भाषा

ENहिગુ
ग्रंथ पाठ

रसार्णव · अध्याय 10

10.1

रसस्य लक्षणं किंवा रसकर्म च कीदृशम्
तन्न जानामि देवेश वक्तुमर्हसि तत्त्वतः ॥

10.2

प्रागेवोक्ता रसोत्पत्तिस् तल्लक्षणम् अतः शृणु ॥

10.3

तस्य नामसहस्राणि अयुतान्यर्बुदानि च
शक्यते न मया वक्तुं संक्षेपात् कथ्यते शृणु ॥

10.4

रसो रसेन्द्रः सूतश्च पारदश्चाथ मिश्रकः ॥

10.5

रसं सिद्धरसं विद्यात् सिद्धक्षेत्रसमाश्रयम्
नाशयेत् सकलान् रोगान् वलीपलितमेव सः ॥

10.6

देहलोहकरं शुद्धं रसेन्द्रमधुना शृणु
शरीरे हेम्नि कर्ता च जारणे सारणासु च ॥

10.7

ईषत्पीतश्च रूक्षाङ्गो दोषयुक्तश्च सूतकः ॥

10.8:

यो बाह्याभ्यन्तरे श्वेतो बहुलं कञ्चुकावृतः
तं विद्यात् पारदं देवि तारकर्मणि योजयेत् ॥

10.8:

यथा काञ्जिकसंस्पर्शात् क्षीरभाण्डं विनश्यति
तथा हेम शरीरं च पारदेन विनश्यति ॥

10.9

मयूरपत्त्रिकाभासं मिश्रकं च विदुर्बुधाः
धूम्रवर्णं रसं दृष्ट्वा विशेषेणोपलभ्यते
मिश्रकं तु विजानीयाद् उद्वाहकर्मकारकम् ॥

10.10

एवं पञ्चविधा देवि रसभेदा निरूपिताः ॥

10.11

स्वेदनं मर्दनं चैव चारणं जारणं तथा
द्रावणं रञ्जनं चैव सारणं क्रामणं क्रमात्
इति यो वेत्ति तत्त्वेन तस्य सिध्यति सूतकः ॥

10.12

तीव्रत्वं जायते स्वेदात् अमलत्वं च मर्दनात्
चारणेन बलं कुर्यात् जारणाद्बन्धनं भवेत् ॥

10.13

एकत्वं द्रावणात् तस्य रक्तत्वं रक्तकाञ्जनात्
व्यापित्वं सारणात् तस्य क्रामित्वं क्रामणात्तथा ॥

10.14

मलगो मलरूपेण त्वरितो हंसगो भवेत्
मलगो मलरूपेण सधूमो धूमगो भवेत् ॥

10.15

अन्या जीवगतिर्देवि जीवो ऽण्डादिव निष्क्रमेत्
स तावज्जीवयेज्जीवं तेन जीवो रसः स्मृतः ॥

10.16

चतुष्टयी गतिस्तस्य निपुणेन तु लभ्यते
चतस्रो गतयो दृश्या अदृश्या पञ्चमी गतिः ॥

10.17

मन्त्रध्यानादिना तस्य क्षीयते पञ्चमी गतिः ॥

10.18

धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च
अकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ॥

10.19

मथ्यमानस्य कल्केन सम्भवेद्धि गतित्रयम्
जले गतिर्मलगतिः पुनर् हंसगतिस्ततः ॥

10.20

हेम दत्त्वा ततः शुद्धं तत्तु स्तम्भेन् नियामके
नियामकगणौषध्या रसं दत्त्वा विपाचयेत् ॥

10.21

नियमितो न प्रयाति तथा धूमगतिं शिवे ॥

10.22

कणिकाचालरहितो बुद्बुदैश्चापवर्जितः
नियमितो भवत्येष चुल्लिकाग्निसहस्तथा ॥

10.23

अनियम्य यदा सूतं जारयेत् काञ्जिकाशये
जायते निश्चितं भद्रे तदा तस्य गतित्रयम् ॥

10.24

दोलास्वेदेन चावश्यं स्वेदितो हि दिनत्रयम्
वसुभण्टादिभिर्देवि रसराजो न हीयते ॥

10.25

अक्षीणं तु रसं दृष्ट्वा दद्याद्व्योमादिकं ततः
स्वेदनं च ततः कर्म दीयमानस्य मर्दनम् ॥

10.26

रसालिङ्गित आहारः पिष्टिकेत्यभिधीयते
तद्द्रुतं रसगर्भे तु जारणं परिकीर्तितम् ॥

10.27

जारणा तत्समाख्याता तदेवं चोपलभ्यते
जीर्णान्ते रञ्जनं कार्यं रक्तवर्गगणेन च ॥

10.28

जीर्णं जीर्णं तु संरक्तं समहेम्ना तु सारयेत्
सारणायन्त्रयोगेन बध्यते सारितो रसः ॥

10.29

सारितः सारितश्चैव यथा भवति सूतकः
क्रामणेन समायुक्तं तं च वेधे नियोजयेत् ॥

10.30

आरोटः पारदो ब्रह्मा मूर्छितस्तु जनार्दनः
बद्धस्तु रुद्ररूपः स्यात् कर्मयोगबलाद्रसः ॥

10.31

शृणु देवि प्रवक्ष्यामि कर्मयोगस्य विस्तरम् ॥

10.32

पारदस्य त्रयो दोषा विषं वह्निर्मलस् तथा
विषेण सविषं विद्यात् वह्नौ कुष्ठी भवेन्नरः
मलेनोदररोगी स्यात् म्रियते च रसायने ॥

10.33

षट्त्रुट्यश्चैकलिक्षा स्यात् षड्लिक्षा यूक एव च
षड्यूकास्तु रजःसंज्ञाः कथितास्तव सुव्रते ॥

10.34

षड्रजः सर्षपः साक्षात् सिद्धार्थः स च कीर्तितः
षट्सिद्धार्थाश्च देवेशि यवस्त्वेकः प्रकीर्तितः ॥

10.35

षड्यवैरेकगुञ्जा स्यात् षड्गुञ्जाश्चैकमाषकः
माषा द्वादश तोलः स्यात् अष्टौ तोलाः पलं भवेत् ॥

10.36

द्वात्रिंशत्पलकं देवि शुभं तु परिकीर्तितम्
शुभस्य तु सहस्रे द्वे भार एकः प्रकीर्तितः ॥

10.37

द्वे सहस्रे पलानां तु सहस्रं शतमेव वा
अष्टाविंशत् पलानां तु दश पञ्चकमेव वा ॥

10.38

पलार्धेनैव संस्कारः कर्तव्यः सूतकस्य तु ॥

10.39

महाबला नागबला मेघनादा पुनर्नवा
मेषशृङ्गी च तत्सारैः नवसारसमन्वितम्
पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥

10.40

गिरिकर्णी च मीनाक्षी सहदेवी पुनर्नवा
उरगा त्रिफला कान्ता लघुपर्णी शतावरी ॥

10.41

तुषवर्जे तु धान्याम्ले सर्वं संक्षुभ्य निक्षिपेत्
एकादशगुणे ऽम्ले ऽस्मिन् षोडशांशैर्विमर्दितम् ॥

10.42

आसुरीलवणव्योष चित्रकार्द्रकमूलकैः
दोलायां स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥

10.43

अङ्कोलस्तु विषं हन्ति वह्निमारग्वधः प्रिये
चित्रकस्तु मलं हन्यात् कुमारी सप्तकञ्चुकम् ॥

10.44

तस्माद् एभिः समोपेतैर् मर्दयेत् पातयेद्बुधः ॥

10.45

विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम्
ततस्त्रिगुणवस्त्रस्थं तं रसं देवि गालितम् ॥

10.46

त्रिफलावह्निमूलत्वात् गृहकन्यारसान्वितम्
निरुद्गारे तु पाषाणे मर्दयेत् पातयेत् पुनः ॥

10.47

धूमसारगुडव्योष रजनीसितसर्षपैः
इष्टिकाकाञ्जिकोर्णाभिः त्रिदिनं मर्दयेत्ततः ॥

10.48

निर्मलो जायते सूतः मत्प्रभावं प्रकाशयेत् ॥

10.49

वासकेन विभीतेन मर्दयेत् पातयेत् पुनः
नागवङ्गादिका दोषा यान्ति नाशम् उपाधिजाः ॥

10.50

सप्तवारं काकमाच्या गतदोषं विमर्दयेत्
पातयेत् सप्तवारं च गिरिदोषं त्यजेद्रसः ॥

10.51

क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्छितः ॥

10.52

कार्पासपत्त्रनिर्यासे स्विन्नस् त्रिकटुकान्विते
सप्तकञ्चुकनिर्मुक्तः सप्ताहाज्जायते रसः ॥

10.53

काकमाची जया ब्राह्मी गाङ्गेरी रक्तचित्रकः
मण्डूकी मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः ॥

10.54

देवदाली शङ्खपुष्पी काकजङ्घा शतावरी
कुमारी भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः ॥

10.55

शूलिनी शूर्पपर्णी च गोजिह्वा क्षीरकञ्चुकः
तद्रसैर्मर्दितः पात्यः सप्तधा निर्मलो भवेत् ॥

10.56

ताम्रेण पिष्टिकां कृत्वा पातयेदूर्ध्वपातने
वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥

10.57

मर्दितस् त्रिफलाशिग्रु राजिकापटुचित्रकैः
ऊर्ध्वभाण्डगतः पाच्यः प्रदीप्तैर् उपलैरधः ॥

10.58

सृष्ट्यम्बुजनिरोधेन लब्धप्रायो भवेद्रसः
कर्कोटीकञ्चुकीबिम्बी सर्पाक्ष्यम्बुजसंयुतम् ॥

10.59

रसं नियामके दद्यात् तेजस्वी निर्मलो भवेत्
एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥

10.60

क्षुद्राम्ललवणक्षार भूखगोषणशिग्रुभिः
राजिकाटङ्कणयुतैर् आरनाले दिनत्रयम्
स्वेदनाद्दीपितो देवि ग्रासार्थी जायते रसः ॥

10.61

व्योमसत्त्वादिबीजानि रसजारणशोधने
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥

मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc