भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 6

6.1

देवदेव महादेव शक्तीनां लक्षणं कथम्
रसकर्मणि योग्यत्वे संस्कारस् तस्य कथ्यताम् ॥

6.2

कदाचिद्गिरिजा देवी हरं दृष्ट्वा मनोहरम्
मुमोच यत्तदा वीर्यं तज्जातं शुभमभ्रकम्
पीतं कृष्णं तथा शुक्लं रक्तं भूमेश्च संगमात् ॥

6.3

अभ्रकं कान्तपाषाणं वज्रं वैक्रान्तकं शृणु ॥

6.4

पिनाकं दर्दुरं नागं वज्रं चाभ्रं चतुर्विधम्
पिनाके ऽग्निं प्रविष्टे तु शब्दश् चिटिचिटिर् भवेत् ॥

6.5

दर्दुरे ऽग्निं प्रविष्टे तु शब्दः कुक्कुटवद्भवेत्
अग्निं प्रविष्टं नागं तु फूत्कारं देवि मुञ्चति ॥

6.6

अग्निं प्रविष्टं वज्रं तु वज्रवत्तिष्ठति प्रिये ॥

6.7

कुष्ठप्रदं पिनाकाभ्रं दर्दुरं मरणप्रदम्
नागं देहगतं नित्यं व्याधिं कुर्याद् भगंदरम् ॥

6.8

रसे रसायने चैव योज्यं वज्राभ्रकं प्रिये
अनेकवर्णभेदेन तच्चतुर्विधमभ्रकम् ॥

6.9

रक्तं पीतं च हेमार्थे कृष्णं हेमशरीरयोः
तारकर्मणि शुक्लं च काचकिट्टं सदा त्यजेत् ॥

6.10

एकपत्त्रं कृतं पूर्वम् अभ्रकं सुरनायिके
अगस्त्यपुष्पतोयेन कुमुदानां रसेन च ॥

6.11

कपितिन्दुकजम्बीर मेघनादपुनर्नवैः
यवचिञ्चारनालाम्ल करवीरारुणोत्पलैः ॥

6.12

वनसूरणभूधात्री भिण्डीमूलाम्लवेतसैः
मेषशृङ्गीशशवसा शृङ्गतैलशमीरसैः ॥

6.13

वज्रवल्लीक्षीरकन्द मरिचैः सुमुखेन च
त्रिदिनं स्वेदयेद् देवि जायते दोषवर्जितम् ॥

6.14

धान्याभ्रकं पुरा कृत्वा सुश्लक्ष्णं नवनीतवत्
त्रिंशत्पलं व्योमरजः क्षुद्रमत्स्यपलद्वयम् ॥

6.15

तिलचूर्णपलं गुञ्जा त्रिपलं पादटङ्कणम्
गोधूमबद्धा तत्पिण्डी पञ्चगव्येन भाविता ॥

6.16

धमनात् कोष्ठिकायन्त्रे भस्त्राभ्यां तीव्रवह्निना
पतत्यभ्रकसत्त्वं तु सत्त्वानि निखिलानि च ॥

6.17

स्वेदनौषधिनिर्यास लोलितं पुटितं मुहुः
मृतं तु पञ्चनिचुल पुटैर् बहुलपोतकम् ॥

6.18

पिण्डितं व्योम निष्क्लेदं दत्त्वा सत्त्वं निरञ्जनम्
उमाफलैश्च पुष्पैश्च षष्टिकाम्लपरिप्लुतैः
औमदण्डविमर्देन गमनं द्रवति स्फुटम् ॥

6.19

अग्निजारं नवे कुम्भे स्थापयित्वा धरोत्तरम्
गगनं द्रवति क्षिप्रं मुक्ताफलसमप्रभम् ॥

6.20

शतधा कञ्चुकीचूर्णं कञ्चुकीरसभावितम्
द्रावयेद्गगनं देवि लोहानि सकलानि च ॥

6.21

धान्याम्लके पर्य्युषितं निचुलक्षारवारिणि
स्थितं तद्द्रवतां वाति निर्लेपरससन्निभम् ॥

6.22

अगस्त्यपुष्पतोयेन पिष्ट्वा सूरणकन्दके
कोष्ठभूमिगतं मासं जायते रससन्निभम् ॥

6.23

छागमूत्रेण संसिक्तं कपितिन्दुकरेणुना
अभ्रकं वापितं देवि जायते जलसन्निभम् ॥

6.24

काकिनीवीजचूर्णेन घृष्टमभ्रकजं रजः
स्नुहिक्षीरेण सप्ताहं सिक्तं ध्मातं द्रुतं भवेत् ॥

6.25

अपामार्गस्य पञ्चाङ्गम् अभ्रकं च सुपेषितम्
स्थापयेन्मृन्मये पात्रे तद्भवेत् सलिलं यथा ॥

6.26

घृष्टमभ्रकचूर्णं तु कपालीमरिचैः सह
शिलया वापितं भूयो ऽप्य् अगस्त्यरससंयुतम् ॥

6.27

मार्जारपादीस्वरस फलमूलाम्लमर्दितम्
मातुलुङ्गफले न्यस्तं व्रीहिमध्ये निधापयेत्
तद्द्रवेत् पक्षमात्रेण शिलासैन्धवयोजितम् ॥

6.28

एकपत्रीकृतं सप्त दिनं मुनिरसे क्षिपेत्
दार्वीमरिचसंमिश्रं मौर्वीरसपरिप्लुतम् ॥

6.29

सौवर्च्चलयुतो मेघा वज्रवल्लीरसप्लुतः
शरावसंपुटे ध्मातो जायते जलसन्निभः ॥

6.30

वेगाफलस्य चूर्णेन सममभ्रकजं रजः
भावितां कुलिशक्षीरे ध्मातं द्रवति तत्क्षणात् ॥

6.31

वज्रवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम्
शरावसंषुटे पक्त्वा द्रवेत् सलिलसन्निभम् ॥

6.32

गोमांससैन्धवार्कैस्तु मुनितोययुतं पुनः
कदलीकन्दकान्तःस्थं गोमयाग्नौ त्र्यहं द्रवेत् ॥

6.33

कृष्णाभ्रपत्रं संगृह्य पीलुतैलेन लेपयेत्
सप्ताहमातपे तप्तम् आम्ले क्षिप्त्वा दिनत्रयम् ॥

6.34

वज्रार्कचित्रकक्षारं तुम्बीक्षारस्तथार्जुनः
सर्जक्षारो यवक्षार ष्टङ्कणश्चाष्टमो भवेत् ॥

6.35

क्षीरकन्दरसं चैव वज्रकन्दरसं तथा
वृहतीत्रयसंयुक्तं क्षारवर्गञ्च लेपयेत् ॥

6.36

कल्केनानेन लिप्तं तत् पत्राभ्रं कांस्यभाजने
धमनात् सूर्य्यतापोत्थात् त्रिदिनेन द्रुतं भवेत् ॥

6.37

अथवाभ्रकपत्रं तु कञ्चुकोक्षीरमध्यगम्
भावयेच्च तथा तेन यावच्चूर्णं ततो भवेत् ॥

6.38

ग्राहयेदभ्रपत्राणि निक्षिप्याम्ले दिनत्रयम्
लेपयेत्तेन कल्केन कांस्यपात्रे निधापयेत्
सूर्य्यतापेन सप्ताहं द्रुतिः सञ्जायते क्षणात् ॥

6.39

काकाण्डीफलचूर्णेन द्रावकैः पञ्चभिस्तथा
अभ्रकस्य युतं चूर्णं ध्मातं मूषागतं द्रवत् ॥

6.40

भ्रामकं चुम्बकं चैव कर्षकं द्रावकं तथा
एवं चतुर्विधं कान्तं रोमकान्तञ्च पञ्चमम् ॥

6.41

एकद्वित्रिचतुःपञ्च सर्ब्बतोमुखमेव तत्
पीतं कृष्णं तथा रक्तं त्रिवर्णं स्यात् पृथक् पृथक् ॥

6.42

क्रमेण देवतास्तत्र ब्रह्मविष्णुमहेश्वराः ॥

6.43

स्पर्शवेधि भवेत् पीतं कृष्णं श्रेष्ठं रसायने
रक्तवर्णं महाभागे रसबन्धे प्रशस्यते ॥

6.44

भ्रामकं तु कनिष्ठं स्यात् चुम्बकं मध्यमं प्रिये
उत्तमं कर्षकं देवि द्रावकं चोत्तमोत्तमम् ॥

6.45

भ्रामयेल्लोहजातं तु तत्कान्तं भ्रामकं प्रिये
चुम्बयेच्चुम्बकं कान्तं कर्षयेत् कर्षकं प्रिये ॥

6.46

यत्साक्षाद्द्रावयेल्लोहं तक्रान्तं द्रावकं भवेत्
तद्रोमकान्तं स्फुटितात् यथा रोमोद्गमो भवेत् ॥

6.47

कनिष्ठं स्यादेकमुखं मध्यं द्वित्रिमुखं भवेत्
चतुःपञ्चमुखं श्रेष्ठम् उत्तमं सर्वतोमुखम् ॥

6.48

भ्रामकं चुम्बकञ्चैव व्याधिनाशे प्रशस्यते
रसे रसायने चैव कर्षकं द्रावकं हितम् ॥

6.49

मदोन्मत्तगजः सूतः कान्तमङ्कुशमुच्यते
क्षेत्रं खात्वा ग्रहीतव्यं तत्प्रयत्नेन भूयसा ॥

6.50

मारुतातपविक्षिप्तं वर्जयेत् सुरसुन्दरि
बहिःस्थितं त्वयस्कान्तं छागरक्तेन भावयेत् ॥

6.51

छागरक्तप्रलिप्तेन वाससा परिवेष्टयेत्
छागचर्मपरीवेष्ट्य विन्यसेत् पूर्व्ववत् क्षितौ ॥

6.52

उद्धृतं सप्तभिर्मासैः तोयकुम्भे विनिक्षिपेत् ॥

6.53

रक्तपुष्पैः सदा पूज्यं रक्तमाल्यानुलेपनैः
पूजितं मद्यमांसैश्च योज्यं रसरसायने ॥

6.54

संस्कृतं छागरक्तेन भ्रामकं चुम्बकं भवेत्
अनेन क्रमयोगेन द्रावकं भवति प्रिये ॥

6.55

सूतलोहस्य वक्ष्यामि संस्कारमतिसौख्यदम्
जीवदेहे प्रवेशे च देहसौख्यबलप्रदम् ॥

6.56

कान्तलोहं विना सूतो देहे न क्रामति क्वचित्
वेधयेद्व्यापयेच्छीघ्रं तैलबिन्दुरिवाम्भसि ॥

6.57

न सूतेन विना कान्तो न कान्तः सूतवर्जितः
कान्तसूतसमायुक्तः प्रयोगो देहधारकः ॥

6.58

यवक्षारन्तु संगृह्य स्निग्धभाण्डे निधापयेत्
मरिचाभ्रकचूर्णेन पिण्डीबन्धन्तु कारयेत्
कान्तलोहं द्रवेद्ध्मातं नात्र कार्या विचारणा ॥

6.59

त्रिंशच्चुम्बककान्तं च पिष्ट्वा तु त्रिफलाम्भसा
तेनैव क्षालनं कार्य्यं पञ्चनिष्कं तु टङ्कणम् ॥

6.60

जीर्णवस्त्रे विनिक्षिप्य मधुसर्पिर्युतं पुटेत्
संस्थाप्य मासपर्य्यन्तं तत्र शुद्धिर्भवेत्प्रिये ॥

6.61

सिनाडिकाया मूलं तु दशनिष्कमितं युतम्
फलत्रयकषायन खल्ले तु परिमर्दयेत् ॥

6.62

त्रिमूषासु समं स्थाप्यम् अष्टाङ्गुलमितासु च
मूषकालेपनं कार्य्यं तन्मूलं निष्कमात्रकम् ॥

6.63

शिवपञ्चमुखीकार्य्या मूषां प्रति समं ततः
यन्त्रहस्ते सुसंबध्य खोटकं च शिलातले ॥

6.64

तैलेन मिश्रितं कृत्वा कान्तनागं लभेत्ततः
अभ्रकक्रमयोगेन द्रुतिपातञ्च साधयेत् ॥

6.65

सुरासुरैर्मथ्यमाने क्षीरोदे मन्दराद्रिणा
पीतं तदमृतं देवैर् अमरत्वम् उपागतम् ॥

6.66

पिबतां बिन्दवो देवि पतिता भूमिमण्डले
शुष्कास्ते वज्रतां याता नानावर्णा महाबलाः ॥

6.67

बिन्दवः के ऽपि सञ्जाताः सस्यका विमलास्तथा
ब्राह्मणाः क्षत्त्रिया वैश्वाः शुद्राश्चैवमनेकधा ॥

6.68

श्वेता रक्तास्तथा पीता कृष्णाश्चैव चतुर्विधाः
पुरुषाश्च स्त्रियश्चैव नपुंसकम् अनुक्रमात् ॥

6.69

वृत्ताः फलकसंपूर्णास् तेजस्वन्तो महत्तराः
पुरुषास्ते निबोद्धव्या रेखाबिन्दुविवर्जिताः ॥

6.70

रेखाबिन्दुसमायुक्ताः खण्डाश्चैव तु योषितः
त्रिकोणाः पत्तला दीर्घाः विज्ञेयास्ते नपुंसकाः ॥

6.71

सत्त्ववन्तो बलोपेता लोहे क्रामणशीलिनः
रसबन्धकराः शीघ्रं पुंवज्राः सुरवन्दिते ॥

6.72

शरीरकान्तिजननाः स्त्रीवज्राः स्वल्पशक्तयः
नपुंसकाः सत्त्वहीनाः कष्टं लोहे क्रमन्ति च ॥

6.73

क्षत्रियाः सर्वकार्य्येषु वर्ज्याश्च रसकर्मणि
उत्तमा मध्यमाश्चैव कनिष्ठाः परिकीर्तिताः ॥

6.74

स्थूलातिस्थूलमध्याश्च सूक्ष्माः सूक्ष्मतराः प्रिये
आस्फोटदाहभेदैश्च निर्व्यङ्गा निरुपद्रवाः
वीर्य्यवन्तश्च ते ज्येष्ठा निर्मला बलवत्तराः ॥

6.75

रसायने भवेद् विप्रो ह्य् अणिमादिगुणप्रदः
क्षत्रियो मृत्युनाशार्थो वलीपलितरोगहा ॥

6.76

द्रव्यकारो तथा वैश्यः शरीरं दृढतां नयेत्
व्याधिप्रशमनं शूद्रो वयःस्तम्भं करोति च ॥

6.77

क्लीबे क्लीवाः स्त्रियः स्त्रीणां सर्ब्बेषां पुरुषा हिताः ॥

6.78

यथा जातिस्तथोत्साहं यथा सत्त्वं तथा गुणान्
यथा रुचिस्तथा शीलं यथा शीलं तथा वरम्
यथा वरस्तथा वर्णं कुर्वन्ति कुलिशाः प्रिये ॥

6.79

श्यामा शमी घनरवो वषाभून्मत्तकोद्रवाः
आखुकर्णी मुनितरुः कुलत्थं चाम्लवेतसम् ॥

6.80

मेषशृङ्गी रसो ऽप्येषां कन्दस्य सूरणस्य तु
शोधयेत्त्रिदिनं वज्रं शुद्धिमेति सुरेश्वरि ॥

6.81

मेषशृङ्गं भुजङ्गास्थि कूर्मपृष्ठं शिलाजतु
स्नुक्कीलालरसं स्तन्यं कान्तपाषाणमेव च ॥

6.82

वज्रकं चापि वैक्रान्तं तन्मध्ये प्रक्षिपेत् प्रिये
तीव्रानले पुटं दत्त्वा पुटान्तं यावदागतम् ॥

6.83

कुलत्थं कोद्रवं चापि हयमूत्रेण पेषयेत्
तप्तं निपेचयेत् पीठे यावत्तद्भस्मतां गतम् ॥

6.84

एष कापालिको योगो वज्रमारण उत्तमः ॥

6.85

माक्षिकं मेषशृङ्गं च शिलागन्धकटङ्कणम्
वैक्रान्तं तालकं चापि वज्रीक्षीरपरिप्लुतम् ॥

6.86

लेपं मूषोदरे दत्त्वा समावर्त्तं तु कारयेत्
म्रियन्ते हीरकास्तत्र द्वन्द्वे सम्यङ्मिलन्ति च ॥

6.87

गन्धकं च शिलाधातुं भ्रामकस्य मुखं तथा
शशकस्य च दन्तांश्च वेतसाम्लेन पेषयत् ॥

6.88

अनेन सिद्धकल्केन मूषालेपं तु कारयेत्
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥

6.89

तेनैव मिलितं वज्रं तारहेम्नि न संशयः ॥

6.90

तालकं गन्धकं कान्तं ताप्यं कर्पूरटङ्कणम्
चिञ्चास्थि मेषशृङ्गं च स्त्रीरजःपरिपेषितम्
मूषालेपगतं ध्मातं वज्रं तु म्रियते क्षणात् ॥

6.91

शरपुङ्खस्य पञ्चाङ्गं पेष्यं स्त्रीरजसा ततः
पेटारीबीजम् अथवा संपेष्यं तण्डुलाम्भसा ॥

6.92

पेष्यं त्रिकर्षकार्पास मूलं वा तण्डुलाम्भसा
आरक्तराकामूलं वा स्त्रीस्तन्येन तु पेषितम् ॥

6.93

पेषयेद्वज्रकन्दं वा वज्रीक्षीरेण सुव्रते
तत्कल्कपुटितं ध्मातं वज्रं चैव मृतं भवेत् ॥

6.94

महानदीश्वेतशुक्त्यां दिनमेकन्तु भावितम्
क्षीरेणोत्तरवारुण्याः कल्केनानेन सुव्रते ॥

6.95

तालेन मेषशृङ्ग्या च वज्रवल्ल्या च वेष्टितम्
अन्धमूषागतं ध्मातं वज्रं तु म्रियते क्षणात् ॥

6.96

कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत्
पेषयेद्गन्धतैलेन म्रियते वज्रम् ईश्वरि ॥

6.97

कुलत्थाम्भसि कासीस सौराष्ट्रीतालकान्विते
अपामार्गक्षारयुते वज्रं सिक्तं मृतं भवेत् ॥

6.98

अमृताकन्दतिमिर बीजत्वक्क्षीरवेष्टितम्
मेषशृङ्गगतं वज्रं मृल्लिप्तं म्रियते पुटैः ॥

6.99

पेटारी हंसपादी च वज्रवल्ली च सूरणम्
अश्वत्थस्याङ्कुरा देवि सर्वे स्त्रीस्तन्यपेषिताः ॥

6.100

अनेन सिद्धकल्केन वेष्टितं बृहतीफले
क्षिप्तं बहिर्मृदा लिप्तं म्रियते सप्तभिः पुटैः ॥

6.101

श्वेतेन्दुरेखापुष्पाम्बु गन्धकत्रयमाक्षिकैः
वेष्टितं कुलिशं देवि पुटपाकात् मृतं भवेत् ॥

6.102

अश्वत्थबदरीभिण्डी माक्षीकं कर्कटास्थि च
स्नुहीक्षीरेण संपेष्य पुटाद्विप्रो मृतो भवेत् ॥

6.103

करवीरार्कदुग्धेन मेषशृङ्गं सहिङ्गुलम्
उदुम्बरसमायुक्तं पुटात् क्षत्रियमारणम् ॥

6.104

बाला चातिबला चैव गन्धकं कर्कटास्थि च
क्षीरेणोत्तरवारुण्याः पुटनाद्वैश्यमारणम् ॥

6.105

कण्डूलसूरणेनैव शिलया लशुनेन च
न्यग्रोधशङ्खदुग्धेन शूद्रो ऽपि म्रियते क्षणात् ॥

6.106

स्थूला बहुस्थूलपुटैः नश्यन्ति फलकादयः
सुस्विन्ना इव जायन्ते मृदुत्वमुपजायते ॥

6.107

पिष्ट्वामलकपञ्चाङ्गं गौराभाम् इन्द्रवारुणीम्
अनेन वेष्टितं वज्रं म्रियते सप्तभिः पुटैः ॥

6.108

मातृवाहकजीवस्य मध्ये वज्रं विनिक्षिपेत्
दोलास्वेदे त्र्यहं देवि गुणपत्त्रसमं भवेत् ॥

6.109

एरण्डवृक्षमध्ये तु वज्रं देवि विनिक्षिपेत्
एकमासे गते देवि गुणपत्त्रसमं भवेत् ॥

6.110

कान्तस्य पिष्टिकामध्ये वज्रं देवि विनिक्षिपेत्
कार्पासनिम्बपत्त्रं च बदरीपत्त्रसंयुतम् ॥

6.111

एकत्र पेषयेत्तत्तु कान्तगोलकवेष्टितम्
बाह्ये ताम्बूलपत्त्रेण स्थापयेज्जानुमध्यतः ॥

6.112

यामद्वयेन तद्वज्रं जायते मृदु निश्चितम्
तत्क्षणान्म्रियते वज्रं तारे हेम्नि न संशयः ॥

6.113

जम्बीरफलमध्यस्थं वस्त्रपोटलिकागतम्
क्वाथयेत् कोद्रवक्वाथे क्रमेणानेन तु त्र्यहम्
तद्वज्रं जायते खोटं हेम्ना मिलति तत्क्षणात् ॥

6.114

नागवल्ल्या प्रलिप्तं तु तत्पत्त्रेणैव वेष्टितम्
जानुमध्ये स्थितं यामं मृदु संजायते ध्रुवम् ॥

6.115

मूले वज्रलतायास्तु मृदु वज्रं विनिक्षिपेत्
पुटं दद्यात् प्रयत्नेन भस्मीभवति तत्क्षणात् ॥

6.116

सुखाद्बन्धकरं ह्य् आशु सत्त्वं मुञ्चति तत्क्षणात्
सर्वमृत्युप्रशमनाः सर्वसिद्धिकराश् च ते ॥

6.117

अस्थिशृङ्खलमध्यस्थं कृत्वा वज्रं विरन्ध्रितम्
जलभाण्डे तु तत् स्विन्नं सप्ताहं द्रवतां व्रजेत् ॥

6.118

क्षारत्रयं रामठं च चणकाम्लाम्लवेतसम्
क्षिप्त्वा ज्वालामुखीक्षीरं स्थलकुम्भीरसेन च ॥

6.119

एतैस्तु मर्दितं वज्रं स्नुह्यर्कपयसा तथा
दोलायां स्वेदयेद्देवि जायते रसवद् यथा ॥

6.120

अथवाप्यभ्रकं स्विन्नं मौक्तिकं च प्रवालकम्
माक्षिकं नीलपुष्पं च पीतं मरकतं महत्
वैडूर्यस्फटिकादीनि द्रवन्ति सलिलं यथा ॥

6.121

लोहजातं तथा ध्मातम् अग्निवर्णं तु दृश्यते
वापितं सकृद् एकेन मृतं जलसमं भवेत् ॥

6.122

मुक्ताफलं तु सप्ताहं वेतसाम्लेन भावितम्
जम्बीरोदरमध्यस्थं धान्यराशौ निधापयेत्
पुटपाकेन तच्चूर्णं जायते सलिलं यथा ॥

6.123

शृणु देवि महाभागे वैक्रान्ताख्यं महारसम् ॥

6.124

दैत्येन्द्रो महिषः सिद्धो हरदेहसमुद्भवः
दुर्गा भगवती देवी तं शूलेन व्यमर्दयत् ॥

6.125

तस्य रक्तं तु पतितं यत्र यत्र स्थितं भुवि
तत्र तत्र तु वैक्रान्तो वज्राकारो महारसः ॥

6.126

विन्ध्यस्य दक्षिणे चास्ति उत्तरे नास्ति सर्वथा
विकृन्तयति लोहानि तेन वैक्रान्तकः स्मृतः ॥

6.127

श्वेतः पीतस्तथा रक्तो नीलः पारावतप्रभः
मयूरवालसदृशश् चान्यो मरकतप्रभः ॥

6.128

देहसिद्धिकरः कृष्णः पीते पीतः सिते सितः
सर्वार्थसिद्धिदो रक्तः तथा मरकतप्रभः
शेषे द्वे निष्फले वर्ज्ये वैक्रान्तमिति सप्तधा ॥

6.129

यत्र क्षेत्रे स्थितं देवि वैक्रान्तं तत्र भैरवम्
विनायकं च सम्पूज्य गृह्णीयात् साधकोत्तमः ॥

6.130

वैक्रान्तं चूर्णितं सूक्ष्मं सुरासुरनमस्कृतम्
व्याघ्रीकन्दस्य मध्यस्थं धमयित्वा पुटे स्थितम् ॥

6.131

अश्वमूत्रेण मृद्वग्नौ स्वेदयेत् सप्तवासरात्
छायाशुष्कं ततः कुर्याद् इदं वैक्रान्तमुत्तमम् ॥

6.132

अथवा लवणक्षार मूत्राम्लकृष्णतैलकैः
कुलत्थकोद्रवक्वाथे स्वेदयेत् सप्त वासरान् ॥

6.133

वन्ध्याचूर्णं तु वैक्रान्तं समांशेन तु चूर्णयेत्
अजामूत्रेण संभाव्य छायाशुष्कं तु कारयेत्
अन्धनाले धमित्वा तु मूषासत्त्वं तु जायते ॥

6.134

मोक्षमोरटपालाश क्षारगोमूत्रभावितम्
वज्रकन्दशिफाकल्क लाक्षाटङ्कणसंयुतम् ॥

6.135

वैक्रान्तसम्भवं चूर्णं मेषशृङ्गीद्रवान्वितम्
पिण्डितं मूकमूषायां ध्मातं सत्त्वं विमुञ्चति ॥

6.136

वैक्रान्तं वज्रकन्दं च पेषयेद् वज्रवारिणा
माहिषे नवनीते च सक्षौद्रं पिण्डितं ततः
शोधयित्वा धमेत् सत्त्वम् इन्द्रगोपसमं पतेत् ॥

6.137

केतकीस्वरसः काङ्क्षी मणिमत्थं सखेचरम्
स्वेदनाज्जायते देवि वैक्रान्तं रससंनिभम् ॥

6.138

सुवर्णं रजतं ताम्रं कान्तलोहस्य वा रजः
अनेन स्वेदविधिना द्रवन्ति सलिलं यथा ॥

6.139

इत्युक्तमभ्रकादीनां चतुर्णां लक्षणादिकम्
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुम् इच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc