रसार्णव · अध्याय 4
यन्त्रमूषाग्निमानानि न ज्ञात्वा मन्त्रवेद्यपि
किं करोति महादेव तानि मे वक्तुमर्हसि ॥
रसोपरसलोहानि वसनं काञ्जिकम् विडम्
धमनीलोहयन्त्राणि खल्लपाषाणमर्दकम् ॥
कोष्ठिका वक्रनालं च गोमयं सारमिन्धनम्
मृन्मयानि च यन्त्राणि मुसलोलूखलानि च ॥
सण्डसीपट्टसंदंशं मृत्पात्रायःकटोरकम्
प्रतिमानानि च तुला छेदनानि कषोपलम् ॥
वंशनाडीलोहनाडीम् ऊषाङ्गारांस् तथौषधीः
स्नेहाम्ललवणक्षार विषाण्युपविषाणि च ॥
एवं संगूह्य सम्भारं कर्मयोगं समाचरेत् ॥
द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च
मुखे तिर्यक्कृते भाण्डे रसं सूत्रेण लम्बितम्
तं स्वेदयेत् तलगतं दोलायन्त्रमिति स्मृतम् ॥
लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः
ईषच् छिद्रान्विताम् एकां तत्र गन्धकसंयुताम् ॥
मूषायां रसयुक्तायाम् अन्यस्यां तां प्रवेशयेत्
तोयं स्यात् सूतकस्याधः ऊर्ध्वाधो वह्निदीपनम् ॥
रसोनकरसं भद्रे यत्नतो वस्त्रगालितम्
दापयेत्प्रचुरं यत्नात् आप्लाव्य रसगन्धकौ ॥
स्थालिकायां निधायोर्ध्वं स्थालीम् अन्यां दृढां कुरु
संधिं विलेपयेद्यत्नात् मृदा वस्त्रेण चैव हि ॥
स्थाल्यन्तरे कपोताख्यं पुटं कर्षाग्निना सदा
यन्त्रस्याधः करीषाग्निं दद्यात्तीव्राग्निमेव वा ॥
एवं तु त्रिदिनं कुर्यात् ततो यन्त्रं विमोचयेत्
तप्तोदके तप्तचुल्ल्यां न कुर्याच्छीतले क्रियाम् ॥
न तत्र क्षीयते सूतो न च गच्छति कुत्रचित्
अनेन क्रमयोगेन कुर्याद्गन्धकजारणम् ॥
ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससंग्रहः
मूषायन्त्रमिदं देवि जारयेद्गगनादिकम् ॥
गर्भयन्त्रं प्रवक्ष्यामि पिष्टिकाभस्मकारणम्
चतुरङ्गुलदीर्घां तु मूषिकां मृन्मयीं दृढाम् ॥
त्र्यङ्गुलां मध्यविस्तारे वर्तुलं कारयेन्मुखम्
लोहस्य विंशतिर्भागा एको भागस्तु गुग्गुलोः ॥
सुश्लक्ष्णं पेषयित्वा तु तोयं दद्यात् पुनः पुनः
मूषालेपं ततः कुर्यात् तले पिष्टीं च निक्षिपेत् ॥
तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत्
अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ॥
जारणे मारणे चैव रसराजस्य रञ्जने
यन्त्रमेकं परं मर्म यत्रौषध्यो महाबलम् ॥
औषधीरहितश्चायं हठाद्यन्त्रेण बध्यते
सर्वत्र सूतको याति मुक्त्वा भूधरलक्षणम् ॥
देवताभिः समाकृष्टो लोष्टस्थो ऽपि हि गच्छति
तस्माद्यन्त्रबलं चैकं न विलङ्घ्यं विजानता ॥
मन्त्रौषधिसमायोगात् सुसिद्धं कुरुते ह्य् अयम्
मन्त्रो ऽघोरो ऽत्र जप्तव्यो जपान्ते पूजयेद्रसम् ॥
एकान्ते तु क्रिया कार्या दृष्टान्यैर्विफला भवेत् ॥
गन्धकस्य क्षयो नास्ति न रसस्य क्षयो भवेत्
क्षयो यन्त्रस्य विज्ञेयः यन्त्रे विक्रियते क्रिया
अलाभे कान्तलोहस्य यन्त्रं लोहेन कारयेत् ॥
वह्निलक्ष्यम् अविज्ञाय रसस्यार्धक्षयो भवेत्
यन्त्रक्षयविधिज्ञस्य चतुर्थांशक्षयो भवेत् ॥
द्विमासेन द्वितीयांशं तृतीयांशं त्रिभिर्भवेत्
महाग्निं सहते ह्य् एष सारितो यत्र तिष्ठति ॥
खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत्
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥
पञ्चक्षारैस्तथा मूत्रैर् लवणैश्च विडं ततः
हंसपाकः स विज्ञातो यन्त्रतन्त्रार्थकोविदैः ॥
कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका
आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमा मध्यमा मता ॥
दग्धधान्यतुषोपेता मृत्तिका कोष्ठिकाविधौ
वक्रनालकृता वापि शस्यते सुरसुन्दरि ॥
गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका
अजाश्वानां मलं दग्धं यावत्तत् कृष्णतां गतम् ॥
वासकस्य च पत्त्राणि वल्मीकस्य मृदा सह
पेषयेद्वह्नितोयेन यावत्तत् श्लक्ष्णतां गतम् ॥
मर्दयेत्तेन बध्नीयात् वक्रनालं च कोष्ठिकाम् ॥
गारा दग्धा तुषा दग्धा दग्धा वल्मीकमृत्तिका
चीरमङ्गारकः किट्टं वज्रेणापि न भिद्यते ॥
दग्धाङ्गारस्य षड्भागा भागैका कृष्णमृत्तिका
चीरमङ्गारकः किट्टं वज्रमूषा प्रकीर्तिता ॥
तुषं वस्त्रसमं दग्धां मृत्तिका चतुरंशिका
कुपीपाषाणसंयुक्ता वरमूषा प्रकीर्तिता ॥
प्रकाशा चान्धमूषा च मूषा तु द्विविधा स्मृता ॥
प्रकाशमूषा देवेशि शरावाकारसंयुता
द्रव्यनिर्वाहणे सा च वादिकैः सुप्रशस्यते ॥
अन्धमूषा तु कर्तव्या गोस्तनाकारसंनिभा
पिधानकसमायुक्ता किंचिद् उन्नतमस्तका ॥
पत्त्रलेपे तथा रङ्गे द्वंद्वमेलापके तथा
सैव छिद्रान्विता मन्दा गम्भीरा सारणोचिता ॥
तिलभस्म द्विर् अंशं तु इष्टकांशसमन्वितम्
भस्ममूषा तु विज्ञेया तारासंशोधने हिता ॥
मोक्षक्षारस्य भागौ द्वौ इष्टकांशसमन्वितौ
मृद्भागास् तारशुद्ध्यर्थम् उत्तमा वरवर्णिनि ॥
रक्तवर्गेण सम्मिश्रा रक्तवर्गपरिप्लुता
रक्तवर्गकृतालेपा सर्वशुद्धिषु शोभना ॥
शुक्लवर्गेण सम्मिश्रा शुक्लवर्गपरिप्लुता
शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शोभना ॥
विडवर्गेण सम्मिश्रा धृतिमिच्छति जारणे
निर्वाहणं प्रकुर्वीत रक्तवर्गप्रलिप्तया ॥
विषटङ्कणगुञ्जाभिः मूषालेपं तु कारयेत्
प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ॥
तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः
लेपो वर्णपुटं देवि रक्तमृत्सिन्धुभूखगैः ॥
आवर्तमाने कनके पीता तारे सिता प्रभा
शुल्वे नीलनिभा तीक्ष्णे कृष्णवर्णा सुरेश्वरि ॥
वङ्गे ज्वाला कपोताभा नागे मलिनधूमका
शैले तु धूसरा देवि आयसे कपिलप्रभा ॥
अयस्कान्ते धूम्रवर्णा सस्यके लोहिता भवेत्
वज्रे नानाविधा ज्वाला खसत्त्वे पाण्डुरप्रभा ॥
न विस्फुलिङ्गो न च बुद्बुदश्च यदा न रेखापटलं न शब्दः
मूषागतं रत्नसमं स्थिरं च तदा विशुद्धं प्रवदन्ति लोहम् ॥
प्रतीवापः पुरा योज्यो निषेकस्तदनन्तरम्
छादनं तु प्रतीवापः निषेकं मज्जनं विदुः
अभिषेकं तदिच्छन्ति स्नपनं क्रियते तु यत् ॥
वापो निषेकः स्नपनं द्रुते निर्मलतां गते
उष्णेनैव हि वाञ्छन्ति शीतलं न च वाञ्छति ॥
शुक्लदीप्तिः सशब्दश्च यदा वैश्वानरो भवेत्
लोहावर्तः स विज्ञेयः सत्त्वं पतति निर्मलम् ॥
षोडशाङ्गुलविस्तीर्णं हस्तमात्रायतं शुभम्
धातुसत्त्वनिपातार्थं कोष्ठकं वरवर्णिनि ॥
वंशखादिरमाधूक बदरीदारुसम्भवः
परिपूर्णं दृढाङ्गारैः धमेद्वातेन कोष्ठकम्
भस्त्रया ज्वालमार्गेण ज्वालयेच्च हुताशनम् ॥
प्रविततमुखभागं संवृतान्तःप्रदेशं स्थलरचितचिरान्तर्जालकं कोष्ठकं स्यात्
बकगलसममानं वङ्कनालं विधेयं शुषिरनलिनिका स्यान्मृन्मयी दीर्घवृत्ता ॥
मृन्मये लोहपात्रे वा अयस्कान्तमये ऽथवा
पाषाणे स्फटिके वाथ मुक्ताशैलमये ऽथवा ॥
सुदृढो मर्दकः कार्यः चतुरङ्गुलकोच्छ्रयः
स च लोहमयः शैलो ह्य् अयस्कान्तमयो ऽथवा ॥
अघोरास्त्राभिधानेन महापाशुपतेन वा
मन्त्रेण रचयेच्छुद्धिं भूमिं तेनैव शोधयेत् ॥
इन्धनानि च सर्वाणि द्रव्याणि च विशेषतः
दाहकं ज्वालयेत्तेन खल्लं तेनैव शोधयेत् ॥
रसं विशोधयेत्तेन विन्यसेत् दिवसे शुभे
खल्लोपरि न्यसित्वा च शिवमूर्तिमनुस्मरेत् ॥
देवतानुग्रहं प्राप्य यन्त्रमूषाग्निमानवित्
देवेशि रससिद्ध्यर्थं जानीयात् ओषधीरपि ॥
यन्त्रमूषाग्निमानानि वर्णितानि सुरेश्वरि
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0