47]
इत्य् अन्तेन, लक्ष्मणेन्द्रजित्-कुम्भकर्णानां रोष-वाक्य-ग्रहणात् सम्फेटः ।
अथ विद्रवः-
विरोध-वध-दाहादिर् विद्रवः परिकीर्तितः
62ब्
यथा तत्रैव (8.48 पद्याद् अनन्तरं] सुमुखः-देव पदातिलवः सुमुखस् तु मन्यते लक्ष्मण-दिधक्षया कुमार-मेघनादेन पावकीयः शरः संहित इति उपक्रम्य,
(दक्षिणतः) सुमुखः-अयम् अपरः क्षते क्षारावसेकः ।
आकर्णाकृष्ट-चापोन्मुख-विशिख-शिखा-शेखरः शूल-पाणिर्
बिभ्राणो भैरवत्वं बहुल-कलकलाराव-रौद्राट्ट-हासः ।
ध्यातः सौमित्रि-णाथ प्रसरद्-उरुतरोत्ताल-वेताल-मालस्
तद्-वक्त्राद् उत्पतद्भिः समजनि शिखिभिर् भस्मसाद् इन्द्रजिच् च
[8.85]
(रावणो मूर्च्छति सर्वे यथोचितम् उपचरन्ति ।) रावणः (मूर्च्छा-विच्छेद-नाटितकेन) इत्य् अन्तेन कपिसेनाविक्षोभ-सुग्रीव-निरोध-कुम्भकर्ण-वधेन्द्रजिद्-भस्मीकरण-रावण-मूर्च्छादि-सङ्कथनाद् विद्रवः ।
अथ द्रवः-
गुरु-व्यतिक्रमं प्राह द्रवं तु भरतो मुनिः
63अ
यथा तत्रैव, करङ्कः-
धिक् शौण्डीर्य-मदोद्धतं भुज-वनं धिक् चन्द्रहासं च ते
धिग् वक्त्राणि निकृत्त-कण्ठ-वलय-प्रीतेन्दु-मौलीनि च ।
निद्रा-लावतिघस्मरे प्रतिदिनं स्वापान् महा-मेदुरे
प्रत्याशा चिर-विस्मृतायुध-विधौ यत् कुम्भकर्णे स्थिता
[बा.रा. 8.74]
इत्य् अत्र स्वामिनोर् दशकण्ठ-कुम्भकर्णयोर् अनुजीविना राक्षसेन निन्दा-करणाद् द्रवः ।
अथ शक्तिः-
उत्पन्नस्य विरोधस्य शमनं शक्तिर् इष्यते
63
यथा तत्रैव रावण-वध-नामनि नवमाङ्के [9.49 पद्याद् पूर्वम्], पुरन्दरः-यत् कुलाचल-सन्दोह-दहन-कर्मणि भगवान् कालाग्निरुद्रः इत्य् उपक्रम्य,
नेपथ्ये-
बाणैर् लाञ्छित-केतु-यष्टि-शिखरो मूर्च्छा-नमत्-सारथिर्
मासास्वादन-लुब्ध-गृध्र-विहग-श्रेणीभिर् आसेवितः ।
रक्षो-नाथ-महा-कबन्ध-पतन-क्षुण्णाक्ष-दण्डो हयैर्
हेषित्वा स्मृत-मन्दुरास्थिति-हृतैर् लङ्कां रथो नीयत
[बा.रा. 9.56]
इत्य् अन्तेन निरवशेष-प्रतिनायक-भूत-रावण-कण्ठोत्सादन-कथनेन विरोध-शमनात् शक्तिः ।
अथ द्युतिः-
द्युतिर् नाम समुद्दिष्टा तर्जनोद्वेजने बुधैः
64अ
यथा तत्रैव अष्टमाङ्के, रावणः (ऊर्ध्वम् अवलोक्य)-किम् अयम् अतिसत्वरः सुर-समाजः ? शङ्के कतिपय-यातुधान-वधान् तापसं प्रति प्रीयते । (स-क्रोध-तर्जनम्)
हर्षोत्कर्षः किम् अयम् अमराः क्षुद्र-रक्षो-वधाद् वस्
तन् मे दोष्णां विजित-जगतां विक्रमं विस्तृताः स्थ ।
किं चाद्यैव प्रिय-रण-रसो बोध्यते कुम्भकर्णस्
तूर्णं जेता स च दिविषदां बोध्यते मेघनादः
[बा.रा. 8.12]
इत्य् उपक्रम्य, नेपथ्ये-बिरएह केलि-आकड्ढण-पाडणिज्जं गोउर-दुवारं, बोढेह बिबिह-प्पहरण-सण्णाह-दह-सहस्साइ । (व्रचयत केलिकाकर्षण-पातनीयं गोपुर-द्वारम् । वहत विविध-प्रहरण-संनाह-दश-सहस्राणि ।) इत्य् अन्तेन देवता-तर्जन-लङ्का-पुर-जनोद्वेजन-कथनाद् द्युतिः ।
अथ प्रसङ्गः-
प्रस्तुतार्थस्य कथनं प्रसङ्गः परिकीर्तितः । 64ब्
प्रसङ्गं कथयन्त्य् अन्ये गुरूणां परिकीर्तनम्
यथा तत्रैव नवमाङ्के [आदौ] (प्रविश्य) यम-पुरुषः-तत्र-भवतो लुलाय-लक्षणः सकल-प्राणिभृतां विहित-नाशस्य कीनाशस्य किम् अपि विश्वातिशायिनी प्रभविष्णुता इत्य् उपक्रम्य,
दशरथः-भगवन् गीर्वाण-नाथ स-प्रसादम् इतो निधीयन्तां दृष्टयः । [9.18 पद्यात् पूर्वम्] इत्य् अन्तेन यम-पुरन्दरादि-पूज्य-सङ्कीर्तनाद् वा प्रस्तुत-राक्षस-वध-रूपस्यार्थस्य प्रपञ्चनाद् वा प्रसङ्गः ।
अथ छलनम्[*18]-
अवमानादि-करणं कार्यार्थे छलनं विदुः
65
[*18] नात्य-शास्त्रे अत्र छादन इति संज्ञा प्राप्यते ।
यथा तत्रैव [बाल-रामायणे] चारणः (कर्णं दत्त्वा आकाशे)-किम् आह रामभद्रः । रे रे राक्षस-पुत्र-
यद् गौरी-चरणाब्जयोः प्रथमतस् त्यक्त-प्रणाम-क्रियं
प्रेमार्द्रेण स-विभ्रमेण च पुरा येनेक्षिता जानकी ।
लूनं ते तद् इदंच राक्षस-शिरो जातं च शान्तं मनः
शेष-च्छेद-विधिस् तु सम्प्रति परं स्वर्-वन्दिन्-मोक्षाय मे
[बा.रा. 9.10]
किम् आह रावणः ? रे रे क्षत्रिया-पुत्र सुलभ-विभ्रम-चर्म-चक्षुर् असि इत्य् उपक्रम्य,
रामः-तद् इत्थम् अभिधानम् अपवित्रं ते वक्त्रम् । इतो निर्विशतु वध-शुद्धिम् [9.46 पद्याद् अनन्तरम्] इत्य् अन्तेन राम-रावणाभ्यां परस्परावमानन-करणात् छलनम् ।
अथ व्यवसायः-
व्यवसायः स्व-सामर्थ्य-प्रख्यापनम् इतीर्यते
66अ
यथा तत्रैव [बाल-रामायणे]-
भो लङ्केश्वर दीयतां जनकजा रामः स्वयं याचते
कोऽ यं ते मति-विभ्रमः स्मर नयं नाद्यापि किंचिद् गतम् ।
नैवं चेत् खर-दूषण-त्रिशिरसां कण्ठासृजा पङ्किलः
पत्री नैष सहिष्यते मम धनुर् ज्या-बन्ध-बन्धूकृतः
[बा.रा. 9.19]
इत्य् उपक्रम्य-किम् आह रावणः ? रे रे मानुषी-पुत्र ! अयम् असौ अक्षत्रियो रावणः । क्षत्रियो रामः । तद् अत्र दृश्यताम् । कतरो विनेयः । कतरो विनेता इति । किम् आह रामभद्रः ? हंहो अमानुषी-पुत्र ! क्षत्रियो रामः । अयम् असौ अक्षत्रियो रावणः । तद् अत्र दृश्यतां कतरो विनेयः, कतरो विनेता [9.26 पद्याद् अनन्तरं] इत्य् अन्तेन राम-रावणाभ्यां स्व-सामर्थ्य-प्रख्यापनाद् व्यवसायः ।
अथ विरोधनम्-
विरोधनं निरोधोक्तिः संरब्धानां परस्परम्
66
यथा तत्रैव [बाल-रामायणे तस्मिन्न् एव स्थाने] चारणः-कथम् अमर्षिताभ्यां राम-रावणाभ्यां प्रत्युपक्रान्तम् इषु-वर्षाद्वैतम् इत्य् उपक्रम्य, चारणः-नन्व् अयम् ओंकारो रावण-शिरो-मण्डल-च्छेदन-विद्यायाः [9.39 पद्याद् अनन्तरम्] इत्य् अन्तेन संरब्धयो राम-रावणयोः दिव्यास्त्र-प्रयोग-रूप-परस्पर-संरोध-करणाद् विरोधनम् ।
अथ प्ररोचना-
सिद्धवद् भाविनोऽ र्थस्य सूचना स्यात् प्ररोचना
67अ
यथा तत्रैव अष्टमाङ्के [8.16 पद्याद् अनन्तरम्], करङ्कः (जनान्तिकम्)-सखे कञ्काल देवः कुम्भकर्णं प्रबोधयति । न पुनर् आत्मानम् । किं च प्रयत्नेन बोधितोऽ प्य् असौ रामेण पुनः शायितव्य एव ।
कङ्कालः-मण्णे बिभीसणं बज्जिअ सब्बस्स बि एसा गई । [मन्ये विभीषणं वर्जयित्वा सर्वस्याप्य् एषा गतिः ।]
करङ्कः-तथैव । इत्य् अत्र भविष्यतः कुम्भकर्णादि-राक्षस-नाशस्य कङ्काल-करङ्काभ्यां सिद्धवत् निश्चित्य सूचनात् प्ररोचना ।
अथ विचलनम्-
आत्म-श्लाघा विचलनम्
67च्
यथा तत्रैव, करङ्कः-किम् आह कुम्भकर्णः-
आस्तां धनुः किम् असिना परतो भुसुण्डी-
चक्रैर् अलं भवतु पट्टिशम् उद्गराद्यैः ।
धावत्-प्लवङ्ग-पृतना-कबल-क्रमेण
यास्याम्य् अहं सुहिततां च रिपु-क्षयं च
[बा.रा. 8.37]
(पुनः पृच्छति रावणः) साधु वत्स, साधु । सत्यं मद्-अनुजोऽ सि, इत्य् उपक्रम्य-
अनेन लङ्का यद् अकारि मत्-पुरी
हनूमतो गात्र-गतेन भस्मसात् ।
निजापराध-प्रशमाय तद् ध्रुवं
निषेवितुं माम् उपयाति पावकः
[बा.रा. 8.48]
इत्य् अन्तेन रावण-कुम्भकर्णाभ्याम् आत्म-श्लाघा कृतेति विचलनम् ।
अथ आदानं-
आदानं कार्य-सङ्ग्रहः
67द्
यथा तत्रैव [बाल-रामायणे] नवमाङ्के पुरन्दरः-सखे दशरथ कथम् अयम् अनन्य-सदृशाकारो रामभद्र-पुरुषकारः । अतश् च-
निर्दग्ध-त्रिपुरेन्धनोऽ स्तु गिरिशः क्रौञ्चाचल-च्छेदने
पाण्डित्यं विदितं गुहस्य किम् उ ताव् अज्ञात-युद्धोत्सवौ ।
लूत्वा पङ्क-जलावमानन-वनं वीरस्य लङ्का-पतेर्
वीराणां चरिताद्भुतस्य परमे रामः स्थितः सीमनि
[बा.रा. 9.57]
इत्य् उपक्रम्य-
रण-रसिक-सुर-स्त्री-मुक्त-मन्दार-दामा
स्वयम् अयम् अवतीर्णो लक्ष्मण-न्यस्त-हस्तः ।
विरचित-जय-शब्दो वन्दिभिः स्यन्दनाङ्गाद्
दिनकर-कुल-लक्ष्मी-वल्लभो रामभद्रः
[बा.रा. 9.59]
इत्य् अन्तेन निखिल-भुवन-बाधा-शमन-रूप-रावण-वध-सम्पादित-धर्मादि-लक्षण-कार्य-विशेष-सङ्ग्रहणाद् आदानम् ।
अथ निर्वहण-सन्धिः-
मुख-सन्ध्यादयो यत्र विकीर्णा बीज-संयुताः ।
महत्-प्रयोजनं यान्ति तन्-निर्वहणम् उच्यते
68
सन्धि-विरोधौ ग्रथनं निर्णयः परिभाषणे प्रसादश् च ।
आनन्द-समय-कृतयो भाषोपगूहने तद्वत्
69
अथ पूर्व-भाव-सयुजाव् उपसंहार-प्रशस्ती च ।
इति निर्वहणस्याङ्गान्य् आहुर् अमीषां तु लक्षणं वक्ष्ये
70
तत्र सन्धिः-
बीजोपगमनं सन्धिः
71अ
यथा तत्रैव [बाल-रामायणे] राघवानन्द-नामनि दशमाङ्के [आदौ] (ततः प्रविशति सशोका) लङ्का-हा दुद्धर-तब-विसेस-परितोसिदारबिन्दासण तिहुबणेक्कमल्ल दस-कण्ठ हा हेला-बन्दीकिद-महिन्द मेहनाद हा समर-संरंभ-सुप्पसण्ण कुंभ-कण्ण कहिंसि देहि मे पडिबअणं । [हा दुर्धर-तपो-विशेष-परितोषितारविन्दासन त्रिभुवनैक-मल्ल दशकण्ठ ! हा हेला-बन्दीकृत-महेन्द्र मेघनाद ! हा समर-संरम्भ-सुप्रसन्न ! कुम्भकर्ण क्वासि देहि मे प्रतिवचनम् ।] इत्य् उपक्रम्य,
(प्रविश्य सत्वरा) अलका-सखि धर्म-जेतरि विभीषणेऽ पि नेतरि तत्रभवती स-शोक-शङ्कुर् इव ।
लङ्का-जं तिणेत्त-मित्तस्स णअरी भणदी । [यत् त्रिनेत्र-मित्रस्य नगरी भणति ।] [10.2 पद्यात् पूर्वम्] इत्य् अन्तेन दुष्ट-राक्षस-शिक्षा-रूप-रामोत्साह-बीजोपगमनात् सन्धिः ।
अथ विरोधः-
कार्यान्वेषणं विरोधः स्यात्
71ब्
यथा तत्रैव, नेपथ्ये-
रुद्राणि लक्ष्मि वरुणानि सरस्वति द्यौः
सावित्रि धात्रि सकलाः कुल-देवताश् च ।
शुद्ध्य्-अर्थिनी विशति शुष्मणि राम-कान्ता
तत् संनिधत्त सहसा सह लोक-पालैः
[बा.रा. 10.2]
इत्य् उपक्रम्य, लङ्का-अहो देवदाणं बि सीदापक्ख-बादो । अधवा सब्बो गुणेसु रज्जदि । ण सरीरेसु । [अहो देवतानाम् अपि सीता-पक्षपातः । अथवा सर्वो गुणेषु रज्यति । न शरीरेषु ।] [10.8 पद्याद् अनन्तरम्] इत्य् अन्तेन सीता-शुद्धि-रूप-कार्यान्वेषणाद् विरोधः ।
अथ ग्रथनम्-
ग्रथनं तद्-उपेक्षेपः
71च्
यथा तत्रैव [बाल-रामायणे]-
बद्धः सेतुर् लवण-जलधो क्रोध-वह्नेः समित्त्वं
नीतं रक्षः-कुलम् अधिगताः शुद्धिमन्तश् च दाराः ।
तेनेदानीं विपिन-वसतावेष पूर्ण-प्रतिज्ञो
दिष्ट्यायोध्यां व्रजति दयिता-प्रीतये पुष्पकेण
[बा.रा. 10.15]
तद् भोः सकल-प्लवङ्ग-यूथ-पतयः इत्य् आरभ्य,
सम्प्रेषितश् च हनुमान् भरतस्य पार्श्वं
लङ्काङ्गनाचकित-नेत्र-निरीक्षित-श्रीः ।
यात्य् एष वारिनिधि-लङ्घन-दृष्ट-सारो
राज्याभिषेक-समयोचित-कार्य-सिद्धेः
[बा.रा. 10.16]
इत्य् अन्तेन रामाभिषेक-रूप-परम-कारोपेक्षाद् ग्रथनम् ।
अथ निर्णयः-
स्याद् अनुभूतस्य निर्णयः कथनम्
71द्
यथा तत्रैव [बाल-रामायणे] रामः (अपवार्य)-
अय्यस्मद्-अग्र-कर-यन्त्र-निपीडितानां
धाराम्भसां स्मरसि मज्जन-केलि-काले ।
सुभ्रु त्वया निज-कुचाभरणैक-योग्यम्
अत्राब्ज-वल्लि-दलम् आवरणाय दत्तम्
[बा.रा. 10.76]
किं च-
तद् इह कलह-केली सैकते नर्मदायाः
स्मरसि सुतनु किंचिन् नौ पराधीन-सुप्तम् ।
उषसि जल-समीर-प्रेङ्खणाचार्य-कार्यं
तद् अनु मदन-मुद्रां तच् च गाढोपगूढम्
[बा.रा. 10.77]
इत्य् अत्र रामेण स्वानुभूतार्थ-कथनान् निर्णयः ।
अथ परिभाषा-
परिभाषा त्व् अन्योन्यं जल्पनम् अथवा परिवादः
72अ
यथा तत्रैव [10.92 पद्याद् अनन्तरम्] सीता-अज्ज-उत्त दसकण्ठ-णिसूअण वाराणसी-संकित्तणेण सुमराबिदम्हि अक्खिआणद्दं जणणी-भूदं मिहिलां महा-णाअरीं । [आर्य-पुत्र दशकण्ठ-निसूदन वाराणसी-सङ्कीर्तनेन स्मारितास्मि अक्ष्य्-आनन्दं जननी-भूतं मिथिलां महा-नागरीम् ।] इत्य् उपक्रम्य,
विभीषणः-इह हि खलु क्षत्रियान्तकरस्य भङ्गो भार्गव-मुनेर् दत्तः ।
सुग्रीवः-
अपां फेनेन तृप्तोऽ सौ स्नातश् चन्द्रिकया च सः ।
यद् अप्रसूत-कौशल्यं क्षत्रं क्षपितवान् मुनिः
[बा.रा. 10.94]
इत्य् अन्तेन सीता-राम-विभीषण-सुग्रीवाणाम् अन्योन्य-संजल्पनेन वा सुग्रीवेण भार्गव-परीवाद-सूचनाद् वा परिभाषणम् ।
अथ प्रसादः-
शुश्रूषादि-प्राप्तं प्रसादम् आहुः प्रसन्नत्वम्
72ब्
यथा तत्रैव, रामः (हस्तम् उद्यम्य)-
हंहो पुष्पक-वायु-वेग-मुनिना धूमः पुरः पीयते
छायां मा कुरु कोऽ प्य् अयं दिन-मणाव् एकाग्र-दृष्टिः स्थितः ।
दूराद् अत्र भव प्रदक्षिण-गतिः स्थाणोर् इदं मन्दिरं
किञ्चित् तिष्ठ तपस्विनस् तव पुरो यावत् पर्यान्त्य् अध्वनः
[बा.रा. 10.59]
इत्य् उपक्रम्य, अगस्त्यः-
का दीयतां तव रघूद्वह सम्यग्-आशीर्
निष्कण्टकानि विहितानि जगन्ति येन ।
आशास्महे ननु तथापि सह स्व-वीरैर्
भू-काश्यपोपम-सुत-द्वितया वधूः स्यात्
[बा.रा. 10.64]
रामः-परम् अनुगृहीतं रघु-कुलम् इत्य् अन्तेन अगस्त्य-दत्ताशीर्वाद-रूप-प्रसाद-कथनात् प्रसादः ।
अथ आनन्दः-
अभिलषितार्थ-समागमम् आनन्दं प्राहुर् आचार्याः
73अ
यथा तत्रैव, रामः-हंहो विमान-राज विमुच्य वसुधा-सविध-वर्तिनी गतिं किञ्चिद् उच्चैर् भव । कुतूहलिनी जानकी दिव्य-लोक-दर्शन-व्यतिकरस्य । (ऊर्ध्व-गति-नाटिकेन)
यथा यथारोहति बद्ध-वेगं
व्योम्नः शिखां पुष्पकम् आनताङ्गि ।
महाम्बुधीनां वलयैर् विशालैस्
तथा तथा सङ्कुचितेव पृथ्वी
[बा.रा. 10.22]
सुर-चारण-किंनर-विद्याधर-कुल-सङ्कुलं गगन-गर्भम् ईक्षस्व । (प्रविश्य) विद्याधरः : अतः परम-गम्या अस्मादृशां भुवः । स च ब्रह्म-लोक इति श्रूयते ।
इत्य् अन्तेन सीतादीनाम् अभिलषित-दिव्य-लोक-दर्शन-रूपार्थ-सिद्धेर् आनन्दः ।
अथ समयः-
समयो दुःख-सङ्क्षयः
73ब्
यथा तत्रैव, भरतः : आर्य ! रावण-विद्रावण भरतोऽ हम् अभिवादये । इत्य् उपक्रम्य (भरत-सुग्रीव-विभीषणाः परस्परं परिष्वजन्ते ।) इत्य् अन्तेन बन्धूनाम् अन्योन्यावलोकन-परिष्वङ्गादिभिर् दुःखापगम-कथनात् समयः ।
अथ कृतिः-
कृतिर् अपि लब्धार्थ-सुस्थिरीकरणम्
73च्
यथा तत्रैव, (प्रविश्य) हनुमान्-देव मत्तः श्रुत-वृत्तान्तो वसिष्ठः समं भरत-शतुर्घ्नाभ्याम् अन्याभिश् च प्रकृतिभिर् भवद्-अभिषेक-सज्जस् तिष्ठति । इत्य् उपक्रम्य, वसिष्ठः : का दीयतां त्व रघूद्वह सम्यग् आशीर् इत्य् आदि पठति ।
रामः: आर्षं हि वचनं विभिन्न-वक्तृकम् अपि न विसंवदति यद् अगस्त्य-वाचा वसिष्ठोऽ पि ब्रूते [10.69 पद्याद् अनन्तरम्] इत्य् अन्तेन अगस्त्य-लब्धाशीर्वादस्य वसिष्ठ-वचन-संवादेन स्थिरीकरणात् कृतिः ।
अथ भाषणम्-
मानाद्याप्तिश् च भाषणम्
73द्
यथा तत्रैव, वसिष्ठः-
रामो दान्त-दशाननः किम् अपरं सीता सतीष्व् अग्रणीः
सौमित्रिः सदृशोऽ स्तु कस्य समरे येनेद्रजिन् निर्जितः ।
किं ब्रूमो भरतं च राम-विरहे तत्-पादुकाराधकं
शत्रुघ्नः कथितोऽ ग्रजस्य च गुणैर् वन्द्यं कुटुम्बं रघोः
[बा.रा. 10.102]
इत्य् अत्र वसिष्ठेन रघु-कुटुम्बस्य रामचन्द्रादि-सत्-पुरुषोत्पत्ति-स्थानतया तल्लक्षण-बहु-मान-प्राप्ति-कथनाद् भाषणम् ।
अथ उपगूहनम्-
उपगूहनम् अद्भुत-प्राप्तिः ॥170॥ 74अ
यथ तत्रैव, अलका-अहो नु खलु भोः पति-व्रता-मयं ज्योतिः अनभिभवनीयं ज्योतिर्-अन्तरैः । यतः,
प्रविशन्त्या चिताचक्रं जानक्या परिशुद्धये ।
न भेदः कोऽ पि निर्णीतः पयसः पावकस्य च
[बा.रा. 10.9]
(विचिन्त्य) इत्य् उपक्रम्य, नेपथ्ये-
योगीन्द्रश् च नरेन्द्रश् च यस्याः स जनकः पिता ।
विशुद्धा राम-गृहिणी बभौ दशरथ-स्नुषा
[बा.रा. 10.14]
इत्य् अन्तेन सीतायाः निःशङ्क-ज्वलन-प्रवेश-निरपाय-निर्गमन-रूपाश्चर्य-कथनाद् उपगूहनम् ।
अथ पूर्व-भावः-
दृष्ट-क्रम-कार्यस्य स्याद् दृष्टिः पूर्व-भावस् तु
74ब्
यथा तत्रैव [10.102 पद्याद् अनन्तरम्]-वत्स रामभद्र प्रशस्तो मुहूर्तो वर्तते । तद् अध्यास्स्व पित्र्यं सिंहासनम् इत्य् उपक्रम्य, वसिष्ठः-रामभद्र धन्योऽ सि । यस्य ते भगवान् कुबेरोऽ र्थी इत्य् अन्तेन वसिष्ठेन रामभद्रस्याभिषेकाङ्गीकरण-कुबेर-विमान-प्रत्यर्पण-रूपयोर् अर्थयोर् दर्शनात् पूर्व-भावः ।
अथ उपसंहारः-
धर्मार्थाद्य्-उपगमनाद् उपसंहारः कृतार्थता-कथनम्
75अ
यथा तत्रैव, वसिष्ठः-वत्स रामभद्र किं ते भूयः प्रियम् उपकरोमि ।
रामः-किम् अतः प्रियम् अस्ति ।
रुग्णं चाजगवं न चापि कुपितो भर्गः सुर-ग्रामणीः
सेतुश् च ग्रथितः प्रसन्न-मधुरो दृष्टश् च वारां निधिः ।
पौलस्त्यश् चरमः स्थितश् च भगवान् प्रीतः श्रुतीनां कविः
प्राप्तं यानम् इदं च याचितवते दत्तं कुबेराय च
[बा.रा. 10.104]
इत्य् अत्र रुग्णं चाजगवं इत्य् अनेन भूत-पति-धनुर् दलनेन सीताधिगम-रूपकाम् अप्राप्तेः पौलस्य्तश् चरमः स्थितः इत्य् अनेन शरणागत-रक्षणेन धर्म-प्राप्तेः प्राप्तं यानम् इदं चेत्य् अत्र विमान-रत्न-लाभेनार्थ-प्राप्तेश् च न चापि कुपितो भर्गः सुर-ग्रामिणीर् इत्य् आदिभिः पादान्त-वाक्यैः रामचन्द्रेण स्व-कृतार्थता-कथनाद् उपसंहारः ।
किं च, रुग्णं चाजगवं सेतुश् च ग्रथित इत्य् आदिभ्यां युद्धोत्साह-सिद्धेः पौलस्त्यश् चरमः स्थितः इत्य् अत्र विभीषणस्य पालनेन दया-वीर-सिद्धेः याचितवते दत्तं कुबेराय चेत्य् अनेन दानवीर-सिद्धेश् च रामभद्रेण स्वकृतार्थता-कथनाद् वा उपसंहारः ।
अथ प्रशस्तिः-
भरतैश् चराचराणाम् आशीर् आशंसनं प्रशस्तिः स्यात्
75ब्
यथा तत्रैव, तथा चेदम् अस्तु भरत-वाक्यम्-
सम्यक् संस्कार्र-विद्या-विशदम् उपनिषद्-भूतम् अर्थाद्भुतानां
ग्रथ्नन्तु ग्रन्थ-बन्धं वचनम् अनुपतत्-सूक्ति-मुद्राः कवीन्द्राः ।
सन्तः सन्तर्पितान्तः-करणम् अनुगुणं ब्रह्मणः काव्य-मूर्तेस्
तत् तत्त्वं सात्त्विकैश् च प्रथम-पिशुनितं भावयन्तोऽ र्चयन्तु
[बा.रा. 10.105]
इत्य् अत्र कवीन्द्राणां निर्दोष-सूक्ति-ग्रथनाशंसनेन भावकानां च तद्-ग्रन्थ-भावनाशंसनेन च सकल-व्यवहार-प्रवर्तक-वाङ्मय-रूप-जगन्-मङ्गल-कथनात् प्रशस्तिर् इति सर्वं प्रशस्तम् ।
रस-भावानुरोधेन प्रयोजनम् अपेक्ष्य च ।
साफल्यं कार्यम् अङ्गानाम् इत्य् आचार्याः प्रचक्षते
76
केषांचिद् एषाम् अङ्गानां विकल्पं केचिद् ऊचिरे ।
मुखादि-सन्धिष्व् अङ्गानां क्रमोऽ यं न विवक्षितः
77
क्रमस्यानादृतत्वेन भरतादिभिर् आदिमैः ।
लक्ष्येषु व्युत्क्रमेणापि कथनेन विचक्षणैः
78
चतुः-षष्ठि-कला-मर्म-वेदिना सिंह-भूभुजा ।
लक्षिता च चतुःषष्ठिर् बाल-रामायणे स्फुटम्
79
अथ सन्ध्य्-अन्तराणि-
मुखादि-सन्धिष्व् अङ्गानाम् अशैथिल्य-प्रतीतये ।
सन्ध्य्-अन्तराणि योज्यानि तत्र तत्रैकविंशतिः
80
आचार्यान्तर-संमत्या चमत्कारोदयाद् अपि ।
वक्ष्ये लक्षणम् एतेषाम् उदाहृतिम् अपि स्फुटम्
81
साम-दाने भेद-दण्डौ प्रत्युत्पन्न-मतिर् वधः ।
गोत्र-स्खलितम् ओजश् च धीः क्रोधः साहसं भयम्
82
माया च संवृतिर् भ्रान्तिर् दूत्यं हेत्व्-अवधारणम् ।
स्वप्न-लेखौ मदश् चित्रम् इत्य् एतान्य् एकविंशतिः
83
तत्र साम-
तत्र साम प्रियं वाक्यं स्वानुवृत्ति-प्रकाशनम्
84अ
यथा मालविकाग्निमित्रे, राजा-अये न भेतव्यम् ।
मालविका (सावष्टम्भम्)-जो ण भाअदि सो मए भट्टिणी-दंसणे दिट्ठ-सामत्थो भट्टा । [यो न बिभेति स मया भट्टिनी-दर्शने दृष्ट-सामर्थ्यो भर्ता ।]
राजा-
दाक्षिण्यं नाम बिम्बोष्ठि नायकानां कुल-व्रतम् ।
तन् मे दीर्घाक्षि ये प्राणास् ते त्वद्-आशा-निबन्धनाः
[मा.अ.मि. 4.14]
इत्य् अत्र राज्ञो वचनं नाम ।
अथ दानं-
दानम् आत्म-प्रतिनिधिर् भूषणादि-समर्पणम्
84ब्
यथा मालती-माधवे, मालती-पिअ-सहि सब्बदा सुमरिदब्बह्मि । एसा बि माहब-सहत्थणिम्माणमणोहरा बौल-माला मालदी-णिब्बिसेसं पिअ-सहीए दट्टब्बा । सब्बदा हिअएण अ धारणिज्जा इति । [प्रिय-सखि ! सर्वदा स्मर्तव्यास्मि । एषा च माधव-स्व-हस्त-निर्माण-मनोहरा बकुल-माला मालती-निर्विशेषं प्रिय-सख्या द्रष्टव्या । सर्वदा हृदयेन च धारणिया इति ।] (इति स्वकण्ठाद् उन्मुच्य माधवस्य कण्ठे विन्यस्यन्ती सहसापसृत्य साध्वसोत्कम्पं नाटयति ।) [6.11 पद्याद् अनन्तरम्] ।
अत्र मालत्या मर्तुकामायाः प्रतिनिधितया लवङ्गिकायां बकुलमाला-समर्पणं दानम् ।
अथ भेदः-
भेदस् तु कपटालापैः सुहृदां भेद-कल्पनम्
85अ
यथा मालती-माधवे, कामन्दकी-
राज्ञः प्रियाय सुहृदे सचिवाय कार्याद्
दत्त्वात्मजां भवतु निर्वृतिमानमात्यः ।
दुर्दर्शनेन घटतामियम् अप्य् अनेन
धूम-ग्रहेण विमला शशिनः कलेव
[मा.मा. 2.8]
मालती (स्वगतम्)-हा ताद तुमं बि णाम मम एब्बं ति सब्बहा जिदं भोअतिह्णाए । [हा तात त्वम् अपि नाम ममैवम् इति सर्वथा जितं भोग-तृष्णया ।] इत्य् अत्र कामन्दक्या मालती-तज्-जनकयोर् भेद-कल्पनं भेदः ।
अथ दण्डः-
दण्डस् त्व् अविनयादीनां दृष्ट्या श्रुत्याथ तर्जनम्
85ब्
दृष्ट्या, यथा मालती-माधवे, माधवः-रे रे पाप !
प्रणयि-सखी-सलील-परिहास-रसाधिगतैर्
ललित-शिरीष-पुष्प-हननैर् अपि ताम्यति यत् ।
वपुषि वधाय तत्र तव शस्त्रम् उपक्षिपतः
पततु शिरस्य् अकाण्डयम् अदण्ड इवैष भुजः
[मा.मा. 5.31]
अत्राघोर-घण्टस्याविनय-दर्शनेन माधव-कृत-तर्जनं दण्डः ।
श्रुत्या, यथा शाकुन्तले, राजा (सहसोपसृत्य)-
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयम् आचरत्य् अविनयं मुग्धासु तस्पस्वि-कन्यासु
[अ.श. 1.21]
अत्राविनय-श्रुत्या दुष्यन्तेन कृतं तर्जनं दण्डः ।
अथ प्रत्युत्पन्न-मतिः-
तात्-कालिकी च प्रतिभा प्रत्युत्पन्न-मतिर् स्मृता
86अ
यथा मालविकाग्निमित्रे, राजा-न खलु मुद्राम् अधिकृत्य ब्रवीमि । एतयोर् बद्धयोः [मालविका-बकुलावलिकयोः] किं-निमित्तो मोक्षः । किं देव्याः परिजनम् अतिक्रम्य भवान् सन्दिष्टः इत्य् एवम् अनया [माधविकया] प्रष्टव्यम् ।
विदूषकः-णं पुच्छिदो ह्मि । पुणो मन्दस्स बि मे तस्मिं पञ्चुप्पण्णा मदी आसि । [ननु पृष्टोऽ स्मि । पुनर् मन्दस्स्यापि मे तस्मिन् प्रत्युत्पन्ना मतिर् आसीत् ।]
राजा-कथ्यताम् ।
विदूषकः-भणिदं मए, देब्बचिंतएहिं विण्णाविदो राआ । सोबसग्गं बो णक्खत्तं ता अवस्सं सब्ब-बन्ध-मोक्खो करीअदुत्ति । [भणितं मया, दैव-चिन्तकैर् विज्ञापितो राजा । सोपसर्गं वो नक्षत्रम् । तद् अवश्यं सर्व-बन्ध-मोक्षः क्रियताम् इति ।]
राजा (सहर्षं)-ततस् ततः ?
विदूषकः-तं सुणिअ देवीए इरावदी-चित्तं रक्खंतीए राआ किल मोएदि त्ति अहं संदिट्ठो त्ति तदो जुज्जदि त्ति ताए इब्बं संपादिदो अत्थो । [तत् श्रुत्वा देव्या इरावती-चित्तं रक्षन्त्या राजा किल मोचयतीत्य् अहं सन्दिष्ट इति । ततो युज्यते इति तयैव सम्पादितोऽ र्थः ।]
राजा (विदूषकं परिष्वज्य)-सखे ! प्रियोऽ हं खलु तव । [4.5 पद्याद् अनन्तरं]
इत्य् अत्र विदूषकस्य समुचितोत्तर-प्रतिभा प्रत्युत्पन्न-मतिः ।
अथ वधः-
वधस् तु जीवित-द्रोह-क्रिया स्याद् आततायिनः
86ब्
यथा वेणी-संहारे [6.44 पद्याद् अनन्तरम्], कृष्णः-अहं पुनश् चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तम् उपलभ्यार्जुनेन सह त्वरिततरम् आयातः ।
युधिष्ठिरः-किं नाम चार्वाकेण रक्षसा वयम् एवं विप्रलब्धाः ?
भीमः (स-रोषम्)-भगवन् क्वासौ धार्तराष्ट्र-सखो राक्षसश् चार्वाको येनार्यस्य महांश् चित्त-विभ्रमः कृतः ।
कृष्णः-निगृहीतः स दुरात्मा नकुलेन ।
युधिष्ठिरः-प्रियं नः, प्रियं नः । इत्य् अत्र चार्वाक-निग्रहो वधः ।
अथ गोत्र-स्खलितम्-
तद् गोत्र-स्खलितं यत् तु नाम-व्यत्यय-भाषणम्
87अ
यथा विक्रमोर्वशीये [तृतीयाङ्के आदौ] (ततः प्रविशतो भरत-शिष्यौ) प्रथमः-अये सदोषावकाश इव ते वाक्य-शेषः ।
द्वितीयः-आम् । तर्हि उब्बसीए बअणं पमाद-क्खलिदं आसि । [आं, तत्र उर्वस्या वचनं प्रमाद-स्खलितम् आसीत् ।]
प्रथमः-कथम् इव ?
द्वितीयः-लच्छी-भूमिआए बट्टमाणा उब्बसी वारुणी-भूमिआए बट्टमाणाए मेणआए पुच्छिदा । सहि समाअदा एदे तेल्लोक्क-पुरिसा सकेसवा लोअ-बाला । कदमस्सिं दे भावाहिणिबेसोत्ति [लक्ष्मी-भूमिकायां वर्तमाना उर्वशी वारुणी-भूमिकायां वर्तमानया मेनकया पृष्टा । सखि समागता एते त्रैलोक्य-पुरुषाः स-केशवा लोक-पालाः । कतमस्मिइंस् ते भावाभिनिबेशः ? इति ।]
प्रथमः--ततस् ततः ?
द्वितीयः-तदो ताए पुरिसोत्तमे त्ति भणिदब्बे पुरूरवसि त्ति णिग्गदा बाणी । [ततस् तस्याः पुरुषोत्तम इति भणितव्ये पुरूरवसीति निर्गता बाणी ।] इत्य् अत्र नाम-व्यतिक्रमः स्फुट एव ।
अथ औजः-
ओजस् तु वाग्-उपन्यासो निज-शक्ति-प्रकाशकः
87ब्
यथा उत्तर-राम-चरिते, कुशः-सखे दण्डायन !
आयुष्मतः किल लवस्य नरेन्द्र-सैन्यैर्
आयोधनं ननु किम् आत्थ सखे तथेति ।
अद्यास्तम् एतु भुवनेषु स राज-शब्दः
क्षत्त्रस्य शस्त्र-शिखिनः शमम् अद्य यान्तु
[उ.रा.च. 6.16]
इत्य् अत्र ओजः स्पष्टम् एव ।
अथ धीः-
इष्टार्थ-सिद्धि-पर्यन्ता चिन्ता धीर् इति कथ्यते
88अ
यथा मालविकाग्निमित्रे चतुर्थाङ्के [4.2 पद्याद् अनन्तरम्] राजा (निश्वस्य सपरामर्शम्)-सखे किम् अत्र कर्तव्यम् ?
विदूषकः (विचिन्त्य)-अत्थि एत्थ उबाओ । [अस्त्य् अत्रोपायः ।]
राज-किम् इव ?
विदूषकः (स-दृष्टि-क्षेपम्)-को बि अदिट्ठो सुणिस्सद् । कण्णे दे कहेमि (इत्य् उपश्लिष्य कर्णे) एवं बिअ । [कोऽ प्य् अदृष्टः श्रोष्यति । कर्णे ते कथयामि । एवम् इव । ] इत्य् आवेदयति ।
राजा सहर्षं-सुष्ठु प्रयुज्यतां सिद्धये । इत्य् अत्र विदूषकेण धारिणी-हस्त-मणि-मुद्रिकाकर्षाण-हेतु-भूतस्य भुजग-विष-वेग-कपटस्य चिन्तनं धीः ।
अथ क्रोधः-
क्रोधस् तु चेतसो दीप्तिर् अपराधादि-दर्शनात्
88ब्
यथा रत्नावल्यां तृतीयाङ्के [अन्ते 3.19 पद्यात् पूर्वम्], वासवदत्ता-हञ्जे कंचणमाले एदेण एब्ब लदापासेण बन्धिअ गेहण एणं बह्मणं । एणं दुट्ठ-कण्णआं अ अग्गदो करेहि । [हञ्जे कञ्चनमाले एतेनैव लता-पाशेन बद्ध्वा गृहाणैनं ब्राह्मणम् । इमां दुष्ट-कन्यकां चाग्रतः कुरु ।] इत्य् अत्र वासवदत्तायाः रोषः क्रोधः ।
अथ साहसम्-
स्व-जीवित-निराकाङ्क्षो व्यापारः साहसं भवेत्
89अ
यथा मालती-माधवे-
अशस्त्र-पातम् अव्याज-पुरुषाङ्गोपकल्पितम् ।[*19]
विक्रीयते महा-मांसं गृह्यतां गृह्यताम् इदम्
[मा.मा. 5.12]
[*19] स्व-शस्त्र-पूत-निर्व्याज-पुरुषाङ्गोपकल्पितम् इति मुद्रित-मालती-माधव-पाठः ।
अत्र माधवस्य महा-मांस-विक्रय-व्यापारः साहसम् ।
अथ भयम्-
भयं त्व् आकस्मिक-त्रासः
89ब्
यथा अभिराम-राघवे द्वितीयाङ्के, (प्रविश्यापटी-क्षेपेण सम्भ्रान्तः) बटुः-अय्य परित्ताअहि परित्ताअहि । अच्चहिदे पडिदो ह्मि । [आर्य परित्राहि परित्राहि । अत्याहिते पतितोऽ स्मि ।] (इत्य् अभिद्रवति) इत्य् आदौ बटु-त्रासो भयम् ।
अथ माया-
माया कैतव-कल्पना
89च्
यथा रत्नावल्यां, राजा (आसनाद् अवतीर्य)-देवि पश्य-
एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽ यं दोर्भिर् दैत्यान्तकोऽ सौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।
एषोऽ प्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः
[र. 4.11]
इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।
अत्र संवृत्तिः-
संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत्
90अ
यथा शाकुन्तले, राजा (स्वगतम्)-अतिचपलोऽ यं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये-
क्व वयं क्व परोक्ष-मन्मथो
मृगशावैः समम् एधितो जनः ।
परिहास-विजल्पितं सखे
परमार्थेन न गृह्यतां वचः
[अ.श. 2.18]
अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।
अथ भ्रान्तिः-
भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात्
90ब्
यथा वेणी-संहारे द्वितीयाङ्के [2.10 पद्याद् अनन्तरं], भानुमती-तदो अहं तस्स अदिसैददिब्ब-रूबिणो णौलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा ।]
राजा (सवैलक्ष्यम्)-किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. 2.9] इत्य् आदि पठित्वा दिशोऽ वलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।
अथ माया-
माया कैतव-कल्पना
89च्
यथा रत्नावल्यां, राजा (आसनाद् अवतीर्य)-देवि पश्य-
एष ब्रह्मा सरोजे रजनिकर-कला-शेखरः शङ्करोऽ यं दोर्भिर् दैत्यान्तकोऽ सौ स-धनुर्-असि-गदा-चक्र-चिह्नैश् चतुर्भिः ।
एषोऽ प्य् ऐरावतस्थस् त्रिदशपतिर् अमी देवि देवास् तथान्ये नृत्यन्ति व्योम्नि चैताश् चल-चरण-रणन्-नूपुरा दिव्य-नार्यः
[र. 4.11]
इत्य् अत्र ऐन्द्रजालिक-कल्पितं कैतवं माया ।
अत्र संवृत्तिः-
संवृत्तिः स्वयम् उक्तस्य स्वयम् प्रच्छादनं भवेत्
90अ
यथा शाकुन्तले, राजा (स्वगतम्)-अतिचपलोऽ यं बटुः । कदाचिद् इमां कथाम् अन्तः-पुरेभ्यः कथयेत् । भवतु । एनम् एव वक्ष्ये-
क्व वयं क्व परोक्ष-मन्मथो
मृगशावैः समम् एधितो जनः ।
परिहास-विजल्पितं सखे
परमार्थेन न गृह्यतां वचः
[अ.श. 2.18]
अत्र दुष्यन्तेन स्वयम् उक्तस्य शकुन्तला-प्रसङ्गस्य स्वयं प्रच्छादनं संवृत्तिः ।
अथ भ्रान्तिः-
भ्रान्तिर् विपर्यय-ज्ञानं प्रसङ्गस्य ह्य् अनिश्चयात्
90ब्
यथा वेणी-संहारे द्वितीयाङ्के [2.10 पद्याद् अनन्तरं], भानुमती-तदो अहं तस्स अदिसैददिब्ब-रूबिणो णौलस्स दंसणेण उच्छुआ जादा हिद-हिअआ अ । तदो उज्झिअ तं आसनट्ठाणं लदा-मण्डपं पबिसिदुं आरद्धा । [ततोऽ हं तस्यातिशयित-दिव्य-रूपिणो मकुलस्य दर्शनेनोत्सुका जाता हृत-हृदया च । तत उज्झित्वा तदासन-स्थानं लता-मण्डपं प्रवेष्टुम् आरब्धा ।]
राजा (सवैलक्ष्यम्)-किं नामातिशयित-दिव्य-रूपिणो नकुलस्य दर्चानेनोत्सुका जाता । हृत-हृदया च । तत् कथम् अनया पापया माद्री-सुतानुरक्तया वयम् एवं विप्रलब्धाः । मूर्ख दुर्योधन कुलटा-विप्रलभ्यमानम् आत्मानं बहु मन्यमानोऽ धुना किं वक्ष्यसि । (किं कण्ठे शिथिलीकृत [वे.सं. 2.9] इत्य् आदि पठित्वा दिशोऽ वलोक्य) अहो एतद् अर्थम् एवास्याः प्रातर् एव विविक्त-स्थानाभिलाषः सखी-जन-सङ्कथासु च पक्ष-पातः । दुर्योधनस् तु मोहाद् अविज्ञात-बन्धकी-हृदय-सारः क्वापि परिभ्रान्तः । इत्य् अत्र देवी-स्वप्नस्य अनिश्चयाद् दुर्योधनस्य विपरीत-ज्ञानं भ्रान्तिः ।
अथ दूत्यम्-
दूत्यं तु सहकारित्वं दुर्घटे कार्य-वस्तुनि
91अ
यथा मालविकाग्निमित्रे [तृतीयाङ्के] विदूषकः-अलं भवदो धीरदं उज्झिअ परिदेबिदेण । दिट्ठा क्खु मए तत्तहोदीए मालबिआए पिअसही बौलाबलिआ । सुणाबिदाअ मह जं भवदा संदिट्ठं । [अलं भवतो धीरतां उज्झित्वा परिदेवितेन । दृष्टा खलु मया तत्र-भवत्या मालविकायाः प्रिय-सखी बकुलावलिका । श्राविता च मया यद् भवता सन्दिष्टम्] [3.1 पद्याद् अनन्तरम्] राजा-ततः किम् उक्तवती ।
विदूषकः-विज्ञापय भट्टारकम्à तथापि घटयिष्यामि इति । अत्र च बकुलावलिकया मालविकाग्निमित्रयोर् घटने सहकारित्वम् अङ्गीकृतम् इति दूत्यम् ।
अथ हेत्व्-अवधारणम्-
निश्चयो हेतुनार्थस्य मतं हेत्व्-अवधारणम्
91ब्
यथा शाकुन्तले, राजा-
स्त्रीणाम् अशिक्षित-पटुत्वम् अमानुषीषु
सन्दृश्यते किम् उत याः प्रतिबोधवत्यः ।
प्राग् अन्तरिक्ष-गमनात् स्वम् अपत्य-जातम्
अन्यैर् द्विजैः पर-भृताः खलु पोषयन्ति
[अ.श. 5.22]
अत्र पर-भृतानिदर्शनोपबृंहितेन स्त्रीत्व-हेतुना मृषा-भाषण-लक्षणस्यार्थस्य निश्चयो हेत्व्-अवधारणम् ।
अथ स्वप्नः-
स्वप्नो निद्रान्तरे मन्त्र-भेद-कृद् वचनं मतम्
92अ
यथा मालविकाग्निमित्रे [4.15 पद्याद् अनन्तरम्] विदूषकः (उत्स्वप्नायते)-भोदि मालबिए ! [भवति मालिके !]
निपुणिका-सुदं भट्टिणीए । कस्स एसो अत्तणिओअ-संपादण् विस्ससणिज्जो हदासो । सब्ब-कालं इदो एब्ब सोत्थिबाअण-मोदएहिं कुच्छिं पूरिअ संपदं मालबिअं उस्सिबिणाबेदि । [श्रुतं भट्टन्या । कस्यैव आत्म-नियोग-सम्पादने विश्वसनीयो हताशः । सर्व-कालम् इत एव स्वस्ति-वाचन-मोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकाम् उत्स्वप्नायते ।]
विदूषकः-इरावदिं अदिक्कमंती होहि । [इरावतीम् अतिक्रामन्ती भव ।]
इत्य् अत्र विदूषकस्योत्स्वप्नायितं स्वप्नः ।
अथ लेखः-
विवक्षितार्थ-कलिता पत्रिका लेख ईरितः
92ब्
यथा विक्रमोर्वशीये [2.11 पद्याद् अनन्तरम्] राजा (विभाव्य)-सखे ! भूर्ज-पत्र-गतोऽ यम् अक्षर-विन्यासः । इत्य् आरभ्य,
राजा-वयस्य अङ्गुलि-स्वेदेन दूष्येरन्न् अक्षराणि । धार्यताम् अयं प्रियायाः स्व-हस्त-लेखः । इत्य् अत्र उर्वशी-प्रहित-पत्रिकार्थो लेखः ।
अथ मदः-
मदस् तु मद्यजः
93अ
यथा मालविकाग्निमित्रे [3.12 पद्याद् अनन्तरम्] (ततः प्रविशति युक्त-मदा इरावती चेटी च) इत्य् अत्रेरावती-मदः ।
अथ चित्रम्-
चित्रं चाकार्स्य विलेखनम्
93ब्
यथा शाकुन्तले [6.13, पद्याद् अनन्तरम्] राजा : अकारण-परित्यागानुशय-तप्त-हृदयस् तावद् अनुकम्प्यताम् अयं जनः पुनर् दर्शनेन । इत्य् आरभ्य, राजा-
दर्शन-मुखम् अनुभवतः साक्षाद् इव तन्-मयेन हृदयेन ।
स्मृति-कारिणा त्वया मे पुनर् अपि चित्रीकृता कान्ता
इत्य् अन्तेन चित्रं स्फुटम् इति कल्याणम् ।
भाग-कल्पनयाङ्गानां मुख-प्रमुख-सन्धिषु । 93च्
प्रत्येकं नियतत्वेन योज्या तत्रैव कल्पना
सन्ध्य्-अन्तराणां विज्ञेयः प्रयोगस् त्व् अविभागतः । 94
तथैव दर्शनाद् एषाम् अनैयत्येन सन्धिषु
तद् एषाम् अविचारेण कथितो दशरूपके । 95
सन्ध्य्-अन्तराणाम् अङ्गेषु नान्तर्भावो मतो मम
सामाद्य्-उपाय-दक्षेण सन्ध्यादि-गुण-शोभिता । 96
निर्व्यूढं सिंह-भूपेन सन्ध्य्-अन्तर-निरूपणम्
अथ षट्-त्रिंशद् भूषणानि-
एवम् अङ्गैर् उपाङ्गैश् च सुश्लिष्टं रूपक-श्रियः । 97
शरीरं वस् त्व् अलङ्कुर्यात् षट्-त्रिंशद् भूषणैः स्फुटम्
भूषणाक्षर-सङ्घातौ हेतुः प्राप्तिर् उदाहृतिः । 98
शोभा संशय-दृष्टान्ताव् अभिप्रायो निदर्शनम्
सिद्धि-प्रसिद्धी दाक्षिण्यम् अर्थापत्तिर् विशेषणम् । 99
पदोच्चयस् तुल्य-तर्को विचारस् तद्-विपर्ययः
गुणातिपातोऽ तिशयो निरुक्तं गुण-कीर्तनम् । 100
गर्हणानुनयो भ्रंशो लेश-क्षोभौ मनोरथः
अनुक्ति-सिद्धिः सारूप्यं माला मधुर-भाषणम् । 101
पृच्छोपदिष्ट-दृष्टानि षट्-त्रिंशद्-भूषणानि हि
तत्र भूषणम्-
गुणालङ्कार-बहुलं भाषणं भूषणं मतम्
102
यथा रामानन्दे-
खं वस्ते कलबिङ्क-कण्ठ-मलिनं कादम्बिनी कम्बल-
चर्चां पारयतीव दर्दुर-कुलं कोलाहलैर् उन्मदम् ।
गन्धं मुञ्चति सिक्त-लाज-सुरभिर् वर्षेण सिक्ता स्थली
दुर्लक्षोऽ पि विभाव्यते कमलिनी-हासेन भासां पतिः
अत्र श्लेष-प्रसाद-समाधि-समतादीनां गुणानां उपमा-रूपकोत्प्रेक्ष-हेतूनाम् अलङ्काराणां च सम्भवाद् इदं भूषणम् ।
अथ अक्षर-सङ्घातः-
वाक्यम् अक्षर-सङ्घातो भिन्नार्थं श्लिष्ट-वर्णकम्
यथा शाकुन्तले [7.20 पद्याद् अनन्तरम्] राजा (स्वगतम्) : इयं खलु कथा माम् एव लक्ष्यीकरोति । यदि तावद् अस्य शिशोर् मातरं नामतः पृच्छामि । अथवा अन्याय्यः पर-दार-व्यवहारः । इत्य् उपक्रम्य,
(प्रविश्य मृन्-मयूर-हस्ता) तापसी-सब्ब-दमण ! सौंदलाबण्णं पेक्ख [सर्व-दमन ! शकुन्त-लावण्यं प्रेक्षस्व ।]
बालः (सदृष्टि-क्षेपम्)-कहिं वा मे अज्जू । [कुत्र वा मम माता ।]
उभे-णाम-सारिस्सेण बंचिदो माउबच्छलो । [नाम-सादृश्येन वञ्चितो मातृ-वत्सलः ।]
द्वितीया-बच्छ, इमस्स मित्तिआ-मोरस्स रंमत्तणं देक्ख त्ति भणिदोऽ सि । [वत्स, अस्य मृत्तिका-मयूरस्य रम्यत्वं पश्येति भणितोऽ सि ।]
राजा (आत्म-गतम्)-किं वा शकुन्तलेत्य् अस्य मातुर् आख्या । इत्य् अन्तम् । अत्र शकुन्त-लावण्यम् इत्य् अत्र शकुन्तला-नामाक्षराणां प्रतिभानाद् अयम् अक्षर-सङ्घातः ।
अथ हेतुः-
स हेतुर् इति निर्दिष्टो यत् साध्यार्थ-प्रसाधकः
103
यथा रत्नावल्यां, राजा (तथा कृत्वा श्रुत्वा च)-
स्पष्टाक्षरम् इदं यत्नान् मधुरं स्त्री-स्वभावतः ।
अल्पाङ्गत्वाद् अनिर्ह्रादि मन्ये वदति शारिका
अत्र शारिकालाप-साधनाय यत्न-स्पष्टाक्षरत्वादि-हेतूनां कथनाद् अयं हेतुः ।
अथ प्राप्तिः-
एक-देश-परिज्ञानात् प्राप्तिः शेषाभियोजनम्
यथा विक्रमोर्वशीये, राजा (चर्चरिकयापसृत्य अञ्जलिं बद्ध्वा) :
हंस प्रयच्छ मे कान्तां गतिर् अस्यास् त्वया हता ।
विभावितैकदेशेन देयं यद् अभियुज्यते
अत्र हंसे प्रिया-गमन-मात्र-विभाव्य-प्रिया-हरणाभियोगः प्राप्तिः ।
अथ उदाहरणम्-
वाक्यं यद् गूढ-तुल्यार्थं तद् उदाहरणं मतम्
यथा शाकुन्तले, राजा (स्वगतम्)-कथम् आत्मापहारं करोमि ? भवतु, एवं तावद् एनां वक्ष्ये । (प्रकाशम्) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽ हम् अविघ्न-क्रियोपलम्भाय धर्मारण्यम् इदम् आयातः । इत्य् आरभ्य,
शकुन्तला-तुम्हे अवेध । किं बि हिअए करिअ मतेध । ण बो बअणं सुणिस्सं । [युवाम् अपेतम् । किम् अपि हृदये कृत्वा मन्त्रयेथे । न युवयोर् वचनं श्रोष्यामि ।] इत्य् अन्तम् [1.21 पद्याद् अनन्तरम्] । अत्र साभिप्राय-गूढार्थतया तद् इदम् उदाहरणम् ।
अथ शोभा-
शोभा स्वभाव-प्राकट्यं यूनोर् अन्योन्यम् उच्यते
यथा रत्नावल्यां, सागरिका (राजानं दृष्ट्वा सहर्षं स-साध्वसं स-कम्पं च स्वगतम्)-एणं पेक्खिअ अदिसद्धसेण ण सक्कणोमि पदादो पदं बि गन्तुं । ता किं वा एत्थ करिस्सं ? [एनं प्रेक्ष्य अतिसाध्वसेन न शक्नोमि पदात् पदम् अपि गन्तुम् । तत् किं वा अत्र करिष्यामि ?]
विदूषकः (सागरिकां दृष्ट्वा)-अहो अच्चरिअं । ईरिसं कण्णारअणं माणुसलोए ण दीसदि । भो बअस्स तह तक्केमि पआवैणोबि एदं णिम्माबिअ पुणो पुणो बिह्मओ संबुत्तो त्ति । [अहो आश्चर्यम् । ईदृशं कन्या-रत्नं मानुस-लोके न दृश्यते । भो वयस्य तस्मात् तर्कयामि प्रजापतेर् अपि इदं निर्माय पुनः पुनर् विस्मयः संवृत्त इति ।]
राजा-सखे ममाप्य् एतद् एव मनसि वर्तते [2.15 पद्यात् पूर्वम्] इत्य् आदिना सागरिका-वत्सराजयोर् अन्योन्य-निर्वर्णनेन रूपातिशय-प्रकटनं शोभा ।
अथ संशयः-
अनिश्चयान्तं यद् वाक्यं संशयः स निगद्यते
105
यथा मालती-माधवे, मकरन्दः-
याता भवेद् भगवती-भवनं सखी नो
जीवन्त्य् अथैष्यति न वेत्य् अभिशङ्कितोऽ स्मि ।
प्रायेण बान्धव-सुहृत्-प्रिय-सङ्गमादि
सौदामिनी-स्फुरण्-चञ्चलम् एव सौख्यम्
इत्य् अत्र मालती कामन्धक्याः गृहं गता वा जीवति वा न वेति संशयेन वाक्य-समाप्तेर् अयं संशयः ।
अथ दृष्टान्तः-
स्व-पक्षे दर्शनं हेतोर् दृष्टान्तः साध्य-सिद्धये
106अ
यथा शाकुन्तले, राजा-
शम-प्रधानेषु तपोधनेषु
गूढं हि दाहात्मकम् अस्ति तेजः ।
स्पर्शानुकूला इव सूर्य-कान्तास्
तद् अन्य-तेजोऽ भिभवाद् वमन्ति
[अ.श. 2.7]
इत्य् अत्र तपोधनेषु गूढ-दाहात्मक-तेजः-सद्भावे साध्ये तत्-साधकस्य अन्य-तेजस् तिरस्कार-जनित-तेजः-समुद्गार-रूपस्य हेतोः सूर्य-कान्तेषु दर्शितत्वाद् दृष्टान्तः ।
अथ अभिप्रायः-
अभिप्रायस् त्व् अभूतार्थो हृद्यः साम्येन कल्पितः । 106ब्
अभिप्रायं परे प्राहुर् ममतां हृद्य-वस्तुनि
यथा रत्नावल्यां, राजा-
किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं
वृद्धिं वा झषकेतनस्य कुरुते नालोक-मात्रेण किम् ।
वक्त्रेन्दौ तव सत्य् अयं यद् अपरः शीतांशुर् उज्जृम्भते
दर्पः स्याद् अमृतेन चेद् इह तद् अप्य् अस्त्य् एव बिम्बाधरे
[र. 3.13]
इत्य् अत्र चन्द्र-साम्येन मुखे अमृत-कल्पनाद् अयम् अभिप्रायः । अथवा तत्रैवातिहृद्य-बिम्बाधरे राज्ञो ममत्वम् अभिप्रायः ।
अथ निदर्शनं-
यथार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । 107
परोपेक्षा-व्युदासार्थं तन् निदर्शनम् उच्यते
यथा शाकुन्तले, राजा-उपपद्यते-
मानुषीषु कथं वा स्याद् अस्य रूपस्य सम्भवः ।
न प्रभा-तरल-ज्योतिर् उदेति वसुधा-तलात्
[अ.श. 1.22]
अत्र प्रति-वस्तु-न्यायेन सदृश-वस्तु-कीर्तनं निदर्शनम् ।
अथ सिद्धिः-
अतर्कितोपपन्नः स्यात् सिद्धिर् इष्टार्थ-सङ्गमः
108
यथा मालविकाग्निमित्रे, विदूषकः (दृष्ट्वा)-ही ही बअस्स एदं खु सीहुपाणु-बेज्जिदस्स मच्छआडिआ उबणदा । [आश्चर्यं आश्चर्यं वयस्य एतत् खलु सीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता ।]
राजा-अये किम् एतत् ?
विदूषकः-एसा णादिपरिक्खिदबेसा ऊसुअबअणा एआइणी मालबिआ अदूरे बट्टदि । [एषा नादिपरिष्कृत-वेषा उत्सुक-वदना एकाकिनी मालविका अदूरे वर्तते ।]
राजा (सहर्षं)-कथं मालविका ।
विदूषकः-अह इं । [अथ किम् ।]
राजा-शक्यम् इदानीं जीवितम् अवलम्बितम् [3.5 पद्याद् अनन्तरम्] इत्य् अत्र इरावती-सङ्केतं गच्छतो राज्ञः मालविका-दर्शन-सिद्धिर् अचिन्तिता सिद्धिः ।
अथ प्रसिद्धिः-
प्रसिद्धिर् लोक-विख्यातैर् वाक्यैर् अर्थ-प्रसाधनम्
109अ
यथा शाकुन्तले, राजा-
सरसिजम् अनुविद्धं शवलेनापि रम्यं
मलिनम् अपि हिमांशोर् लक्ष्म लक्ष्मीं तनोति ।
इत्यम् अधिक-मनोज्ञा बल्कलेनापि तन्वी
किम् इव हि मधुराणां मण्डनं नाकृतीनाम्
अत्र शवलाद्य्-अनुवेधेऽ पि रमणीयतया प्रसिद्धानां सरसिजादीनां कथनेन शकुन्तला-मनोज्ञता-साधनं प्रसिद्धिः ।
अथ दाक्सिण्यम्-
चित्तानुवर्तनं यत्र तद् दाक्षिण्यम् इतीरितम्
109ब्
यथा शाकुन्तले, सेनापतिः-जयतु स्वामी ।
राजा-भद्र सेनापते मन्दोत्साहः कृतोऽ स्मि मृगयापवादिना माढव्येन ।
सेनापतिः (विदूषकं प्रति, जनान्तिकम्)-सखे स्थिर-प्रतिबन्धो भव । अहं तावत् स्वामिनश् चित्त-वृत्तिम् अनुवर्तिष्ये । (प्रकाशम्) प्रलपत्व् एष वैधेयः । ननु प्रभुर् एव निदर्शनम् ।
मेदश् छेद-कृशोदरं लघु भवत्य् उत्थान-योग्यं वपुः
सत्त्वानाम् अपि लक्ष्यते विकृतिमच् चित्तं भय-क्रोधयोः ।
उत्कर्षः स च धन्विनां यद् इषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग् विनोदः कुतः
[अ.श. 2.5]
इत्य् अत्र सेनापतेः राज-चित्तानुवर्तनं दाक्षिण्यम् ।
अथ अर्थापत्तिः-
उक्तार्थानुपपत्त्याऽन्यो यस्मिन्न् अर्थः प्रकल्प्यते ।
वाक्य-माधुर्य-संयुक्ता सार्थापत्तिर् उदाहृता
110
यथा रत्नावल्यां, विदूषकः-भोः एसा क्खु तुए अपुब्बा सिरी समासादिदा । [भो एषा खलु त्वया अपूर्वा श्रीः समासादिता ।]
राजा-वयस्य, सत्यम् ।
श्रीर् एषा पाणिर् अप्य् अस्याः पारिजातस्य पल्लवः ।
कुतोऽ न्यथा स्रवत्य् एष स्वेद-च्छद्मामृत-द्रवः
[र. 2.17]
अत्र स्वेद-च्छद्मामृत-द्रवोत्पत्तेर् अन्यथानुपपत्त्या पाणेः पारिजातत्व-कल्पनाद् इयम् अर्थापत्तिः ।
अथ विशेषणम्-
सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते ।
विशेष-युक्तं वचनं विज्ञेयं तद् विशेषणम्
111
यथा मालती-माधवे, माधवः (अभिलिख्य प्रदर्शयति)
मकरन्दः (स-कौतुकम्)-कथम् अचिरेणैव निर्माय लिखितः श्लोकः । (वाचयति)
जगति जयिनस् ते ते भावा नवेन्दु-कलादयः
प्रकृति-मधुराः सन्त्य् एवान्ये मनो मदयन्ति ये ।
मम तु यद् इयं याता लोके विलोचन-चन्द्रिका
नयन-विषयं जन्मन्य् एकः स एव महोत्सवः
[मा.मा. 1.39]
इत्य् अत्र इन्दुकलादीन् मनो-मद-हेतुतया प्रसिद्धान् उक्त्वा तत्-समान-माधुर्यायाम् अपि मालत्यां विशेष-कथनाद् इदं विशेषणम् ।
अथ पदोच्चयः-
बहूनां तु प्रयुक्तानां पदानां बहुभिः पदैः ।
उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः
112
यथा कर्पूर-मञ्जर्याम्, राजा (वाचयति)-
सह दिवस-णिसाहिं दीहरा सास-दंडा
सह मणि-बलएहिं बाह-धारा गलंति ।
तुह सुहअ बिओए तीअ उब्बेअणीए
सहअ तणु-लदाए दुब्बला जीविदासा
[क.म. 2.9]
[सह दिवस-निशाभ्यां दीर्घाः श्वास-दण्डाः
सह मणि-वलयैर् बाष्प-धारा गलन्ति ।
तव सुभग वियोगे तस्या उद्वेगिन्याः
सह च तनु-लतया दुर्बला जीविताशा ॥]
इत्य् अत्र श्वास-दण्डादीनां दीर्घ-भावादि-क्रियासु दिवस-निशादिभिः सह समावेशाद् अयं पदोच्चयः ।
अथ तुल्यार्थकः-
रूपकैर् उपमाभिर् वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ-संस्पर्शस् तुल्य-तर्क इतीरितः
113
यथा मालती-माधवे, माधवः (सहर्षम्)-दिष्ट्या लवङ्गिका-द्वितीया मालत्य् अपि (परागता)-
आश्चर्यम् उत्पल-दृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर् जदिमानम् एत्य ।
जात्येन चन्द्रमणिनेव मही-धरस्य सन्धार्यते द्रव-मयो मनसा विकारः
[मा.मा. 3.5]
इत्य् अत्र इन्दु-चन्द्रकान्ताद्य्-उपमया परत्यक्षस्य स्नेह-रूप-विकारस्य कथनात् तुल्य-तर्कः ॥
अथ विचारः-
विचारस् त्व् एक-साध्यस्य बहु-साधन-वर्णनम्
114अ
यथा मालती-माधवे, मकरन्दः-वयस्य माधव सर्वथा समाश्वसिहि-
या कौमुदी नयनयोर् भवतः सुजन्मा
तस्या भवान् अपि मनोरथ-लब्ध-बन्धुः ।
तत् सङ्गमं प्रति सखे न हि संशयोऽ स्ति
यस्मिन् विधिश् च मदनश् च कृताभियोगः
[मा.मा. 1.37]
अत्र सङ्गम-रूप-साध्यार्थ-सिद्धये परस्परानुराग-सिद्धि-मदन-रूपाणाम् उपायानां सद्-भाव-कथनाद् विचारः ।
अथ तद्-विपर्ययः-
विचारस्यान्यथाभावो विज्ञेयस् तद्-विपर्ययः
114
यथा रामानन्दे-
व्यर्थं यत्र कपीन्द्र-सख्यम् अपि मे वीर्यं कपीनाम् अपि
प्रज्ञा जाम्बवतोऽ पि यत्र न गतिः पुत्रस्य वायोर् अपि ।
मार्गं यत्र न विश्वकर्म-तनयः कर्तुं नलोऽ पि क्षमः
सौमित्रेर् अपि पत्रिणाम् अविषयस् तत्र प्रिया क्वापि मे
अत्र बहूपाय-सामर्थ्याभाव-कथनाद् विचार-विपर्ययः स्पष्ट एव ।
अथ गुणातिपातः-
गुणातिपातो व्यत्यस्त-गुणाख्यानम् उदाहृतम्
115अ
यथा वेणी-संहारे, (ततः प्रविशतो भीमार्जुनौ) भीमः-भो भो अलम् अलम् आशङ्कया ।
कर्ता द्यूत-च्छलानां जतु-मय-शरणोद्दीपनः सोऽ तिमानी कृष्णाकेशोत्तरीय-व्यपनयन-मरुत् पाण्डवा यस्य दासाः ।
राजा दुःशासनादेर् गुरुर् अनुज-शतस्याङ्ग-राजस्य मित्रं क्वास्ते दुर्योधनोऽ सौ कथयत न रुषा द्रष्टुम् अभ्यागतौ स्वः
[वे.सं. 5.26]
अत्र अधिक्षेप-वाक्यत्वाद् व्यत्यस्त-गुणाख्यानं स्पष्टम् एव ।
अथ अतिशयः-
बहून् गुणान् कीर्तयित्वा सामान्येन च संश्रयान् । 115
विशेषः कीर्त्यते यत्र ज्ञेयः सोऽ तिशयो बुधैः
यथा विक्रमोर्वशीये, राजा (स-हर्षम् आकर्ण्य)-अनेन प्रियोपलब्धि-शंसिना मन्द्र-कण्ठ-गर्जितेन समाश्वासितोऽ स्मि । साधर्म्याच् च भूयसी मे त्वयि प्रीतिः ।
माम् आहुः पृथिवी-भृताम् अधिपतिं नागाधिराजो भवान्
अव्युच्छिन्न-पृथु-प्रवृत्ति भवतो दानं ममाप्य् अर्थिषु ।
स्त्री-रत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा
सर्वं माम् अनु ते प्रिया-विरहजां त्वं तु व्यथां मानुभूः
[वि.उ. 4.47]
इत्य् अत्र समान-धर्मणि गजाधिराजे पुरूरवसा प्रिया-विरहाभाव-कथनाद् अतिशयः ।
अथ निरुक्तिः[*20]-
निरुक्तिर् निरवद्योक्तिर् नामान्य् अर्थ-प्रसिद्धये
116
[*20] निरुक्तम् इन् थे प्रिन्तेद् एदितिओन्.
यथा शाकुन्तले, प्रियंवदा-हला सौंदले ! एत्थ एब्ब दाव मुहुत्तअं चिट्ठ । जाब तुए उबगदाए लदा-सणाहो बिअ अअं केसर-रुक्खओ पडिभादि । [हला शकुन्तले, अत्रैव तावन् मुहूर्तं तिष्ठ । यावत् त्वयोपगतया लता-सनाथ इवायं केसर-वृक्षकः प्रतिभाति ।]
शकुन्तला-अदो खु पिअंबदासि तुमं । [अतः खलु प्रियंवदासि त्वम् ।] [1.18 पद्यात् पूर्वम्] । अत्र प्रियंवदायाः प्रिय-भाषणाद् इदं नाम-धेयम् इत्य् उक्तिर् निरुक्तिः ।
अथ गुण-कीर्तनम्-
लोके गुणातिरिकानां बहूनां यत्र नामभिः ।
एकोऽ पि शब्द्यते तत् तु विज्ञेयं गुण-कीर्तनम्
117
यथा उत्तर-राम-चरिते, वासन्ती-
त्वं जीवितं त्वम् असि मे हृदयं द्वितीयं
त्वं कौमुदी नयनयोर् अमृतं त्वम् अङ्गे ।
इत्य् आदिभिः प्रिय-शतैर् अनुरुध्य मुग्धां
ताम् एव शान्तम् अथवा किम् इहोत्तरेण
[उ.रा.च. 3.26]
इत्य् अत्र अमृत-कौमुदी-प्रभृतिनामभिः सीता-शंसनं गुण-कीर्तनम् ।
अथ गर्हणम्-
यत्र सङ्कीर्तयन् दोषान् गुणम् अर्थेन दर्शयेत् । गुणान् वा कीर्तयन् दोषान् दर्शयेद् गर्हणं तु तत्
118
यथा मालती-माधवे, लवङ्गिका-भअबदि किसण-चौद्दसी-रअणि-महा-मसाण-संचार-णिब्बडिअ-बिसम-ब्बबसाओ णिट्ठाबिद-चण्ड-पासण्ड्-उद्दण्ड-भुअ-दण्ड-साहसो साहसिओ क्खु एसो । अदो क्खु मे पिअ-सही उक्कंपिदा । [भगवति कृष्ण-चतुर्दशी-रजनि-महा-श्मशान-सञ्चार-पृथग्-भूत-विषम-व्यवसायो निष्ठापित-चण्ड-पाषण्डोद्दण्ड-भुज-दण्ड-साहसः साहसिकः खलु एषः । अतः खलु मे प्रिय-सखी उत्कम्पिता ।]
मकरन्दः (स्वगतम्)-साधु लवङ्गिके साधु । स्थाने खल्व् अनुरागोपकारयोर् गरीयसोर् उपन्यासः । [6.15 पद्याद् अनन्तरम्]
इत्य् अत्र महा-मांस-विक्रय-साहसस्य दोष-रूपेण कथेनेऽ पि माधवानुरागोत्पादन-गुणतया पर्यवसितम् इदं प्रमुख-गर्हणत्वाद् गर्हणम् ।
गुण-कीर्तने दोष-पर्यवसानम्, यथा मालती-माधवे, मदयन्तिका (तथा कृत्वा)-दुम्मणाअदि वा इअं वामसीला । [दुर्मनायते वा इयं वाम-शीला ।]
लवङ्गिका-कहं णाम णव-वहू-विस्संभणोबाअजाणअं लडहं बिअड्ढ-महुर-भासणं अरोसणं अकादरं दे भादरं भत्तारं समासादिअ दुम्मणाइस्सदि मे पिअसही । [कथं नाम नव-वधू-विस्रम्भनोपाय-ज्ञं लटहं विदग्ध-मधुर-भाषणम् अरोषणम् अकातरं ते भ्रातरं भर्तारं समासाद्य दुर्मणायिष्यते मे प्रिय-सखी ।]
मदयन्तिका-पेक्ख बुद्ध-रक्खिदे ! बिप्पदीबं उबालभीआमो । [पश्य बुद्ध-रक्षिते ! विप्रतीपम् उपालभ्यामहे ।] [सप्तमाङ्के उपक्रमे]
इत्य् अत्र मुखतो गुण-कीर्तनम् अप्य् अन्ततो दोषायेति गर्हणम् इदम् ।
अथ अनुनयः-
अभ्यर्थना-परं वाक्यं विज्ञेयोऽ नुनयो बुधैः
119अ
यथा वेणि-संहारे, धृतराष्ट्रः-सञ्जय ! मद्-वचनाद् ब्रूहि भारद्वाजम् अश्वत्थामानम्-
स्मरति न भवान् पीतं स्तन्यं विभज्य सहामुना
मम च मृदितं क्षौमं बाल्ये त्वद्-अङ्ग-विवर्तनैः ।
अनुज-निधन-स्फीताच् छोकाद् अतिप्रणयाच् च यद्
वचन-विकृतिष्व् अस्य क्रोधो मुधा क्रियते त्वया
[वे.सं. 5.47]
इत्य् अत्र अश्वत्थाम-प्रार्थनम् अनुनयः ।
अथ भ्रंशः-
पतनं प्रकृताद् अर्थाद् अन्यस्मिन् भ्रंश ईरितः
119ब्
यथा प्रसन्न-राघवे, रावणः (संवृत्त-निज-रूपः पुरुष-रूपेण प्रविष्टः ।)-कथय क्व तावत् कर्णान्त-निवेशनीय-गुणं कन्या-रत्नं कार्मुकं च ।
मञ्जरीकः-इदं तावत् कार्मुकम् । कन्या तु चरमं लोचन-पथम् अवतरिष्यति ।
रावणः (स-संरम्भम्)-धिङ् मूर्ख ! कथं रे राशि-नक्षत्र-पाठकानां गोष्ठीं न दृष्टवान् असि । तेऽ पि कन्याम् एव प्रथमं प्रकटयन्ति । चरमं धनुः ।
मञ्जरीकः (स्वगतम्)-कथम् अयं वाचाटताम् एव प्रकटयति । [1.32 पद्याद् अनन्तरम्]
इत्य् अत्र रावणेन [पुरुष-रूपेण प्रविष्टेन] धनुः-कन्ययोः प्रकृतम् अर्थं परित्यज्य राशि-लक्षणस्यार्थस्य प्रसञ्जनाद् अयं भ्रंशः ।
अथ लेशः-
लेशः स्याद् इङ्गित-ज्ञान-कृद् विशेषणवद् वचः
120अ
यथा मालती-माधवे, कामन्दकी-
असौ विद्याशाभिः शिशुर् अपि विनिर्गत्य भवनाद्
इहायातः सम्प्रत्य् अविकल-शरच्-चन्द्र-वदनः ।
यदालोक-स्थाने भवति पुरम् उन्माद-तरलैः
कटाक्षैर् नारीणां कुवलयित-वातायनम् इव
[मा.मा. 2.11]
इत्य् अत्र कामन्दक्या मालत्य्-अनुराग-ज्ञान-निवेदनस्य उन्माद-तरलैर् इति विशेषणस्य कथनाद् अयं लेशः ।
अत्र क्षोभः-
क्षोभस् त्व् अन्य-गते हेताव् अन्यस्मिन् कार्य-कल्पनं
120
यथा रत्नावल्यां, राजा (उपसृत्य उद्बन्धनम् अपनीय)-देवि ! किम् इदं अकार्यं क्रियते ?
मम कण्ठ-गताः प्राणाः पाशे कण्ठ-गते तव ।
अनर्थार्थ-प्रयत्नोऽ यं त्यज्यतां साहसं प्रिये
[र. 3.16]
अत्र पाशे वासवदत्ता-कण्ठ-गते तत्-कार्य-भूतस्य प्राणानां कण्ठ-गतत्वस्य वत्स-राजेन स्वस्मिन् कल्पनात् क्षोभः ।
अथ मनोरथः-
मनोरथस् तु व्याजेन विवक्षित-निवेदनम्
121अ
यथा शाकुन्तले, शकुन्तला (पदान्तरं गत्वा परिवृत्य प्रकाशम्)-लदा-बल्लअ संदाब-हारअ आमंतेमि तुमं भूओबि पैर्भोअस्स । [लता-वलय सन्ताप-हारक आमन्त्रये त्वां भूयोऽ पि परिभोगाय ।] [3.21 पद्याद् अनन्तरम्]
अत्र लता-मण्डप-व्याजेन दुष्यन्तामन्त्रणं मनोरथः ।
अथ अनुक्त-सिद्धिः-
प्रस्तावनैव शेषोऽ र्थो यत्रानुक्तोऽ पि गृह्यते । 121
अनुक्त-सिद्धिर् एषा स्याद् इत्य् आह भरतो मुनिः[*21]
[*21] नाट् 16.169 = प्रस्तावेनैव शेषोऽ र्थः कृत्स्नो यन् न प्रतीयते । वचनेन विनानुक्त-सिद्धिः सा परिकीर्तिता ॥
अथ सारूप्यं-
दृष्ट-श्रुतानुभूतार्थ-कथनादि-समुद्भवम् । 122
सादृश्यं यत्र सङ्क्षोभात् तत् सारूप्यं निरूप्यते
यथा वेणि-संहारे, (प्रविश्य गदा-पाणिः) भीमः--तिष्ठ तिष्ठ भीरु ! क्वाधुना गम्यते ? (इति केशेषु ग्रहीतुम् इच्छति)
युधिष्ठिरः (बलाद् भीमम् आलिङ्ग्य)-दुरात्मन् ! भीमार्जुन-शत्रो दुर्योधन-हतक !
आशैशवाद् अनुदिनं जनितापराधः
क्षीबो बलेन भुजयोर् हत-राज-पुत्र ।
आसाद्य मेऽ न्तरम् इदं भुज-पञ्जरसय
जीवन् प्रयासि न पदात् पदम् अद्य पाप
[वे.सं. 6.38]
भीमः-अये कथम् आर्यः सुयोधन-शङ्कया निर्दयं माम् आलिङ्गति ?
इत्य् अत्र चार्वाक-श्रावित-दुर्योधन-विजय-सङ्कथा-सङ्क्षेपेण युधिष्ठिरादीनां भीमे सुयोधन-बुद्धि-कथनाद् इदं सारूप्यम् ।
अथ माला-
ईप्सितार्थ-प्रसिद्ध्य्-अर्थं कथ्यन्ते यत्र सूरिभिः । 123
प्रयोजनान्य् अनेकानि सा मालेत्य् अभिधीयते
यथा धनञ्जय-विजये-
गो-रक्षणं सम-दशात्रव-मान-भङ्गः
प्रीतिर् विराट-नृपतेर् उपकारिणश् च ।
पर्याप्तम् एकम् अपि मे समर्तोसवाय
सर्वं पुनर् मिलितम् अत्र ममैव भाग्यैः
[ध.वि. 16]
अथ मधुर-भाषणम्-
यत् प्रसन्नेन मनसा पूज्यं पूजयितुर् वचः । 124
स्तुति-प्रकाशनं तत् तु ज्ञेयं मधुर-भाषणम्
यथा अनर्घ-राघवे, दशरथः (सप्रश्रयम्)-भगवन् विश्वामित्र !
कच्चित् कान्तार-भाजां भवति परिभवः कोऽ पि शौवापदो वा
प्रत्यूहेन क्रतूनां न खलु मख-भुजो भुञ्जते वा हवींषि ।
कर्तुं वा कच्चिद् अन्तर् वसति वसुमती-दक्षिणः सप्त-तन्तुर्
यत् सम्प्राप्तोऽ सि किं वा रघु-कुल-तपसाम् ईदृशोऽ यं विवर्तः
[अ.रा. 1.25]
विश्वामित्रः (विहस्य)-
जनयति त्वयि वीर दिशां पतीन्
अपि गृहाङ्गण-मात्र-कुटुम्बिनः ।
रिपुर् इति श्रुतिर् एव न वास्तवी
प्रतिभयोन्नतिर् अस्तु कुतस् तु नः
[अ.रा. 1.26]
इत्य् आदाव् अन्योन्यं पूजा-वचनं मधुर-भाषणम् ।
अथ पृच्छा-
प्रश्नेनैवोत्तरं यत्र सा पृच्छा परिकीर्तिता
125
यथा-
सर्व-क्षिति-भृतां नाथ दृष्टा सर्वाङ्ग-सुन्दरी ।
रामा रम्ये वनान्तेऽ स्मिन् मया विरहिता त्वया
[वि.उ. 4.51]
इत्य् अत्र पर्वतानां नाथ मया विरहिता प्रिया त्वया दृष्टेति प्रश्ने राज्ञां नाथ त्वया विरहिता मया दृष्टेत्य् उत्तरस्य प्रतीयमानत्वाद् इयं पृच्छा ।
अथ उपदिष्टम्-
प्रतिगृह्य तु शास्त्रार्थं यद् वाक्यम् अभिधीयते ।
विद्वन्-मनोहरं स्वन्तम् उपदिष्टं तद् उच्यते
126
यथा शाकुन्तले, शकुन्तला (भयं नाटयन्ती)-पौरव रक्ख अबिणअं । मअण-संतत्ताबि ण हु अत्तणो पहबामि । [पौरव रक्ष अविनयम् । मदन-सन्तप्तापि न खल्व् आत्मनः प्रभवामि ।]
राजा-भीरु अलं गुरु-जनाद् भयेन । न ते विदित-धर्मा हि भगवान् दोषम् अत्र ग्रहीष्यति कुलपतिः । अपि च-
गान्धर्वेण विवाहेन बह्व्यो राजर्षि-कन्यकाः ।
श्रूयन्ते परिणीतास् ताः पितृभिश् चानुमोदिताः
[अ.श. 3.20]
इत्य् अत्र शास्त्रानुरोधेनैव प्रवृत्तत्वाद् इदम् उपदिष्टम् ।
अथ दृष्टम्-
यथादेशं यथा-कालं यथा-रूपं च वर्ण्यते ।
यत् प्रत्यक्षं परोक्षं वा तद् दृष्टम् दृष्टवन् मतम्
127
यथा मालविकाग्निमित्रे, राजा-अहो सर्वास्व् अवस्थासु चारुता शोभान्तरं पुष्यति । तथा हि-
वामं सन्धि-स्तिमित-वलयं न्यस्य हस्तं नितम्बे
कृत्वा श्यामा-विटप-सदृशं स्रस्त-मुक्तं द्वितीयम् ।
पादाङ्गुष्ठालुलित-कुसुमे कुट्टिमे पातिताक्षं
नृत्ताद् अस्याः स्थितम् अतितरां कान्तम् ऋज्वायतार्धम्
[मा.अ.मि. 2.6]
इत्य् अत्र इतर-समक्षं स्थितायाः संस्थान-जाति-वर्णनाद् इदं प्रत्यक्ष-दृष्टम् ।
अप्रत्यक्ष-दृष्टं, यथा पद्मावत्यां-
व्यत्यस्त-पाद-कमलं वलित-त्रिभङ्गी-
सौभाग्यम् अंस-विरली-कृत-केश-पाशम् ।
पिञ्छावतंसम् उररीकृत-वंश-नालं
व्यामोहनं नवम् उपैमि कृपा-विशेषम्
इत्य् अत्र अप्रत्यक्षस्यैव गोपाल-सुन्दरस्य संस्थान-विशेष-जाति-वर्णनाद् अपि दृष्टवद् आभासनाद् इदम् अप्रत्यक्ष-दृष्टम् ।
श्री-सिंह-भूपेन कवीश्वराणां
विश्राणितानेक-विभूषणेन ।
षट्-त्रिंशद् उक्तानि हि भूषणानि
स-लक्ष्म-लक्ष्याणि मुनेर् मतेन
128
साक्षद् एवोपदेशेन प्रायो धर्म-समन्वयात् ।
अङ्गाङ्गि-भाव-सम्पन्न-समस्त-रस-संश्रयात्
129
प्रकृत्य्-अवस्था-सन्ध्यादि-सम्पत्त्य्-उपनिबन्धनात् ।
आहुः प्रकरणादीनां नाटकं प्रकृतिं बुधाः
130
अतिदेश-बल-प्रापत-नाटकाङ्गोपजीवनात् ।
अन्यानि रूपकाणि स्युर् विकारा नाटकं प्रति
131
अतो हि लक्षणं पूर्वं नाटकस्याभिधीयते ।
दिव्येन वा मानुषेण धीरोदात्तेन संयुतम्
132
शृङ्गार-वीरान्यतर-प्रधान-रस-संश्रयम् ।
ख्यातेति वृत्त-सम्बद्धं सन्धि-पञ्चक-संयुतम्
133
प्रकृत्य्-अवस्था-सन्ध्य्-अङ्ग-सन्ध्य्-अन्तर-विभूषणैः ।
पताका-स्थानकैर् वृत्ति-तद्-अङ्गैश् च प्रवृत्तिभिः
134
विष्कम्भकादिभिर् युक्तं नाटकं तत् त्रिवर्गदम् ।
तद् एतन् नाटकारम्भ-प्रकारो वक्ष्यते मया
135
विधेर् यथैव सङ्कल्पो मुखतां प्रतिपद्यते ।
प्रधानस्य प्रबन्धस्य तथा प्रस्तावना स्मृता
136
अर्थस्य प्रतिपाद्यस्य तीर्थं प्रस्तावनोच्यते ।
प्रस्तावनायास् तु मुखे नान्दी कार्या शुभावहा
137
आशीर्नमस्क्रिया-वस्तुनिर्देशान्यतमा स्मृता ।
चन्द्रनामाङ्किता प्रायो मङ्गलार्थ-पदोज्ज्वला
138
अष्टाभिर् दशभिश् चेष्टा सेयं द्वादशभिः पदैः ।
समैर् वा विषमैर् वापि प्रयोज्येत्य् अपरे जगुः
139
तत्राशीर्-अन्विता नान्दी यथाभिराम-राघवे-
क्रियासुः कल्याणं भुजग-शयनाद् उत्थितवतः
कटाक्षाः कारुण्य-प्रणय-रस-वेणी-लहरयः ।
हरेर् लक्ष्मी-लीला-कमल-दल-सौभाग्य-सुहृदः
सुधा-सार-स्मेराः सुचरित-विशेषैक-सुलभाः
नमस्क्रियावती नान्दी, यथा उत्तर-राम-चरिते-
इदं कविभ्यः पूर्वेभ्यह् नमो-वाकं प्रशास्महे ।
वन्देमहि च तां वाणीम् अमृताम् आत्मनः कलाम्
[उ.रा.च. 1.1]
वस्तु-निर्देशवती नान्दी, यथा प्रबोध-चन्द्रोदये-
अन्तर्-नाडी-नियमित-मरुल्-लङ्घित-ब्रह्म-रन्ध्रं
स्वान्ते शान्ति-प्रणयिनि समुन्मीलद्-आनन्द-सान्द्रम् ।
प्रत्यग्-ज्योतिर् जयति यमिनः स्पष्ट-लालाट-नेत्र-
व्याज-व्यक्तीकृतम् इव जगद्-व्यापि चन्द्रार्ध-मौलेः
[प्र.च. 1.2]
अष्टा-पदान्विता, यथा महावीर-चरिते-
अथ स्वस्थाय देवाय नित्याय हत-पाप्मने ।
त्यक्त-क्रम-विभागाय चैतन्य-ज्योतिषे नमः
[म.वी.च. 1.1]
दश-पदान्विता यथा अभिराम-राघवे क्रियासुः कल्याणम् इत्य् आदि । द्वादश-पदान्विता, यथा अनर्घ-राघवे-
निष्प्रत्यूहम् उपास्महे भगवतः कौमोदकी-लक्ष्मणः
कोक-प्रीति-चकोर-पारण-पटू ज्योतिष्मती लोचने ।
याभ्याम् अर्ध-विबोध-मुग्ध-मधुर-श्रीर् अर्ध-निद्रायितो
नाभी-पल्वल-पुण्डरीक-मुकुलः कम्बोः सपत्नी-कृतः
[अ.रा. 1.1]
अत्रैव मङ्गलार्थ-पद-प्रायत्वं चन्द्रनामाङ्कितत्वं च द्रष्टव्यम् ।
नान्द्य्-अन्ते तु प्रविष्टेन सूत्रधारेण धीमता ।
प्रसाधनाय रङ्गस्य वृत्तिर् योज्या हि भारती
140
अङ्गान्य् अस्याश् च चत्वारि भरतेनावभाषिरे ।
प्ररोचनामुखे चैव वीथी-प्रहसने इति
141
वीथी प्रहसनं स्व-स्व-प्रसङ्गे वक्ष्यते स्फुटम् ।
प्ररोचना तु सा प्रोक्ता प्रकृतार्थ-प्रशंसया
142
सदस्य-चित्त-वृत्तीनां संमुखीकरणं च यत् ।
प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । 143
अचेतनौ देश-कालौ कालो मधु-शरन्-मुखः
तत्र वसन्त-प्रशंसया प्ररोचना, यथा पद्मावत्यां-
राजत्-कोरक-कण्टका मधुकरी-झङ्कार-हुङ्कारिणीर्
आलोल-स्तवक-स्तनीर् अविरलाधूत-प्रवालाधराः ।
आलिङ्गन्ति लता-वधूर् अतितराम् आसन्न-शाखा-करैर्
अत्यारूढ-रसालसाल-रसिकाः कान्ते वसन्तोदये
शरत्-प्रशंसे, यथा वेणी-संहारे-
सत्-पक्षां मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे
[वे.सं. 1.6]
[अथ देशः]
देशस् तु देवताराज-तीर्थ-स्थानादिर् उच्यते । 144
तद् अद्य काल-नाथस्य यात्रेत्यादिषु लक्ष्यताम्
चेतनास् तु कथा-नाथ-कवि-सभ्य-नटाः स्मृताः । 145
कथा-नाथास् तु धर्मार्थ-रस-मोक्षोपयोगिनः
धर्मोपयोगिनस् तत्र युधिष्ठिर-नलादयः । 146
अर्थोपयोगिनो रुद्र-नरसिंह-नृपादयः
रसोपयोगिनो विद्याधर-वत्सेश्वरादयः । 147
मोक्षोपयोगिनो राम-वासुदेवादयो मताः
एके त्व् अभेदम् इच्छन्ति धर्म-मोक्षोपयोगिनोः
148
[चतुर्विधाः कवयः]
कवयस् तु प्रबन्धारस् ते भवेयुश् चतुर्विधाः ।
उदात्त उद्धतः प्रौढो विनीत इति भेदतः
149
तत्र उदात्तः-
अन्तर्-गूढाभिमानोक्तिर् उदात्त इति गीयते
150अ
यथा मालविकाग्निमित्रे-
पुराणम् इत्य् एव न साधु सर्वं
न चापि काव्यं नवम् इत्य् अवद्यम् ।
सन्तः परीक्ष्यान्तरद् भजन्ते
मूढः पर-प्रत्ययनेय-बुद्धिः
[मा.अ.मि. 1.2]
अत्र सन्तः परीक्षेत्य् अनेन स्व-कृतेः परीक्षण-क्षमत्व-कल्पितो निज-गर्वः कालि-दासेन विवक्षित इति तस्योदात्तत्वम् ।
अथ उद्धतः-
परापवादात् स्वोत्कर्ष-वादी तूद्धत उच्यते
150
यथा मालती-माधवे-
ये नाम केचिद् इह नः प्रथयन्त्य् अवज्ञां
जानन्ति ते किम् अपि तान् प्रति नैष यत्नः ।
उत्पत्स्यतेऽ स्ति मम कोऽ पि समान-धर्मा
कालो ह्य् अयं निरवधिर् विपुला च पृथ्वी
[मा.मा. 1.8]
अत्र जानन्ति ते किम् अपीति परापवादात् मम तु कोऽ पि समान-धर्मेत्य् आत्मोत्कर्ष-कथनाच् च भवभूतेर् उद्धतत्वम् ।
यथा प्रौढः-
यथोचित-निजोत्कर्ष-वादी प्रौढ इतीरितः
151अ
यथा करुणाकन्दले-
कविर् भारद्वाजो जगद्-अवधि-जाग्रन्-निज-यशा
रस-श्रेणी-मर्म-व्यवहरण-हेवाक-रसिकः ।
यदीयानां वाचां रसिक-हृदयोल्लासन-विद्याव्
अमन्दानन्दात्मा परिणमति सन्दर्भ-महिमा
अत्र रस-प्रौढि-सन्दर्भ-प्रसादयोर् नाटक-निर्माणोचितयोर् एव कथनात् निजोत्कर्षं प्रकटयन्न् अयं कविः प्रौढ इत्य् उच्यते ।
युक्त्या निजोत्कर्ष-वादी प्रौढ इत्य् अपरैः स्मृतः
151
यथा ममैव-नेदानीन्तन-दीपिका किम् उ तमः-सङ्घातम् उन्मूलयेद् इत्य् आदि [रसार्णव-सुधाकरे 1.55] ।
अत्र ज्योत्स्नादि-दृष्टान्त-मुखेन माधुर्यौजः-प्रसादाख्यानां गुणानां स्व-साहित्यं रसौचित्येन [सत्तां] प्रतिपादयन्न् अयं कविः प्रौढ इत्य् उच्यते ।
अथ विनीतः-
विनीतो विनयोत्कर्षात् स्वापकर्ष-प्रकाशकः
152अ
यथा रामानन्दे-
गुणो न कश्चिन् मम वाङ्-निबन्धे
लभ्येत यत्नेन गवेषितोऽ पि ।
तथाप्य् अमुं राम-कथा-प्रबन्धं
सन्तोऽ नुरागेण समाद्रियन्ते
अत्र विनयोत्कर्षाद् अपकर्षम् आत्मन्य् आरोपयन्न् अयं कविर् विनीत इत्य् उच्यते ।
अथ सभ्याः-
सभ्यास् तु विबुधैर् ज्ञेया ये दिदृक्षानिव्ता जनाः । 152
तेऽ पि द्विधा प्रार्थनीयाः प्रार्थक् इति च स्फुटम्
इदं प्रयोक्ष्ये युष्माभिर् अनुज्ञा दीयताम् इति । 153
सम्प्रार्थ्याः सूत्रधारेण प्रार्थनीया इति स्मृताः
त्वया प्रयोगः क्रियताम् इत्य् उत्कण्ठित-चेतसः । 154
ये सूत्रिणं प्रार्थयन्ते ते सभ्याः प्रार्थकाः स्मृताह्
अथ नटाः-
रङ्गोपजीविनः प्रोक्ता नटास् तेऽ पि त्रिधा स्मृताः । 155
वादका गायकाश् चैव नर्तकाश् चेति कोविदैः
वीणा-वेणु-मृदङ्गादि-वादका वादकाः स्मृताः । 156
आलापन-ध्रुवागीत-गायका गायका मताः ।
नाना-प्रकाराभिनय-कर्तारो नर्तकाः स्मृताः
157
तद् एवम्-
विस्तराद् उत सङ्क्षेपात् प्रयुञ्जीत प्ररोचनाम्
158अ
तत्र सङ्क्षिप्ता प्ररोचना, यथा रत्नावल्याम्-
श्रीहर्षो निपुणः कविः परिषद् अप्य् एषा गुण-ग्राहिणी
लोके हारि च वत्स-राज-चरितं नाट्ये च दक्षा वयम् ।
वस्त्व्-एकैकम् अपीह वाञ्छित-फल-प्राप्तेः पदं किं पुनर्
मद्-भाग्योपचयाद् अयं समुदितः सर्वो गुणानां गणः
[र. 1.6]
अत्र कथा-नायक-कवि-सभ्य-नटानां चतूर्णां सङ्क्षेपेण वर्णनाद् इयं सङ्क्षिप्त-प्ररोचना । विस्तरात् तु बाल-रामायणादिषु द्रष्टव्या ।
एवं प्ररोचयन् सभ्यान् सूत्री कुर्याद् अथामुखम् । 158
सूत्र-धारो नटीं ब्रूते स्व-कार्यं प्रति युक्तितः
प्रस्तुताक्षेप-चित्रोक्त्या यत् तद् आमुखम् ईरितम् । 159
त्रीण्यामुखाङ्गान्य् उच्यन्ते कथोद्घातः प्रवर्तकः
प्रयोगातिशयश् चेति तेषां लक्षणम् उच्यते । 160
सूत्रिणो वाक्यम् अर्थं वा स्वेतिवृत्त-समं यदा ।
स्वीकृत्य प्रविशेत् पात्रं कथोद्घातो द्विधा मतः
161
तत्र वाक्येन कथोद्घातो, यथा रत्नावल्यां-
द्वीपाद् अन्यस्माद् अपि मध्याद् अपि जल-निधेर् दिशोऽ प्य् अन्तात् ।
आनीय झटिति घटयति विधिर् अभिमतम् अभिमुखी-भूतः
[र. 1.7]
इति सूत्रधारस्य प्रिया-समाश्वासन-वाक्यं स्वस्यानुकूलतया पठतो यौगन्धरायणस्य प्रवेशात् कथोद्घातः ।
अर्थेन कथोद्घातो, यथा वेणी-संहारः-
निर्वाण-वैर-दहनाः प्रशमादरीणां
नन्दन्तु पाण्डु-तनयाः सह माधवेन ।
रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च
स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः
[वे.सं. 1.7]
अत्रोत्तरार्धे सूत्रधारेण धार्तराष्ट्राणां स्वर्ग-स्थिति-निरुपद्रव-लक्षणयोर् अर्थयोर् विवक्षितयोः सतोः भीमेन स्वस्था भवन्तु मयि जीवति धार्तराष्ट्रा इति निरुपद्रव-लक्षणस्यैवार्थ-विशेषस्य ग्रहणेन प्रवेशः कृत इति अयम् अर्थेन कथोद्घातः ।
अथ प्रवर्तकः-
आक्षिप्तं काल-साम्येन प्रवृत्तिः स्यात् प्रवर्तकम्
162अ
यथा बाल-रामायणे-
प्रकटित-रामाम्भोजः कौशिकवान् सपदि लक्ष्मणानन्दी ।
शर-चाप-नमन-हेतोर् अयम् अवतीर्णः शरत्-समयः
[बा.रा. 1.16]
अत्र विश्वामित्र-राम-लक्ष्मणानां शरत्-समय-वर्णन-साम्येन प्रवेशः प्रवर्तकः ॥
अथ प्रयोगातिशयः --
एषोऽ यम् इत्य् उपक्षेपात् सूत्रधार-प्रयोगतः । 162
प्रयोग-सूचनं यत्र प्रयोगातिशयो हि सः
यथा मालविकाग्निमित्रे-
शिरसा प्रथम-गृहीताम् आज्ञाम् इच्छामि परिषदः कर्तुम् ।
देव्या इव धारिण्याः सेवा-दक्षः परिजनोऽ यम्
[मा.अ.मि. 1.3]
अत्रायम् इत्य् उपक्षेपेणाक्षिप्तः परिजन-प्रवेशः प्रयोगातिशयः ।
तथा च शाकुन्तले-
तवास्मि गीत-रागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा
[अ.शा. 1.5]
इत्य् अत्र एष इत्य् उपक्षिप्तो दुष्यन्त-प्रवेशः प्रयोगातिशयः ।
प्रस्तावना-स्थापनेति द्विधा स्याद् इदम् आमुखम् । 163
विदूषक-नटी-पारिपार्श्विकैः सह संलापन्
स्तोक-वीथ्य्-अङ्ग-सहितान्य् आमुखाङ्गानि सूत्र-भृत् । 164
योजयेद् यत्र नाट्य-ज्ञैर् एषा प्रस्तावना स्मृता
सर्वामुखाङ्ग-वीथ्य्-अङ्ग-समेतैर् वाक्य-विस्तरैः । 165
सूत्रधारो यत्र नटी-विदूषक-नटादिभिः
संलपन प्रस्तुतं चार्थम् आक्षिपेत् स्थापना हि सा । 166
शृङ्गार-प्रचुरे नाट्ये योग्यः स्याद् आमुख-क्रमः
रत्नावल्य्दिके प्रायो लक्ष्यतां कोविदैर् अयम् । 167
वीराद्भुतादि प्राये तु प्रायः प्रस्तावनोचिता
अनर्घ-राघवाद्येषु प्रायशो वीक्ष्यताम् इयम् । 168
हास्य-बीभत्स-रौद्रादि-प्राये तु स्थापना मता
वीर-भद्र-विजृम्भादौ सा प्रायेण समीक्ष्यताम् । 169
कथितान्य् आमुखाङ्गानि वीथ्य्-अङ्गानि प्रचक्ष्महे
आमुखेऽ पि च वीथ्यां च साधारण्येऽ पि संमतः । 170
वीथ्य्-अङ्ग-संप्रथा तेषां वीथ्याम् आवश्यकत्वतः
उद्घात्यकावलगित-प्रपञ्च-त्रिगते छलम् । 171
वाक्केल्य्-अधिबले गण्डम् अवस्यन्दित-नालिके
असत्-प्रलाप-व्याहारौ मृदवं च त्रयोदश । 172
तत्रोद्घात्यकम् अन्योन्यालाप-माला द्विधा हि तत् ।
गूढारथ-पद-पर्याय-क्रमात् प्रश्नोत्तर-क्रमात्
173
तत्र गूढार्थ-पद-पर्याय-क्रमाद् उद्घात्यकं, यथा वीरभद्र-विजृम्भित-नामनि डिमे-
सखे कोऽ यं रौद्रः कथय महितः कोऽ पि हि रसो
रसो नामायं कः स्मृति-सुरभिर् आस्वाद-महिमा ।
समास्वादः कोऽ यं क्रम-गलित-वेद्यान्तर-मतिर्
मनोऽ वस्था ज्ञातं ननु वदसि निद्रान्तरम् इति
अत्र रौद्र-रस-स्वरूप-विवेचनाय रसास्वादावस्था-लक्षणैर् गूढार्थ-पद-पर्यायैर् नट-सूत्रधारयोः संलापाद् इदम् आदिमम् उद्घात्यकम् ।
प्रश्नोत्तर-क्रमाद्, यथा तत्रैव डिमे-
सेव्यं किं परम् उत्तमस्य चरितं लोकोत्तरः कः पुमान्
श्री-सिंहः स तु कीदृशो वद निधिर् धर्मस्य धर्मस् तु कः ।
सत्योक्तिर् वचनं तु किं कवि-नुतं को नाम तादृक् कविर्
विश्वेशः स तु कीदृशो विजयते विश्वेषु विश्वेशवत्
अत्र गूढार्थ-पद-पर्याय-रहित-प्रश्नोत्तर-क्रमेण नट-सूत्रधारयोः संलापात् प्रकृत-कवि-वर्णनोपयुक्तम् इदम् उद्घात्यकम् ।
अथ अवलगितम्-
द्विधावलगितं प्रोक्तम् अर्थावलगनात्मकम् ।
अन्य-प्रसङ्गाद् अन्यस्य संसिद्धिः प्रकृतस्य व
174
अन्य-प्रसङ्गाद् अन्यस्य सिद्ध्या अवलगितं, यथा अभिराम-राघवे अनपोत-नायकीये-
हन्त सारस्वतं चक्षुः कवीनां क्रान्त-दर्शिनाम् ।
अतिशय्य प्रवर्तेत नियतार्थेषु वस्तुषु
अत्र सूत्रधारेण कवीनां सारस्वतं चक्षुर् इति कवि-सामान्य-वर्णनेन स्वाभिलषित-कवि-विशेषोत्कर्ष-साधन-रूपात् प्रकृताएर्थावलगनाद् अवलगितम् इदम् ।
अन्य-प्रसङ्गेन प्रकृतस्य सिद्धिर्, यथा अनर्घ-राघवे-
सूत्रधारः-मारिष, स्थाने खलु भवतः कुतूहलम् । ईदृशम् एवैतत् ।
तत् तादृग् उज्ज्वलककुत्स्थ-कुल-प्रशस्ति-
सौरभ्य-निर्भर-गभीर-मनोहराणि ।
वाल्मीकि-वाग्-अमृत-कूप-निपान-लक्ष्मीम्
एतानि बिभ्रति मुरारि-कवेर् वचांसि
[अ.रा. 1.12]
अत्राप्रकृत-वाल्मीकि-वर्णन-प्रसङ्गेन प्रकृत-मारिष-कुतूहलोत्कर्ष-संसाधन-रूपात् प्रकृत-नाट्यावलगनाद् इदं द्वितीयम् अवलगितम् ।
अथ प्रपञ्चः-
प्रपञ्चस् तु मिथः स्तोत्रम् असद्-भूतं च हास्य-कृत्
175अ
यथा वीरभद्र-विजृम्भणे-
नाट्याचार्यस् त्वम् असि सुहृदां त्वादृशानां प्रसादात्
कोऽ यं गीत-श्रम-विधिर् अहो भिन्न-कण्ठोऽ द्य जातः ।
ज्ञातं ज्ञातं परिहससि मां भाषितैर् भाव-गर्भैर्
मैवं वाच्यं त्वम् असि हि गुरुस् तत्र चेष्टिः प्रमाणम्
अत्र नट-सूत्रधारयोर् अन्यथार्थस्यान्योन्य-स्तोत्रस्य हास्यायैव प्रवृत्तत्वात् प्रपञ्चः ।
अथ त्रिगतम्-
श्रुति-साम्याद् अनेकार्थ-योजनं त्रिगतं भवेत्
175ब्
यथाभिराम-राघवे, पारिपार्श्विकः-
वाणी-मुरज-क्वणितं श्रुति-सुभगं किं सुधा-मुचः स्तनितम् ।
जलदस्य किम् आ ज्ञातं तव मधुर-गभीर-वाग्-विलासोऽ यम्
अत्र सूत्रधार-वाग्-विलासे मुरज-जलद-ध्वनि-वितर्क-सम्भावनात् त्रिगतम् ।
अथ छलम्-
प्रोक्तं छलं ससोत्प्रासैः प्रियाभासैर् विलोभनम्
176अ
यथा अभिराम-राघवे-
विद्वान् असौ कलावान् अपि रसिको बहु-विध-प्रयोगज्ञः ।
इति च भवन्तं विद्मो निर्व्यूढं साधु तत् त्वया सर्वम्
अत्र विपरीत-लक्षणया प्रहेलिकार्थम् अजानतः पारिपार्श्विकस्योपालम्भनात् छलम् ।
अथ वाक्केलिः-
साकाङ्क्षस्यैव वाक्यस्य वाक्केलिः स्यात् समाप्तितः
176
यथा महेश्वरानन्दे-
कुल-शोक-हरं कुमारम् एकं
कुहना-भैरव-पारणोन्मुखाभ्याम् ।
उपहूय कृतादरं पितृभ्याम्
उपरि प्रस्तुतम् ओं नमः शिवाय
अत्र वाक्ये साकाङ्क्षे विशेषांशम् अनुक्त्वा नमः शिवायेति समाप्ति-कथनाद् वाक्-केलिः ।
अथ अधिबलम्-
स्पर्धयान्योन्य-सामर्थ्य-व्यक्तिस् त्व् अधिबलं भवेत्
177अ
यथा वीरभद्र-विजृम्भणे-
मा भूच् चिन्ता तवेयं मयि सति कुशले दुष्करः किं प्रयोगो
मानिन् जानासि किं त्वं किम् अपि न विदिता चातुरी मे त्वया किम् ।
आस्तां स्व-स्तोत्र-कन्था कृतम् इह कथैतैर् भूत-पूर्वैः प्रसङ्गैः
पत्न्याहं वश्य-कर्मा सपदि नटविधाव् एष सज्जीभवामि
अत्र नट-सूत्रधारयोः परस्पर-स्पर्धया स्व-स्व-प्रयोग-सामर्थ्य-प्रकाशनाद् अधिबलम् ।
अथ गण्डम्-
गण्डं प्रस्तुत-सम्बन्धि भिन्नार्थं सहसोदितम्
177ब्
यथा वेणी-संहारे-
निर्वाण-वैर-दहनाः प्रशमादरीणां
नन्दन्तु पाण्डु-तनयाः सह माधवेन ।
रक्त-प्रसाधित-भुवः क्षत-विग्रहाश् च
स्वस्था भवन्तु कुरु-राज-सुताः स-भृत्याः ॥ [वे.सं. 1.7]
तत्र सूत्रधारेण निरुपद्रव-लक्षणेऽ र्थे विवक्षितेऽ पि स्वर्ग-स्थिति-लक्षणार्थ-सूचकस्य रक्त-प्रसाधितअ-भुव इत्य् आदि-श्लिष्ट-वाक्यस्य सहसा प्रस्तुत-सम्बन्धितया भाषितत्वाद् गण्डम् ।
अथ अवस्यन्दितम्-
पूर्वोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत्
178अ
यथा वेणी-संहारे, सूत्रधारः-
सत्-पक्षा मधुर-गिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः काल-वशान् मेदिनी-पृष्ठे
[वे.सं. 1.6]
पारिपार्श्विकः (प्रविश्य सम्भ्रान्तः)-शान्तं पापम् । प्रतिहतम् अमङ्गलम् ।
सूत्रधारः-मा भैषीः । ननु शरत्-समय-वर्णनाशंसया हंसान् धार्तराष्ट्रा इति व्यपदिशामि ।
अत्र पूर्वोक्तस्य सुयोधनादि-निपातस्य हंस-पातत्वेन व्याख्यानाद् इदम् अवस्यन्दितम् ।
अथ नालिका-
प्रहेलिका निगूढार्था हास्यार्थं नालिका स्मृता । 178
अन्तर्-लापा बहिर्-लापेत्य् एषा द्वेधा समीरिता
तत्र अन्तर्-लापा, यथा प्रसन्न-राघवे-
प्रत्यङ्कम् अङ्कुरित-सर्व-नवावतारन्-
नव्योल्लसत्-कुसुम-राजि-विराजि-बन्धम् ।
घर्मेतरांशुम् इव वक्रतयातिरम्यं
नाट्य-प्रबन्धम् अतिमञ्जुल-संविधानम्
[प्र.रा. 1.7]
अत्र प्रसन्न-राघव-नामेत्य् उत्तरस्य सप्ताक्षराष्ट-पङ्क्ति-क्रमेण लिखितेऽ स्मिन्न् एव श्लोके मृग्यत्वाद् अन्तर्-लापो नामेयम् ।
बहिर्-लापा, यथा बाल-रामायणे-
कम-बड्ढन्त-विलासं रसासले कं करेइ कन्दप्पो ।
[क्रम-वर्धमान-विलासं रसातले कं करोति कन्दर्पः ।]
सूत्रधारः-अये प्रश्नोत्तरम् । सेयम् अस्मत्-प्रीतिर् इति देवादेशः । तत् स्वयम् एव वाचयामि-
निर्भय-गुरुर् व्यधत्त च वाल्मीकि-कथां किम् अनुसृत्य
[बा.रा. 1.5]
इत्य् अत्र बाल-रामायणम् इत्य् उत्तरस्य बहिर् एव मृग्यत्वाद् बहिर्-लापा नाम नालिकेयम् ।
अथ असत्-प्रलापः-
असम्बद्ध-कथालापोऽ सत्-प्रलाप इतीरितः
179ब्
यथा वीरभद्र-विजृम्भणे, नटः-
पत्नी परिलम्बि-कुचा तनया मम दन्तुरापि तरुण-वयाः ।
क्रीडा-कपिर् अस्ति गृहे तद् अहं नाट्य-प्रयोग-मर्मज्ञः
अत्र नटेन स्वकीय-नाट्य-प्रयोग-मर्मज्ञत्वे हेतुतया कथितानां क्रीडा-कपि-सद्-भावादीनाम् असम्बद्धत्वाद् अयम् असत्-प्रलापः ।
अथ व्याहारः-
अन्यार्थं वचनं हास्य-करं व्याहार उच्यते
180अ
यथा आनन्द-कोश-नामनि प्रहसने-(प्रविश्य) नटी-अय्य को णिओओ ? [आर्य, को नियोगः ?]
सूत्रधारः-आर्ये गर्गरिके नूनम् आनन्द-कोश-नाभिलाषिणी परिषद् इयम् ।
नटी-ता दंसेदु अय्यो । तदो किं बिलंबेण । [तद् दर्शयतु आर्यः । ततः किं विलम्बेन ?]
सूत्रधारः-अयि गायिके गर्गरिके भवत्या मुख-व्यापारेण बीजोत्थापनानुसन्धायिना भवितव्यम् ।
नटी (स-हर्षम्)-कीरिसो सो मुह-बाबारो । [कीदृशः स मुख्य-व्यापारः ?]
सूत्रधारः-नन्व् अमुम् एव शिशिरम् अधिकृत्य ध्रुवा-गान-रूपः ।
इत्य् अत्र आनन्द-कोश-बीजोत्थापन-मुख-व्यापाराणां रूपक-बीजोत्थापन-ध्रुवा-गानार्थानाम् अपि अन्यार्थ-प्रतीत्या हास्यकरत्वाद् अयं व्याहारः ।
अथ मृदवम्-
दोषा गुणा गुणा दोषा यत्र स्युर् मृदवं हि तत्
180ब्
यथा-
नार्हाः केवल-वेद-पाठ-विधिना कीरा इव छान्दसाः
शास्त्रीयाभ्यसनाच् छुनाम् इव नृणाम् अन्योन्य-कोलाहलः ।
व्यर्थं काव्यम् असत्य-वस्तु-घटनात् स्वप्नेन्द्रजालादिवद्
व्याकीर्ण-व्यवहार-निर्णय-कृते त्व् एकैव कार्या स्मृतिः
अत्र काव्यादिषु गुण-भूतेष्व् अपि दोषत्व-कथनाद् मृदवम् इदम् ।
एवम् आमुखम् आयोज्य सूत्रधारे सहानुगे ।
निष्क्रान्तेऽ थत् तद्-आक्षिप्तैः पात्रैर् वस्तु प्रपञ्चयेत्
181
वस्तु सर्वं द्विधा सूच्यम् असूच्यम् इति भेदतः ।
रस-हीनं भवेद् अत्र वस्तु तत् सूच्यम् उच्यते
182
यद् वस्तु नीरसं तत् तु सूचयेत् सूचकास् त्व् अमी ।
विष्कम्भ-चूलिकाङ्कास्याङ्कावतार-प्रवेशकाः
183
तत्र विष्कम्भो भूत-भावि-वस्त्व्-अंश-सूचकः ।
अमुख्य-पात्र-रचितः सङ्क्षेपैक-प्रयोजनः
184
स शुद्धो मिश्र इत्य् उक्तो मिश्रः स्यान् नीच-मध्यमैः ।
सोऽ यं चेटी-नटाचार्य-संलाप-परिकल्पितः
185
मालविकाग्निमित्रस्य प्रथमाङ्के निरूप्यताम् ।
शुद्धः केवल-मध्योऽ यम् एकानेक-कृतो द्विधा
186
रत्नावल्याम् एक-शुद्धः प्राप्त-यौगन्धरायणः ।
अनेक-शुद्धो विष्कम्भः षष्ठाङ्केऽ नर्घ-राघवे । 187
निरूप्यतां सम्प्रयुक्तो माल्यवच्छुक-सारणैः
अथ चूलिका-
वन्दि-मागध-सूताद्यैः प्रतिसीरान्तर-स्थितैः । 188
अर्थोपक्षेपणं यत् तु क्रियते सा हि चूलिका
सा द्विधा चूलिका खण्ड-चूलिका चेति भेदतः । 189
पात्रैर् यवनिकान्तःस्थैः केवलं या तु निर्मिता
आदाव् अङ्कस्य मध्ये वा चूलिका नाम सा स्मृता । 190
प्रवेश-निर्गमाभावाद् इयम् अङ्काद् बहिर् गता
अङ्कादौ चूलिका, यथा अनर्घ-राघवे सप्तमाङ्के, नेपथ्ये-
तमिस्रा-मूर्च्छाल-त्रिजगद्-अगद्ङ्कार-किरणे
रघूणां गोत्रस्य प्रसवितरि देवे सवितरि ।
पुरःस्थे दिक्-पालैः सह पर-गृहावास-वचनात्
प्रविष्टो वैदेही दहनम् अथ शुद्धा च निरगात्
[अ.रा. 7.1]
इत्य् आदौ नेपथ्य-गतैर् एव पात्रैः सीता-ज्वलन-प्रवेश-निर्गमादीनाम् अर्थानां प्रयोगानुचितानां सूचनाद् इयं चूलिका ।
अङ्क-मध्ये, यथा रत्नावल्यां द्वितीयाङ्के, (नेपथ्ये कलकलः)-
कण्ठे कृत्तावशेषं कनक-मयम् अधः शृङ्खला-दाम कर्षन् क्रान्त्वा द्वाराणि हेलाचल-चरण-रणत्-किङ्कणी-चक्रवालः ।
दत्तातङ्कोऽ ङ्गनानाम् अनुसृत-सरणिः सम्भ्रमाद् अश्व-पालैः प्रभ्रष्टोऽ यं प्लवङ्गः प्रविशति नृपतेर् मन्दिरं मन्दुरायाः
[र. 2.2]
अत्र नेपथ्य-गतैः पात्रैः प्रयोगानुचितस्य वानर-विप्लवाद्य्-अर्थस्य सूचनाद् इयं मध्य-चूलिका ।
अथ खण्ड-चूलिका-
रङ्ग-नेपथ-संस्थायि-पात्र-संलाप-विस्तरैः । 191
आदौ केवलम् अङ्कस्य कल्पिता खण्ड-चूलिका ।
प्रवेश-निर्गमाप्राप्तेर् इयम् अङ्काद् बहिर्-गता
192
यथा बाल-रामायणे सप्तमाङ्कस्यादौ, (ततः प्रविशति वैतालिकः कर्पूर-चण्डः) वैतालिकः-भद्र चन्दन-चण्ड परित्यज निद्रा-मुद्राम् । विमुञ्च निजोटजाभ्यन्तरम् ।
नेपथ्ये-अय्य कप्पुर-चंड एसा मिट्ठा पभाद-णिद्दा । सुविस्सं दाव । [आर्य कर्पूर-चण्ड एषा मिष्टा प्रभात-निद्रा । स्वप्स्यामि तावत् ।]
कर्पूर-चण्डः-अहो उत्साह-शक्तिर् भवतः । अमन्त्र-शीलो मही-पतिः अपर-प्रबन्ध-दर्शी कविः अपाठ-रुचिश् च वद्नी न चिरं नन्दति ।
नेपथ्ये-ता एत्थ संत्थर-त्थिदो णिमीलिद-णअणो जेब्ब सुप्पभादं पठिस्सं । [तद् अत्र संस्तर-स्थितो निमीलित-नयन एव सुप्रभातं पठिष्यामि ।]
कर्पूर-चण्डः-एतद् अपि भवतो भूरि । तद् उपश्लोकयावो रामभद्रम् । (किञ्चिद् उच्चैः)
मार्तण्डैक-कुल-प्रकाण्ड-तिलकस् त्रैलोक्य-रक्षा-मणिर्
विश्वामित्र-महामुनेर् निरुपधिः शिष्यो रघु-ग्रामणीः ।
रामस् ताडित-ताटकः किम् अपरं प्रत्यक्ष-नारायणः
कौसल्या-नयनोत्सवो विजयतां भू-काश्यपस्यात्मजः
[बा.रा. 7.3]
नेपथ्ये-
कन्दप्प्-उद्दाम-दप्प-प्पसमण-गुरुणो बह्मणो काल-दण्डे
पाणिं देंतस्स गंगा-तरलिद-ससिणो पब्बई-बल्लहस्स ।
चाबं चंडाहिसिंजारब-हरिद-णहं कर्षणारुद्ध-मज्झं
जं भग्गं तस्स सद्दो णिसुणिति हुअणे बित्थरंतो णमाइ
[बा.रा. 7.4]
[कन्दर्पोद्दाम-दर्प-प्रशमन-गुरोर् ब्रह्मणः काल-दण्डे
पाणिं दातुर् गङ्गा-तरलित-शशिनः पर्वती-वल्लभस्य ।
चापं चण्डाभिशिञ्जा-रव-भरित-नभः कर्षणारुद्ध-मध्यं
यत् भग्नं तस्य शब्दो निःश्रूयते भुवने विस्तरन् न माति ॥]
अत्र प्रविष्टेन कर्पूर-चण्डेन यवनिकान्तर्गतेन चन्दन-चण्डेन च पर्याय-प्रवृत्त-वाग्-विलासैस् ताटकावधादि-विभीषणाभय-प्रदानान्तस्य रामभद्र-चरितस्य बाहुल्यात् प्रयोगानुचितस्य सूचनाद् इयं खण्ड-चूलिका ।
एनां विष्कम्भम् एवान्ये प्राहुर् नैतन् मतं मम ।
अप्रविष्टस्य संलापो विष्कम्भे न हि युज्यते । 193
तद् विष्कम्भ-शिरस्कत्वान् मतेयं खण्ड-चूलिका
अथ अङ्कास्यम्-
पूर्वाङ्कान्ते सम्प्रविष्टैः पात्रैर् भाव्य्-अङ्क-वस्तुनः । 194
सूचनं तद्-अविच्छित्यै यत् तद् अङ्कास्यम् ईरितम्
यथा हि वीर-चरिते द्वितीयाङ्कावसानके । 195
प्रविष्टेन सुमन्त्रेण सूचितं राम-विग्रहे
वसिष्ठ-विश्वामित्रादि-समाभाषण-लक्षणम् । 196
वस्तूत्तराङ्के पूर्वार्थाविच्छेदेनैव कल्पितम्
अथाङ्कावतारः-
अङ्कावतारः पात्राणां पूर्व-कार्यानुवर्तिनाम् । 197
अविभागेन सर्वेषां भाविन्य् अङ्के प्रवेशनम्
द्वितीयाङ्के मालविकाग्निमित्रे स निरूप्यताम् । 198
पात्रेणाङ्क-प्रविष्टेन केवलं सूचितत्वतः ।
भवेद् अङ्काद् अबाह्यत्वम् अङ्कास्याङ्कावतारयोः
199
अथ प्रवेशकः-
यन् नीचैः केवलं पात्रैर् भावि-भूतार्थ-सूचनम् ।
अङ्कयोर् उभयोर् मध्ये स विज्ञेयः प्रवेशकः
200
सोऽ यं चेटि-द्वयालाप-संविधानोपकल्पितः ।
मालती-माधवे प्राज्ञैर् द्वितीयाङ्के निरूप्यताम्
201
असूच्यं तु शुभोदात्त-रस-भाव-निरन्तरम् ।
प्रारम्भे यद्य् असूच्यं स्याद् अङ्कम् एवात्र कल्पयेत्
202
रसालङ्कार-वस्तूनाम् उपलालन-काङ्क्षिणाम् ।
जनन्य्-अङ्कवदाधार-भूतत्वाद् अङ्क उच्यते
203
अङ्कस् तु पञ्चषैर् द्वित्रैर् अङ्गिनोऽ ङ्गस्य वस्तुनः ।
रसस्य वा समालम्ब-भूतैः पात्रैर् मनोहरः । 204
संविधान-विशेषः स्यात् तत्रासूच्यं प्रपञ्चयेत्
अथ असूच्यविभागः-
असूच्यं तद् द्विधा दृश्यं श्राव्यं चाद्यं तु दर्शयेत् । 205
द्वेधा द्वितीयं स्वगतं प्रकाशं चेति भेदतः
स्वगतं स्वैक-विज्ञेयं प्रकाशं तद् द्विधा भवेत् । 206
सर्व-प्रकाशं नियत-प्रकाशं चेति भेदतः
सर्व-प्रकाशं सर्वेषां स्थितानां श्रवणोचितम् । 207
द्वितीयं तु स्थितेष्व् अप्य् एष्व् एकस्य श्रवणोचितम्
द्विधा विभाव्यतेऽ न्यच् च जनान्तम् अपवारितम् । 208
त्रिपताका-करेणान्यान् अपवार्यान्तरा कथाम्
अन्येनामन्त्रणं यत् स्यात् तज् जनान्तिकम् उच्यते । 209
रहस्यं कथ्यतेऽ न्यस्य परावृत्यापवारितम्
इत्थं श्राव्यं च दृश्यं च प्रयुज्य सुसमाहितैः । 210।
पात्रैर् निष्क्रमणं कार्यम् अङ्कान्ते समम् एव हि
अङ्क-च्छेदश् च कर्तव्यः कालावस्थानुरोधतः । 211
दिनार्ध-दिनयोर् योग्यम् अङ्के वस्तु प्रवर्तयेत्
अथ गर्भाङ्कः-
अङ्क-प्रसङ्गाद् गर्भाङ्क-लक्षणं वक्ष्यते मया । 212
रसनायक-वस्तूनां महोत्कर्षाय कोविदैः
अङ्कस्य मध्ये योऽ ङ्कः स्याद् असौ गर्भाङ्क ईरितः । 213
वस्तु-सूचक-नान्दीको दिङ्-मात्र-मुख-सङ्गतः
अर्थोपक्षेपकैर् हीनश् चूलिका-परिवर्जितैः । 214
अनेष्यद्-वस्तु-विषयः पात्रैश् त्रि-चतुरैर् युतः
नातिप्रपञ्चेतिवृत्तः स्वाधाराङ्काङ्ग-शोभितः । 215
प्रस्तुतार्थानुबन्धी च पात्र-निष्क्रमणावधिः
प्रथमाङ्के न कर्तव्यः सोऽ यं काव्य-विशारदैः । 216
सोऽ यम् उत्तर-रामे तु रसोत्कर्षाय कथ्यताम्
नेतुर् उत्कर्षको ज्ञेयो बाल-रामायणे त्व् अयम् । 217
अमोघ-राघवे सोऽ यं वस्तूत्कर्षैक-कारणम्
नाटके अङ्क-नियमः-
नाटकेऽ ङ्का न कर्तव्याः पञ्च-न्यूना दशाधिकाः । 218
तद् ईदृश-गुणोपेतं नाटकं भुक्ति-मुक्तिदम्
तथा च भरतः-
धर्मार्थ-साधनं नाट्यं सर्व-दुःखापनोद-कृत् ।
आसेवध्वं तद् ऋषयस् तस्योत्थानं तु नाटकम्
इति ।
पूर्णादि-नाटक-भेदानङ्गीकारः-
नाटकस्य तु पूर्णादि-भेदाः केचन कल्पिताः । 219
तेषां नातीव रम्यत्वाद् अपरीक्षाक्षमत्वतः ।
मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे
220
अथ प्रकरणम्-
यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः ।
रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत्
221
तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा ।
कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम्
222
गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् ।
कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत्
223
मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके ।
धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम्
224
नाटिकायाः न पृथग्-रूपत्वम्-
नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् ।
प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः
225
बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि ।
विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम्
226
रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् ।
स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम्
227
एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः ।
देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते ।
मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः
228
प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः ।
अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम्
229
अथ उतृष्टिकाङ्कः-
ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः ।
अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः
230
स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः ।
नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः
231
मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया ।
उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः
232
अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः ।
प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः
233
उज्जीवनाद् अप्य् अधिकं मनोरथ-फलोऽ पि वा ।
विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम्
234
अथ व्यायोगः-
खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः ।
युक्तो दशावरैह् ख्यातैर् उद्धतैः प्रतिनायकैः
235
विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः ।
हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः
236
एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः ।
अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः । 237
विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम्
अथ भाणः-
स्वस्य वान्यस्य वा वृत्तं विटेन निपुणोक्तिना । 238
शौर्य-सौभाग्य-संस्तुत्या वीर-शृङ्गार-सूचकम्
बुद्धि-कल्पितम् एकाङ्कं मुख-निर्वहणान्वितम् । 239
वर्ण्यते भारती-वृत्त्या यत्र तं भाणम् ईरते
एक-पात्र-प्रयोज्येऽ स्मिन् कुर्याद् आकाश-भाषितम् । 240
अन्येनानुक्तम् अप्य् अन्यो वचः श्रुत्वेव यद् वदेत्
इति किं भणसीत्य् एतद् भवेद् आकाश-भाषितम् । 241
लास्याङ्गानि दशैतस्मिन् संयोज्यान्यत्र तानि तु
गेय-पदं स्थित-पाठ्यम् आसीनं पुष्प-गन्धिका । 242
प्रच्छेदकस् त्रिमूढं च सैन्धवाख्यं द्विमूढकम् ।
उत्तमोत्तमकं चान्यद् उक्त-प्रत्युक्तम् एव च
243
अथ गेय-पदम्-
वीणादि-वादनेनैव सहितं यत्र भाव्यते ।
ललितं नायिका-गीतं तद् गेय-पदम् उच्यते
244
चञ्चत्-पुटादिना वाक्याभिनयो नायिका-कृतः ।
भूमि-चारी-प्रचारेण स्थित-पाठ्यं तद् उच्यते
245
भ्रू-नेत्र-पाणि-चरण-विलासाभिनयान्वितम् ।
योज्यम् आसीनया पाठ्यम् आसीनं तद् उदाहृतम्
246
नाना-विधेन वाद्येन नाना-ताल-लयान्वितम् ।
लास्यं प्रयुज्यते यत्र सा ज्ञेया पुष्प-गन्धिका
247
अन्यासङ्गम-शङ्किन्या नायकस्यातिरोषया ।
प्रेम-च्छेद-प्रकटनं लास्यं प्रच्छेदकं विदुः
248
अनिष्ठुर-श्लक्ष्ण-पदं सम-वृत्तैर् अलङ्कृतम् ।
नाट्यं पुरुष-भावाढ्यं त्रिमूढकम् उदाहृतम्
249
देश-भाषा-विशेषेण चलद्-वलय-शृङ्खलम् ।
लास्यं प्रयुज्यते यत्र तत् सैन्धवम् इति स्मृतम्
250
चारीभिर् ललिताभिश् च चित्रार्थाभिनयान्वितम् ।
स्पष्ट-भाव-रसोपेतं लास्यं यत् तद् द्विमूढकम्
251
अपरिज्ञात-पार्श्वस्थं गेय-भाव-विभूषितम् ।
लास्यं सोत्कण्ठ-वाक्यं तद् उत्तमोत्तमकं भवेत्
252
कोप-प्रसाद-जनितं साधिक्षेप-पदाश्रयम् ।
वाक्यं तद् उक्त-प्रत्युक्तं यूनोः प्रश्नोत्तरात्मकम्
253
शृङ्गार-मञ्जरी-मुख्यम् अस्योदाहरणं मतम् ।
लास्याङ्ग-दशकं तत्र लक्ष्यं लक्ष्य-विचक्षणैः
254
अथ समवकारः-
प्रख्यातेनेतिवृत्तेन नायकैर् अपि तद्-विधैः ।
पृथक्-प्रयोजनासक्तैर् मिलितैर् देव-दानवैः
255
युक्तं द्वादशभिर् वीर-प्रधानं कैशिकी-मृदु ।
त्र्य्-अङ्कं विमर्श-हीनं च कपट-त्रय-संयुतम्
256
त्रि-विद्रवं त्रि-शृङ्गारं विद्यात् समवकारकम् ।
मोहात्मको भ्रमः प्रोक्तः कपटस् त्रिविधस् त्व् अयम्
257
सत्त्वजः शत्रुजो दैव-जनितश् चेति सत्त्वजः ।
क्रूर-प्राणि-समुत्पन्नः शत्रुजस् तु रणादिजः
258
वात्यावर्षादि-सम्भूतो दैवजः कपटः स्मृतः ।
उदाहरणम् एतेषाम् आवेगे लक्ष्यतां बुधैः
259
जीव-ग्राहोऽ पि मोहो वा कपटाद् विद्रवस् ततः ।
कपट-त्रय-सम्भूतेर् अयं च त्रिविधो मतः । 260
धर्मार्थ-काम-सम्बद्धस् त्रिधा शृङ्गार ईरितः
धर्म-शृङ्गारः-
व्रतादि-जनितः कामो धर्म-शृङ्गार ईरितः । 261
पार्वती-शिव-सम्भोगस् तद् उदाहरणं मतम्
अर्थ-शृङ्गारः-
यत्र कामेन सम्बद्धैर् अर्थैर् अर्थानुबन्धिभिः । 262
भुज्यमानैः सुख-प्राप्तिर् अर्थ-शृङ्गार ईरितः
सार्वभौम-फल-प्राप्ति-हेतुना वत्स-भूपतेः । 263
रत्नावल्या समं भोगो विज्ञेया तद् उदाहृतिः
काम-शृङ्गारः-
दुरादर-सुरा-पान-पर-दारादि-केलिजः । 264
तत्-तद्-आस्वाद-ललितः काम-शृङ्गार ईरितः
तद् उदाहरणं प्रायो दृश्यं प्रसनादिषु । 265
शृङ्गार-त्रितयं तत्र नात्र बिन्दु-प्रवेशकौ
मुख-प्रतिमुखे सन्धी वस्तु द्वादश-नाडिकम् । 266
प्रथमे कल्पयेद् अङ्के नाडिका घटिका-द्वयम्
मुखादि-सन्धि-त्रयवांश् चतुर्नाडिक-वस्तुकः । 267
द्वितीयाङ्कस् तृतीयस् तु द्वि-नाडिक-कथाश्रयः
निर्विमर्श-चतुः-सन्धिर् एवम् अङ्कास् त्रयः स्मृताः । 268
वीथी-प्रहसनाङ्गानि कुर्याद् अत्र समासतः
प्रस्तावनायाः प्रस्तावे प्रोक्तो वीथ्य्-अङ्ग-विस्तरः । 269
दश प्रहसनाङ्गानि तत्-प्रसङ्गे प्रचक्ष्महे ।
उदाहरणम् एतस्य पयोधि-मथनादिकम्
270
अथ वीथी-
सूच्य-प्रधान-शृङ्गारा मुख-निर्वहणान्विता ।
एक-योज्या द्वियोज्या वा कैशिकी-वृत्ति-निर्मिता
271
वीथ्य्-अङ्ग-सहितैकाङ्का वीथीति कथिता बुधैः ।
अस्यां प्रायेण लास्याङ्ग-दशकं योजयेन् न वा
272
सामान्या परकीया वा नायिकात्रानुरागिणी ।
वीथ्य्-अङ्ग-प्राय-वृत्तित्वान् नोचिता कुल-पालिका । 273
लक्ष्यम् अस्यास् तु विज्ञेयं माधवी-वीथिकादिकम्
अथ प्रहसनम्-
वस्तु-सन्ध्य्-अङ्क-लास्याङ्ग-वृत्तयो यत्र भाणवत् । 274
रसो हास्यः प्रधानं स्याद् एतत् प्रहसनं मतम्
विशेषेण दशाङ्गानि कल्पयेद् अत्र तानि तु । 275
अवगलितावस्कन्दौ व्यवहारो विप्रलम्भ उपपत्तिः ।
भयम् अनृतं विभ्रान्तिर् गद्गद-वाक् च प्रलापश् च
276
तत्र अवगलितम्-
पूर्वम् आत्म-गृहीतस्य समाचारस्य मोहतः ।
दूषणं त्यजनं चात्र द्विधावगलितं मतम्
277
यथा आनन्द-कोश-नामनि प्रहसने, मिथ्या-तीर्थः-
यानि द्यन्ति गलाद् अधः सुकृतिनो लोम्नां च तेषां स्थितिं
यान्य् ऊर्ध्वं परिपोषयन्ति पुरुषास् तेषां मुहुः खण्डनम् ।
कृत्वा सर्व-जगद्-विरुद्ध-विधिना सञ्चारिणां मादृशां
श्री-गीता च हरीतकी च हरतो हन्तोपभोग्यं वयः
अत्र केनापि यति-भ्रष्टेन स्व-गृहीतस्य यत्य्-आश्रमस्य दूषणाद् इदम् अवगलितम् ।
त्यजनाद्, यथा प्रबोध-चन्द्रोदये, क्षपणकः-
अयि पीण-घणत्थण-सोहणि पलितत्थकुलंग-विलोअणि ।
जै लमसि कावालिणी-भावेहिं साबका किं कलिस्संदि
अहो कावालिणीअदंसणं जेब्ब एक्कं सौक्खमोक्ख-साहणम् । (प्रकाशम्) भो काबालिअ हग्गे तुहके संपदं दासो संबुत्तो । मं पि महाभैरवानुसासणे दिक्खय ।
[अयि पीन-घन-स्तन-शोभने परित्रस्त-कुरङ्ग-विलोचने ।
यदि रमसे कापालिनी-भावैः श्रावकाः किं करिष्यन्ति ।
अहो कापालिनी-दर्शनम् एव एकं सौख्य-मोक्ष-साधनम् । (प्रकाशम्) भो कापालिक अहं तव सम्प्रतं दासः संवृत्तः । माम् अपि महा-भैरवानुशासने दिक्षय ।]
इत्य् आदौ क्षपणकस्य स्व-मार्ग-परिभ्रंश अवगलितम् ।
अथ अवस्कन्दः-
अवस्कन्दस् त्व् अनेकेषाम् अयोग्यस्यैक-वस्तुनः ।
सम्बन्धाभास-कथनात् स्व-स्व-योग्यत्व-योजना
278
यथा प्रहसने (आनन्द-कोश-नामनि)-
यतिः-साक्षाद् भूतं वदति कुचयोर् अन्तरं द्वैत-वादं
बौद्धः-दृष्ट्योर् भेदः क्षणिक-महिमा सौगते दत्त-पादः ।
जैनः-बाह्वोर् मूले नयति शुचिताम् अर्हती कापि दीक्षा
सर्वे-नाभेर् मूलं प्रथयति फलं सर्व-सिद्धान्त-सारम्
अत्र यति-बौद्ध-जैनानां गणिकायां स्व-स्व-सिद्धान्त-धर्म-सम्बन्ध-कथनेन स्व-स्व-पक्ष-परिग्रह-योग्यत्व-योजनाद् अवस्कन्दः ।
अथ व्यवहारः-
व्यवहारस् तु संवादो द्वित्राणां हास्य-कारणम्
279अ
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (यतिं विलोक्य)-कुतो मण्ड एक-दण्डी ।
मिथ्या-तीर्थः (विलोक्य दृष्टिम् अपकर्षन् आत्म-गतम्)-क्षणिकवादी न सम्भाषणीय एव । तथापि दण्डम् अन्तर्धाय निरुत्तरं करोमि । (प्रकाशम्) अये शून्य-वादिन् ! अदण्डः अमुण्डोऽ हम् आगलाद् अस्मि ।
जैनः (आत्म-गतम्)-नूनम् असौ मायावादी । भवतु । अहम् अपि किम् अप्य् अन्तर्धाय प्रस्तुतं पृच्छामि । (प्रकाशम्) अये महा-परिणाम-वादिन् ! बृहद्-बीज लोम्नां समान-जातीयत्वेऽ पि केषाञ्चित् सङ्कर्तनम् अन्येषां संरक्षणम् इति व्यवस्थितौ किं प्रमाणम् ?
मिथ्या-तीर्थः-जीवद् अमेध्यं जङ्गम-नरको नर-पिशाचोऽ यम् अन्तर्धायापि न सम्भाषणीयः ।
निष्कच्छ-कीर्तिः (सादरम्)-सखे ! आर्हत-मुने वादे त्वया अयम् अप्रतिपत्तिं नाम निग्रह-स्थानम् आरोपितो मायावादी ।
मिथ्या-तीर्थः (आत्म-गतम्)-नूनम् इमाव् अपि मादृशाव् एव लिङ्ग-धारण-मात्रेण कुक्षिम्भरई स्याताम् । (इति पिप्पल-मूल-वेदिकायां निषीदति ।)
इत्य् अत्र यति-बौद्ध-जैनानां संवादो व्यवहारः ।
अथ विप्रलम्भः-
विप्रलम्भो वञ्चना स्याद् भूतावेशादि-कैतवात्
279ब्
यथा प्रहसने (आनन्द-कोश-नामनि तत्रैव)-
प्रियाम् अहं पूर्व-भृतां नाम्ना स्वच्छन्द-भक्षिणी ।
गृह्णाम्य् एनां यदि त्रातुं कृपा वः श्रूयताम् इदम्
सुराघटानां सप्तत्या विंशत्या दृप्त-गड्डुरैः ।
छागैश् च दशभिः कार्या चिरण्टी-तर्पण-क्रिया
अद्य कर्तुम् अशक्यं चेत् तत्-पर्याप्ततमं धनम् ।
आस्थाप्यम् अस्याः साक्षिण्याः जरठायाः पटाञ्चले
(इति पुनर् अपि व्यात्त-वदनं नृत्यति ।)
निष्कच्छ-कीर्तिः-हे व्रतिनौ ! किम् अत्र विधेयम् ?
मिथ्या-तीर्थः-भोः अहिंसा-वादिन् ! म्रियमाणः प्राणी न रक्षणीय इति किं युष्मद्-धर्मः ?
अरूपाम्बरः (साक्षेपम्)-एकेन सुखम् उपादेयम् । अन्येन धनं प्रदेयम् इति किं युष्मद्-धर्मः ?
निष्कच्छ-कीर्तिः सान्तर्हासं स्व-धनं यति-धनं च जरठायाः पटाञ्चले बद्ध्वा सबलात्कारं जैनस्य कटकं तस्याः पाद-मूलेऽ र्पयति ।)
मधुमल्लिका (साङ्ग-भङ्गं सस्म्रण-भयम् इव)-अम्मो देवदा विलम्बेण कुप्पिस्सदि । ता चिरंटि-आतप्पणं कादुं गच्छेमि । [अम्हो ! देवता विलम्बेन कोपिष्यति । तत् चिरण्टिका-तर्पणं कर्तुं गच्छामि ।] (इति कटकम् आदाय निष्क्रान्ता ।)
इत्य् आदौ भूतावेश-कैतवेन जैन-बौद्ध-संन्यासिनो विलोभ्य धनं कयापि गणिकया गृहीतम् इत्य् अयं विप्रलम्भः ।
अथ उपपत्तिः-
उपपत्तिस् तु सा प्रोक्ता यत् प्रसिद्धस्य वस्तुनः ।
लोक-प्रसिद्धया युक्त्या साधनं हास्य-हेतुना
280
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) मिथ्या-तीर्थः (पुरोऽ वलोक्य)-अये उपसरित्-तीरे पिप्पल-नामा वनस्पतिः । यश् च गीतासु भगवता निज-विभूतितया निर्दिष्टः । (विचिन्त्य) कथम् अस्य तरोर् इयती महिम-सम्भावना । (विमृश्य) उपपद्यत एव-
तत् पदं तनु-मध्याया येनाश्वत्थ-दलोपमम् ।
तद्-अश्वत्थोऽ स्मि वृक्षाणाम् इत्य् ऊचे भगवान् हरिः
इति ।
अत्र लोक-प्रसिद्धेन अश्वत्थ-दलोरु-मूलयोः साम्येन हेतुना लोक-प्रसिद्धस्यैव भगवद्-अश्वत्थयोर् ऐक्यस्य साधनं हास्य-कारणम् उपपत्तिः ।
अथ भयम्-
स्मृतं भयं तु नगर-शोधकादि-कृतो दरः
281अ
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) जैनः-अहो अराजकोऽ यं विषयः यत् नगर-परिसराश्रित-तपस्विनां धनं चोर्यते (इत्य् उद्वाहुर् आक्रोशति) ।
नगर-रक्षकाः-अये किम् अपहृतं धनम् । कियत् (इति तं परितः प्रविश्य परिसर्पन्ति ।)
अरूपाम्बरः-धिक् कष्टम् । नगर-शीघ्रकाः समायान्ति । (इत्य् ऊर्ध्व-बाहुर् ओष्ठ-स्पन्दनं करोति । मिथ्या-तीर्थो गणिकाम् आक्षिप्य समाधिं नाटयति । निष्कच्छ-कीर्तिर् एक-पादेनावतिष्ठमानः कराङ्गुलीर् गणयति) इत्य् आदौ जैनादीनां भय-कथनाद् भयम् ।
अथ अनृतम्-
अनृतं तु भवेद् वाक्यम् असभ्य-स्तुति-गुम्फितम् । 281
तद् एवानृतम् इत्य् आहुर् अपरे स्व-मत-स्तुतेः
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि)-
बालातपेन परिमृष्टम् इवारविन्दं
माञ्जिष्ठ-चेलम् इव मान्मथम् आतपत्रम् ।
सालक्त-लेखम् इव सौख्य-करण्डम् अद्य
यूनां मुदे तरुणि तत् पदम् आर्तवं ते
अत्र आर्तवारुणस्योरु-मूलस्य (असभ्यस्य) वर्णनाद् इदम् अनृतम् ।
अपरं, यथा कर्पूर-मञ्जर्याम्, भैरवानन्दः-
रंडा चंडा दिक्खदा धम्म-दारा
मज्जं मंसं पिज्जए खज्जए अ ।
भिक्खा भोज्जं चम्म-खण्डं च सेज्जा
कोलो धम्मो कस्स णो भादि रम्मो
[क.मं. 1.23]
[रण्डा चण्डा दीक्षिता धर्म-दारा
मद्यं मांसं पीयते खाद्यते च ।
भिक्षा भोज्यं चर्म-खण्डं च शय्या
कौलो धर्मः कस्य नो भाति रम्यः ॥]
अथ विभ्रान्तिः-
वस्तु-साम्य-कृतो मोहो विभ्रान्तिर् इति गीयते
282ब्
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) बौद्धः (पुरोऽ वलोक्य)-
हेम-कुम्भवती रम्य-तोरणा चारु-दर्पणा ।
कापि गन्धर्व-नगरी दृश्यते भूमि-चारिणी
जैनः-अये क्षण-भङ्ग-वादिन् एतद् उत्पात-फलं प्रथम-दर्शिनो भवत एव परिणमेत् । (इति लोचने निमीलयति ।)
बौद्धः (पुनर् निर्वर्ण्य)-हन्त किम् अपदे भ्रान्तोऽ स्मि ।
न पुरीयं विशालाक्षी न तोरणम् इमे भ्रुवौ ।
न दर्पणम् इमौ गण्डौ न च कुम्भाव् इमौ स्तनौ
इत्य् अत्र बौद्धस्य मोहो विभ्रान्तिः ।
अथ गद्गद-वाक्-
असत्य-रुदितोन्मिश्रं वाक्यं गद्गद-वाग् भवेत्
283अ
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) (भगिन्यौ परस्परम् आश्लिष्य रुदित इव) गुह्यग्राही (आत्मगतम्)-
अनुपात्त-बाष्प-कणिकं गद्गद-निःश्वास-कलितम् अव्यक्तम् ।
अनयोर् असत्य-रुदितं सुरतान्त-दशां व्यनक्तीव
अत्र गद्गद-वाक्त्वं स्पष्टम् ।
अथ प्रलापः-
प्रलापः स्याद् अयोग्यस्य योग्यत्वेनानुमोदनम्
283ब्
यथा तत्रैव प्रहसने (आनन्द-कोश-नामनि) राजा (सौदार्योद्रेकम्)-अये विडालाक्ष अस्मदीये नगरे विषये च-
पति-हीना च या नारी जाया-हीनश् च यः पुमान् ।
तौ दम्पती यथा-कामं भवेताम् इति घुष्यताम्
विडालाक्षः-देवः प्रमाणम् । (इति सानुचरो निष्क्रान्तः ।)
गुह्य-ग्राही (स-श्लाघा-गौरवम्)-
नष्टाश्व-भग्न-शकट-न्यायेन प्रतिपादितम् ।
उचिता ते महाराज सेयं कारुण्य-घोषणा
अपि च-
मन्वादयो महीपालाः शतशो गाम् अपालयन् ।
न केनापि कृतो मार्ग एवम् आश्चर्य-शौख्यदः
अत्र अयोग्यस्यापि राजादेशस्य धर्माधिकारिणा गुह्य-ग्राहिणा न्याय-परिकल्पनया योग्यत्वेनानुमोदनाद् अयं प्रलापः ।
प्रहसनस्य शुद्धादि-भेदाः-
शुद्धं कीर्णं वैकृतं च तच् च प्रहसनं त्रिधा ।
शुद्धं श्रोत्रिय-शाखादेर् वेष-भाषादि-संयुतम्
284
चेट-चेटी-जन-व्याप्तं तल् लक्ष्यं तु निरूप्यताम् ।
आनन्द-कोश-प्रमुखं तथा भगवद्-अज्जुकम्
285
कीर्णं तु सर्वैर् वीथ्य्-अङ्गैः सङ्कीर्णं धूर्त-सङ्कुलम् ।
तस्योदाहरणं ज्ञेयं बृहत्-सौभद्रकादिकम्
286
यच् चेदं कामुकादीनां वेष-भाषादि-सङ्गतैः ।
षण्डताप-सवृद्धाद्यैर् युतं तद् वैकृतं भवेत् । 287
कलिकेलि-प्रहसन-प्रमुखं तद् उदाहृतम्
अथ डिमः-
ख्यातेतिवृत्तं निर्हास्य-शृङ्गारं रौद्र-मुद्रितम् । 288
सात्त्वती-वृत्ति-विरलं भारत्य्-आरभटी-स्फुटम्
नायकैर् उद्धतैर् देव-यक्ष-राक्षस-पन्नगैः । 289
गन्धर्व-भूत-वेताल-सिद्ध-विद्याधरादिभिः
समन्वितं षोडशभिर् न्याय-मार्गण-नायकम् । 290
चतुर्भिर् आङ्कैर् अन्वीतं निर्विमर्शक-सन्धिभिः
निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् । 291
स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः ।
अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम्
292
अथ ईहामृगः-
यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् ।
चत्वारोऽ ङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः
293
धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः ।
दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः
294
स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः ।
रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना
295
स्वल्पस् तस्याः प्रवेशो वा सोऽ यम् ईहामृगो मतः ।
व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम्
296
तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका ।
इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना । 297
सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः
अथ नाटक-परिभाषा-
अथ रूपक-निर्माण-परिज्ञानोपयोगिनी । 298
श्री-सिंह-धरणीशेन परिभाषा निरूप्यते
परिभाषात्र मर्यादा पूर्वाचार्योपकल्पिता । 299
सा हि नौर् अतिगम्भीरं विविक्षोर् नाट्य-सागरम्
एषा च भाषा-निर्देश-नामभिस् त्रिविधा मता । 300
तत्र भाषा द्विधा भाषा विभाषा चेति भेदतः
चतुर्दश विभाषाः स्युः प्राच्याद्या वाक्य-वृत्तयः । 301
आसां संस्कार-राहित्याद् विनियोगो न कथ्यते
उत्तमादिषु तद्-देश-व्यवहारात् प्रतीयताम् । 302
भाषा द्विधा संस्कृता च प्राकृती चेति भेदतः
कौमार-पाणिनीयादि-संस्कृता संस्कृता मता । 303
इयं तु देवतादीनां मुनीनां नायकस्य च ।
लिङ्गिनां च विटादीन्म् अनीचानां प्रयुज्यते
304
अथ प्राकृती-
प्रकृतेः संस्कृतायास् तु विकृतिः प्राकृती मता । 305
षड्-विधा सा प्राकृतं च शौरसेनी च मागधी
पैशाची चूलिका पैशाच्य् अपभ्रंश इति क्रमात् । 306
अत्र तु प्राकृतं स्त्रीणां सर्वासां नियतं भवेत्
क्वचिच् च देवी गणिका मन्त्रिजा चेति योषिताम् । 307
योगिन्य्-अप्सरसोः शिल्प-कारिण्या अपि संस्कृतम्
ये नीचाः कर्मणा जात्या तेषां प्राकृतम् उच्यते । 308
छद्म-लिङ्गवतां तद्वज् जैनानाम् इति केचन
अधमे मध्यमे चापि शौरसेनी प्रयुज्यते । 309
धीवराद्य्-अतिनीचेषु मागधी च नियुज्यते
रक्षः-पिशाच-नीचेषु पैशाची-द्वितयं भवेत् । 310
अपभ्रंशस् तु चण्डाल-यवनादिषु युज्यते
नाटकादाव् अपभ्रंश-विन्यासस्यासहिष्णवः । 311
अन्ये चण्डालकादीनां मागध्य्-आदीन् प्रयुञ्जते
सर्वेषां कारण-वशात् कार्यो भाषा-व्यतिक्रमः । 312
माहात्म्यस्य परिभ्रंशं मदस्यातिशयं तथा
प्रच्छादनं च विभ्रान्तिं यथालिखित-वाचनम् । 313
कदाचिद् अनुवादं च कारणानि प्रचक्षते
अथ निर्देश-परिभाषा-
साक्षाद् अनाम-ग्राह्याणां जनानां प्रतिसंज्ञया । 314
आह्वान-भङ्गी नाट्यज्ञैर् निर्देश इति गीयते
स त्रिधा पूज्य-सदृश-कनिष्ठ-विषयत्वतः । 315
पूज्यास् तु देवो मुनयो लिङ्गिनस् तत्-समास्त्रियः
बहुश्रुताश् च भगवच्-छब्द-वाच्या भवन्ति हि । 316
आर्येति ब्राह्मणो वाच्यो वृद्धस् तातेति भाष्यते
उपाध्यायेति चाचार्यो गणिका त्व् अज्जुकाख्यया । 317
महाराजेति भूपालो विद्वान् भाव इतीर्यते
छन्दतो नामभिर् वाच्या ब्राह्मणैस् तु नराधिपाः । 318
देवेति नृपतिर् वाच्यो भृत्यैः प्रकृतिभिस् तथा
सार्वभौमः परिजनैर् भट्ट-भट्टारकेति च । 319
वाच्यो राजेति मुनिभिर् अपत्य-प्रत्ययेन वा
विदूषकेण तु प्रायः सखे राजन् नितीच्छया । 320
ब्राह्मणैः सचिवो वाच्यो ह्य् अमात्य सचिवेति च
शैषाइर् आर्येत्य् अथायुष्मन् इति सारथिना रथी । 321
तपस्वि-साधु-शब्दाभ्यां प्रशान्तः परिभाष्यते
स्वामीति युव-राजस् तु कुमारो भर्तृ-दारकः । 322
आवुत्तेति स्वसुर् भर्ता स्यालेति पृतना-पतिः
भट्टिनी स्वामिनी देवी तथा भट्टारिकेति च । 323
परिचारजनैर् वाच्या योषितो राज-वल्लभाः
राज्ञा तु महिषी वाच्या देवीत्य् अन्याः प्रिया इति । 324
सर्वेण पत्नी त्व् आर्येति पितुर् नाम्ना सुतस्य वा
तात-पादा इति पिता माताम्बेति सुतेन तु । 325
ज्येष्ठास् त्व् आर्या इति भ्रात्रा तथा स्युर् मातुलादयः
अथ सदृश-निर्देशः-
सदृशः सदृशो वाच्यो वयस्येत्य् आह्वयेन वा । 326
हलेति सख्या तु सखी कथनीया सखीति वा
अथ कनिष्ठ-निर्देशः-
सुत-शिष्य-कनीयांसो वाच्या गुरु-जनेन हि । 327
वत्स-पुत्रक-दीर्घायुस्-तात-जातेति संज्ञया
अन्यः कनीयान् आर्येण जनेन परिभाष्यते । 328
शिल्पाधिकार-नामभ्यां भद्र भद्र-मुखेति
वाच्ये नीचातिनीचे तु हण्डे हञ्जे इति क्रमात् । 329
भर्त्रा वाच्याः स्व-स्व-नाम्ना भृत्याः शिल्पोचितेन वा
एवम् आदि प्रकारेण योज्या निर्देश-योजना । 330
लोक-शास्त्राविरोधेन विज्ञेया काव्य-कोविदैः
अथ नाम-परिभाषा-
अनुक्त-नाम्नः प्रख्याते कञ्चुकि-प्रभृतेर् अपि । 331
इतिवृत्ते कल्पिते तु नायकादेर् अपि स्फुटम्
रस-वस्तूपयोगीनि कविर् नामानि कल्पयेत् । 332
विनयन्धर-बाभ्रव्य-जयन्धर-जयादिकम्
कार्यं कञ्चुकिनां नाम प्रायो विश्वास-सूचकम् । 333
लतालङ्कार-पुष्पादि-वस्तूनां ललितात्मनाम्
नामभिर् गुण-सिद्धैर् चेटीनां नाम कल्पयेत् । 334
करभः कलहंसश् चेत्य् आदि नामानुजीविनाम्
कर्पूर-चण्ड-काम्पिल्येत्य् आदिकं नाम वन्दिनाम् । 335
सुबुद्धि-वसुभूत्यादि-मन्त्रिणां नाम कल्पयेत्
देवरातः सोमरात इति नाम पुरोधसः । 336
श्रीवत्सो गौतमः कौत्सो गार्ग्यो मौद्गल्य इत्य् अपि
वसन्तकः कापिलेय इत्य् आख्येयो विदूषकः । 337
प्रताप-वीर-विजय-मान-विक्रम-साहसैः
वसन्त-भूषणोत्तंस-शेखराङ्क-पदोत्तरैः । 338
धीरोत्तराणां नेतॄणां नाम कुर्वीत कोविदः
चन्द्रापीडः कामपाल इत्य् आद्यं ललितात्मनाम् । 339
उग्रवर्मा चण्डसेन इत्य् आद्य्-उद्धत-चेतसाम्
दत्त-सेनान्त-नामानि वैश्यानां कल्पयेत् सुधीः । 340
कर्पूर-मञ्जरी चन्द्रलेखा रागतरङ्गिका
पद्मावतीति प्रायेण नाम्ना वाच्या हि नायिका । 341
देव्यस् तु धारिणी-लक्ष्मी-वसुमत्यादि-नामभिः
भोगवती कान्तिमती कमला कामवल्लरी । 342
इरावती हंसपदीत्य् आदि-नाम्ना तु भोगिनी
विप्रक्षत्र-विशः शर्म-वर्म-दत्तान्त-नामभिः । 343
शिखण्डाङ्गद-चूडान्त-नाम्ना विद्याधराधिपाः
कुण्डलानन्द-घण्टान्त-नाम्ना कापालिका जनाः । 344
योगसुन्दरिका वंशप्रभा विकटमुद्रिका
शङ्ख-केयूरिकेत्य् आदि-नाम्ना कापालिक-स्त्रियः । 345
आनन्दिनी सिद्धिमती श्रीमती सर्वमङ्गला
यशोवती पुत्रवतीत्य् आदि-नाम्ना सुवासिनी । 346
इत्य् आदि सर्वम् आलोच्य लक्षणं कृत-बुद्धिना
कविना कल्पितं काव्यम् आचन्द्रार्कं प्रकाशते । 347
लक्ष्य-लक्षण-निर्माण-विज्ञान-कृत-बुद्धिभिः
परीक्ष्यताम् अयं ग्रन्थो विमत्सर-मनीषया । 348
भरतागम-पारीणः श्रीमान् सिंह-महीपतिः ।
रसिकः कृतवान् एवं रसार्णव-सुधाकरम्
349
संरम्भाद् अनपोत-सिंह-नृपतेर् धाटी-समाटीकने
निःसाणेषु धणं धणं धणम् इति ध्वानानुसन्धायिषु ।
मोदन्ते हि रणं रणं रणम् इति प्रौढास् तदीया भटा
भ्रान्तिं यान्ति तृणं तृणं तृणम् इति प्रत्यर्थि-पृथ्वी-भुजः
350
मत्वा धात्रा तुलायां लघुर् इति धरणीं सिंह-भूपाल-चन्द्रे
सृष्टे तत्रातिगुर्व्यां तद्-उपनिधितया स्थाप्यमानैः क्रमेण ।
चिन्तारत्नौघ-कल्प-द्रुम-तति-सुरभी-मण्डलैः पूरितान्ताप्य्
ऊर्ध्वं नीता लघिम्ना तद्-अरि-कुल-शतैः पूर्यतेऽ द्यापि सा द्यौः
मूल पाठ: Rasārṇavasudhākara · Edition: T. Venkatacharya. Madras: Adyar Library and Research Centre, 1979. (Adyar Library Series, 110) · Data entry Jan Brzezinski · GRETIL (Göttingen) · CC BY-NC-SA 4.0