भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 3.10

3.10.1

र्रा, 3, 10
लोहैर् महारसवरैर् विडपक्वबीजं कृत्वाथ पारदवरे विधिवच्च जार्यम् ।
योज्यं तथा सकलसारणकर्मयोगे तद्वक्ष्यते विविधबीजविडाधिकारम्

3.10.2

{पक्वबीज (1)}
ताम्रं समं शुद्धं द्रावितं लेपयेत्पुनः ।
साम्लेन ताप्यकल्केन धमेत्स्वर्णावशेषितम्

3.10.3

एवं दशगुणं वाह्यं ताप्यं वा तुत्थसत्त्वकम् ।
पक्वबीजमिदं ख्यातं स्वर्णशेषं समाहरेत्

3.10.4

{पक्वबीज}
नागाभ्रं द्वंद्वितं तुल्यं स्वर्णे वाह्यं द्विषड्गुणम् ।
पूर्ववत्स्वर्णशेषं तु ग्राह्यं स्यात्पक्वबीजकम्

3.10.5

{पक्वबीज (3)}
स्वर्णं पीताभ्रसत्त्वं च तुल्यांशं द्वंद्वितं धमेत् ।
ताप्यं तालकवापेन स्वर्णशेषं समाहरेत् ।
एवं दशगुणं सत्त्वं वाह्यं स्यात्पक्वबीजकम्

3.10.6

{पक्वबीज (4)}
रसकाभ्रकयोः सत्त्वं ताम्रं नागं क्रमोत्तरम्

3.10.7

चूर्णितं द्वंद्वलिप्तायां मूषायां चान्धितं धमेत् ।
तत्खोटं माक्षिकं तुत्थम् अम्लैः पिष्ट्वा पुटे पचेत्

3.10.8

समुद्धृत्य पुनश्चाम्लैर्मर्द्यं रुद्ध्वा पुटे पचेत् ।
एवं पञ्चपुटैः पक्वं द्रुते स्वर्णे तु वाहयेत् ।
धमेद्दशगुणं यावत् तावत् स्यात् पक्वबीजकम्

3.10.9

{बीज:: fरोम् लेअद्}
लोहस्य कुट्यमानस्य सुतप्तस्य दलानि वै ।
पतन्ति तानि स्वीकृत्य ख्यातोऽयं लोहपर्पटः

3.10.10

लोहपर्पटमाक्षीकं कंकुष्ठं विमलाभ्रकम् ।
मृतशुल्बं शिलासूतं दरदार्कस्नुहीपयः

3.10.11

एतैः समं नागचूर्णं मर्द्यं रुद्ध्वा पुटे पचेत् ।
पुनर्मर्द्यं पुनः पाच्यं यावद्वारांश्चतुर्दश

3.10.12

एवं शतगुणं वाह्यं शुद्धहेम्नि धमन् धमन् ।
तत्स्वर्णं नागबीजं स्याद्गोरोचननिभं भवेत्

3.10.13

{बीज:: fरोम् लेअद्:: पक्व:: रञ्जन}
खर्परस्थे द्रुते नागे ब्रह्मबीजदलानि हि ।
क्षिप्त्वाग्निं ज्वालयेच्चण्डं ब्रह्मदण्डेन चालयेत्

3.10.14

चतुर्यामात्तु तद् भस्म जातं पात्रात्समुद्धरेत् ।
रुद्ध्वा गजपुटे पच्यात् पादांशं गंधकं पुनः

3.10.15

दत्त्वाम्लमर्दितं पच्यादेवं वारांश्चतुर्दश ।
रक्तवर्णं भवेद्भस्म तद्भागं खर्परे क्षिपेत्

3.10.16

भागत्रयं शिलाचूर्णं पृथक्पात्रे विनिक्षिपेत् ।
पञ्चाङ्गं वासकाचूर्णं त्वक्चूर्णं चार्जुनस्य वै

3.10.17

शाककिंशुककोरण्टशिग्रूणां पुष्पमाहरेत् ।
नागिनी नागकन्या च कुमारी चाहिमारकम्

3.10.18

सर्वेषां प्रतिभागैकं शिलामध्ये विनिक्षिपेत् ।
सर्वं चतुर्गुणैर् मूत्रैश्छागजैः क्वाथमाचरेत्

3.10.19

पूर्वोक्तनागभूतैश्च खर्परस्थस्य संक्षिपेत् ।
चालयेत्पाचयेच्चुल्ल्यां यावत्सप्तदिनावधि

3.10.20

यत्नेन मृतनागेन वापो देयो द्रुतस्य च ।
पक्वबीजस्य वारांस्त्रीन् रञ्जितं जायते शुभम्

3.10.21

{लेअद्:: मृत:: अल्छेम्. उसे}
दलानां चैव बीजानां पिष्टीस्तम्भे विशेषतः ।
उच्चाटे क्रामणे योज्यं पूर्वोक्तं मृतनागकम्

3.10.22

{बीज:: पक्व:: रञ्जन}
मञ्जिष्ठा ब्रह्मपुष्पं च पुष्पं च करवीरकम्

3.10.23

सर्वासां वृक्षजातीनां रक्तपुष्पाणि चाहरेत् ।
खादिरं देवदारुं च द्विनिशा रक्तचन्दनम्

3.10.24

सर्वं लाक्षारसैः पिष्ट्वा क्षिप्त्वा तैलं चतुर्गुणम् ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत् ।
त्रिसप्तधा पक्वबीजं रञ्जते जायते शुभम्

3.10.25

{बीज:: पक्व, रञ्जित:: अल्छेम्. उसे}
गर्भद्रावैः प्रयोक्तव्यं तथा सर्वत्र सारणे ।
समेन जारयेत्सूतं द्विगुणेन तु सारयेत्

3.10.26

त्रिगुणेन ह्यनेनैव कर्तव्यं प्रतिसारणम् ।
सारितं क्रामणेनैव वेधकाले नियोजयेत्

3.10.27

{बीज:: fरोम् सिल्वेर्}
विमला तीक्ष्णचूर्णं च सत्त्वं श्वेताभ्रकस्य च ।
रसकं तारमाक्षीकं समभागं विचूर्णयेत्

3.10.28

चूर्णाच्चतुर्गुणं वङ्गं द्वंद्वमेलापकं धमेत् ।
मर्दयेदम्लयोगेन रुद्ध्वा गजपुटे पचेत्

3.10.29

एवं पञ्चपुटैः पक्वं ततस्तारे तु वाहयेत् ।
धमन्दशगुणं यावत्तत्तारं तारबीजकम्

3.10.30

{बीज:: fरोम् सिल्वेर्}
ताप्येन मारयेद् बंगं यथा तालेन मारितम् ।
तद् द्वात्रिंशगुणं तारे वाहयेत्तालवापतः ।
ताम्रबीजं तु तच्छ्रेष्ठं सारणे रञ्जने हितम्

3.10.31

{बीज:: fरोम् सिल्वेर्}
कुटिलं विमला तीक्ष्णं समं चूर्णं प्रकल्पयेत् ।
ध्मातव्यं द्वंद्वलिप्तायां खोटमम्लेन पेषितम्

3.10.32

पुटितं पञ्चवारं तु तारे वाह्यं शनैर्धमेत् ।
यावद्दशगुणं तत्तु तारबीजं भवेच्छुभम्

3.10.33

{बीज:: fरोम् सिल्वेर्}
बंगं श्वेताभ्रसत्त्वं च तारमाक्षिकसत्त्वकम् ।
द्वंद्वमूषागतं धाम्यं त्रितयं चूर्णितं समम्

3.10.34

वाह्यं दशगुणं तारे तारमाक्षिकवापतः ।
तत्तारं जायते बीजं सर्वकार्यकरक्षमम्

3.10.35

{तारबीजरञ्जन}
यथाप्राप्तैः श्वेतपुष्पैर् नानावृक्षसमुद्भवैः

3.10.36

रसं चतुर्गुणं योज्यं कङ्गुणीतैलवापतः ।
पचेत्तैलावशेषं तु तस्मिंस्तैले निषेचयेत्

3.10.37

द्रावितं तारबीजं तु एकविंशतिवारकम् ।
रञ्जितं जायते तत्तु रसराजस्य रञ्जकम्

3.10.38

{सारणातैल}
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ।
तैलमेकं समादाय मण्डूकवसया समम्

3.10.39

कूर्मसूकरमेषाहिजलूकामत्स्यजापि वा ।
एतेष्वेका वसा ग्राह्या पूर्वतैलं समाहरेत्

3.10.40

रक्तवर्गं पीतवर्गं कार्यं क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानाम् एकैकानां द्रवं हरेत्

3.10.41

एतद्द्वंद्वविभागं स्यात्पूर्वक्वाथचतुष्टयम् ।
पाटलीकाकतुण्ड्युत्थं महाराष्ट्रीद्रवं तथा

3.10.42

प्रत्येकं भागमेकैकं पूर्वतैलवसायुतम् ।
योज्यं भागद्वयं तत्र भूलतामलताप्यकम्

3.10.43

द्वन्द्वमेलापयोर् एकं तैलात् षोडशकांशकम् ।
प्रत्येकं योजयेत्तस्मिन् सर्वमेकत्र पाचयेत्

3.10.44

ग्राह्यं तैलावशेषं तु वस्त्रपूतं सुरक्षयेत् ।
विख्यातं सारणातैलं रसराजस्य कर्मणि

3.10.45

{क्रामण:: सुब्स्तन्चेस् fओर् ~}
नागं वङ्गं मृतं तुल्यमम्लेन च वटीकृतम् ।
क्रामणार्थे प्रयोक्तव्यं वेधकाले रसस्य तु

3.10.46

{क्रामण:: सुब्स्तन्चेस् fओर् }
सौराष्ट्रीं भावयेद् घर्मे गवां पित्तैः त्रिधाततः ।
तत्सत्त्वं सोमवद् ग्राह्यं क्रामकं योजयेद्रसे

3.10.47

{क्रामण:: सुब्स्तन्चेस् fओर् ~}
मनःशिला विषं ताप्यं महिषीकर्णजं मलम् ।
काकविट् खररक्तं च क्रामणं स्नुक्पयोऽन्वितम्

3.10.48

{क्रामण:: सुब्स्तन्चेस् fओर् ~}
नररक्तार्कदुग्धं च टंकणं भूलता शिला ।
समांशं क्रामकं योज्यं वेधकाले रसस्य तु

3.10.49

{क्रामणसत्त्व (5)}
इन्द्रगोपं विषं कांतं नररक्तं स्नुहीपयः ।
रसकं दरदं तैलं सर्वमेकत्र मर्दयेत् ।
क्रामकं क्षेपलेपाभ्यां वेधकाले नियोजयेत्

3.10.50

{क्रामण:: सुब्स्तन्चेस् fओर् ~; वेध:: ~}
रसं धान्याभ्रकं सत्त्वं काकविट् हरितालकम् ।
नयनं सहदेवानां भूनागश्च समं समम्

3.10.51

पिण्डितं क्रामणे सिद्धं क्षेपे लेपे नियोजयेत्

3.10.52

{क्रामणसत्त्व (7)}
कदलीकन्दसौवीरं कण्टकारीरसप्लुतम् ।
क्रामणं सर्वधातूनां सर्वद्वंद्वेषु मेलनम्

3.10.53

क्रामणेन विना सूतो न क्रमेद्देहलोहयोः ।
उक्तस्थानेषु योगेषु तस्मात् सर्वेषु योजयेत्

3.10.54

{महाविड}
दग्धं शंखं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं रुद्ध्वा रुद्ध्वाथ संपुटे

3.10.55

तत्समं टंकणं क्षिप्त्वा ह्यम्लवर्गेण भावयेत् ।
राजावर्तं प्रवालं च दरदं गंधकं शिला

3.10.56

पञ्चानां तु समं चूर्णं शङ्खतुल्यं नियोजयेत् ।
सर्वं तदम्लवर्गेण मर्दयेद्दिवसत्रयम्

3.10.57

अयं महाविडः ख्यातः खोटानां जारणे हितः ।
मूषालेपं तु सर्वत्र जारणे योजयेत्सदा

3.10.58

तत्क्षणाज्जरते सूतो वज्रादीनि न संशयः

3.10.59

{विड (2)}
त्रिक्षारं पञ्चलवणं नवसारं कटुत्रयम् ।
इन्द्रगोपं घनं शिग्रु सूरणं वनसूरणम्

3.10.60

भावयेदम्लवर्गेण त्रिदिनं ह्यातपे खरे ।
अनेन मर्दितः सूतो भक्षयेद् अष्टलोहकम्

3.10.61

{विड (3)}
व्योषं गंधकं कासीसं स्वर्णपुष्पी सुवर्चलम् ।
सर्जी टंकणं सौवीरं सैन्धवं शिग्रुजैर्द्रवैः ।
दशाहं भावयेद् घर्मे विडोऽयं जारणे हितः

3.10.62

{विड (4)}
दग्धशङ्खं रविक्षीरैर्भावितं शतधातपे ।
ततः पञ्चपुटैः पक्वं जारणे विडमुत्तमम्

3.10.63

{विड (5)}
त्रिक्षारं पञ्चलवणम् अम्लवेतससंयुतम् ।
अनेन मर्दयेत्सूतमभ्रसत्त्वं चरत्यलम्

3.10.64

{विड (6)}
गोमूत्रं गंधकं घर्मे शतवारं विभावयेत् ।
शिग्रुमूलद्रवैस् तद्वद् दग्धं शङ्खं विभावयेत्

3.10.65

एतद्गंधकशंखाभ्यां समांशं विषसैन्धवम् ।
एतैर्विमर्दितं सूतं ग्रसते सर्वलोहकम्

3.10.66

{वह्निमुखो विड (7)}
टंकणं शतधा भाव्यं द्रवैः पालाशवृक्षजैः ।
विडो वह्निमुखो नाम हितः सर्वस्य जारणे

3.10.67

{विड (8)}
गंधकं नवसारं वा मुखं कांतस्य चातपे ।
शतधा मूत्रवर्गेण भावितं स्याद् विडं पृथक्

3.10.68

{ज्वालामुखो विडः (9)}
त्रिक्षारं गंधकं तालं भूखगं नवसारकम् ।
सैंधवं च समं सर्वं मूत्रवर्गैर्दिनं पचेत्

3.10.69

ज्वालामुखो विडो नाम हितः सर्वत्र जारणे

3.10.70

{विड (10)}
गंधकं शतधा भाव्यं वनशिग्रुशिफाद्रवैः ।
जम्बीरैर्नवसारं वा भावितं स्याद्विडं पृथक्

3.10.71

{विड:: वडवानल}
वासकैरंडकदली देवदाली पुनर्नवा ।
वासापालाशनिचुलं तिलं काञ्चनमोक्षकम्

3.10.72

एतान् समूलान् आदाय नातिशुष्कान् विखण्डयेत् ।
पञ्चाङ्गं मूलकं दग्ध्वा तिलकाण्डं च तत्समम्

3.10.73

एतत्क्षारैः पूर्वकल्कं मूत्रवर्गेण भावयेत् ।
वस्त्रपूतं द्रवं पच्यात् मृद्वग्नौ लोहपात्रके

3.10.74

बाष्पाणां बुद्बुदानां च बहूनाम् उद्गमो यदा ।
तदा कासीसं सौराष्ट्री क्षारत्रयं कटुत्रयम्

3.10.75

गंधकं पंचलवणं नवसारं च हिंगुलम् ।
एतेषां निक्षिपेच्चूर्णं तस्मिन्पात्रेऽथ चालयेत्

3.10.76

गुडपाकं समुत्तार्य लोहसंपुटके क्षिपेत् ।
सप्ताहं भूमिगर्भेऽथ धान्यराशौ तथा पुनः ।
सप्ताहं संस्थितः सिद्धो विडोऽयं वडवानलः

3.10.77

{विड:: fओर् सत्त्वजारण}
भावयेन्निचुलक्षारं देवदालीदलद्रवैः ।
एकविंशतिवारं तु बिडोऽयं सत्त्वजारणे

3.10.78

{विड:: तीव्रानल}
देवदालीशिफाबीजं गुंजासैंधवटंकणम् ।
समांशं निचुलक्षारमम्लवर्गेण सप्तधा

3.10.79

कोशातकीदलरसैर्भावयेद्दिनसप्तकम् ।
तीव्रानलो नाम बिडो विहितो हेमजारणे

3.10.80

{विड:: fओर् जारण ओf गोल्द्}
मूलकार्द्रकवह्नीनां क्षारं गोमूत्रलोलितम् ।
वस्त्रपूतं द्रवं ग्राह्यं गंधकं तेन भावयेत्

3.10.81

शतवारं खरे घर्मे विडोऽयं हेमजारणे

3.10.82

{विड:: fओर् जारण ओf गोल्द्}
त्रिक्षारं पंचलवणं शङ्खं तालं मनःशिला ।
दिनैकमम्लवर्गेण पक्वं स्याद्धेमजारणे

3.10.83

{विड:: fओर् जारण ओf गोल्द्}
गंधकं नवसारं च जम्बीराम्लेन मर्दयेत् ।
शतवारं खरे घर्मे बिडोऽयं हेमजारणे

3.10.84

{विड:: fओर् जारण}
कन्याहयारिधत्तूरद्रवैर्भाव्यं तु गंधकम् ।
शतधा तं खरे घर्मे विडोऽयं सर्वजारणे

3.10.85

अनेन ग्रसते शीघ्रं शुक्तिसंभवसंपुटे

3.10.86

{विड:: fओर् इम्प्रोवेमेन्त् ओf ग्रासन}
सैंधवं गंधकं तुल्यं ताम्रवल्लीद्रवैः प्लुतम् ।
अनेन बिडयोगेन गगनं ग्रसते रसः

3.10.87

{सिद्धविड}
शिलागंधकसिन्धूत्थं प्रत्येकं च पलं पलम् ।
पलत्रयं च भूनागं सर्वमेकत्र मर्दयेत्

3.10.88

शोषयेच्च पुनर्देयं भूनागानां पलत्रयम् ।
तद्वन्मर्द्यं पुनः शोष्यं पाचयेन्मन्दवह्निना

3.10.89

एवम् अष्टगुणं दत्त्वा मर्द्यं पाच्यं विचूर्णयेत् ।
अयं सिद्धविडो योज्यो जारणे हेमकर्मणि

3.10.90

सम्यक् संस्कृतगंधकाद्युपरसं सत्त्वं ततो व्योमजं पश्चान्माक्षिकसत्त्वहाटकवरं गर्भद्रुतौ द्रावितम् ।
रागै रञ्जितबीजजालम् अखिलं बाह्यां द्रुतिं द्वंद्वितां सूते सर्वमिदं क्रमेण विधिना सिद्धैर्बिडैर्जारयेत्

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc