रसार्णव · अध्याय 12
ओषधी कीदृशी नाथ रसमूर्छाकरी शुभा
केन वा भस्मसूतः स्यात् केन वा खोटबन्धनम् ॥
शृणु भैरवि यत्नेन रहस्यं रसबन्धनम्
ब्रह्मविष्णुसुरेन्द्राद्यैर् न ज्ञातं वीरवन्दिते ॥
गङ्गायमुनयोर्मध्ये प्रयोगो नाम राक्षसः
तस्यासन्ने वरारोहे क्षणाद् बध्येत सूतकः ॥
निशाचरस्य पत्त्राणि गृह्णीयात् साधकोत्तमः
अधो निष्पीडितं देवि रसो भवति चोत्तमः ॥
रसं संमर्द्य तेनैव दिनानि त्रीणि वार्त्तिकः
आरोटं बन्धयेत् क्षिप्रं गगनं तत्र जारयेत् ॥
तेन पत्त्ररसेनैव साधयेद्गगनं पुनः
सप्तधा भावितं तेन त्र्यूषणेन सहैकतः
यन्त्रे विद्याधरे देवि गगनं तत्र जारयेत् ॥
मासमात्रेण देवेशि जीर्यते तत् समं समे
समजीर्णे रसे देवि शतवेधी भवेद्रसः ॥
निशाचररसे देवि गन्धकं भावयेत्ततः
भावयेत् सप्तवारं तु द्विपद्याश्च रसेन तु ॥
तारस्य पत्त्रलेपेन अर्धार्धकाञ्चनोत्तमम्
गन्धके समजीर्णे ऽस्मिन् शतवेधी रसो भवेत् ॥
पुनस्तं गन्धकं दत्त्वा पत्त्रलेपे रविं हरेत्
तं रविं तारमध्ये तु त्रिगुणं वाहयेत्ततः ॥
हेमार्धे मिलितं हेम मातृकासमतां व्रजेत्
पुनस्तं गन्धकं साक्षाद् द्रावयित्वा द्रुतं कुरु ॥
रसेन्द्रं मर्दयेत्तेन गतदेहं तु कारयेत्
लेपमात्रेण तेनैव कुष्ठानष्टादश प्रिये
अर्शो भगंदरं लूतां शिरोरोगांश्च नाशयेत् ॥
निशाचररसे भाव्यं सप्तवारं तु तालकम्
तेनैव घातयेद्वङ्गं वङ्गं तारे तु निर्वहेत् ॥
तं तारं जारयेत् सूते तत्सूतं बन्धनं व्रजेत्
लेपमात्रेण तेनैव चतुःषष्टितमो भवेत् ॥
चतुःषष्टितमे भागे शुल्ववेधं तु दापयेत्
शुल्वं तु दापयेत्तारे तत्तारं काञ्चनं भवेत्
तत्तारं जायते श्रेष्ठं धर्मकामार्थमोक्षदम् ॥
निशाचरस्य पुष्पाणि सूक्ष्मचूर्णानि कारयेत्
पलानि दश चूर्णस्य रसैर्धात्र्यास्तु भावयेत् ॥
घृतेन मधुनालोड्य नवभाण्डे विनिक्षिपेत्
धान्यराशौ निधातव्यं त्रिसप्ताहं सुरेश्वरि ॥
तेन भक्षितमात्रेण वलीपलितवर्जितः ॥
वल्कलं सूक्ष्मचूर्णं तु मधुना सहितं लिहेत्
अर्धमासप्रयोगेण प्रत्यक्षो ऽयं भवेत् प्रिये ॥
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम्
मासमात्रप्रयोगेण पन्नगः काञ्चनं भवेत् ॥
ग्राह्यं तत्फलतैलं वा यन्त्रे पातालसंज्ञके
तेन तैलेन देवेशि रसं संकोचयेद्बुधः ॥
तत्क्षणाज्जायते देवि पट्टबद्धो महारसः ॥
कटुकं कङ्कणं कार्यं रसलिङ्गे वरानने
संकोच्य मारणं तेन कर्तव्यं परमाद्भुतम् ॥
निशाचररसे क्षिप्तं सप्तवारं तु भास्करम्
कालिकारहितं तेन जायते कनकप्रभम् ॥
तत्तारेण समं बाह्यं तेन सिक्तं तु वापितम्
दशांशं वेधयेत् सूतं दश पीतं शतेन च ॥
शतं वेधयते लक्षं सहस्रं कोटिवेधकम्
दशांशं कोटिवेधि स्यात् कोटिवेधि समेन च ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥
त्रैलोक्यजननी या स्याद् ओषधी अजनायिका
तस्याः सम्पर्कमात्रेण बद्धस्तिष्ठति पारदः ॥
सप्ताहं मर्दितस्तस्या महौषध्या रसेन सः
शतांशेनैव वेधेन कुरुते दिव्यकाञ्चनम् ॥
द्विसप्ताहं रसे तस्या मर्दनाद्वरवर्णिनि
लक्षवेधी रसः साक्षाद् अष्टौ लोहानि काञ्चनम् ॥
त्रिसप्ताहेन देवेशि दशलक्षाणि विध्यति
चतुर्थे चैव सप्ताहे कोटिवेधी महारसः ॥
स्वेदतापननिघृष्टो महौषध्या रसेन तु
ददाति खेचरीं सिद्धिम् अनिवारितगोचरः ॥
कामयेत् कामिनीनां तु सहस्रं दिवसान्तरे
नष्टच्छायो ह्य् अदृश्यश्च त्रैलोक्यं च भ्रमेद्रसैः ॥
महौषध्या रसेनैव मृतसंजीवनं भवेत्
अनेन घातयेत् सूतं पञ्चावस्थं कुरु प्रिये ॥
मृतस्य दापयेन्नस्यं हस्तपादौ तु मर्दयेत्
तस्य तु प्रविशेज्जीवो मृतस्यापि वरानने ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम्
नरसाररसेनैव क्षणाद् बध्येत सूतकः ॥
नरसाररसं दत्त्वा द्विपदीरजसा सह
दिनान्ते बन्धमायाति सर्वलोहानि रञ्जयेत् ॥
नरसाररसेनैव जीर्णे षड्गुणपन्नगे
तारे ताम्रे ऽपि वा देवि भावयेत्तं मनःशिलाम् ॥
निर्गन्धा जायते सा तु घातयेत्तद्रसायनम्
द्विपदीरजसा सार्धं निःसत्त्वः पन्नगो भवेत् ॥
नरसाररसेनैव जीर्णे षड्गुणपन्नगे
तारे ताम्रे ऽपि वा देवि कोटिवेधी भवेद्रसः ॥
नरसाररसस्तन्ये भावनाः सप्तधा पृथक्
रसेन्द्रं दापयेद्ग्रासं यन्त्रे विद्याधराह्वये ॥
जीर्यते गगनं देवि निर्मुखं च वरानने
नरसाररसेनैव कीटमारीरसेन च
द्रावयेद्गगनं देवि तीक्ष्णं लोहं च पन्नगम् ॥
नरसाररसेनैव हनूमत्या रसेन च
जायते काञ्चनं दिव्यं निषेकाद् भास्करप्रिये ॥
नरसाररसे दत्त्वा मञ्जिष्ठारक्तचन्दनम्
स्वरसे मर्दयेत् पश्चात् पन्नगं देवि सेचयेत् ॥
तत्क्षणात् काञ्चनं दिव्यं सप्तवारं निषेचितम्
रविघृष्टं तु तं देवि पन्नगं त्रिगुणं प्रिये ॥
तच्छुल्वं हेमसंकाशं तारपञ्चांशयोजितम्
अष्टमांशयुतं हेम हेमकर्मणि चौषधम् ॥
नरसाररसे भाव्यं सप्तवारं तु हिङ्गुलम्
तेनैव घातयेत्तीक्ष्णं भस्मीभूतत्वमादिशेत् ॥
तद्भस्म ताम्रपिष्टं तु त्रिगुणं तेन निर्वहेत् ॥
तच्छुल्वं हेमसंकाशं तारमष्टांशयोजितम्
तारहेम समांशं तु द्विगुणं पित्तलं भवेत् ॥
नरसाररसे भाव्यं रसकं सप्तवारतः
तं रसं रसकं चैव तीक्ष्णं लोहं च पन्नगम् ॥
नरसाररसेनैव तेनैवैकत्र मर्दयेत्
तत्क्षणाज्जायते बन्धो रसस्य रसकस्य च ॥
तीक्ष्णं नागं तथा शुल्वं रसकेन तु रञ्जयेत्
समस्तं जायते हेम कूष्माण्डकुसुमप्रभम् ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥
कङ्कालखेचरी नाम ओषधी परमेश्वरि
तस्यास्तैलं तु संगृह्य माघखेचरिसंयुतम्
भावयेत् दिनमेकं तु पात्रे भास्करनिर्मिते ॥
द्वितीये वासरे प्राप्ते वज्ररत्नं तु घातयेत्
अनले धामयेत्तत् तु सुतप्तज्वलनप्रभम् ॥
कङ्कालखेचरीतैले वज्ररत्नं निषेचयेत्
दशवारं निषिक्तं तु भस्माकारं हि जायते ॥
तद्धेमपक्वबीजं तु तेन भस्मसमं कुरु
त्रिभागं टङ्कणं दत्त्वा अन्धमूषागतं धमेत्
तत्क्षणान्मिलति द्वंद्वं वज्ररत्नं च काञ्चनम् ॥
चन्द्रहेम वरारोहे समं जारयते यदि
कोटिवेधी रसो देवि लोहान्यष्टौ च विध्यति ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥
सबीजा चौषधी ग्राह्या काचिद् गुल्मलता प्रिये
मन्त्रसिंहासनी नाम द्वितीया देवि खेचरी
पातालयन्त्रे तत्तैलं गृह्णीयात्ताम्रभाजने ॥
तस्य तैलस्य मध्ये तु प्रक्षिपेत् खेचरीरसम्
मेदिनीयन्त्रमध्ये तु स्थापयेत्तु वरानने ॥
पूर्वौषध्या तु तद्देवि गगनं मेदिनीतले
रसग्रासं ततो दत्त्वा मर्दनाद्गोलकं कुरु ॥
बद्ध्वा पोटलिकां तेन गगनं तेन जारयेत्
समे तु गगने जीर्णे बद्धस्तिष्ठति सूतकः ॥
भस्त्राफूत्कारयुक्तेन धाम्यमानेन नश्यति
काकविष्ठासमं रूपं समजीर्णस्य जायते ॥
द्विगुणे गगने जीर्णे अष्टौ लोहानि संहरेत् ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धं सुदुर्लभम् ॥
शिवदेहात् समुत्पन्ना ओषधी तुरसिंहनी
जारयेद्गन्धकं सा तु जारयेत् सापि तालकम् ॥
काञ्चनं जारयेत् सापि रसेन्द्रं सा च बद्धयेत्
प्रवालं जारयेत् सा तु गगनं द्रावयेत् तथा
वज्रं च घातयेत् सा तु सर्वसत्त्वं च पातयेत् ॥
जारयेत्सर्वलोहानि सत्त्वान्यपि च पाचयेत्
हरींदरीरसे न्यस्य गोशृङ्गे तु वरानने
धान्यराशौ निधातव्यं मृतं तिष्ठति सूतकम् ॥
दिव्यौषध्या रसेनैव रसेन्द्रः सुरवन्दिते
समे तु कनके जीर्णे दशकोटीस्तु वेधयेत् ॥
पञ्चमे लक्षकोटिस्तु षड्गुणे स्पर्शवेधकः
सप्तमे धूमवेधी स्यात् अष्टमे त्व् अवलोकतः
नवमे शब्दवेधी स्याद् अत ऊर्ध्वं न विद्यते ॥
भ्रमन्ति पशवो मूढाः कुलौषधिविवर्जिताः
तृणौषधिरसानां च नैव सिद्धिः प्रजायते ॥
तस्मात् सर्वप्रयत्नेन ज्ञातव्या तु कुलौषधी ॥
दिव्यौषधी चतुःषष्टिः कुलमध्ये व्यवस्थिता
नैव जानन्ति मूढास्ते देवमोहेन मोहिताः ॥
अदिव्यास्तु तृणौषध्यो जायन्ते गिरिगह्वरे ॥
तृणौषध्या रसे सूतं नैव बद्धं कदाचन
अक्षयं च वरारोहे वह्निमध्ये न तिष्ठति ॥
न खोटो न च वा भस्म नैव द्रव्यं करोति सः
किं तत् द्रव्यं प्रकुर्वीत धाम्यमानो न तिष्ठति ॥
पत्त्रे पाके कटे छेदे नैव तिष्ठति काञ्चने
न वेधं च शताद् ऊर्ध्वं करोति स रसः प्रिये ॥
यावन्न बद्धमेकं तु विक्रीतं तत्तु काञ्चनम्
धर्मार्थकाममोक्षार्थं नैव दद्यात्तु तत् प्रिये ॥
निर्जीवत्वं गतः सूतः कथं जीवं ददाति च
निर्जीवेन तु निर्जीवः कथं जीवति शंकर ॥
दिव्यौषध्या यदा देवि रसेन्द्रो मूर्छितो भवेत्
कालिकारहितः सूतस् तदा भवति पार्वति ॥
परस्य हरते कालं कालिकारहितो रसः
अष्टानां चैव लोहानां मलं शमयति क्षणात् ॥
महामूर्छागतं सूतं को वापि कथयेन्मृतम्
दिव्यौषध्या रसेनैव जायते नष्टचेतनः ॥
पञ्चभूतात्मकः सूतस् तिष्ठत्येव सदाशिवः ॥
पुनरन्यं प्रवक्ष्यामि रसबन्धनमीश्वरि ॥
क्ष्मापालेन हतं वज्रम् अनेनैव तु काञ्चनम्
वज्रभस्म हेमभस्म तद्वै एकत्र बन्धयेत् ॥
निशाचररसे जार्यं नरजीवेन जारयेत्
तं सूतं मारयेद्भद्रे गजारिदिव्यकौषधी ॥
भक्षितः स रसो येन सो ऽपि साक्षात् सदाशिवः
भक्षिते तोलकैकेन स्पर्शवेधी भवेन्नरः ॥
प्रस्वेदात्तस्य गात्रस्य रसराजश्च वेध्यते
प्रस्वेदादपि मूत्रेण अष्टौ लोहानि काञ्चनम् ॥
लक्षवर्षसहस्राणि स जीवेत् साधकोत्तमः
प्रजापतिः कृष्णतेजाः क्षणाद्बध्नाति सूतकम् ॥
गजारिस्पर्शनाद्देवि क्ष्मापालेन च बध्यते ॥
वज्रवल्लीरसेनैव भावितं गगनं प्रिये
जारयेद्वालुकायन्त्रे खोटो भवति तत्क्षणात् ॥
मृतगोलकमाषैकं माषैकं हेमगोलकम्
एकीकृत्य तु संमर्द्य लुङ्गाम्लेन दिनत्रयम्
कर्षैकं नागपत्त्राणि रसकल्केन लेपयेत् ॥
वेष्टयेद्वृश्चिकाल्या च तत्पिण्डं लेपयेत् ततः
मारयेत् पन्नगं देवि शक्रगोपनिभं भवेत् ॥
कर्षैकं तारपत्त्राणि मृतनागेन लेपयेत्
वृश्चिकाल्या च तत्पत्त्रं लेपितं वेष्टयेत्ततः ॥
तत्तारं म्रियते देवि सिन्दूरारुणसंनिभम्
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥
जायते कनकं दिव्यं देवाभरणभूषणम् ॥
क्षीरयुक्ता बहुफला ग्रन्थियुक्ता च पार्वति
नाम्ना चटुलपर्णीति शस्यते रसबन्धने ॥
एकवीराकन्दरसे मूकमूषागतं रसम्
धमेन्मुखानिलैर्बद्धो भक्षणाय प्रशस्यते ॥
रक्तकञ्चुकिकन्दं तु स्त्रीस्तन्येन तु पेषितम्
मूषायां पूर्वयोगेन कुरुते रसबन्धनम् ॥
वृश्चिकापत्त्रिकाबीजं नारीक्षीरसमन्वितम्
धमयेत् पूर्ववत् सूतं भक्षणार्थाय वार्त्तिकः ॥
वज्रकन्दं समादाय रसमध्ये विनिक्षिपेत्
गजेन्द्राख्यं पुटं दत्त्वा सप्तधा बद्धतां नयेत् ॥
भक्षयेत् तं रसं प्राज्ञः षण्मासादमरो भवेत् ॥
लाङ्गलीकन्दमादाय कर्कोटीकन्दमेव च
रसं तन्मध्यगं कृत्वा स्वेदयेन्मर्दयेत्पुनः ॥
म्रियते नात्र संदेहो ध्मातस्तीव्रानलेन तु
शुकचञ्चुगतं सूतं पुटयेद्धामयेत्ततः ॥
शतांशं वेधकर्तायं देहसिद्धिकरो भवेत् ॥
हंसपादीरसं सूतं शूककन्दोदरे क्षिपेत्
गजेन्द्रपुटनं दद्यात् म्रियते नात्र संशयः ॥
हंसाङ्घ्रिं शुकतुण्डीं च गृहीत्वा मर्दयेद् रसम्
क्रौञ्चपादोदरे दत्त्वा ततो दद्यात् पुटत्रयम् ॥
म्रियते नात्र संदेहो लक्षवेधी महारसः ॥
तृणज्योतिरिति ख्याता शृणु दिव्यौषधी प्रिये
निशासु प्रज्वलेन्नित्यं नाह्नि ज्वलति पार्वति
तस्या मूले तु निक्षिप्तं क्षीरं रक्तं भवेत् प्रिये ॥
तन्मूलरसगन्धाभ्रैर् मातुलुङ्गाम्लपेषितैः
शुल्बपत्त्रं विलिप्तं तु भवेद्धेम पुटत्रयात् ॥
तन्मूलचूर्णसंयुक्तो रसराजः सुरेश्वरि
मातुलुङ्गरसे घृष्टम् अभ्रकं चरति क्षणात् ॥
अथोच्चटीं प्रवक्ष्यामि रसबन्धकरीं प्रिये
एकमेव भवेन्नालं तस्य रोम तु वेष्टनम् ॥
तस्याग्रे च भवेत् पुष्पं शुकतुण्डस्य संनिभम्
तत्पत्त्राणि च देवेशि शुकपिच्छनिभानि च
तत्कन्दं कुष्ठसंस्थानं क्षीरं सिन्दूरसंनिभम् ॥
जलं स्रवेन्मधूच्छिष्टं तत्समादाय पार्वति
वेधयेत् सर्वलोहानि काञ्चनानि भवन्ति च ॥
रसतालकतुत्थानि मर्दयेदुच्चटीरसैः
आतपे म्रियते तप्तो रसो दिव्यौषधीबलात् ॥
वेधयेत् सप्त लोहानि लक्षांशेन वरानने ॥
अथ रक्तस्नुहीकल्पं वक्ष्यामि सुरसुन्दरि
स्नुहीक्षीरेण शुल्बस्य पत्त्रलेपं तु कारयेत् ॥
क्षीरेण तापयेद्भूयः सप्तवारं वरानने
आवर्तितं भवेद् यावज् जाम्बूनदसमप्रभम् ॥
अथातस्तिलतैलेन पाचयेच्च दिनत्रयम्
तथा शुल्वस्य पत्त्राणि वेध्यं जाम्बुनदं भवेत् ॥
रसं रक्तस्नुहीक्षीरं कुनटीं गन्धकाभ्रकम्
दरदं चैव लोहानि सहस्रांशेन वेधयेत् ॥
स्नुहीक्षीरं समादाय निशार्धं हेम चोभयम्
कुनटीं गन्धचूर्णं च सर्वमेकत्र मर्दयेत् ॥
अनेनैव प्रकारेण निशार्धं हेम शोधयेत्
गुटिकाकृत्य तेनैव नागं विध्यति तत्क्षणात् ॥
अथातः स्थलपद्मिन्या दिव्यौषध्या विधिं शृणु ॥
पद्मिनीसदृशी पत्त्रैः पुष्पैरपि च तादृशी
भङ्गे चैव भवेत् क्षीरं रक्तवर्णं सुशोभनम् ॥
आक्रम्य वामपादेन पश्येद्गगनमण्डलम्
पश्येच्च तारकायुक्तं ग्रहनक्षत्रमण्डलम्
लक्षयोजनतो देवि सा ज्ञेया स्थलपद्मिनी ॥
तस्याः पञ्चाङ्गमादाय हरगौरीसमन्वितम्
मनःशिलातालयुक्तं माक्षिकेण समन्वितम् ॥
मर्दयेत् सप्तरात्रं तु तेन शुल्वं च वेधयेत्
सहस्रांशेन देवेशि विद्धं भवति काञ्चनम् ॥
तस्याः पञ्चाङ्गमादाय पूर्वोक्तविधिना प्रिये
चारयेत् सूतराजं तु मूकमूषागतं धमेत् ॥
म्रियते मूषिकामध्ये संकोचेन न संशयः
तेनैव सर्वलोहानि सहस्रांशेन वेधयेत् ॥
अथातः सम्प्रवक्ष्यामि कुमुदिन्या विधिं प्रिये
भित्त्वा काश्मीरिपाषाणे पूर्णिमायां तु कारयेत् ॥
तस्याः पञ्चाङ्गम् आदाय भावयेत्तु मनःशिलाम्
खर्परे धारयित्वा तु भावयेत्तु पुनः पुनः ॥
खर्परे द्रावितं नागं तत्कल्केन युतं कुरु
काश्मीरद्रवतुल्यं हि जायते कनकं ध्रुवम् ॥
चित्रकस्य यथा ग्राह्यं कथयामि समासतः ॥
चित्रकस्त्रिविधो ज्ञेयो रक्तः कृष्णो रसायने
शुक्लो व्याधिप्रशमने श्रेष्ठो मध्यः कनीयसः ॥
कृष्णं रक्तं सितं वापि हेमन्ते नोद्धरेद्बुधः ॥
कृष्णचित्रकमुत्पाट्य गोभिर् नाघ्रातमीश्वरि
क्षीरमध्यस्थितं क्षीरं कृष्णवर्णं भवेत् क्षणात् ॥
तस्य पञ्चाङ्गचूर्णेन पारदं सह मर्दयेत्
धमेच्च मूकमूषायां खोटो भवति तत्क्षणात् ॥
रक्ताम्बरधरो भूत्वा रक्तमाल्यानुलेपनः
कृष्णपक्षे तु पञ्चम्यां रक्तशाल्योदनेन तु
बलिं दत्त्वा महादेवि रक्तचित्रकमुद्धरेत् ॥
रक्तचित्रकचूर्णेन वङ्गस् तापैस् त्रिभिस् त्रिभिः
सर्वदोषविनिर्मुक्तः स्तम्भमायाति तत्क्षणात् ॥
तन्मूलं सूतकं चाम्ले कङ्गुणीतैलसेवनात्
एकविंशतिवारेण शुल्वं शुद्धं भविष्यति ॥
रक्तचित्रकभल्लात तैललिप्तं पुटेन तु
चन्द्रार्कपत्त्रं देवेशि जायते हेम शोभनम् ॥
नागिनीकन्दसूतेन्द्रं रक्तचित्रकसंयुतम्
पत्त्रलेपप्रमाणेन चन्द्रार्कं काञ्चनं भवेत् ॥
रक्तचित्रकसंयुक्तो रसो ऽपि सर्वदो भवेत् ॥
ज्योतिष्मतीतैलविधिं वक्ष्यामि शृणु पार्वति ॥
ज्योतिष्मती नाम लता या च काञ्चनसंनिभा
वल्लीवितानबहुला हेमवर्णफला शुभा ॥
आषाढपूर्वपक्षे तु गृहीत्वा बीजमुत्तमम्
तिलवत् क्वाथयित्वा तु हस्तैः पादैरथापि वा
तस्य तैलं समादाय कुम्भे ताम्रमये क्षिपेत् ॥
तापयेद्भूगतं कुम्भं क्रमादूर्ध्वं तुषाग्निना
षण्मासे तु व्यतिक्रान्ते स घटः काञ्चनं भवेत् ॥
तं तु हेममयं कृत्वा तैलमाक्षिकमिश्रितम्
प्रतिवापे निषिञ्चेत् तत् हेम ताम्रसमं भवेत् ॥
तथाच शतवेधि स्याद् विद्यारत्नमनुत्तमम् ॥
दग्धारोहां प्रवक्ष्यामि रसबन्धकरीं प्रिये
स्पर्शवेधे तु सा ज्ञेया सर्वकार्यार्थसाधिनी ॥
शस्त्रच्छिन्ना महादेवि दग्धा वा पावकेन तु
प्ररोहति क्षणाद्दिव्या दग्धा छिन्ना महौषधी ॥
रक्तं पीतं सितं कृष्णं तस्याः पुष्पं प्रजायते
चणकस्येव पत्त्राणि सुप्रसूतानि लक्षयेत् ॥
सा स्थिता गोमतीतीरे गङ्गायाम् अर्बुदे गिरौ
उज्जयिन्या दक्षिणतो वनान्तेषु च दृश्यते ॥
तस्याः कन्दरसं दिव्यं कृष्णराजिसमन्वितम्
ताम्बूलेन समं कृत्वा गुटिकां कारयेद्बुधः ॥
सर्वेषामेव लोहानां द्रुतानां वह्निमध्यतः
सहस्रं वेधयित्वा तु काञ्चनं कुरुते क्षणात् ॥
तथैव म्रियते सूतः कान्तहेमाभ्रसंयुतः
कुरुते काञ्चनं दिव्यं देवाभरणभूषणम् ॥
कटुतुम्बीति विख्यातां देवि दिव्यौषधीं शृणु ॥
तस्या बीजानि संगृह्य सूक्ष्मचूर्णानि कारयेत् ॥
एकविंशतिवारांस्तु भाव्यं धात्रीरसेन तु
पयसा सहितेनैव विश्वभेषजसंयुतम् ॥
बीजं यन्त्रे विनिक्षिप्य तैलं संगृह्य पण्डितः
रसं मूर्छापयेत् तेन चक्रमर्देन मर्दयेत् ॥
गोपित्तं शिखिपित्तं च काङ्क्षीकासीससंयुतम्
तारतुल्यानि चैतानि सर्वेषां सूतकः समः ॥
मेषशृङ्गे निधातव्यं मासमेकं निरन्तरम्
लोहदण्डेन संसिक्तं सर्वलोहानि वेधयेत् ॥
गन्धकं लोहदण्डेन एकविंशतिभावितम्
युक्तं लोहमनेनैव जम्बीररससंयुतम् ॥
सबीजं सूतकोपेतम् अन्धमूषानिवेशितम्
भूगतं मासमेकं तु तारं काञ्चनतां नयेत् ॥
दलस्य भागमेकं तु तारपञ्चकमेव च
शुल्वस्य पञ्चभागं च बीजस्यैकं च योजयेत् ॥
एते द्वादश भागाः स्युः सर्वं तद्धारयेत् क्षितौ
स्थानस्यास्य निषेकं तु भूदण्डेन तु कारयेत् ॥
पञ्चविंशद्दिनान्ते तु जायते कनकोत्तमम् ॥
क्षीरकन्दविधिं वक्ष्ये सर्वसिद्धिकरं परम्
चतुर्वर्णविधं तत्र रक्तकन्दः प्रशस्यते ॥
भग्नम् एतच्छ्रवेत् क्षीरं रक्तवर्णं सुशोभनम् ॥
मेघानां तु निनादेन संजातैरुपशोभितैः
पत्त्रैः स्नुहीसमैः स्निग्धैः सप्तभिर् हेमसुप्रभैः
बन्धनं रसराजस्य सर्वसत्त्ववशंकरम् ॥
तस्य क्षीरं तु संगृह्य तारं निर्वापयेद्बुधः
धमेद्धवाग्निना चैव जायते हेम शोभनम् ॥
तिन्तिणीपत्त्रनिर्यासैर् ईषत्ताम्ररजोयुतम्
मर्दयेत् पारदं प्राज्ञो रसबन्धो भविष्यति ॥
तोयमध्ये विनिक्षिप्य गुटिका वज्रवद् भवेत् ॥
शाकवृक्षस्य देवेशि निष्पीड्य रसमुत्तमम्
रक्तचन्दनसंयुक्तं सर्वलोहानि जारयेत् ॥
गन्धपाषाणगन्धेन आयसे विनियोजयेत्
मिलन्ति सर्वलोहानि द्रवन्ति सलिलं यथा ॥
गन्धकं रसकं ताप्यं पारदं रक्तचन्दनम्
रुदन्त्या रससंयुक्तं तारमायाति काञ्चनम् ॥
शाकवृक्षस्य निर्यासं पत्त्रे तस्य च गालयेत्
शिग्रुमूलस्य चूर्णं तु तद्रसेन विमर्दयेत् ॥
प्रलिप्य शुल्वपत्त्राणि पुटे क्षिप्त्वा विपाचयेत्
तद्द्रुतं काञ्चनं दिव्यं भवेल्लक्षणसंयुतम् ॥
फलानि शाकवृक्षस्य परिपक्वानि संगृहेत्
तद्रसेन युतं प्राज्ञः सप्तरात्रं तु भावयेत् ॥
तद्रसेन समायुक्तं मञ्जिष्ठामिश्रितं तथा
लेपयेत् तारपत्त्राणि ध्मातं भवति काञ्चनम् ॥
देवदाल्या महौषध्या विधिं वक्ष्यामि तत्परम्
सा श्वेता व्याधिनाशे च कृष्णा पीता रसायने ॥
पौर्णमास्यां त्रयोदश्यां राहुग्रस्ते दिवाकरे
अथवा कृष्णपञ्चम्याम् इमां विधिवदुद्धरेत् ॥
देवदालीफलं देवि विष्णुक्रान्ता च सूतकम्
मूर्छयेद् बन्धयेत् क्षिप्रं शुल्वं हेम करोति च ॥
देवदालीफलं मूलम् ईश्वरीरस एव च
तोयेन मर्दितं कृत्वा वङ्गं स्तम्भयति क्षणात् ॥
अतः परं प्रवक्ष्यामि श्वेतगुञ्जाविधिं प्रिये ॥
कृष्णपक्षे चतुर्दश्याम् अष्टम्यां वा सुरार्चिते
कपाले मृत्तिकां न्यस्य सेचयेत् सलिलेन तु ॥
बीजानि सितगुञ्जायाः पुष्पयोगेन वापयेत्
वक्ष्यमाणेन मन्त्रेण कुर्यात् संग्रहणं तथा ॥
अनेन मनुना प्रोक्ता सिद्धिर्भवति नान्यथा
षण्मासेन तथा वल्लीं मन्त्रपूतेन रक्षयेत् ॥
शुद्धशुल्वं तु संगृह्य मूषामध्ये तु संस्थितम्
त्रिपञ्चपलसंख्यं तु कर्षार्धसितगुञ्जया ॥
सहैकत्र भवेत्तारं तस्य गन्धविवर्जितम्
ब्रह्मरीतिसमायुक्तं गुञ्जाचूर्णं सहैकतः
देवानां भूषणं देवि जायते हेम शोभनम् ॥
चन्द्रोदकेन देवेशि वक्ष्यामि रसबन्धनम् ॥
शुक्लपक्षे पूर्णमास्यां दृष्ट्वा पूर्णेन्दुमण्डलम्
निर्गच्छन्ति महीं भित्त्वा चन्द्रतोयान्यनेकधा ॥
कानिचिन्मृत्तिवर्णानि रसेन लवणानि तु
कानिचिच्चन्द्रतुल्यानि व्योमभासानि कानिचित्
चन्द्रवृद्ध्याभिवर्धेरन् क्षीयेरन् तत्क्षयेण तु ॥
दृष्ट्वा चन्द्रोदकं मन्त्री पौर्णमास्यां विशेषतः
निर्गच्छति महीं भित्त्वा चन्द्रवृद्ध्या विवर्धते ॥
क्षेत्रबन्धं पुरा कृत्वा देवमभ्यर्च्य शंकरम्
चतुर्दश्यां च तत्क्षेत्रं पूजयित्वा विचक्षणः
अहोरात्रोषितो भूत्वा बलिं तत्र निवेदयेत् ॥
पूर्णमास्यां च रात्रौ च गत्वा तस्य समीपतः
चन्द्रोदकं तु संगृह्य मन्त्रयुक्तं सुमन्त्रितम्
आलोड्य मधुसर्पिर्भ्यां पिबेत्तत्तु समाहितः ॥
पीतमात्रेण तेनैव मूर्छा भवति तत्क्षणात्
चन्द्रोदये ततो दृष्टे क्षीरं तस्य तु दापयेत्
सप्तरात्रप्रयोगेण चन्द्रवन्निर्मलो भवेत् ॥
एकविंशतिरात्रेण जीवेद्ब्रह्मदिनत्रयम्
एकमासप्रयोगेण ब्रह्मायुः स भवेन्नरः ॥
चन्द्रोदकेन गगनं रसं हेम च मर्दयेत्
मूषामध्यगतं ध्मातं तत्क्षणाद्गुटिका भवेत् ॥
अयं च स्पर्शमात्रेण लोहान्यष्टौ च वेधयेत् ॥
तद्रसेन रसं भाव्यं वज्रेण समजारितम्
चतुःषष्ट्यंशतः पिण्डे द्विगुणे तु सहस्रकम् ॥
दशसंकलिकाबद्धं गुञ्जामात्रं रसं नरः
त्रिलोहवेष्टितं वक्त्रे धृत्वा चादृश्यतां व्रजेत् ॥
अथातः सम्प्रवक्ष्यामि कर्तरीरसबन्धनम् ॥
असुराणां समायोगे क्रोधाविष्टेन चेतसा
सुदर्शनं महाचक्रं प्रेरितं मुरवैरिणा ॥
भालपट्टात्ततस्तस्य निपेतुः स्वेदबिन्दवः
ते भूमौ पतिता दिव्याः संजाताः कर्तरीरसः ॥
रक्षार्थं स्थापितं तत्र विष्णुना च सुदर्शनम्
चक्रतुल्यं भ्रमत्येतद् आयुधानि निकृन्तति ॥
कुरुते गर्जितं नादं धूमं ज्वालां विमुञ्चति
कर्तरी दृष्टिमात्रेण तथान्या शब्दकर्तरी ॥
सा स्पर्शकर्तरी छाया कर्तरी धूमकर्तरी
सा ज्वालाकर्तरी चैव शक्तिर्घोरस्य कर्तरी ॥
लोकानां तु हितार्थाय घोरशक्तिर् व्यवस्थिता
रसरूपा महाघोरा असिद्धानां तु छेदिनी ॥
तस्याः क्षेत्रं यदा गच्छेत् अघोरास्त्रं जपेत्तदा
पुनर्घोरं न्यसेत्तत्र अथास्त्रं विन्यसेद्बुधः ॥
अनुलोमविलोमेन देहे ऽधिष्ठाप्य कर्तरीम्
मुद्रया मुद्रयेत्तां तु अघोरास्त्रेण योजिताम् ॥
दीपेनाराधयेत्तां तु स्तम्भयेद्धूपनेन च
विष्टरामुद्रया तां तु स्थानयोगं नियोजयेत् ॥
कञ्चुकी तु शिला क्रान्ता कुमारी वज्रकन्दकम्
योषिद्रक्तं गवां मूत्रं तिलकः सर्ववश्यकृत् ॥
अथातः सम्प्रवक्ष्यामि विषोदरसबन्धनम् ॥
विषोदकं विषसमं घृतवच्च घृतोदकम्
सितपीतादिवर्णाढ्यं तच्च देवि रसोत्तमम् ॥
तत्र गत्वा वनोद्देशे स्मरेद्घोरसहस्रकम्
केशाः क्षिप्ताः स्फुटन्त्यस्मिन् आत्मच्छाया न दृश्यते ॥
तैलं च गोलकाकारं घृतं चैव विसर्पति
गन्धकस्य हरेद्गन्धं लवणाम्लं च जायते ॥
आप्त्वा पालाशपत्त्रेण कटुकालाबुके क्षिपेत्
विषोदकं गन्धकं च हरबीजं च तत्समम् ॥
अजाक्षीरेण पिष्ट्वा तु शुल्वपत्त्राणि लेपयेत्
तत् पुटेन च देवेशि सिन्दूरारुणसंनिभम्
शतांशेनैव देवेशि सर्वलोहानि वेधयेत् ॥
अनेन विधिना देवि नागः सिन्दूरतां व्रजेत्
सहस्रांशेन तस्यैवं तारं वेधं प्रदापयेत् ॥
रक्तं पीतं तथा कृष्णम् उत्तरोत्तरकार्यकृत् ॥
त्रिपलं कान्तपात्रे वा पात्रे ऽलाबुमये ऽपि वा
गृहीत्वा पूर्ववत् पत्त्रैः पालाशैर् वेष्टयेद्बहिः ॥
स्थापयेद्धान्यराशौ तु दिवसानेकविंशतिम्
महिषीक्षीरमध्ये तु बिन्दुमेकं तु साधयेत् ॥
पायसं भक्षयेद्यस्तु मध्वाज्येन तु संयुतम्
यावच्चूर्णपलं देवि जीवेत्तद्बिन्दुसंख्यया ॥
लाङ्गली गृहधूमं च सिन्दूरं रजनीद्वयम्
मेषशृङ्गीं च शृङ्गीं च कृष्णोन्मत्तं च मारकम् ॥
सबीजं सूतकं चैव विषतोयेन मर्दितम्
विषतोयेन मेधावी सप्तवारांश्च भावयेत् ॥
अथवा भावयेत्तत्तु यावच्चूर्णं तु तद्भवेत्
तेन नागं प्रतीवाप्य षोडशांशेन सम्भवेत् ॥
मूषाख्ये वेणुयन्त्रे च त्रिवारमपि भावयेत्
धूमं परिहरेत्तस्य अङ्गव्याधिकरं परम् ॥
स्थापयेन्नागसिन्दूरं पात्रे ऽलाबुमये ततः
तच्चूर्णं तु शतांशेन तारपत्त्राणि वेधयेत् ॥
विषपानीयमादाय यवागौ वर्तितं शुभम्
निषिक्तं तच्च वर्ते ऽयं तारं भवति शोभनम् ॥
विषपानीयमादाय प्रक्षिपेच्च रसोत्तमे
कुनटीगन्धपाषाण विषटङ्कणलाङ्गली ॥
नष्टपिष्टीकृतं खल्ले तारपत्त्राणि लेपयेत्
अन्धमूषागतं ध्मातं निर्बीजं कनकं भवेत् ॥
विषतृणविधिं वक्ष्ये समाहितमनाः शृणु ॥
गन्धमाक्षीकदरदं कुनट्या रससंयुतम्
विषतृणसमायुक्तं मातुलुङ्गाम्लमर्दितम् ॥
एतत् कल्कं पलमात्रं चौषध्या लेपनं कुरु
निर्यासे तु पुटं कुर्यात् त्रिवारं हेम शोभनम् ॥
संजीवनीजलस्याथ विधिं वक्ष्यामि पार्वति ॥
शुक्रेणाराधितो देवि प्रागहं सुरवन्दिते
दानवानां हितार्थाय मृतानां देवसंगरे ॥
मया संजीवनी विद्या दत्ता चोदकरूपिणी
तया संजीविता दैत्या ये मृता देवसंगरे ॥
निक्षिप्ता मर्त्यलोके सा सम्यक् ते कथयाम्यहम् ॥
अस्ति मर्त्ये महापुण्या पवित्रा दक्षिणापथे
नदी गोदावरी नाम प्रसिद्धा जाह्नवी यथा ॥
दक्षिणे च तटे तस्याः कदलीनगरं परम्
तस्य दक्षिणतः शैलः सर्वलोकेषु विश्रुतः ॥
नाम्ना कृष्णगिरिश्चेति दृश्यते सर्वमङ्गले
सुप्रसिद्धाम्बिका नाम ग्रामस्तस्यास्ति संनिधौ ॥
तत्राप्युदकमालोक्य परीक्ष्येत सुरार्चिते ॥
गृहीत्वा शुष्कवंशं तु क्षिपेत्तोयस्य मध्यतः
जायते हरितं स्निग्धम् अहोरात्रेण निश्चितम्
मुञ्चत्यङ्कुरपत्त्राणि दृश्यते तन्मनोहरम् ॥
बलिपुष्पोपहारेण ततो देवीं समर्चयेत्
क्षेत्राधिपं गणेशंच चण्डयोनीश्वरं तथा ॥
तस्य मन्त्रं प्रवक्ष्यामि त्रिषु लोकेषु दुर्लभम् ॥
तिलांश्च तण्डुलांश्चैव मन्त्रेणानेन सर्षपान्
सप्ताभिमन्त्रितान्कृत्वा साधको दिक्षु निक्षिपेत् ॥
कटुकालाबुके तोयं कृतरक्षं समाहितः
गृहीत्वा तत्प्रयत्नेन निजस्थानं समाश्रयेत् ॥
सप्ताभिमन्त्रितं कृत्वा मन्त्रेणानेन तज्जलम्
दिनमेकं तथा सूतं स्वर्णमाषद्वयान्वितम्
मर्दयेत्तेन तोयेन पिबेत्तत्तु विचक्षणः ॥
एकविंशतिरात्रेण क्षीराहारो ऽथ यत्नतः
जीवेत् कल्पायुतं साग्रं कामरूपो महाबलः ॥
योजनानां शतं गत्वा पुनरेव निवर्तते
अवध्यः सर्वभूतानां स्वेच्छाचारः स खेचरः ॥
कनकं पारदं व्योम सममेकत्र योजयेत्
मर्दयेत्तेन तोयेन सप्तवारं तु स्वेदयेत् ॥
स रसः सर्वलोहानि षष्ट्यंशेन तु वेधयेत् ॥
अथवा तं रसं दिव्यं मधुना सह भक्षयेत्
मासमात्रप्रयोगेण जीवेद्ब्रह्मदिनायुतम् ॥
तस्य मूत्रमलस्वेदैः शुल्वं भवति काञ्चनम् ॥
निर्वाते तोयमादाय अञ्जलित्रितयं पिबेत्
पीतमात्रे भवेन्मूर्छा स्वास्थ्यं स्यात् प्रहरत्रयात् ॥
एकविंशद्दिनान्येवं क्षीराहारो भवेत्ततः
अष्टवर्षाकृतिः प्राज्ञः कामरूपो महाबलः ॥
पश्येच्छिद्रां महीं सर्वां सप्तपातालसंयुताम्
अवध्यो देवदैत्यानां कल्पायुश्च प्रजायते ॥
अथवोदकमादाय पारदं च मनःशिलाम्
मर्दयेत् खल्लपाषाणे नष्टपिष्टं भवेत्ततः ॥
स्वेदयेत् सप्तरात्रं तु त्रिलोहेन च वेष्टयेत् ॥
अन्तर्धानं क्षणाद्गच्छेत् विद्याधरपतिर्भवेत्
सिद्धकन्याशतवृतो यावत् कल्पान् चतुर्दश ॥
दिनेषु तेषु सर्वेषु दद्याच्छाल्योदनं घृतम्
पयसा च समायुक्तं नित्यमेवं तु कारयेत् ॥
उष्णोदकविधिं वक्ष्ये समाहितमनाः शृणु
पश्येदुष्णोदकं यत्र वासं तत्रैव कारयेत् ॥
अस्ति गोदावरी नाम महाराष्ट्रे ऽतिविश्रुता
तस्या उत्तरभागे तु सह्याद्रिः पुण्यपर्वतः ॥
तत्र मातापुरं नाम प्रसिद्धं देवतागृहम्
तस्मादुत्तरतो देवि कम्पाख्यं नगरं परम् ॥
तत्र कम्पेश्वरो देवस् तत्रास्त्युष्णोदकं ध्रुवम्
प्रणीताख्या नदी तत्र स्नात्वा वै साधकोत्तमः
पश्चादुष्णोदके कुण्डे विधिं कुर्याद् यथोदितः ॥
शर्वरीम् उषितस्तत्र धनवांश्च दिने दिने
भक्षयेन्मासमात्रं तु जीवेद् वर्षशताष्टकम् ॥
वर्षमेकं प्रयुञ्जीत जीवेद्वर्षायुतं सुखी
वलीपलितनिर्मुक्तो भोगी चैव पुरंदरः ॥
वर्षमेकं पिबेत् तोयं जीवेच्चन्द्रार्कतारकम्
तस्य मूत्रपुरीषेण शुल्वं भवति काञ्चनम् ॥
उष्णोदकं च कासीसं गन्धपाषाणसंयुतम्
चतुर्थांशेन रसकं दशभागं विनिक्षिपेत् ॥
शुल्वं च मर्दयेत् सर्वं नष्टपिष्टं क्षणेन तु
तेन लेपितमात्रेण शुल्वं भवति काञ्चनम् ॥
निषिक्तं तेन तोयेन प्रतिवापं ददेद् बुधः
शुल्वं च जायते हेम तरुणादित्यवर्चसम् ॥
तज्जलेन निषिक्तं च हेम बीजार्थसंयुतम्
तारं चानेन मार्गेण निषिक्तं हेमतां व्रजेत् ॥
उष्णोदकेन भल्लातं तिलपिष्टं च भक्षयेत्
मासद्वयप्रयोगेण जीवेद्वर्षशतत्रयम् ॥
रसगन्धाश्मरसकं तुत्थं दरदमाक्षिकम्
याममुष्णाम्भसा घृष्टं तारपत्त्राणि लेपयेत् ॥
द्विवारं तु धमेद्देवि स्याच्चतुर्दशवर्णकम्
क्रमेणानेन देवेशि शुल्वं षोडशवर्णकम् ॥
एकैकं हेमतारांशं द्वंद्वं कान्ताभ्रयोः पृथक्
उष्णोदकेन संमर्द्य धमनात् खोटतां व्रजेत् ॥
तन्मुखे धारयेन्मासं वज्रकायो भवेन्नरः
तच्चूर्णं यवमात्रं तु भक्षयेन्मधुसर्पिषा
यावत् पलं तस्य मलैः शुल्वं भवति काञ्चनम् ॥
उष्णोदपाचितान् खादेत् कुलत्थान् क्षीरपो भवेत्
स्नानमुष्णाम्भसा कुर्यात् वर्षाद्वर्षशतायुषम् ॥
क्षीरमुष्णोदकं क्वाथं त्रिफलायाश्च पाचयेत्
पायसं कान्तपात्रे तन् मासम् एकं तु भक्षयेत्
भुक्त्वा जीवेत् कल्पशतं वैष्णवायुर् भवेन्नरः ॥
अतः परं प्रवक्ष्यामि शैलोदकविधिं प्रिये
कर्दमापो महीशैलं शिलं चेति चतुर्विधम् ॥
कानिचित् क्षणवेधीनि दिनवेधीनि कानिचित्
पक्षमासादिषण्मास वेधनानि महीतले ॥
क्षिप्तं यदा भवेत् काष्ठं शैलीभूतं च दृश्यते
बहिरन्तश्च देवेशि वेधकं तत् प्रकीर्तितम् ॥
हिङ्गुलं हरितालं च गन्धकं च मनःशिला
एषां गन्धापहारं यत् कुरुते तच्च वेधकम् ॥
गन्धकं तालकं चैव तोयपूर्णे घटे क्षिपेत्
यदा तद्बुद्बुदाकारं तदा शैलोदकं भवेत्
अन्यथा वेष्टकं देवि तदग्राह्यं निरर्थकम् ॥
श्रीशैले श्रीवनप्रान्ते पर्यङ्काख्ये शिलातले
तत्रस्थं क्षणवेधि स्यात् नदीभगवतीतटे
एकाहे वेधकं तत्र गोकर्णे तु दिनत्रयम् ॥
भद्राङ्गे दिनवेधि स्यात् त्रिस्थलान्ते त्रिवासरम्
धारेश्वरे पाक्षिकं स्यात् वर्षापुर्यां दिनैकतः ॥
ब्रह्मेश्वरे मासिकं स्यात् व्याघ्रपुर्यां तु वासरम्
अघोरेशे मासिकं तु सिंहद्वीपे तथा पुनः
दिनमेकं ब्रह्मगिरौ विन्ध्ये तु क्षणवेधकम् ॥
वासरं माल्यवन्तेषु क्षणवेधि शिलोदकम् ॥
किष्किन्ध्यापर्वते रम्ये पम्पातीरे तृणोदकम्
तस्य पश्चिमतो देवि योजनद्वितये पुनः
भूशैलमस्ति तत्रैव त्रिदिनं वेधि पर्वते ॥
सह्याचले पुरे देव्याः क्षीरक्षेत्रस्य संनिधौ
शैलोदकं कोटिवेधि दुर्जदेशे ऽपि वासरम्
लक्षवेधि नृसिंहस्य नगरे गोकुलाभिधे ॥
अन्यत्र यत्र तत्रापि ब्रह्मविष्णुशिवोद्भवम्
अमृतं तत्र तत्रापि वज्रीकरणम् उत्तमम् ॥
तस्योत्पत्तिं प्रवक्ष्यामि यथा जानन्ति साधकाः ॥
महीं समुद्धृतवतो वराहस्य कलेवरात्
यः स्वेदः पतितस्तस्माज् जातं शैलोदकं परम् ॥
तन्मुखे क्षणिकं जातं क्रोडदेशे तु वासरम्
बाहुभ्यां त्र्यहवेधि स्यात् मासवेधि तु पार्श्वयोः
षण्मासमपराङ्गे च सर्वं समफलं भवेत् ॥
अघोरास्त्रेण तत्क्षेत्र रक्षां कृत्वा दिशां बलिम्
दत्त्वा लक्षं जपित्वा तु गृह्णीयादमृतं परम् ॥
शरद्ग्रीष्मवसन्तेषु हेमन्ते वा सुरार्चिते
आयसे ताम्रपात्रे वा पात्रे ऽलाबुमये ऽथवा
शैलाम्बुपलमष्टौ तु पलं क्षीरस्य निक्षिपेत् ॥
क्षीरावशेषं संक्वाथ्य त्रिसप्ताहं पिबेन्नरः
जीवेद् वर्षसहस्रं तु वलीपलितवर्जितः ॥
अथवाष्टपलं क्षीरं पलैकेनाम्बुना युतम्
क्षीरावशेषं सेवेत पूर्वोक्तं लभते फलम् ॥
कुलत्थाष्टगुणं वारि पचेदष्टावशेषितम्
चतुर्गुणेन तेनाज्यं पाचयेद्धृतशेषितम् ॥
लिह्यान्मधुसमोपेतं त्रिसप्ताहं बृहस्पतिः
मासेन शास्त्रसम्पत्तिं ज्ञात्वा देवि बलाबलम्
द्विर् अष्टवर्षकाकारः सहस्रायुर् न संशयः ॥
अवशिष्टकुलत्थं तु पादांशं मधुसर्पिषा
भक्षयेद् वर्षम् एकं तु मासेनायुतजीवितः ॥
तत्सिद्धतैलेनाभ्यङ्गं मर्दनं चापि कारयेत्
मासमेकं ततो मर्द्यं देहसिद्धिं करोति च ॥
पामाविचर्चिकादद्रु कुष्ठानि सहसा जयेत्
वलीपलितनिर्मुक्तः सहस्रायुश्च जायते ॥
यः पिबेत् प्रातरुत्थाय शैलाम्बुचुलुकत्रयम्
षण्मासात् स्यात् सहस्रायुर् वलीपलितवर्जितः ॥
अथवा सूतकं देवि वारिणा सह मर्दयेत्
मासेनैकेन देवेशि नष्टपिष्टं भविष्यति ॥
मासमात्रं समश्नीयात् स भवेदजरामरः ॥
अथवा तं रसं हेम्ना हेमभस्म ततो बली
मर्दयेत्तेन तोयेन धामयेत् खदिराग्निना ॥
गुटिका सुन्दरी नाम सर्वायुधनिवारणी
कर्ता हर्ता स्वयं सिद्धो जीवेच्चन्द्रार्कतारकम् ॥
कुनटी चाभ्रमाक्षीकं हेम तारं तथैव च
तत् सर्वं पयसा क्षीरैर् मद्यं पाच्यं दिनत्रयम्
मासमात्रप्रयोगेण वलीपलितवर्जितः ॥
अथ तेनोदकेनैव क्षीरार्धं पायसं पचेत्
मासमात्रप्रयोगेण वलीपलितनाशनम् ॥
पक्त्वा तेनाम्भसा पथ्याः षष्टिं त्रीणि शतानि च
मधु संयोज्य भाण्डस्थं भूमौ सर्वं निधापयेत् ॥
दिने दिने तथैकैकं भक्षयेत् प्रातरुत्थितः
वलीपलितनिर्मुक्तो जीवेद्वर्षसहस्रकम् ॥
शैलीभूतं कुलत्थं वा भक्षयेन्मधुसर्पिषा
षण्मासेन प्राशनेन जीवेद्वर्षसहस्रकम् ॥
कूष्माण्डं मारितं कृत्वा यानि कानि फलानि च
जले क्षिप्तानि लोहानि शैलीभूतानि भक्षयेत्
क्षीराहारश्च जीर्णान्ते वज्रकायो भवेन्नरः ॥
तेनोदकेन संमर्द्य अभ्रकं क्वाथयेत् प्रिये
कटुत्रययुतं खादेत् जीवेद्वर्षसहस्रकम् ॥
अथवा रसकर्षैकं तज्जलेन तु मर्दयेत्
इङ्गुदीफलमध्यस्थं तच्छैलोदकमध्यगम्
कालेन त्रिगुणेनैव काठिन्यं तस्य जायते ॥
षण्मासं तन्मुखे धार्यं वज्रकायं करोति च
दशनागसमप्राणो देवैः सह च मोदते ॥
गृहीत्वा त्रिफलां तत्र शैलवारिणि निक्षिपेत्
यदा भवति तच्छैलं गृहीत्वा चूर्णयेत् ततः ॥
कान्तजीर्णरसं तेन सार्धं घृतमधुप्लुतम्
भक्षयेद्वर्षमेकं तु ततः क्षीराशनो भवेत् ॥
उदयादित्यसंकाशो मेधावी प्रियदर्शनः
नीलकुञ्चितकेशश्च जीवेच्चन्द्रार्कतारकम् ॥
पारदं हरितालं च शिला माक्षिकमेव च
दरदं च विषं चैव सर्वमेकत्र कारयेत् ॥
मर्दयेत् खल्लपाषाणे मातुलुङ्गरसेन च
गोलकं कारयित्वा तु वारिमध्ये निधापयेत् ॥
तेन तारं च शुल्वं च काञ्चनं भवति ध्रुवम् ॥
उपयुञ्जीत मासैकं वलीपलितवर्जितः
सहस्रं जीवितं तस्य महाबलपराक्रमः ॥
शैलीभूतां हरिद्रां तु तच्चूर्णवापमात्रतः
हेमत्वं लभते नागो बालार्कसदृशप्रभम् ॥
शैलोदके विनिक्षिप्य भूशैले कर्दमे ऽपि वा
ज्ञात्वा कालप्रमाणेन बन्धयेत् पारदं ततः ॥
रक्तक्षारयुतं ध्मातं सुवर्णं समसारितम्
शतांशेन तु लोहानां सर्वेषां हेमकारकम् ॥
द्वितीयसारणां प्राप्य भक्षयेन्मधुसर्पिषा
तत्कालं चित्तजातानाम् ऊर्ध्वं भवति चानिलः ॥
कालज्ञानं भवेत्तस्य जीवेदयुतपञ्चकम् ॥
द्वितीयसारणां प्राप्य सहस्रांशेन विध्यति
तं खोटं धारयेद्वक्त्रे दिव्यत्वं लभते ध्रुवम् ॥
निचुले ककुभे चैव किंशुके मधुके ऽपि वा
इङ्गुदीफलमध्ये वा रजनीद्वयमध्यतः ॥
पारदं गन्धकं चैव मर्दयेत् गुलिकाकृति
पाचयेद्दिनमेकं तु हेम्ना संवेष्ट्य धारयेत् ॥
त्रिफलाव्योषकल्केन वेष्टयित्वा प्रयत्नतः
पादेन कनकं दत्त्वा पारदं तत्र योजयेत्
क्षिपेच्छैलाम्बुमध्यस्थं गुलिका वज्रवद्भवेत् ॥
पूर्ववत् सारणा कार्या पूर्ववत् सिद्धिदा भवेत्
धार्यमाणा मुखे सा तु सहस्रायुष्करी भवेत् ॥
द्वितीयसारणायोगाद् अयुतं वेधयेत्तु सा
धार्यमाणा मुखे सेयम् अयुतायुःप्रदा भवेत् ॥
तृतीयसारणायोगाज् जायते लक्षवेधिनी
तं खोटं धारयेद्वक्त्रे लक्षायुर्जायते नरः ॥
चतुर्थीं सारणां प्राप्य कोटिवेधो न संशयः
कोट्यायुर्जीवितं तस्य खेचरत्वं च लभ्यते ॥
पञ्चभिर् दशकोटिः स्यात् षड्भिः कोटिशतं भवेत्
यावच्चन्द्रार्कजीवित्वम् अनन्तबलवीर्यवान् ॥
ददाति सप्तमीं सापि सारणां गुटिका परा
खेचरी नाम विख्याता भैरवेण प्रचोदिता ॥
यस्तु तद्राजिकामात्रं मासमेकं तु भक्षयेत्
वज्रदेहः स सिद्धः स्यात् दिव्यस्त्रीजनवल्लभः
क्रीडते खेचरैर् भोगैः स्वेच्छया शिवतां व्रजेत् ॥
नानाविधफलं च स्यात् तद्रसैर् बीजतैलतः
तद्बद्धं पारदं चैव गुटिकां शृणु सुन्दरि ॥
शुद्धबद्धरसेन्द्रस्तु गन्धकं तत्र जारयेत्
त्रिगुणे गन्धके जीर्णे तेन हेम तु कारयेत् ॥
कारयेद्भस्म सूतं तु काञ्चनं तत्र सूतकम्
तद्भस्म सूतके जार्यं रसेन्द्रस्य समे समम् ॥
तेन सूतकजीर्णेन वज्ररत्नं तु जारयेत्
तद्वज्रं जायते भस्म सिन्दूरारुणसंनिभम् ॥
तद्भस्म जारयते सूते त्रिगुणे तु सुरार्चिते
हाटके सारयेत्तं तु गुटिकां तेन कारयेत् ॥
त्रिलोहावेष्टितं तं तु मुखे प्रक्षिप्य साधकः
नष्टच्छायो भवेत् सो ऽयम् अदृश्यो देवदानवैः ॥
तत्क्षणाद्वेधयेद्देवि सर्वलोहानि काञ्चनम्
बहुवर्षसहस्राणि निर्वलीपलितो भवेत् ॥
शूलिनं शक्तिसंयुक्तं रत्नादिगुणभूषितम्
वक्त्रे करे च बिभृयात् सर्वायुधनिवारणात् ॥
व्योम माक्षिकसत्त्वं च तारामात्रं सुरायुधम्
वैक्रान्तं तालकं सूतं रत्नादिगुणभूषितम् ॥
गुटिका सा वरारोहे मधुरत्रयसंयुता
वक्त्रस्था नाशयेत् साक्षात् पलितं नात्र संशयः
शिवशक्तिश्च देवेशि रत्नादिशिवगा यथा ॥
हेम तारं तथा भानुं समभागानि कारयेत्
स्त्रीरजो व्याघ्रमध्यस्थं पद्मसूत्रेण वेष्टयेत् ॥
सेचयेत्तत् तथावेष्ट्य गुह्यस्थाने निधापयेत्
रणे राजकुले द्यूते दिव्ये काम्ये जयो भवेत्
यन्मुखे चैव तद्गोलं स सर्वरञ्जको भवेत् ॥
वैक्रान्ताभ्रककान्तं तु सस्यकं तु सुरायुधम्
विभीतकादिसम्भूत काञ्चिकस्य समं भवेत् ॥
राजावर्तं ततः सूते योजयेत् पादयोगतः
कुमारीरससंघृष्टा कृतैका गुटिका शुभा
रोगमृत्युजरा हन्ति वक्त्रस्था नात्र संशयः ॥
पञ्चतारं वरारोहे सूतकं द्वयमेव च
त्रयो गगनभागाः स्युर् एकैकं हेमकान्तयोः ॥
अर्धशुल्वविधानेन गुटिकामरसुन्दरि
अक्षयो ह्य् अजरश्चैव भवेत्तेन महाबलः
सर्वरोगविनिर्मुक्तो जीवेद्वक्त्रे विधारणात् ॥
भस्मसूतपलैकं च मृतकान्तपलं तथा
माक्षिकस्य पलं चैव शिलाजतुपलं पुनः ॥
पलमेकं विडङ्गस्य पथ्याचूर्णपलं तथा
एकीकृत्याथ तत् सर्वं मध्वाज्येन तु पेषयेत् ॥
गुटिकाः कारयेद्देवि षष्ट्यधिकशतत्रयम्
एकैकं भक्षयेन्नित्यं वर्षमेकं निरन्तरम् ॥
जीवेद्वर्षसहस्राणि रुद्रतुल्यो महाबलः ॥
अतः परं प्रवक्ष्यामि रसभस्मरसायनम्
विज्ञेयं निष्परीहारं साक्षाद्दिव्यौषधं परम् ॥
आमलक्यादि कान्तं च पारदं च मनःशिलाम्
वाकुचीसप्तभागं च क्षीरिणीरसपेषितम्
मेघनादरसोपेतं मूकमूषागतं पुटेत् ॥
माषं त्रिमाषं त्रिगुणं भक्षयेत्तु क्रमेण तु
वर्षत्रयपरं देवि पादनिष्कार्धकं क्रमात् ॥
षट् सप्ताष्टौ च वर्षाणि क्रमान् निष्कप्रमाणतः
भुञ्जीत स च दिव्यान्नं जरावैरूप्यवर्जितः ॥
किंचित् काञ्चनसंयुक्तं निष्कं निष्कार्धमेव च
यो भक्षयेत् त्रिभिर्वर्षैः सर्वव्याधीन् जयत्यलम् ॥
अष्टवर्षे सहस्रायुः द्वादशे लक्षवेधकः
षोडशे वत्सरे देवि दिव्यरूपः स जायते ॥
शतपलम् अभयानाम् अक्षधात्र्योस् तथैव क्वथितजलशताष्टौ भागमष्टावशेषम्
घृतमधुसितयाढ्यं व्योषचित्रं दशांशं रसफलरससिद्धं लोहजीर्णं मृतं च ॥
गिरिजतुसममभ्रं कान्तभृङ्गं विडङ्गं रससहितसुभाव्यं तण्डुलैर्दिव्यमुख्यैः
अहिमरकृतकल्कं लोहपात्रस्थमाषं त्रिदिनतनुसुसिद्धं कल्कमेतद्वरिष्ठम् ॥
लिहति शयनकाले वामनेत्रावसेवी घननिबिडसुमध्यो मत्तमातंगदर्पः
विगतसकलदोषः सर्वदिग्दिव्यचक्षुः मदन इव सुकान्तिः कामिनीनां प्रवीरः ॥
जलदलववपुष्मान् कुञ्चितानीलकेशः सुरगुरुरिव शुद्धः सत्कविश्चित्रकारी
वृषभगतिविचेष्टः स्निग्धगम्भीरघोषः सुरगज इव लोके श्रान्तिहन्ताशु नित्यम् ॥
प्रभवति खलु लोके सोमतारार्कजीवी कमलसदनसुश्रीर् न्यायशास्त्रादिवेत्ता
सुजनसमयपाता धर्मदीक्षानुमाता हरिहरमगभीरः सूर्यसोमाब्धिधीरः ॥
कान्तहेमरविचन्द्रमभ्रकं गोलकं निहितमिङ्गुदीफले
शैलवारिवरसिद्धगोलकं सुन्दरं ह्य् अमररञ्जकं शुभम् ॥
कान्तहेमरविचन्द्रम् अभ्रकं वज्ररत्नम् अहिराजगोलकम्
क्षिप्तम् आमलककाष्ठकोटरे भूमिशैलनिहितं समुद्धृतम्
शैलतां गतमथाहितं मुखे वज्रकायकरम् अल्पवासरैः ॥
तालहेमवरशुल्बसूतकैः गोलकं वरणकाष्ठयन्त्रितम्
शैलवारिकृतसुन्दरीरसं खेचरीति गुटिका निगद्यते ॥
शैलाम्बुनिक्षिप्तपलाशबीजं शैलीकृतं क्षौद्रघृतेन खादेत्
त्रिःसप्तरात्रं दिनमेकमेकं सहस्रजीवी विजयी नरः स्यात् ॥
सूतकं चाभ्रकं चैव वज्रीक्षीरसमन्वितम्
हाटकेन समायुक्तं गुटिका खेचरी भवेत् ॥
करञ्जफलमध्यस्थं सूतकं तत्र निक्षिपेत्
घृतशैलाम्बुमध्यस्थं सहस्रायुः प्रयच्छति ॥
तिन्दुके द्विसहस्रायुः जम्बीरे त्रिसहस्रकम्
मातुलुङ्गे च नारङ्गे चतुःपञ्चसहस्रकम् ॥
रम्भाफले षट्सहस्रं पनसे सप्तसंख्यकम्
विभीतकफले चैव दशसाहस्रसंख्यकम् ॥
नारिकेले महाभागे सहस्राणि चतुर्दश
त्रिंशत्सहस्रं पद्मे च लक्षमामलके पुनः ॥
अभ्रपत्त्रद्रवे क्वाथम् अहोरात्रं शिलोदके
तस्मात्तु चोद्धृतं सूतं मृत्युदारिद्र्यनाशनम् ॥
सारणाक्रमयोगेन नवीनं जायते वपुः
रसे रसायने चैव लक्षवेधी न संशयः ॥
कर्दमं च कुमार्याश्च रसेन कृतगोलकम्
धमनात् पतते सत्त्वं मुखे तद्धारयेन्नरः
षण्मासेन प्रयोगेण ह्य् अजरामरतां व्रजेत् ॥
स्रोतोञ्जनयुतं ध्मातं सत्त्वं पारदमिश्रितम्
तं खोटं धारयेद्वक्त्रे अदृश्यो भवति ध्रुवम् ॥
यस्य यो विधिराम्नात उदकस्य शिवागमे
रसेनैव तु काले तु कुर्यादेव रसायनम् ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0