भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 11

11.1

लक्षणं शोधनं चैव पारदस्य श्रुतं मया
चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥

11.2

सर्वपापक्षये जाते प्राप्यते रसजारणा
तत्प्राप्तौ प्राप्तमेव स्याद् विज्ञानं मुक्तिकारणम् ॥

11.3

मोक्षाभिव्यञ्जकं देवि जारणं साधकस्य तु
यावन्न जार्यते सूतः तावत्तु न च निर्वृतिः ॥

11.4

खल्लस्तु पीठिका देवि रसेन्द्रो लिङ्गमुच्यते
मर्दनं वन्दनं तस्य ग्रासः पूजा विधीयते ॥

11.5

यावद्दिनानि वह्निस्थो जार्यते धार्यते रसः
तावद्युगसहस्राणि शिवलोके महीयते ॥

11.6

दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम्
द्रवन्ति तस्य पापानि कुर्वन्नपि न लिप्यते ॥

11.7

जारणा द्विविधा बाल जारणा बद्धजारणा
तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥

11.8

गगनं जारयेदादौ सर्वसत्त्वमतः परम्
ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥

11.9

गर्भस्थं द्रावयित्वा तु ततो बाह्यद्रुतिं द्रवेत्
सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥

11.10

सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥

11.12

सर्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया
जारणं कर्तुमिच्छामि ग्रासं गृह्ण मम प्रभो ॥

11.13

कुरुष्वेति शिवेनोक्तं ग्राह्यमेव सुबुद्धिना ॥

11.14

शृणु देवि प्रवक्ष्यामि व्योमजारणम् उत्तमम्
पत्त्राभ्रजारणं सत्त्व जारणं चेति तद्द्विधा ॥

11.15

निर्मुखं समुखं चैव वासनामुखमेव च
एकैकं त्रिविधं तच्च तद् वक्ष्याम्य् आनुपूर्वशः ॥

11.16

वैक्रान्तवज्रसंस्पर्शाद् दिव्यौषधिबलेन वा
निर्मुखो भक्षयेद्देवि क्षणेन गगनं रसः ॥

11.17

हेमकर्मणि हेमैव तारे तारो मुखं भवेत् ॥

11.18

तप्तखल्लकृता पिष्टिः श्लक्ष्णम् अल्पाल्पमभ्रकम्
अम्लवेतसजम्बीर बीजपूराम्लभूखगैः
मर्दितं चरते देवि सेयं समुखजारणा ॥

11.19

क्षारत्रयं पञ्चपटु काक्षीकासीसगन्धकम्
माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत् ॥

11.20

एतच्चाभिषवाद् दिव्यं कारयित्वा विचक्षणः
जारणार्थं च बीजानां वज्राणां च विशेषतः ॥

11.21

तस्मिन्नावर्तितं नागं वङ्गं वा सुरवन्दिते
निषेचयेच्छतं वारं न रसायनकर्मणि ॥

11.22

अनेन सकलं देवि चारणावस्तु भावयेत्
क्षाराम्ले भावितं व्योम रजसा प्रथमेन च ॥

11.23

सृष्टित्रयोदककणा तुम्बुरुद्रवमर्दितम्
चरेज्जरेद्वा पुटितं यवचिञ्चारसेन च ॥

11.24

शतावरी गदा रम्भा मेघनादा पुनर्नवा
शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥

11.25

मूलं हिलमुचायास्तु कौवेरीमूलमेव च
कदलीमुसलीशिग्रु ताम्बूलीवाणपीलुकम् ॥

11.26

अलम्बुषा बला कोलम् आस्फोटः खरमञ्जरी
तुम्बुरुस्तिक्तशाकं वाप्य् एषाम् एकरसेन तु
राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥

11.27

कासीसतुवरीसिन्धु टङ्कणक्षारसंयुतः
पूर्वाभिषवयोगेन सूतकश्चरति क्षणात् ॥

11.28

गोलको भवति क्षिप्रं सर्वसिद्धिप्रदायकः ॥

11.29

गृहीत्वा देवि धान्याम्लम् अम्लवर्गेण संयुतम्
क्वाथयित्वाभ्रकं तत्तु स्नुहीक्षीरेण मर्दयेत् ॥

11.30

आरण्यगोमयेनैव कपोताख्यं पुटं ततः ॥

11.31

कदलीकन्दनिर्यासैर् मूलकन्दरसेन च
काकमाची च मीनाक्षी अपामार्गो मुनिस्तथा ॥

11.32

एरण्डमार्द्रकं चैव मेघनादा पुनर्नवा
एकैकस्य द्रवैरेव पुटैकैकं प्रदापयेत् ॥

11.33

वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण पाचयेत्
छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम् ॥

11.34

नवसारं च कासीसं वचां निम्बं तथैव च
अभ्रस्य षोडशांशेन एकैकं तत्र निक्षिपेत् ॥

11.35

निधाय ताम्रपात्रे तु घर्षयेत्तच्च सुव्रते
नववारं ततो देवि लोहपात्रे तु जारयेत् ॥

11.36

रसेन सह देवेशि चणकाम्लेन काञ्जिकम्
मृद्वग्निना तु निष्क्वाथ्यं प्रहरार्धेन जायेत ॥

11.37

सोमवल्लीरसैः पिष्ट्वा व्योम सौवर्चलान्वितम्
शनैः शनैर्हंसपाद्या दापयेच्च पुटत्रयम् ॥

11.38

सोमवल्लीरसेनैव सप्तवारं च दापयेत्
पातयेन्मृन्मये भाण्डे रसेन सह संयुतम् ॥

11.39

मूलं सितेषुपुङ्खाया गव्यक्षीरेण घर्षयेत्
कल्केन लेपयेत् सूतं गगनं च तदूर्ध्वगम् ॥

11.40

तापयेद्रवितापेन निर्मुखं ग्रसते क्षणम्
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥

11.41

तिलपर्णीरसेनैव गगनं भावयेत् प्रिये
मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥

11.42

मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत्
तेनाभ्रकं तु संप्लाव्य भूयोभूयः पुटे दहेत् ॥

11.43

चित्रकार्द्रकमूलानाम् एकैकेन तु सप्तधा
प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥

11.44

नागशुण्डीरसस्तन्य रजोलुङ्गाम्लभावितम्
षोडशांशेन तद्वत्तं दोलायां तु चरेद्रसः ॥

11.45

चतुःषष्टिगुणं देवि द्वात्रिंशद्गुणमेव वा
अथवा षोडशगुणं तथाष्टगुणमेव वा
चतुर्गुणं वा द्विगुणं समं वा चारयेत् प्रिये ॥

11.46

परमभ्रकसत्त्वस्य जारणं शृणु पार्वति ॥

11.47

व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम्
स खल्वेवं चरेद्देवि गर्भद्रावी भवेद्रसः ॥

11.48

नागाभ्रं देवि वङ्गाभ्रं तीक्ष्णाभ्रं भास्कराभ्रकम्
ताराभ्रं देवि हेमाभ्रं रसगर्भेण जारयेत् ॥

11.49

पूर्वाभिषेकयोगेन गर्भे द्रवति मर्दनात् ॥

11.50

चतुःषष्ट्यंशकः पूर्वः द्वात्रिंशांशो द्वितीयकः
तृतीयः षोडशांशस्तु चतुर्थो ऽष्टांश एव च ॥

11.51

पञ्चमस्तु चतुर्थांशः षष्ठो द्व्यंशः प्रकीर्तितः
ग्रासो रसस्य दातव्यः ससत्त्वस्याभ्रकस्य च ॥

11.52

चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद्रसः
जलौकावद्द्वितीये च ग्रासयोगे सुरेश्वरि ॥

11.53

ग्रासेन तु तृतीयेन काकविष्ठासमो भवेत्
ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥

11.54

पञ्चमे चरिते ग्रासे नवनीतसमो भवेत्
षष्ठे तु गोलकाकारः क्रमाज्जीर्णस्य लक्षणम् ॥

11.55

काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम्
खल्लान्तश्चारयेत्तच्च शुल्ववासनया सह ॥

11.56

हेम तारं च संघृष्य खल्ले तत्र रसं न्यसेत्
काञ्जीसहितकासीसं सिन्धुना चरते रसः ॥

11.57

हेम सीसं तु संघृष्य रसं तत्र प्रदापयेत्
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत्
अभ्रकोपरसान् क्षिप्रं मुखेनैव चरत्ययम् ॥

11.58

तारं वङ्गं च संघृष्य रसं तत्र प्रदापयेत्
नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत्
मुखेन चरते व्योम तारकर्मणि शस्यते ॥

11.59

समुखं निर्मुखं वापि यत्नतश्चारयेन्नभः ॥

11.60

चारणां त्रिविधामेवं कृत्वा गर्भद्रुतिं रसे
जारयेत् स्वेदयेत् पिण्डं परिणामक्रमैस् त्रिभिः ॥

11.61

पट्वम्लक्षारगोमूत्र स्नुहीक्षीरैः प्रलेपितम्
बहिश्च बद्धं वस्त्रेण भूयो ग्रासं निवेदितम्
क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥

11.62

क्रमेणानेन देवेशि जार्यते दिवसैस् त्रिभिः
यन्त्राद् उद्धृतमात्रं तु लोहपात्रे स्थितं रसम् ॥

11.63

कोष्णेन काञ्जिकेनादौ क्षालितं वस्त्रगालितम्
पात्रे सुखोष्णहस्तेन यावत् शेषं विमर्दयेत् ॥

11.64

चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥

11.65

गालनक्रियया ग्रासे सति निष्पेषनिर्गते
स भवेद्दण्डधारी च जीर्णग्रासस्तथा रसः ॥

11.66

अजीर्णे पाचयेत् पिष्टीं स्वेदयेन्मर्दयेत्तथा
वेतसाम्लप्रयोगेण जीर्णे ग्रासं तु दापयेत् ॥

11.67

इष्टिकागुडदग्धोर्णा राजीसैन्धवधूमजैः
षोडशांशैः स धान्याम्लैः मर्द्यः स्वेद्यश्च पारदः ॥

11.68

निर्मलीकरणार्थं तु ग्रासे ग्रासे पुनः पुनः
जीर्णाभ्रो जीर्णबीजो ऽपि रागान् गृह्णाति निर्मलः ॥

11.69

क्रमेणानेन दोलायां चार्यं ग्रासचतुष्टयम्
ततः कच्छपयन्त्रेण ज्वालनं बन्धनं क्रमात् ॥

11.70

ऊर्ध्वाधश् चाष्टमांशेन विडं दत्त्वापि जारयेत्
समजीर्णाभ्रकः सूतः शतवेधी भवेत् प्रिये ॥

11.71

सहस्रवेधी द्विगुणे त्रिगुणे ऽयुतवेधकः
चतुर्गुणे लक्षवेधी स भवेद्भूचरो रसः ॥

11.72

जीर्णे पञ्चगुणे देवि ब्रह्मायुर्जायते रसः
आयुस्तु षड्गुणे विष्णोः कोटिवेधी भवेद्रसः ॥

11.73

रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेन तु
जीर्णेन नाशमायान्ति नात्र कार्या विचारणा ॥

11.74

रसराजे यदा जीर्णं षड्गुणं गगनं प्रिये
तदा ग्रसति लोहानि त्यजेच्च गतिमात्मनः ॥

11.75

धूमश् चिटिचिटिश्चैव मण्डूकप्लुतिरेव च
सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥

11.76

कपिलो ऽथ निरुद्गारि विप्लुषश् चैव मुञ्चति
अग्नौ तिष्ठति निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥

11.77

समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणम्
वृद्धस्तु षड्गुणं जीर्णः कुर्यात् कर्म पृथक् पृथक् ॥

11.78

बालस्तु पत्त्रलेपेन कल्कयोगेन यौवनः
वृद्धो विध्यति लोहानि जारितः सारितो ऽथवा ॥

11.79

कुमारस्तु रसो देवि न समर्थो रसायने
यौवनस्थो रसो देवि क्षमो देहस्य रक्षणे ॥

11.80

जरावस्थो रसो यश्च देहे लोहेन संक्रमेत्
अभावे ऽभ्रकसत्त्वस्य कान्तसत्त्वं प्रदापयेत् ॥

11.81

कान्तस्य चाप्यभावे तु तीक्ष्णलोहं तु दापयेत्
अनेन क्रमयोगेन सर्वसत्त्वानि जारयेत् ॥

11.82

एको ऽपि हेमसंयुक्तश् चामीकरकरः क्षणात्
गन्धकात् परतो नास्ति रसेषूपरसेषु वा ॥

11.83

पूर्वोक्तयन्त्रयोगेन द्विर् अष्टगुणगन्धकम्
अथवा द्वादशगुणं षड्गुणं वापि जारयेत् ॥

11.84

माक्षिकं सत्त्वमादाय पादांशेन तु जारयेत्
ततो ऽपि सर्वसत्त्वानि द्रावयेत् सूतगर्भतः ॥

11.85

हेमपावकयोः सख्यं तथा काञ्चनसूतयोः
वह्निसूतकयोर् वैरं तयोर्मित्रेण मित्रता ॥

11.86

अग्निको यवचिञ्चा च वसुहट्टश्च रागिणी
दोलास्वेदेन तत् पक्वं हेमजारणमुत्तमम् ॥

11.87

पलाशभस्मापामार्गो यवक्षारश्च काञ्जिकम्
सौवर्चलं च कासीसं सामुद्रं सैन्धवं तथा ॥

11.88

आसुरी टङ्कणश्चैव नवसारस्तथैव च
कर्पूरश्चैव माक्षीकं समभागानि कारयेत् ॥

11.89

स्नुह्यर्कदुग्धैर्देवेशि मूषालेपं तु कारयेत्
विडचूर्णं ततो दत्त्वा कनकं जारयेत् प्रिये ॥

11.90

शृणु देवि प्रवक्ष्यामि भूचराख्यं तु जारणम् ॥

11.91

कृष्णं पीतं रक्तमभ्रं शुल्वे तीक्ष्णे च मेलयेत् ॥

11.92

शुल्वे तीक्ष्णं यदा चूर्णं द्वाविंशतिगुणं प्रिये
गन्धनागं ततो ऽर्धं तु क्रमेणैव तु मेलयेत् ॥

11.93

हेम्ना तु सह दातव्यं सूतकैकेन षोडश
गन्धनागं यदा जीर्णं तदा बद्धो भवेद्रसः
हेम्नि जीर्णे ततो ऽर्धेन मृतलोहेन रञ्जयेत् ॥

11.94

गन्धकेन हतं शुल्वं माक्षिकं दरदायसम्
पुटेन मारयेच्छुद्धं हेम दद्यात् तु षड्गुणम् ॥

11.95

सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम्
बद्धरागं विजानीयात् हेमाभो जायते रसः ॥

11.96

सारणायन्त्रमध्यस्थं तेनैव सह सारयेत्
त्रिभागसारितं कृत्वा पुनस्तत्रैव जारयेत् ॥

11.97

जारितः सारितश्चैव पुनर्जारितसारितः
सप्तशृङ्खलिकायोगात् कोटिवेधी भवेद्रसः ॥

11.98

भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥

11.99

हीरमुख्यानि रत्नानि रसोच्छिष्टानि कारयेत्
कटुतुम्बस्य बीजानि तस्यार्धेन तु दापयेत् ॥

11.100

महाजारणमित्युक्तं कल्कं कुर्याद्विचक्षणः
वज्रमूषामुखे चैव तन्मध्ये स्थापयेद्रसम् ॥

11.101

कतकं कनकं चैवम् एकीकृत्य च मर्दयेत्
पद्मरागं प्रयत्नेन रसे ग्रासं तु दापयेत् ॥

11.102

एकादशगुणं यावत् पद्मरागं तु सूतके
रागजीर्णस्तु देवेशि लिङ्गाकारो भवेद्रसः ॥

11.103

रक्षितव्यं प्रयत्नेन लोकपालाष्टकेन च
षड्भागं सूतकेन्द्रस्य तेषु सर्वेषु दापयेत् ॥

11.104

भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः
सर्वसिद्धान्नमस्कृत्य देवताश्च विशेषतः ॥

11.105

मूर्छाङ्गदाहश्च ततो जायते नात्र संशयः
आत्मानमुत्थितं पश्येत् दिव्यतेजोमहाबलम् ॥

11.106

शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह
इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥

11.107

देवाश्च यत्र लीयन्ते सिद्धस्तत्रैव लीयते ॥

11.108

पुनरन्यं प्रवक्ष्यामि जारणायोगमुत्तमम् ॥

11.109

सुघृष्टं पाचितं सूतं सर्वदोषोज्झितं ततः
शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥

11.110

पलाशपुष्पतोयेन भावितं गन्धकं समम्
समं कृष्णाभ्रसत्त्वं च रसकं चाष्टकं गुणम् ॥

11.111

तीक्ष्णशुल्वोरगं चैव कूर्मयन्त्रेण जारयेत्
काञ्चनं जारयेत् पश्चात् विडयोगेन पार्वति ॥

11.112

ततः सिद्धं विजानीयात् द्वैधं शुल्वस्य दापयेत्
कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥

11.113

अतः परं प्रवक्ष्यामि जारणाक्रममुत्तमम् ॥

11.114

बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः
षोडशांशेन तद्ग्रासम् अङ्गुल्या मर्दयेच्छनैः ॥

11.115

आर्द्रकादि ततो योगाद् दातव्यं षोडशांशतः
भूर्जे दत्त्वा ततो देयं दोलायन्त्रे विनिक्षिपेत् ॥

11.116

अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये
तमुद्धृत्य रसं देवि खल्ले संमर्दयेत्ततः ॥

11.117

ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना
तप्तं समुद्धृतं यन्त्रात् तप्तखल्ले विमर्दयेत् ॥

11.118

मर्दयित्वाभ्रके पिण्डं क्षिप्त्वा तत्र पुटं ददेत्
ततो गर्भे पतत्याशु जारयेत् तत् सुखेन तु ॥

11.119

दोलायन्त्रे ततो दत्त्वा आर्द्रपिण्डेन संयुतम्
तृतीये दिवसे सूतो जरते ग्रसते ततः ॥

11.120

समजीर्णं ततो यावत् दोलायन्त्रे विचक्षणः
पश्चात् कच्छपयन्त्रेण समजीर्णं तु पार्वति
तं ग्रासद्वादशांशेन कच्छपेन तु जारयेत् ॥

11.121

प्राग्वदार्द्रकयोगं च गर्भद्रावणमेव च
पश्चात्तं देवि निक्षिप्य पुटं दद्याद्विचक्षणः ॥

11.122

अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत्
कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम्
पुटेत्तु जारितस्तावत् यावत् कन्दो न दह्यते ॥

11.123

पादांशेन तु मूषाया ग्रासः सूते विधीयते
पूर्ववच्च विडं दद्यात् गर्भद्रावणमेव च ॥

11.124

एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत्
ततः शलाकया ग्रासान् अग्निस्थो ग्रसते रसः ॥

11.125

ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥

11.126

अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च
रसानुपरसान् दत्त्वा महाजारणसंयुतान् ॥

11.127

वज्रकन्दं वज्रलता मेषशृङ्ग्यमृतायसम्
कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥

11.128

सर्वाणि समभागानि शिखिशोणितमात्रितम्
तावत्तं मर्दयेत् प्राज्ञो यावत् कर्म दृढं भवेत् ॥

11.129

मूषा वल्लाकृतिश्चैव कर्तव्या छादनैः सह
तन्मध्ये स्थापयेत् सूतम् अधोवातेन धामयेत् ॥

11.130

आदौ तत्रैव दातव्यं वज्रमौषधलेपितम्
गृह्यते को ऽत्र संदेहो यथा तीव्रे हुताशने ॥

11.131

कुलिशेन पुटे दग्धे कर्ष्वग्नौ तेन मर्दयेत्
यावदेकादशगुणं कुलिशं जारयेत् पुनः ॥

11.132

सुदग्धशङ्खनाभिश्च मातुलुङ्गरसप्लुतः
मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥

11.133

अनेन क्रमयोगेन ह्य् एकादशगुणं भवेत्
केवलं शिखिपित्तं च नीली निर्यासमिश्रितम् ॥

11.134

नीलोत्पलानि लिप्तानि प्रक्षिप्तानि तु सूतके
रसे कल्पेन्महारागान् हीनरागान् परित्यजेत् ॥

11.135

रक्तानि शिखिपित्तं च महारत्नसमन्वितम्
सद्रत्नं लेपयेत्तेन प्रद्रवेत् रसमध्यतः ॥

11.136

रजनीं चैव कुष्ठं च ब्रह्मनिर्यासभावितम्
जारणं पुष्परागस्य तेनैव सह दापयेत् ॥

11.137

बहुरत्नेषु जीर्णेषु भृङ्गरागेषु सुव्रते
रसेन्द्रो दृश्यते देवि नीलपीतारुणच्छविः ॥

11.138

शुद्धानि हेमपत्त्राणि शतांशेन तु लेपयेत्
पुटेन मारयेदेतद् इन्द्रगोपनिभं भवेत् ॥

11.139

संस्पर्शाद्वेधयेत्सर्वम् इदं हेम मृतं प्रिये
त्रिभागं सूतकेन्द्रस्य तेनैव सह सारयेत् ॥

11.140

मूषामध्यस्थिते तस्मिन् पुनस्तेनैव जारयेत्
धूमवेधी भवेद्देवि पुनः सारितजारितः ॥

11.141

अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला
वेधयेन्नात्र संदेहो गिरिपातालभूतलम् ॥

11.142

पार्श्वज्योतिः प्रदृश्येत चोर्ध्वं नैव तु दृश्यते
भूचरं तं विजानीयात् रसेन्द्रं नात्र संशयः ॥

11.143

तेनाश्रान्तगतिर्देवि योजनानां शतं व्रजेत्
दिव्यतेजा महाकायो दिव्यदृष्टिर्महाबलः ॥

11.144

सर्वरोगविनिर्मुक्तो जीवेदाचन्द्रतारकम्
तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥

11.145

समजीर्णेन वज्रेण हेम्ना च सहितेन च
अग्निस्थो जारयेल्लोहान् बन्धमायाति सूतकः ॥

11.146

सारयेत्तेन बीजेन सहस्रमपि वेधयेत्
सारितं जारयेत् पश्चात् लेप्यं क्षेप्यं सहस्रशः ॥

11.147

सारयेत् तेन बीजेन लक्षवेधमवाप्नुयात्
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥

11.148

केवलं तु यदा वज्रं समजीर्णं तु जारयेत्
बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥

11.149

अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात्
हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥

11.150

चरते जरते सूत आयुर्द्रव्यप्रदायकः
मूषास्थं धमयेत् सूतं हठाग्नौ नैव कम्पते ॥

11.151

जारयेत् सर्वरत्नानि बद्धः खेचरतां नयेत्
इति लोहे ऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥

11.152

लोहानि सत्त्वं त्रिगुणं द्विगुणं कनकं तथा
धूमावलोकवेधी स्यात् भवेन्निर्वाणदो रसः ॥

11.153

आदाव् अष्टगुणं जार्यं व्योमसत्त्वं महारसम्
समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥

11.154

सर्वं च जारयेद्वज्रं तदासौ खेचरो रसः
भ्रमेत् प्रदक्षिणावर्तः कोटिवेधी च जायते ॥

11.155

समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः
द्विगुणे शतवेधी स्यात् त्रिगुणे तु सहस्रकम् ॥

11.156

चतुर्गुणे ऽयुतं देवि क्रमेणानेन वर्धयेत्
उत्तरोत्तरवृद्ध्यातु जारयेत् तत्र पन्नगम् ॥

11.157

कुटिलं पन्नगं जार्यं तत्र संख्याक्रमेण तु
तद्वादमेति देवेशि कोटिवेधी भवेद्रसः ॥

11.158

रुरुणा दानवेन्द्रेण भक्षितो भस्मसूतकः
जारितं द्वादशगुणं यत्र तीक्ष्णं सुरेश्वरि ॥

11.159

भक्षयित्वा पलैकं तु दानवो बलदर्पितः
जगदुत्पाटितं तेन कैलासो ऽपि च चूर्णितः ॥

11.160

तत्र मया क्षणं ध्यात्वा दृष्ट्वा तन्मायया कृतम्
जारितं पन्नगे सूतं समांशं शिलया हतम् ॥

11.161

तेन सूतेन संलिप्तं त्रिशूलं हिमशैलजे
तेन शूलेन निहतो दानवो बलदर्पितः ॥

11.162

हेम शुल्वं तथा तीक्ष्णं वाजरं च पडालकम्
रोहणं कान्तलोहं च जारयेत्तत्त्वसंख्यया ॥

11.163

एकैके रसराजो ऽयं बद्धः खेचरतां नयेत्
गन्धनागे द्रुते देवि जारणां सुकरां शृणु ॥

11.164

आदौ संशोधितं सूतं रजनीचूर्णसंयुतम्
मर्दयेद् यावद् आकृष्णं क्षालयेदुष्णकाञ्जिकैः ॥

11.165

एवं मुहुर्मुहुर्घृष्टो गन्धनागो द्रुतिं चरेत् ॥

11.166

नागस्य मूत्रे देवेशि वत्सस्य महिषस्य वा
आवर्त्यावर्त्य भुजगं सप्त वारान् निषेचयेत् ॥

11.167

कृत्वा कण्टकवेध्यानि तस्य पत्त्राणि सुन्दरि
चतुर्थांशप्रमाणेन गन्धकस्य तु योजयेत् ॥

11.168

प्रसार्य लाक्षापटलं रोमाणि तदनन्तरम्
ऊर्ध्वं गन्धकचूर्णं च ततो नागदलं तथा ॥

11.169

गन्धकं नरलोमानि लाक्षायाः पटलं क्रमात्
ऊर्ध्वं प्रसार्य संस्थाप्य सूत्रैर्वर्तिं तु कारयेत् ॥

11.170

करञ्जतैलमध्ये तु दशरात्रं निधापयेत्
दीप्ताग्रभागां तां वर्तिं सण्डश्या तु विधारयेत् ॥

11.171

तां द्रुतिं पातयेत्पात्रे सौवीरटङ्कणान्विते
काचकूप्याश्च मध्ये तु तत्तैलं स्थापयेत् प्रिये ॥

11.172

कृत्वा गोस्तनमूषायां लिप्तायां शिलया रसम्
चतुःषष्ट्यादिभागेन ज्ञात्वा देवि बलाबलम् ॥

11.173

गन्धनागद्रुतिं दत्त्वा तां मूषां सुरवन्दिते
गर्ते गोमयसम्पूर्णे विन्यस्य पुटपाचनम्
दद्यात् करीषतुषयोः प्रसृतिद्वितयेन च ॥

11.174

दद्यादजीर्णशङ्कायां सिंहवल्लीरसस्य तु
चतुर्बिन्दून् पुटे प्राग्वद् एवं प्रतिदिनं भवेत् ॥

11.175

जारणात्रिगुणात् सूतो भवेज्जम्बूफलप्रभः ॥

11.176

माक्षिकं सत्त्वमल्पाल्पं मृतनागसमन्वितम्
मूषागतं भवेद्यावत् काचं दत्त्वाधरोत्तरम्
एवं द्वादशवारांस्तु सुध्मातं रञ्जितं भवेत् ॥

11.177

तेन पक्वं बीजचूर्णं पारदे पादभागिकम्
मर्दितं चणकाम्लेन क्षणाद्गर्भद्रुतिर्भवेत् ॥

11.178

गर्भद्रुतिर्न चेद्देवि वर्णिकाद्वयगन्धयोः
रक्तसिन्धूद्भवालर्क टङ्कणाशुगपुङ्खतः
कल्केन लिप्तं पुटितं बीजं गर्भे द्रुतं भवेत् ॥

11.179

बीजे पादार्धतुल्यांशे जीर्णे वेधं करोति सः
दशषोडशभागेन द्वाविंशांशेन च क्रमात् ॥

11.180

संयोज्य त्रिगुणां रीतिं तारे तारावशेषितैः
तारारिष्टमिदं लिप्त्वा तेन सूतेन वेधयेत् ॥

11.181

अतः परं तु संस्कारं वक्ष्ये नागाभ्रजारणम्
करवीरारुणां देवि चूर्णयित्वा मनःशिलाम् ॥

11.182

भावयेद्विंशतिं वारान् यवचिञ्चारसेन तु
तेन कल्केन संलिप्य नागपत्त्रं प्रयत्नतः
कर्ष्वनलेन विपचेत् यावत्तत् चूर्णितं भवेत् ॥

11.183

रसकस्य च भागांस् त्रीन् भागैकं दरदस्य च
पेषयेन्मातुलुङ्गेन पादगन्धं शिलाविषम् ॥

11.184

कल्केनानेन लिप्तायां मूषायां पुटपाचितम्
तं नागं धमयेदेवं सप्तधा हेमवद्भवेत् ॥

11.185

पीताभ्रकं त्व् एकदलं लिप्तायां मरिचेन तु
मूषायां ध्मातमग्न्याभं सौभाञ्जनरसे क्षिपेत् ॥

11.186

पातयेत्पूर्वविधिना तत् सत्त्वं हेमभासुरम् ॥

11.187

पत्त्रं रञ्जितनागस्य सत्त्वं पीताभ्रकस्य च
स्त्रीस्तन्यकाचधूमोत्थ गुञ्जायस्कान्तटङ्कणैः
तुत्थेन संयुतेनैतन् नागाभ्रं द्वंद्वितं भवेत् ॥

11.188

किंवारनालसिद्धार्थ धूमसारेष्टकागुडैः
मर्दयेत्त्रिदिनं सूतं दोलायां स्वेदयेत् त्र्यहम् ॥

11.189

पुनर्नवामेषशृङ्गी सर्पाक्षीकल्कसंयुतम्
अथासुरी सिन्धुविषं मरिचैः परिपेषितैः
दोलायन्त्रे पुनरपि स्वेदयेद्दिवसत्रयम् ॥

11.190

अष्टमांशेन नागाभ्रं चारयित्वा सुरेश्वरि
शिलाभागद्वयं चैकं सिन्धुसौवर्चलं भवेत् ॥

11.191

टङ्कार्धं विषपादं च विडः पिण्डाष्टमांशतः
त्रिदिने कच्छपे जार्यम् एवं जार्यं तु षड्गुणम् ॥

11.192

शैलं तुत्थोरगं ताम्रं तीक्ष्णघोषारकाञ्चनम्
क्रमवृद्धम् इदं तुत्थं ताप्यसत्त्वनिपातनात् ॥

11.193

हेमावशेषं तद्बीजं पादांशं मातुलाम्भसा
चारयेद्रसराजस्य जारयेत् कनकान्वितैः ॥

11.194

ताप्यसौवर्चलशिला गन्धकासीसटङ्कणैः
पद्मयन्त्रे निवेश्याथ कीलं दत्त्वा सुरेश्वरि ॥

11.195

धमेद्दिनत्रयं मन्दं यावद्बीजं द्रुतं भवेत्
तमेव समजीर्णं तु वह्नौ निष्कम्पनं रसम् ॥

11.196

ततः षड्गुणबीजेन सारणा क्रमयोगतः
तारारिष्टमहिं शुल्बं सहस्रांशेन वेधयेत् ॥

11.197

विषगन्धकताप्याभ्र काकविष्ठा घनध्वनिः
सहदेवीवह्निशिखा कल्केन क्रमते रसः ॥

11.198

मूर्छितो मृतसूतश्च जलूकाबन्ध एव च
चतुर्थो मूर्तिबन्धस् तु पट्टबन्धस्तु पञ्चमः
भस्मसूतश्च खोटश्च संस्कारात् सप्तधा रसः ॥

11.199

नागवर्णं भवेत् सूतं विहाय घनचापलम्
लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥

11.200

आर्द्रत्वं च घनत्वं च तेजोगौरवचापलम्
यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥

11.201

नानावर्णं तथा स्वच्छं द्रुतं योनौ जलूकवत्
बध्यते सूतकं यच्च जलूकाबन्धलक्षणम् ॥

11.202

गुरुत्वमरुणत्वं च तेजसा सूर्यसंनिभम्
शिखिमध्ये धृतं तिष्ठेत् मूर्तिबन्धस्य लक्षणम् ॥

11.203

शलाकाजारणाद्वापि मूर्तिबन्धत्वमिष्यते ॥

11.204

श्वेतं पीतं गुरु तथा मृदु सिक्थकसंनिभम्
अग्निमध्ये यदा तिष्ठेत् पट्टबन्धस्य लक्षणम् ॥

11.205

कृष्णं श्वेतं तथा पीतं नीलं भस्मनिभं तथा
चपलत्वं यदा नष्टं भस्मसूतस्य लक्षणम् ॥

11.206

कुक्कुटाण्डनिभं सूतं यदा लवणभेदि च
आवर्तते रसस्तद्वत् खोटकस्य च लक्षणम् ॥

11.207

अथवा छेदने स्निग्धं रश्मिना मृदुना द्रवेत्
अक्षयं कठिनं श्वेतं खोटबन्धस्य लक्षणम् ॥

11.208

खोटादयस्तु ये पञ्च विहाय जलुकाकृति
हठाग्नौ धामिताः सन्ति न तिष्ठत्येव मूर्छितः ॥

11.209

तरुणादित्यसंकाशो नानावर्णः सुरेश्वरि
वेधयेद्देहलोहानि रञ्जितो रसभैरवः ॥

11.210

शोधनं सूतकस्यादौ ग्रासमानमतः परम्
जारणं व्योमसत्त्वस्य सर्वसत्त्वस्य जारणम् ॥

11.211

गर्भबाह्यद्रुतिः पश्चात् सुवर्णस्य तु जारणम्
दिव्यौषधिपुटः पश्चात् रत्नबन्धमतः परम् ॥

11.212

रञ्जनं च ततो देवि जारणा चानुसारणा
क्रामणं च ततो देयं सूतकस्य विचक्षणैः ॥

11.213

एवं क्रमं तु यो वेत्ति तस्य सिद्धिर्न संशयः ॥

11.214

वेधकं यस्तु जानाति देहे लोहे रसायने
तस्य जन्म जरा व्याधिर् नश्यत्येव न संशयः ॥

11.215

देहे तु पञ्चरत्नानि नागं वङ्गं तथायसम्
क्रामणं रसराजस्य भेषजं व्याधिनाशनम् ॥

11.216

औषधैः क्रमते सूतो योगशक्तिक्रमेण तु
क्रमते व्याधिसंघाते ग्रसते दुष्टमामयम् ॥

11.217

तस्य तु क्रामणं ज्ञात्वा ततो वैद्यैरुपाचरेत्
क्रामणेन विना सूतो न क्रमेत् न च वेधयेत्
देहलोहामयान् सर्वान् वृथा स्यात् केवलं श्रमः ॥

11.218

यस्य रोगस्य यो योगस् तेनैव सह योजयेत्
रसेन्द्रो हरति व्याधीन् नरकुञ्जरवाजिनाम् ॥

11.219

आरोटो बलमाधत्ते मूर्छितो व्याधिनाशनः
बद्धेन खेचरीसिद्धिः मारितेनाजरामरः ॥

11.220

विशेषाद्व्याधिशमनो गन्धकेन तु मूर्छितः
ओषध्या घातितः सूतो यथा भूयो न जीवति ॥

11.221

सहि क्रामति लोहेषु तेन कुर्याद्रसायनम्
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc