भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 3.11

3.11.1

र्रा, 3, 11
{रसस्य 18 संस्काराः}
सिद्धैः सूतवरस्य कर्म विविधं ख्यातं विचित्रैः क्रमैः साध्यासाध्यविवेकतो ह्य् अनुभवन् दृष्ट्वा समस्तं मया ।
युक्त्याष्टादशधा विशेषविधिना स्वेदादिवेधान्तकं दक्षाणां सुखसाध्यमेव सुखदं संतन्यते साम्प्रतम्

3.11.2

{18 संस्कारस्}
स्वेदनं मर्दनं मूर्छोत्थापनं पातनं त्रिधा ।
निरोधनं नियामश्च दीपनं चानुवासनम्

3.11.3

जारणं चारणं चैव गर्भबाह्यद्रुतिस् तथा ।
रञ्जनं सारणं चानुसारणा प्रतिसारणा क्रामणं देहलोहेषु

3.11.4

{काञ्जिक:: प्रोदुच्तिओन्}
नानाधान्यैर्यथाप्राप्तैस् तुषवर्जैर् जलान्वितैः ।
मृद्भाण्डं पूरितं रक्षेद्यावदम्लत्वमाप्नुयात्

3.11.5

तन्मध्ये भृङ्गराङ्मुण्डी विष्णुक्रान्ता पुनर्नवा ।
मीनाक्षी चैव सर्पाक्षी सहदेवी शतावरी

3.11.6

त्रिफला गिरिकर्णी च हंसपादी च चित्रकम् ।
समूलं खण्डयित्वा तु यथालाभं निवेशयेत्

3.11.7

पूर्वाम्लभाण्डमध्ये तु धान्याम्लकमिदं भवेत् ।
{काञ्ज्क:: उसे}
स्वेदनादिषु सर्वत्र रसराजस्य योजयेत् ।
{काञ्जिक:: सुब्स्तितुतेद् ब्य् आरनाल}
अत्यम्लम् आरनालं वा तदभावे नियोजयेत्

3.11.8

{स्वेदनम्}
त्र्यूषणं लवणं राजी चित्रकं त्रिफलार्द्रकम् ।
महाबला नागबला मेघनादः पुनर्नवा

3.11.9

मेषशृङ्गी चित्रकं च नवसारं समं समम् ।
एतत् समस्तं व्यस्तं वा पूर्वाम्लेनैव मर्दयेत्

3.11.10

तत्कल्केन लिम्पेद् वस्त्रे यावद् अङ्गुलमात्रकम् ।
तन्मध्ये निक्षिपेत्सूतं बद्ध्वा पच्याद्दिनत्रयम् ।
दोलायन्त्रे ऽम्लसंयुक्ते स्वेदितो जायते रसः

3.11.11

{मर्दनम्}
प्रक्षाल्य काञ्जिकैः सोष्णैस् तमादाय विमर्दयेत् ।
अत्यम्लम् आरनालं तत्तदभावे नियोजयेत्

3.11.12

गृहधूमेष्टिकाचूर्णं दग्धोर्णा लवणं गुडम् ।
राजिका त्रिफला कन्या चित्रकं बृहती कणा

3.11.13

वन्ध्याकर्कोटकी चाथ व्यस्तं वाथ समस्तकम् ।
क्वाथयेदारनालेन तेन मर्द्यं त्र्यहं रसम् ।
प्रक्षाल्य काञ्जिकेनैव समादाय विमूर्छयेत्

3.11.14

{मूर्छनम्}
मेषशृङ्गी कृष्णधूर्तो बला श्वेतापराजिता

3.11.15

कन्याग्नित्रिफला चैव सर्पाक्षी सूरणं वचा ।
गोजिह्वा चाङ्गुली नीली मुरुण्डी क्षीरकन्दकम्

3.11.16

राजिका काकमाची च रविक्षीरं च काञ्चनम् ।
व्यस्तानां वा समस्तानां द्रावैश्चैषां विमर्दयेत्

3.11.17

यामैकं रसराजं च मूषायां संनिरोधयेत् ।
पुटैकेन पचेत्तं तु भूधरे वाथ मर्दयेत्

3.11.18

सर्वद्रावैर् यथापूर्वं रुद्ध्वा रुद्ध्वा विपाचयेत् ।
इत्येवं सप्तधा कुर्याज्जायते मूर्छितो रसः

3.11.19

{उत्थापनम्}
जलैः सोष्णारनालैर् वा लोलनादुत्थितो भवेत् ।
अथवा पातनायन्त्रे पाचनादुत्थितो भवेत् ।
एवमुत्थापितः सूतस्त्रिधा पात्यः क्रमेण तु

3.11.20

{ऊर्ध्वपातनम्}
काकमाची जया ब्राह्मी चाङ्गेरी रक्तचित्रकम् ।
अङ्कोली राजवृक्षश्च तिलपर्णी कुमारिका

3.11.21

मण्डूकी चित्रकं पाठा काकजङ्घा शतावरी ।
भूपाटली देवदाली निर्गुण्डी गिरिकर्णिका

3.11.22

शणपुष्प्यार्द्रकं शृङ्गी गोजिह्वा क्षीरकन्दकम् ।
नीली चैषां समस्तानां व्यस्तानां च द्रवैर्दिनम्

3.11.23

ताम्रपादयुतं सूतं मर्दयेदम्लकैः सह ।
तत्पिष्टः पातयेद्यन्त्रे चोर्ध्वपातनके पुनः

3.11.24

आदाय मर्दयेत्तद्वत्ताम्रचूर्णेन संयुतम् ।
पातयेन्मर्दयेच्चैव ताम्रं दत्त्वा पुनः पुनः ।
इत्येवं सप्तधा कुर्यान्मर्दनं पातनं क्रमात्

3.11.25

ऊर्ध्वलग्नं समादाय अधःपातेन पातयेत्

3.11.26

{अधःपातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
सूततुल्यं तु तत्सर्वं काञ्जिकैर् मर्दयेद्दिनम्

3.11.27

तेन लिम्पेद् ऊर्ध्वभाण्डं पृष्ठे देयं पुटं लघु ।
अधःपातनयन्त्रे तु पातितं तु समुद्धरेत्

3.11.28

{तिर्यक्पातनम्}
त्रिफला राजिका शिग्रुस्त्र्यूषं लवणचित्रकम् ।
धान्याभ्रकं रसं सर्वं मर्दयेदारनालकैः

3.11.29

नष्टपिष्टं तु तत् पात्यं तिर्यग्यन्त्रे दृढाग्निना

3.11.30

{निरोधनम्}
लवणेनाम्बुपिष्टेन हण्डिकान्तर्गतं रसम् ।
आच्छाद्याथ जलं किंचित् क्षिप्त्वा श्रावेण रोधयेत् ।
ऊर्ध्वं लघुपुटं देयं लब्ध्वाप्यधो भवेद्रसः

3.11.31

{दीपनम्}
त्रिक्षारं पञ्चलवणं भूखगं शिग्रुमूलकम् ।
स्वर्णपुष्पी च कासीसं मरिचं राजिका मधु

3.11.32

क्षीरकन्दो जया कन्या विजया गिरिकर्णिका ।
काकजङ्घा शोणपुष्पी पातालगरुडी कणा

3.11.33

वन्ध्याकर्कोटकी वह्निर्व्यस्तं वाथ समस्तकम् ।
पेषयेदम्लवर्गेण तद्द्रवैर्मर्दयेद्रसम्

3.11.34

दिनान्ते बन्धयेद्वस्त्रे दोलायन्त्रे त्र्यहं पचेत् ।
पूर्वद्रावैर्घटे पूर्णे ग्रासार्थी जायते रसः

3.11.35

{अनुवासनम्}
दीपितं रसराजं तु जम्बीररससंयुतम् ।
दिनैकं धारयेद् घर्मे मृत्पात्रे वासितो भवेत्

3.11.36

स्वेदनादिशुभकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् ।
अष्टमांशम् अवशिष्यते तदा शुद्धसूत इति कथ्यते बुधैः

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc