भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 3.13

3.13.1

र्रा, 3, 13
दृष्टयोगफलसिद्धिदं ध्रुवं पारदस्य वरजारणे हितम् ।
सत्त्वपातनम् अनेकयोगतो द्वंद्वमेलम् अभिषेकम् आर्यकम्

3.13.2

{अभ्र:: शोधन}
मुस्ताक्वाथेन सप्ताहं कुर्याद्धान्याभ्रकं प्लुतम् ।
शिग्रुसूरणरम्भानां कंदस्यैकस्य च द्रवैः

3.13.3

पेटारीमूलजंबीरद्रावैर्वाप्यं परिप्लुतम् ।
इत्थं प्लुतस्याभ्रकस्य पादांशं टंकणं क्षिपेत्

3.13.4

दिनैकं मर्दयेत्खल्वे युक्तमम्लेन केनचित्

3.13.5

{कान्तलोह, माक्षिक, उपरस:: सत्त्व:: पातन}
गुञ्जागुग्गुलुलाक्षोर्णासर्जीसर्जरसं गुडम् ।
क्षुद्रमीनं यवक्षारं काचपिण्याकसूरणम्

3.13.6

भूलता त्रिफला वह्निः क्षीरकन्दं पुनर्नवा ।
धत्तूरो लाङ्गली पाठा बला गंधकतिक्तकम्

3.13.7

गोक्षीरं पंचलवणं सर्पवृश्चिकविषं मधु ।
षड्बिन्दुः क्षुद्रशम्बूकमस्थीनि शशकस्य च

3.13.8

पारावतमलं त्र्यूषम् इंद्रगोपं च शिग्रुकम् ।
गोधूमं सर्षपं तुल्यं छागीदुग्धेन मर्दयेत्

3.13.9

एतद्व्यस्तं समस्तं वा याममात्रेण पिण्डितम् ।
अस्य पिण्डस्य भागैकं द्विभागं शोधिताभ्रकम्

3.13.10

पञ्चमाहिषभागैकं सर्वमेकत्र लोलयेत् ।
कर्षांशा वटिकाः कार्याः किंचिच्छायाविशोषिताः

3.13.11

खदिराङ्गारसंतप्ते कोष्ठीयन्त्रे क्षिपन् क्षिपन् ।
वटिकाः पञ्चपञ्चैव वङ्कनालेन संधमन्

3.13.12

समाप्तौ किट्टमादाय स्फोटयेत्स्वाङ्गशीतलम् ।
वर्तुलं सत्त्वमादाय शेषकिट्टं विचूर्णयेत्

3.13.13

चूर्णादर्धं पूर्वपिण्डं तद्वन्माहिषपञ्चकम् ।
एकीकृत्य धमेत्तद्वत्सत्त्वं तत्तत्समाहरेत्

3.13.14

इत्येवं च पुनः कुर्यात्त्रिधा सत्त्वं विमुञ्चति ।
अनेन क्रमयोगेन कान्तसत्त्वं च माक्षिकम्

3.13.15

कठिनोपरसाश्चान्ये शुद्धा भूनागमृत्तिका ।
मुञ्चन्ति सत्त्वसंघातं ग्राहयेत्तत्पृथक् पृथक्

3.13.16

{अभ्र:: सत्त्व:: मृदूकरण}
अभ्रसत्त्वं समादाय समांशं काचटंकणम् ।
दत्त्वा दत्त्वा त्रिवारं तु वज्रमूषागतं धमेत्

3.13.17

अम्लवर्गं स्नुहीपत्रं चिञ्चाबीजं सवल्कलम् ।
कल्कयेत्तत्र तत्सत्त्वं सप्तवारं निषेचयेत्

3.13.18

मृदुशुभ्रं भवेत्सत्त्वं सप्तवारं निषेचयेत्

3.13.19

{अभ्र:: सत्त्व:: पातन}
धान्याभ्रं दशभागं स्यात् शुद्धनागं त्रिभागकम् ।
टंकणं माक्षिकं सूतं भागैकैकं सुशोधितम्

3.13.20

ऊर्णा सर्जी यवक्षारं भागं भागं विमिश्रयेत् ।
मर्द्यं मूत्राम्लवर्गाभ्यां यथाप्राप्तं दिनावधि

3.13.21

अजापञ्चाङ्गसंयुक्तं पूर्ववत्सत्त्वपातनम् ।
कृत्वादाय मृदु साक्षान्निर्मलं योजयेदधः

3.13.22

{माक्षिक:: सत्त्वम्:: पातन}
दोलायंत्रे सारनाले माक्षिकं स्वेदयेद्दिनम् ।
चूर्णितं मधुसर्पिर्भ्यां लोहपात्रे दिनं पचेत्

3.13.23

आदाय भावयेद् घर्मे वज्रीक्षीरैर्दिनावधि ।
गृहधूमैर्घृतैः क्षौद्रैः संयुक्तं मर्दयेद्दिनम्

3.13.24

अंधमूषागतं ध्मातं सत्त्वं गुंजानिभं भवेत्

3.13.25

{माक्षिक:: सत्त्व:: पातन}
कदलीकंदतोयेन माक्षिकं शतधातपे ।
भावितं पाचयेद्यामं साज्यैर्वातारितैलकैः ।
पूर्ववद्धमनात्सत्त्वम् इंद्रगोपनिभं भवेत्

3.13.26

{माक्षिक:: सत्त्वम्:: पातन}
स्नुह्यर्कपयसा स्तन्यैर्माक्षिकं मर्दयेद्दिनम् ।
कंकुष्ठं टंकणं चैव प्रतिपादांशमिश्रितम्

3.13.27

मूकमूषागतं ध्मातं सत्त्वं मणिनिभं भवेत्

3.13.28

{माक्षिक:: सत्त्व:: पातन}
कदलीकंदतुलसीजंबीराणां द्रवैः क्रमात् ।
भावयेन्माक्षिकं श्लक्ष्णं प्रतिद्रावेण सप्तधा ।
रुद्ध्वा ध्माते पतेत्सत्त्वं शुकसंनिभं शुभम्

3.13.29

{माक्षिक:: सत्त्व:: पातन}
मूत्रवर्गाम्लवर्गैश्च द्विसप्ताहं विभावयेत् ।
माक्षिकं तीव्रघर्मेण दिनैरम्लैश्च मर्दयेत्

3.13.30

मित्रपञ्चकसंयुक्तैर्वटी कृत्वा धमेद् दृढम् ।
व्योमवद् वंकनालेन सत्त्वं शुल्बनिभं भवेत्

3.13.31

{माक्षिक:: सत्त्व:: पातन}
स्तन्यैः कङ्कुष्ठकैश्चैव कदलीतोयसंयुतैः ।
मित्रपंचकसंयुक्तैर्माक्षिकं दिनसप्तकम्

3.13.32

भावितं मर्दयेद्यामं दिनं वातारितैलकैः ।
मृद्वग्निना पचेद्यामं यावद्भवति गोलकम् ।
सत्त्वं किंशुकपुष्पाभं व्योमवद्धमनाद् भवेत्

3.13.33

{विमल:: सत्त्व:: पातन}
विमलानां च शुद्धानां सम्यक्स्यात्ताप्यवद्विधिः

3.13.34

{माक्षिक:: सत्त्व:: धौतसत्त्व}
सुशुद्धं माक्षिकं चूर्णं मर्द्यमम्लेन केनचित् ।
क्षालयेदारनालैस्तु ह्यधस्थं स्वर्णचूर्णवत्

3.13.35

जायते तत्समुद्धृत्य धौतसत्त्वमिदं भवेत् ।
योजयेद्वापने चैव बीजानां यत्र यत्र वै

3.13.36

{माक्षिक:: सत्त्व:: पातन}
माक्षिकं पञ्चमित्राक्तं सप्ताहान्ते वटीकृतम् ।
पूर्ववद्धमनेनैव सत्त्वं लाक्षानिभं भवेत्

3.13.37

{मनःशिला:: सत्त्व:: पातन}
अगस्त्यशिग्रुजैस्तोयैस् त्र्यहं भाव्या मनःशिला ।
तालकौषधयोगेन सत्त्वं हेमनिभं भवेत् ।
{मनःशिला:: सत्त्व:: पातन}
गोमूत्रैर्मातुलुङ्गाम्लैर्दिनं भाव्या मनःशिला ।
तां रक्तपीतपुष्पाणां रसैः पित्तैश्च भावयेत्

3.13.38

दिनान्ते मर्दयेद्यामं मित्रपंचकसंयुतम् ।
गुटिकां काचकूप्यन्तः क्षिप्त्वा तां काचकूपिकाम् ।
सर्वतोऽङ्गुलमानेन वस्त्रमृत्तिकया लिम्पेत्

3.13.39

शुष्कां तां वालुकायंत्रे शनैर्मृद्वग्निना पचेत् ।
शुष्के द्रवे निरुध्याथ सम्यक् मृल्लवणैर्मुखम्

3.13.40

चण्डाग्निना पचेत्तावद्यावद् द्वादशयामकम् ।
स्वांगशीतं समुद्धृत्य भित्त्वा कूपीं समाहरेत्

3.13.41

ऊर्ध्वलग्नं शिलासत्त्वं बालार्ककिरणोपमम्

3.13.42

{हरिताल:: सत्त्व:: पातन}
भागाः षोडश तालस्य विषं पारदटंकणम् ।
श्वेताभ्रबंगयोश्चूर्णं प्रतिभागं विमिश्रयेत्

3.13.43

सर्वं स्नुह्यर्कपयसा मर्दयेद्दिवसत्रयम् ।
शिलावद् ग्राहयेत्सत्त्वं तालकात्स्फटिकोपमम्

3.13.44

{हरिताल:: सत्त्व:: पातन}
स्नुक्क्षीरकटुतुम्ब्युत्थैस् तालं भाव्यं द्विसप्तधा

3.13.45

तिलसर्षपशिग्रूणि लवणं मित्रपंचकम् ।
एभिस्तुल्यं पूर्वतालं दिनमेकं विमर्दयेत्

3.13.46

छिद्रमूषागतं ध्मातं भूधरे सत्त्वमाहरेत्

3.13.47

{हरिताल:: सत्त्व:: पातन}
लाक्षा राजी गुडं शिग्रुष्टंकणं लवणं तिलाः ।
एभिस्तुल्यं शुद्धतालं मर्दयेद्रविदुग्धकैः

3.13.48

दिनं वा वज्रिणीदुग्धैः कुष्माण्डस्य द्रवैस्तथा ।
तेन कल्केन लिप्तांतश्छिद्रमूषां निरोधयेत्

3.13.49

पुटाद्वा धमनाद् ग्राह्यं सत्त्वं पातालयन्त्रके

3.13.50

{हरिताल:: सत्त्व:: पातन}
तालकादष्टमांशेन देयं सूतं च टंकणम् ।
कुष्माण्डस्य रसैः स्नुह्याः क्षीरैर्मर्द्यं दिनत्रयम् ।
तद्गोलं छिद्रमूषांतर्ग्राह्यं सत्त्वं च पूर्ववत्

3.13.51

{तुत्थ:: सत्त्व:: पातन}
लाक्षाभया च भूनागं गृहधूमं जटाकणा ।
निशाटंकणमध्वाज्यान्येभिस्तुल्यं च तुत्थकम्

3.13.52

सर्वं मर्द्यमजाक्षीरैर् अन्धमूषागतं धमेत् ।
सत्त्वं किंशुकपुष्पाभं जायते नात्र संशयः

3.13.53

{तुत्थ:: सत्त्व:: पातन}
हरिद्रासूरणाङ्कोल्लं तण्डुली गंधकं गुडम् ।
मध्वाज्यटंकणं तुल्यं तुत्थमेभिः समं भवेत्

3.13.54

स्तन्येन मर्दयेत्सर्वं छिद्रमूषां विलेपयेत् ।
रुद्ध्वा पातालयंत्रेण ध्माते सत्त्वं विमुञ्चति

3.13.55

{तुत्थ:: सत्त्व:: पातन}
तुत्थस्य टंकणं पादं चूर्णयेन्मधुसर्पिषा ।
तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना ।
धामिते मुञ्चते सत्त्वं कीरतुण्डसमप्रभम्

3.13.56

{वरनागसत्त्व}
सौवीरं तीक्ष्णचूर्णं च मूषायामन्धयेत् समम् ।
हठाद् ध्माते भवेत्सत्त्वं वरनागं तदुच्यते

3.13.57

{रसक:: सत्त्व:: पातन}
क्षाराम्लं स्नेहपित्तैश्च क्रमाद् भाव्यं दिनं दिनम् ।
पुष्पाणां रक्तपीतानां रसैर्भाव्यं दिनद्वयम्

3.13.58

रसकं चूर्णयेत्पश्चादूर्णा लाक्षा निशाभया ।
टंकणं शिग्रुधूमं च भूनागं सप्तमं भवेत्

3.13.59

एभिः समं तु तच्चूर्णमजाक्षीरेण मर्दयेत् ।
याममेतेन कल्केन लेप्या वार्ताकमूषिका

3.13.60

शुष्का चार्धमुखाङ्गारैर्ध्माते सत्त्वं समाहरेत्

3.13.61

{रसक:: सत्त्व:: पातन}
रसकस्यैकभागं तु त्रिफलामित्रपंचकम् ।
रजनीगृहधूमं च दशानामेकभागकम्

3.13.62

अजाक्षीरैर्दिनं मर्द्यम् अथवाम्लेन केनचित् ।
पूर्ववद् ग्राहयेत्सत्त्वं रसकात्कुटिलप्रभम्

3.13.63

{वैक्रान्त:: सत्त्व:: पातन}
वन्ध्याचूर्णं च वैक्रांतं छायाया मर्दयेत्समम् ।
अजामूत्रैर्दिनैकं तु सत्त्वं रजतवद् भवेत्

3.13.64

{वैक्रान्त:: सत्त्व:: पातन}
मोक्षमोरटपालाशक्षारं गोमूत्रगालितम् ।
गृहीतमातपे शुष्कं वज्रकन्दं च टंकणम्

3.13.65

लाक्षा शिखिशिखातुल्यं वैक्रांतं सर्वतुल्यकम् ।
मेषशृंगीद्रवैर् मर्द्यम् एतत्सर्वं दिनावधि

3.13.66

पिण्डितं मूकमूषांतः कृत्वा धाम्यं हठाग्निना ।
तत्रैव मुञ्चते सत्त्वं वैक्रांतं रसबन्धकम्

3.13.67

{वैक्रान्त:: सत्त्व:: पातन}
वैक्रांतानां पलैकं तु कर्षैकं टंकणस्य च ।
रविक्षीरैर्दिनं भाव्यमथ शिग्रुद्रवैर्दिनम्

3.13.68

गुंजापिण्याकवह्नीनां प्रतिकर्षं नियोजयेत् ।
एतेन गुलिकां कृत्वा कोष्ठीयन्त्रे धमेद् दृढम्

3.13.69

शंखकुन्देन्दुसंकाशं सत्त्वं वैक्रांतजं भवेत्

3.13.70

{वैक्रान्त:: सत्त्व:: पातन}
वैक्रांतं वज्रकंदं च समं स्नुक्पयसा समम् ।
महिषीनवनीतं च सक्षौद्रं मर्दयेद्दिनम् ।
पूर्ववद्धमनात् सत्त्वम् इंद्रगोपनिभं भवेत्

3.13.71

{गैरिक:: सत्त्व:: पातन}
गैरिकं रक्तवर्गेण पीतवर्गेण भावितम् ।
सप्ताहं मर्दयेद्यामं मित्रपंचकसंयुतम् ।
तद्वटी कोष्ठिकायंत्रे सत्त्वं मुञ्चति निर्मलम्

3.13.72

{सौराष्ट्री:: सत्त्व:: पातन}
सिता सिता च सौराष्ट्री गोपित्तैर्भावयेत्तु ताम् ।
शतवारं प्रयत्नेन मित्रपंचकसंयुतम् ।
धमनान्मुञ्चते सत्त्वं क्रामकं कोष्ठियंत्रके

3.13.73

{सस्यक:: सत्त्व:: पातन}
सस्यकं चूर्णितं भाव्यं दिनं शशकरक्तकैः ।
स्त्रीमूत्रैर्वाथ गोमूत्रैस्तत्पादांशां निशां क्षिपेत् ।
मर्द्यं करंजतैलेन यामैकं गोलकं च तत्

3.13.74

अंधमूषागतं धाम्यं घटिकार्धं दृढाग्निना ।
इंद्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम्

3.13.75

{कासीस:: सत्त्व:: पातन}
चतुर्विधं तु कासीसं रक्तं पीतं सितासितम् ।
मर्दयेत् पित्तवर्गेण तिक्तकोशातकीद्रवैः

3.13.76

कासमर्दद्रवैश्चैव मित्रपंचकसंयुतैः ।
तद्वटीः कोष्ठिकायंत्रे ध्माते सत्त्वं विमुञ्चति

3.13.77

{राजावर्त:: सत्त्व:: पातन}
राजावर्तमयः पात्रे पाचयेन्माहिषैर्घृतैः ।
पयोभिश्च दिनं पच्यान्मित्रपंचकसंयुतम्

3.13.78

रजन्याः पञ्चगव्येन पिण्डीबद्धं तु कारयेत् ।
खदिरांगारसंयोगात् कोष्ठ्यां सत्त्वं विमुञ्चति

3.13.79

{स्रोतोञ्जन:: परीक्षा}
वल्मीकशिखराकारं भङ्गे नीलोत्पलद्युति ।
घर्षणे गैरिकच्छायं स्रोतोंजनमिदं भवेत्

3.13.80

{स्रोतोञ्जन:: सत्त्व:: पातन}
राजावर्तकवत्सत्त्वं ग्राह्यं स्रोतोंजनादपि

3.13.81

{द्वन्द्वम्. ओf व्योमसत्त्व अन्द् मिनेरल्स्}
व्योमसत्त्वस्य चूर्णं तु यत्किंचिद्धातुचूर्णकम् ।
द्वन्द्वमेलापलिप्तायां मूषायां तद् द्वयं समम्

3.13.82

ध्मातव्यम् अरिवर्गेण क्षिप्ते मिलति तत्क्षणम्

3.13.83

{सत्त्व:: मेलापन}
विषं टङ्कणगुंजाश्च खुरं शृङ्गं च भेषजम् ।
मण्डूकवसया पिष्ट्वा मूषालेपं तु कारयेत्

3.13.84

तस्यां मिलति सत्त्वानि चूर्णानि विविधानि च ।
{द्वन्द्वमेल्.:: लेप fओर् ~}
त्रिक्षारं धातकीपुष्पं गुग्गुलुं च समं समम् ।
स्त्रीस्तन्यैः पेषितो लेपो द्वंद्वमेलापने हितः

3.13.85

{सर्वसत्त्वमेलापन (2)}
वर्षाभूः कदलीकंदः काकमाची पुनर्नवा ।
गुंजा नरकपालं च टंकणं पेषयेत्समम् ।
अनेन पूर्ववल्लेपाद्धेमाभ्रं मिलति क्षणात्

3.13.86

{मेलापन:: मेतल्स्, सत्त्व अन्द्।ओर् महारसस्}
तारं च व्योमसत्त्वं च अनेनैव तु मेलयेत् ।
लाङ्गली चमरीकेशान्कुशकार्पासयोः फलम्

3.13.87

भूलताम् इंद्रगोपं च पाषाणभेदिका समम् ।
नारीस्तन्येन संपेष्य मूषालेपं तु कारयेत्

3.13.88

सर्वलोहानि सत्त्वानि तथा चैव महारसाः ।
मिलन्ति नात्र संदेहस् तीव्रध्मानानलेन तु

3.13.89

{द्वन्द्वमेलापक}
विषं छुछुन्दरीमांसं टंकणं समपेषितम् ।
मूषालेपमनेनैव कृत्वा तत्र विनिक्षिपेत् ।
यत्किंचिद् द्वंद्वयोगं तु धमनेन मिलत्यलम्

3.13.90

{द्वन्द्वमेलापक}
कङ्गुणीतैलसम्पिष्टमपामार्गस्य भस्मकम् ।
तेन प्रलिप्तायां द्वंद्वं क्षिप्त्वा धमेद्धठात् ।
मिलत्येव न संदेहस्तत्तन्मारकवापनात्

3.13.91

{अभ्र:: प्रोदुच्तिओन् ओf अभ्र-मेतल्-चोम्पोउन्द्स्}
हेमाभ्रं नागताप्याभ्रं शुल्बाभ्रं गंधकेन च ।
सिन्धूत्थहिंगुलाभ्यां तु तीक्ष्णाभ्रं धमनाद् दृढम्

3.13.92

नागाभ्रं शिलया युक्तं वङ्गाभ्रं तालकेन च ।
ताराभ्रं बंगतालाभ्यां तालवत्सर्वसत्त्वकम्

3.13.93

{अभ्र:: वङ्गाभ्र}
मिलत्येव न संदेहः पूर्वमूषागतं क्षणात् ।
श्वेताभ्रकस्य सत्त्वं तु वङ्गचूर्णं समं समम्

3.13.94

कदलीकंदतोयेन मर्दयेट्टंकणैः सह ।
अंधमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात्

3.13.95

{अभ्र:: वङ्गाभ्र}
गुंजा नरकपालं च टंकणं वनशिग्रुकम् ।
स्त्रीस्तन्येन समं पिष्ट्वा मूषालेपं तु कारयेत्

3.13.96

बंगं श्वेताभ्रसत्त्वं च चूर्णितं तत्र निक्षिपेत् ।
रुद्ध्वा ध्माते मिलत्येव तारकर्मणि जारयेत्

3.13.97

{अभ्र:: वङ्गाभ्र}
अभ्रसत्त्वं विचूर्ण्यादौ तत्पादांशं तु टंकणम् ।
पारदं टंकणांशं च काकमाचीद्रवैर्दिनम्

3.13.98

पिष्ट्वा तद् गोलकं पेष्यमभ्रांशैर्वङ्गपत्रकैः ।
पूर्वमूषागतं ध्मातं वङ्गाभ्रं मिलति क्षणात्

3.13.99

{अभिषेक (1)}
सम्यगावर्तितं नागं पलैकं कांजिके क्षिपेत् ।
पलानां शतमात्रे तु शतवारं द्रुतं द्रुतम्

3.13.100

अनेन कांजिकेनैव शतवारं विभावयेत् ।
यत्किंचिच् चारणावस्तु ततस्तं जारयेद्रसे ।
अभिषेको ह्ययं ख्यातः कथ्यते तु मतान्तरम्

3.13.101

{अभिषेक (2)}
त्रिक्षारं पंचलवणं काङ्क्षीकासीसगंधकम् ।
माहिषं कांजिकैर्युक्तं ताम्रपात्रे दिनत्रयम्

3.13.102

स्थितं घर्मे पुनस्तस्मिन् द्रुतं नागं विनिक्षिपेत् ।
तारकर्मणि बंगं वा शतवाराणि सेचयेत्

3.13.103

तद्द्रवं ताम्रपात्रस्थम् अभिषेकं विदुर् बुधाः ।
अनेन चारणावस्तु शतवाराणि भावयेत्

3.13.104

{सारणायां संकेतः}
द्वंद्वितं व्योमसत्त्वं च बीजानि विविधानि च ।
द्वंद्वितं वज्रबीजं च भावितं सारयेत्सदा

3.13.105

स्वर्णादि लोहमखिलं कृतशुद्धचूर्णं योज्यं पृथग्गगनसत्त्ववरे समांशम् ।
तद्द्वंद्वितं चरति सूतवरोऽभिषिक्तं विप्रो यथा मधुरपायसमाज्ययुक्तम्

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc