रसरत्नाकर · अध्याय 3.12
र्रा, 3, 12
समुखविमुखसूते जारणार्थं प्रवक्ष्ये विविधसुलभयोगैर्भोजनं गंधकस्य ।
तदनु च घनचूर्णैर्भोजनं पाचनं स्यात् निखिलसूतविभूत्यै वार्तिकानां सुखाय
{मेर्चुर्:: जारण ओf सुल्fउर्}
गंधकं सूक्ष्मचूर्णं तु सप्तधा बृहतीद्रवैः ।
भावयेद्वाथ वृन्ताकरसेनैव तु सप्तधा
पलैकं पारदं शुद्धं काचकूप्यन्तरे क्षिपेत् ।
कर्षकं भावितं गंधं कर्पूरं माषमात्रकम्
क्षिप्त्वा तत्र मुखं रुद्ध्वा मृदा कूपीं च लेपयेत् ।
दीपाग्निना दिनं पच्यान्मुखमुद्घाटयेत्पुनः
जीर्णे गंधं च कर्पूरं दत्त्वा तद्वच्च जारयेत् ।
एवं शतगुणे जीर्णे गंधकं जारयेद्रसे
{मेर्चुर्य्:: जारण ओf सुल्fउर्}
कासीसं चैव सौराष्ट्री सज्जीक्षारेण मोदकम् ।
शिग्रुतोयेन संयुक्तं कृत्वा भाव्यमनेन वै
सप्ताहं चूर्णितं गंधं तं गंधं जारयेत्पुनः ।
इष्टिकागर्तमध्ये तु सम्यक् शुद्धरसं क्षिपेत्
मुखं स्वच्छेन वस्त्रेण छादयेत्तस्य पृष्ठतः ।
दशांशं गंधकं दत्त्वा श्रावकेण निरोधयेत्
पृष्ठे लघुपुटं देयं जीर्णे गंधं पुनः क्षिपेत् ।
एवं शतगुणं जार्यं गंधकं पारदे शनैः
{मेर्चुर्य्:: जारण ओf पक्वबीज}
तं रसं तप्तखल्वे तु क्षिपेद्वस्त्रेण गालितम् ।
पादांशकं पक्वबीजं दत्त्वाम्लैर्मर्दयेद्दिनम्
तं क्षिपेच्चारणायन्त्रे जंबीररससंयुतम् ।
तं यंत्रं धारयेद् घर्मे जारितो जायते रसः
{मेर्चुर्य्:: जारण ओf पक्वबीज}
सविडं कलयेद्यंत्रे दिनैकं तु पुटे पचेत् ।
जारितं स्यात्पुनर्बीजं दत्त्वा जार्यं च पूर्ववत् ।
जारयेच्च पुनस्तद्वदेवं जार्यं समं क्रमात्
{मेर्चुर्य्:: सारणा wइथ् पक्वबीज}
जारितं सारणायन्त्रे क्षिपेत्तैलं वसान्वितम् ।
द्रावितं नालमूषायां पक्वबीजरसान्वितम्
तद्यंत्रे धारयेदेवं सारितो जारयेद्रसः ।
सारितं तत्पुनर्मर्द्यं पूर्ववद् बिडसंयुतम्
जारयेत्कच्छपे यंत्रे जीर्णे बीजे तु सारयेत् ।
पूर्ववत् सारणायन्त्रे बीजेन द्विगुणेन वै
पुनस्तं जारयेत्तद्वत्तथैव प्रतिसारयेत् ।
त्रिगुणेन तु बीजेन पूर्ववज्जारयेत्पुनः
{मेर्चुर्य्:: मुख:: ~बन्धन}
तद्रसं तालकं तुल्यं तैलं धत्तूरसंभवम् ।
दिव्यौषधीगणद्रावं सर्वं मर्द्यं दिनावधि
वज्रमूषान्धितं पच्यात्करीषाग्नौ दिनावधि ।
पुनर्दिव्यौषधीद्रावैर्मर्द्यं पाच्यं दिनावधि ।
इत्येवं च पुनः कुर्यात्सूतो बद्धमुखो भवेत्
{रसबन्धनम्}
तं रसं धौतमाक्षीकं तीक्ष्णं शुल्बं रसः शशी ।
समांशं देवदाल्युत्थद्रवैर्मर्द्यं दिनावधि
त्रिदिनं मधुसर्पिर्भ्यां मर्दितं गोलकीकृतम् ।
वज्रमूषागतं रुद्ध्वा शोष्यं तीव्राग्निना धमेत्
खदिराङ्गारयोगेन खोटबद्धो भवेद्रसः ।
तत्खोटं टंकणैः काचैः शोधयेद्वै धमन्धमन्
तेजःपुञ्जो रसो बद्धो बालार्कसदृशो भवेत्
{सिल्वेर् => गोल्द्}
तद्रसं सिक्थकेनैव वेष्टयित्वा प्रपूजयेत् ।
शतांशं तु द्रुते तारे क्रामणेनैव संयुतम्
तत्तारं जायते स्वर्णं जांबूनदसमप्रभम् ।
अष्टानवतिभागं स्यादित्येवं वेधको मतः
{मेर्चुर्य्:: मुखकरण}
अथ वक्ष्ये रसेन्द्रस्य वासितस्य मुखं क्रमात् ।
येन व्योमादिवैक्रान्तं चरत्याश्वभिषेचितम्
अम्लवेतसजंबीरबीजपूरकभूखगैः ।
त्रिदिनं मर्दयेत्सूतं भूनागैश्च दिनत्रयम् ।
तप्तखल्वे दिनं मर्द्यं सूतस्येत्थं मुखं भवेत्
{मेर्चुर्य्:: मुखकरण}
मध्यगर्तसमायुक्तं कारयेदिष्टिकाद्वयम् ।
धान्याभ्रं गंधकं शुद्धं प्रत्येकं दशनिष्ककम्
यामं जम्बीरजैर्द्रावैर् मर्द्यं तेनैव लेपयेत् ।
गर्तद्वयं समांशेन ह्यधोगर्तं सुशोधितम्
विंशनिष्कं क्षिपेत्सूतम् ऊर्ध्वं देयापरेष्टिका ।
लिप्त्वा मृल्लवणैः संधिं दीप्ताग्निं ज्वालयेदधः
अविच्छिन्नं दिवारात्रौ यावत्सप्तदिनावधि ।
स्वांगशीतं समुद्धृत्य रसं किट्टविवर्जितम् ।
इत्येवं तु त्रिधा कुर्याद्रसस्य तु मुखं भवेत्
{मेर्चुर्य्:: मुखकरण}
वंशनालान्धितं सूतं भाण्डे गोमूत्रपूरिते ।
त्रिसप्ताहं पचेच्चुल्ल्यां सूतस्येत्थं मुखं भवेत्
{परल्लेल् बेत्wएएन् संस्कारस् अन्द् रितुअल्}
समुखे निर्मुखे सूते वक्ष्यते जारणं क्रमात् ।
खल्वपीतं रसो लिङ्गं मर्दनं मार्जनं स्मृतम्
नानौषधीरसैः स्नानं सत्त्वैर्बीजैः प्रपूजनम् ।
स्वर्णादिरत्नजातैश्च उपहारं प्रकल्पयेत्
नैवेद्यं रञ्जनं दिव्यं सारणा स्याद्विसर्जनम् ।
वेधनं देहलोहेषु सम्यक्पूजाविधेः फलम्
यावद्दिनानि वह्नौ तु धारणे जार्यते रसः ।
तावद्युगसहस्राणि शिवलोके महीयते
यत्किंचिद्रसराजस्य साधनार्थे व्ययो भवेत् ।
तत्सर्वं कोटिगुणितं दत्ते श्री भैरवी ध्रुवम्
साधकानां सुधीराणाम् इह लोके परत्र च ।
अतो भूपैर्वार्तिकेन्द्रैः साध्यः स्याद् भुक्तिमुक्तिदः
{अभ्र:: प्रेपरतिओन् fओर् चारण}
अर्कक्षीरेण धान्याभ्रं दिनं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यात् क्षीरैर्यामं विमर्दयेत्
रुद्ध्वाधः पूर्ववत्पच्यादेवं वारचतुष्टयम् ।
त्रिधा च मूलकद्रावै रम्भाकन्दद्रवैस्त्रिधा
अपामार्गकाकमाचीमीनाक्षीभृङ्गराण्मुनिः ।
पुनर्नवा मेघनादो विदारिश्चित्रकं तथा
क्रमाद् एषां द्रवैरेव मर्दनं पुटपाचनम् ।
एकैकेनैकवारं च दत्त्वा तद्भावयेत्पुनः
शतावरी तालमूली कदली तण्डुलीयकम् ।
अर्कः पुनर्नवा शिग्रुर्यवचिञ्चा ह्यनुक्रमात्
प्रतिद्रवैर् दिनैकं तु भावितं चारणे हितम्
{अभ्र:: वोर्बेरेइतुन्ग् औf चारण}
अर्कक्षीरैस्तु धान्याभ्रं यामं मर्द्यं निरुध्य च ।
कपोताख्ये पुटे पच्यादेवं वारांश्चतुर्दश
कदली मुसली शिग्रुर्वन्ध्याङ्कोल्लार्कपीलुकम् ।
नागवल्ली कुबेराक्षी भूम्यपामार्गतुम्बरुः
एषामेकद्रवं ग्राह्यं कांजिके व्योमसंयुतम् ।
सर्वमेतत्क्षिपेद् भाण्डे तन्मध्ये पाचयेत् त्र्यहम्
पूर्वाभ्रं दोलिकायन्त्रे समुद्धृत्याथ शोषयेत् ।
कासीसं तुवरी सिन्धुष्टंकणं च समं समम्
सर्वमेतद्दशांशं तु क्षिप्त्वा तस्मिन्विमर्दयेत् ।
दिनैकं तप्तखल्वे तु क्षिप्त्वा तस्मिन्विमर्दयेत्
दिनैकं तप्तखल्वे तु तदभ्रं चारणे हितम्
{अभ्र:: प्रेपरतिओन् fओर् चारण}
शतवारं द्रुतं नागं मुण्डीद्रावे विनिक्षिपेत् ।
तेन द्रावेण धान्याभ्रं मर्दितं सप्तधा पुटेत् ।
मर्द्यं मर्द्यं निरुध्याथ कपोताख्ये पुटे पचेत्
तत्तुल्यं गंधकं दत्त्वा पूर्वोक्तैर्मुण्डिकाद्रवैः
सस्तन्यैर् बीजपूरोत्थैर् द्रावैर्भाव्यं दिनावधि ।
एतदभ्रं तु सूतस्य चारणे परमं हितम्
{सिद्धमूली}
व्याघ्रपादी हंसपादी कदल्यग्निकुमारिकाः ।
बृहती लाङ्गली वज्री खण्डजारीन्द्रवारुणी
वन्ध्याकर्कोटकी मूषा सर्पाक्षी शङ्खपुष्पिका ।
मण्डूकी अग्निमथनो विख्याता सिद्धमूलिका
एताः समस्ता व्यस्ता वा चोक्तस्थाने नियोजयेत्
{मेर्चुर्य्:: समुख:: चारण ओf अभ्र}
अथातः समुखे सूते पूर्वाभ्रं षोडशांशकम् ।
दत्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीद्रवैर्दिनम्
ततस्तं चारणायंत्रे जंबीररससंयुतम् ।
घर्मे धार्यं दिनैकं तु चरत्येव न संशयः
{मेर्चुर्य्:: लक्ष-।कोटिवेधिन्}
चारितं बन्धयेद्वस्त्रे दोलायंत्रे दिनावधि ।
सिद्धमूलीद्रवैर्युक्तैः पातनाज्जीर्यते ह्यलम्
अजीर्णं चेत्पचेद्यंत्रे कच्छपाख्ये दिनावधि ।
अष्टमांशं विडं दत्त्वा चरत्येव न संशयः
अनेन क्रमयोगेन चार्यं जार्यं पुनः पुनः ।
जीर्णे शतगुणे सम्यक् सहस्रांशेन विध्यति
सहस्रगुणिते जीर्णे लक्षवेधी भवेद्रसः ।
तद्वल्लक्षगुणे जीर्णे कोटिवेधी भवेद्रसः
कृष्णाभ्रं वा सुवर्णं वा यथाशक्त्या तु जारयेत् ।
पूर्ववत्क्रमयोगेन फलं स्यादुभयोः समम्
{मेर्चुर्य्:: fओर् प्रोदुच्तिओन् ओf सिल्वेर्}
अनेनैव क्रमेणैव तारं वा श्वेतमभ्रकम् ।
जारयेत्तु यथाशक्त्या तारकर्मणि शस्यते
{मेर्चुर्य्:: मुखबन्धन, कोटिवेधिन्}
पूर्ववत् पक्वबीजेन सारणादि यथाक्रमम् ।
कर्तव्यं रसराजस्य वेधनं क्रामणं तथा
चंद्रार्कं जारयेत्सर्वं ताम्रं वा तारकर्मणि ।
एवं शतगुणे जीर्णे सहस्रांशेन वेधयेत्
सहस्रगुणिते जीर्णे पूर्ववत्सारणात्रयम् ।
कृत्वा जार्यं पुनस्तद्वच्चारयेच्च त्रिधा पुनः
इत्येवं च पुनः सार्यं पुनः सार्यं च जारयेत् ।
मुखबन्धादिवेधान्तं कारयेत्पूर्ववद्रसे
तेनैव लक्षभागेन दिव्यं भवति कांचनम् ।
यदा लक्षगुणे जीर्णे त्रिधा सार्यं च जारयेत्
इत्येवं सप्तधा कार्यं बन्धयेच्च ततो मुखम् ।
पूर्ववत्क्रामणान्तं च कृतोऽसौ जायते रसः
कोटिवेधी तु चंद्रार्के सत्यं शंकरभाषितम्
{मेर्चुर्य्:: निर्मुख:: चारण}
अथ निर्मुखसूतस्य वक्ष्ये चारणजारणे ।
शुद्धसूते तु वैक्रांतं मारितं षोडशांशकम्
क्षिप्त्वा मर्द्यं तप्तखल्वे सिद्धमूलीरसैस्त्र्यहम् ।
संस्कारेण ह्यनेनैव निर्मुखश्चरति ध्रुवम्
{मेर्चुर्य्:: चारण:: निर्मुख}
अथवा तप्तखल्वे तु भूलतासंयुतं रसम् ।
मर्दयेत्त्रिदिनं पश्चात्पात्यं पातनयन्त्रके
संस्कारेण ह्यनेनापि निर्मुखं चरति क्षणात्
{मेर्चुर्य्:: जारण:: निर्मुख}
अस्यैव जारणायोग्यो व्योमसंस्कार उच्यते ।
धान्याभ्रमम्लवर्गेण दोलायंत्रे त्र्यहं पचेत् ।
स्नुहीक्षीरैस्ततो मर्द्यं यामैकं चान्धितं धमेत्
कपोताख्यपुटैकेन तमादायाथ मर्दयेत् ।
मूलकं कदलीकन्दं मीनाक्षी काकमाचिका
मुनिर् आर्द्रकवर्षाभूमेघनादापामार्गकम् ।
एरण्डश्च द्रवैरेषां पृथग्देयं पुटं लघु
दोलायंत्रे ततः पच्याद्वज्रीक्षीरैर्दिनावधि ।
वचा निम्बं धूमसारं कासीसं च सुचूर्णितम्
अभ्रस्य षोडशांशेन प्रत्येकं मिश्रयेत्ततः ।
मर्दयेत्ताम्रखल्वे तु चणकाम्लैर्दिनावधि
नवसारैरयःपात्रं लेपयेत्तत्र निक्षिपेत् ।
पारदं साधितं साभ्रं चणकाम्लं च कांजिकम्
मृद्वग्निना पचेच्चुल्ल्यां रसश्चरति तत्क्षणात् ।
जारयेत्पूर्वयोगेन ततश्चार्यं च जारयेत्
मात्रा युक्तिर् यथापूर्वं सेयं निर्मुखजारणा ।
कृष्णाभ्रकं सुवर्णं च जार्यं स्याद्धेमकर्मणि
तारं वा श्वेतमभ्रं वा जार्यं स्यात्तारकर्मणि ।
सारणादिक्रामणान्तं यथापूर्वं तु जारयेत्
कर्तव्यं सूतराजे तु तद्वद् भवति कांचनम् ।
श्वेतेन जारयेत् श्वेतं यथाबीजं तथाङ्कुरम्
प्रोक्तं यथा सुगमसाधितपीतगंधं कृष्णाभ्रहेमरजतं सितमभ्रकं च ।
संसार्य तद्रसवरे वरवार्तिकेन्द्रः कुर्यान्महाकनकभारसहस्रसंख्यम्
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0