रसार्णव · अध्याय 9
बीजानां कलनं प्रोक्तं विशेषेण च साधनम्
जार्यन्ते तानि यैः सूते तान् विडान् वक्तुमर्हसि ॥
कासीसं सैन्धवं काङ्क्षी सौवीरं व्योषगन्धकम्
सौवर्चलं सर्जिका च मालतीनीरसम्भवम्
शिग्रुमूलरसैः सिक्तो विडो ऽयं सर्वजारणः ॥
निर्दग्धं शङ्खचूर्णं तु रविक्षीरशतप्लुतम्
पुटितं बहुशो देवि प्रशस्तो जारणाविडः ॥
शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ॥
निर्दग्धं शङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम्
शतशो विषसिन्धूत्थ संयुतं वडवामुखम् ॥
टङ्कणं शतशो देवि भावयेत् किंशुकद्रवैः
विडो वह्निमुखाख्यो ऽयं लोहानां जारणे प्रिये ॥
चूलिका गन्धपाषाणः कान्तस्य च मुखं प्रिये
एकैकमेव पर्याप्तं लौहचूर्णस्य जारणे ॥
गन्धतालकसिन्धूत्थं चूलीटङ्कणभूखगम्
क्षारैर्मूत्रैश्च विपचेद् अयं ज्वालामुखो विडः ॥
एकविंशतिपर्यायं देवदालीदलद्रवैः
भावितो निचुलक्षारः सर्वसत्त्वानि जारयेत् ॥
वास्तुकैरण्डकदली देवदालीपुनर्नवम्
वासा पलाशनिचुलं तिलकाञ्चनमाक्षिकम् ॥
सर्वाङ्गं खण्डशश्छिन्नं नातिशुष्कं शिलातले
दग्धकाण्डैस् तिलानां तु पञ्चाङ्गं मूलकस्य च ॥
प्लावयेन्मूत्रवर्गेण जलं तस्मात् परिस्रुतम्
लोहपात्रे पचेद्यन्त्रे हंसपाके ऽग्निमानवित् ॥
बाष्पाणां बुद्बुदानां च बहूनामुद्गमो यदा
तदा कासीससौराष्ट्री क्षारत्रयकटुत्रयम् ॥
गन्धकं च सितं हिङ्गु लवणानि च षट् तथा
एषां चूर्णं क्षिपेदेष लोहसम्पुटमध्यगः
सप्ताहं भूगतः पश्चाद् धान्यस्थः प्रवरो विडः ॥
जम्बीराम्लेन पचनं शिग्रुमूलद्रवेण च
चूलिकागन्धकासिक्तौ द्वौ विडौ शतशः क्रमात् ॥
कोषातकीदलरसैः क्षारैर्वा निचुलोद्भवैः
देवदालीशिवाबीजं गुञ्जासैन्धवटङ्कणम्
भावयेदम्लवर्गेण विडो ऽयं हेमजारणः ॥
मूलकार्द्रकचित्राणां क्षारैर् गोमूत्रगालितैः
गन्धकः शतशो भाव्यो विडो ऽयं हेमजारणे ॥
हरितालशिलाक्षारो लवणं शङ्खशुक्तिका
हंसपाकविपक्वो ऽयं विडः स्याद्धेमजारणे ॥
एवं संगृह्य सम्भारान् रसकर्म समाचरेत्
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥
मूल पाठ: Rasārṇava, 1-12 · Edition: Praphulla Chandra Ray Calcutta : Asiatic Society 1908-1910 (Bibliotheca Indica, 175) · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0