भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 5

5.1

नियामनादिकं कर्म क्रामणान्तं सुरेश्वर
यया सम्पद्यते ह्य् एषाम् ओषधीं वक्तुमर्हसि ॥

5.2

सर्पाक्षो वह्निकर्कोटी कञ्चुकी जलबिन्दुजा
शतावरी भृङ्गराजः शरपुङ्खा पुनर्नवा ॥

5.3

मण्डूकपर्णी मत्स्याक्षी ब्रह्मदण्डी शिखण्डिनी
अनन्ता काकजङ्घा च काकमाची कपोतिका ॥

5.4

विष्णुक्रान्ता सहचरा सहादेवी महाबला
बला नागबला कृष्णा चक्रमर्दः कुरुङ्गिणी ॥

5.5

पाठा चामलकी नीली ज्वालिनी पद्मचारिणी
फणित्रिजिह्वा गोजिह्वा कोकिलाक्षो घनध्वनिः ॥

5.6

आखुपर्णी त्रिपर्णी च द्विपर्णी चैकपर्णिका
तित्तिडी क्षीरिणी रास्ना मेषशृङ्गी च कुक्कुटी ॥

5.7

कृष्णपर्णी च तुलसी श्वेता च गिरिकर्णिका
एता नियामकौषध्यः पुष्पमूलदलान्विताः
दोलास्वेदः प्रकर्तव्यो मूलेनानेन सुव्रते ॥

5.8

चण्डाली राक्षसी व्याघ्री खड्गारी गजकर्णिका
शङ्खपुष्प्यग्निधमनी लाङ्गली बालमोचका ॥

5.9

रक्तस्नुही रक्तशृङ्गी रक्तिका नीलचित्रकः
शृगालजिह्वा बृहती वज्रा चक्री च राजिका ॥

5.10

एकवीरा नरकसा रुदन्ती ब्रह्मचारिणी
उच्चटा मानिनीकन्दा कुमारी रक्तचित्रकः ॥

5.11

लक्ष्मीः शाखोटकश्चैव कञ्चुकी मेषशृङ्गिका
हिमावती सोमलता मोदा व्याघ्रनखी शमी ॥

5.12

काञ्चनी वनराजी च काकमाची च केशिनी
अजमारी कोटराक्षी हनूमत्यङ्गनायिका ॥

5.13

नरजीवा हेमपुष्पी काकमुण्डी च कालिका
तोयवल्ली गजारी च हंसाङ्घ्री कुहुकंविका
ताम्बूली सूर्यभक्ता च रसनिर्जीवकारिकाः ॥

5.14

कटुतुम्बी च गोसन्धी देवदालीन्द्रवारुणी
वाकुची ब्रह्मबीजानि कार्पासं कृष्णजीरकम् ॥

5.15

कङ्गुनी कृष्णकनकं श्वेतार्कं च पिपीलिजम्
दन्तिनी यवचिञ्चा च कर्कोटी कारवल्लिका ॥

5.16

गोजिह्वा काकजङ्घा च महाकाली च शम्बरी
श्वेतगुञ्जा सिताङ्कोलः पटोली बिल्वमेव च
एकैकमोषधीबीजं मारयेद्रसभैरवम् ॥

5.17

रक्तस्नुही सोमलता रुदन्ती रक्तचित्रकः
शाखोटकी दग्धरुहा मोदिनी वृद्धदारुकः ॥

5.18

त्रिशूली कृष्णमार्जारी चक्रिका क्षीरकुक्कुटी
देवदाली शङ्खपुष्पी काकमाची हनूमती ॥

5.19

नीलज्योतिस् तृणज्योतिर् उत्कटा हेमवल्लरी
त्रिदण्डी ब्रह्मदण्डी च चक्राङ्की स्थलपद्मिनी ॥

5.20

नागजिह्वा नागकर्णी वीरा वर्तुलपर्णिका
अर्कपत्त्री वंशपत्त्री ताम्रपर्णी तथेश्वरी
इन्दुरी देवदेवेशि रसबन्धकराः प्रिये ॥

5.21

तीव्रगन्धरसस्पर्शैर् द्रव्यैः स्थावरजङ्गमैः
म्रियते बध्यते चैव रसः स्वेदनमर्दनात् ॥

5.22

सूर्यावर्तश्च कदली वन्ध्या कोशातकी तथा
वज्रकन्दोदककणा काकमाची च शिग्रुकः ॥

5.23

देवदाली च देवेशि द्राविकाः परिकीर्तिताः
दोषान् हरन्ति योगिन धातूनां पारदस्य च ॥

5.24

काकमाची घनरवः कासमर्दः कृताञ्जलिः
वराहकर्णी सटिरी हंसदावी शतावरी ॥

5.25

ताम्बूली नागिनी ब्रह्मी हंसपादी च लक्षणा
अर्जुनी क्षीरनाली च कारवेल्लो ऽर्कपत्त्रिका
व्याघ्री चवी कुरवकः क्रामिकाः सुरवन्दिते ॥

5.26

ब्रह्मदण्डः सुदण्डश्च लोहदण्डस्तृतीयकः
एते रसायने योग्या ब्रह्मविष्णुमहेश्वराः ॥

5.27

भूपाटली च कौमारी सिंहवल्ली च शूकरी
हेमपर्णी पटोली च नागवल्ली च भृङ्गराट्
इत्यष्ट मूलिकाः प्रोक्ताः पञ्चरत्नं शृणु प्रिये ॥

5.28

मन्त्रसिद्धासना देवी तथा कङ्कालखेचरी
इन्दिरा च क्षमापाली पञ्चमी तु निशाचरी
पञ्चरत्नमिदं देवि रसशोधनजारणे ॥

5.29

रसस्य बन्धने शस्तम् एकैकं सुरवन्दिते
रसाङ्कुशेन गृह्णीयात् पञ्चरत्नानि सुव्रते
ददाति खेचरीं सिद्धिं रसभैरवसंगमे ॥

5.30

त्रिक्षारं टङ्कणक्षारो यवक्षारश्च सर्जिका
तिलापामार्गकदली पलाशशिग्रुमोचिकाः
मूलकार्द्रकचिञ्चाश्च वृक्षक्षाराः प्रकीर्तिताः ॥

5.31

अम्लवेतसजम्बीर लुङ्गाम्लचणकाम्लकम्
नारङ्गं तिन्तिणीकं च चाङ्गेर्यम्लगणोत्तमाः ॥

5.32

सामुद्रं सैन्धवं चैव चूलिकालवणं तथा
सौवर्चलं च काचं च लवणाः पञ्च कीर्तिताः ॥

5.33

सक्तुकं कालकूटं च सितमुस्ता तथैव च
शृङ्गी कृष्णविषं चैव पञ्चैते तु महाविषाः ॥

5.34

स्नुह्यर्कोन्मत्तकं चैव करवीरं च लाङ्गली
पञ्चैवोपविषा मुख्याः तैलानि ह्य् उत्तमानि वै
कुसुम्भकङ्गुणीनक्ता तिलसर्षपजानि तु ॥

5.35

हस्त्यश्वछागनारीणां मूत्रं गव्यं च पञ्चमम् ॥

5.36

पित्तं पञ्चविधं मत्स्य गवाश्वनरबर्हिजम् ॥

5.37

वसा पञ्चविधा मत्स्य मेषाहिनरबर्हिजा ॥

5.38

कपोतचाषगृध्राणां शिखिकुक्कुटयोश्च विट् ॥

5.39

मञ्जिष्ठा कुङ्कुमं लाक्षा खदिरश्चासनं तथा
रक्तवर्गस्तु देवेशि पीतवर्गमतः शृणु
कुसुम्भं किंशुकं रात्री पतंगो मदयन्तिका ॥

5.40

शुक्लवर्गः सुधाकूर्म शङ्खशुक्तिवराटिकाः ॥

5.41

गुञ्जाटङ्कणमध्वाज्य गुडा द्रावणपञ्चकम् ॥

5.42

काचटङ्कणसौवीरं शोधनत्रितयं प्रिये ॥

5.43

सर्वे मलहराः क्षाराः सर्वे चाम्लाः प्रबोधकाः
विषाणि च तमोघ्नानि स्नेहा मार्दवकारकाः ॥

5.44

इत्योषधिगणाः प्रोक्ताः सिद्धिदा रससंगमे
क्रियां कुर्वन्ति तद्योगात् शक्तयश्च महारसाः ॥

5.45

तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc