रसरत्नाकर · अध्याय 2.1
र्रा, 2
र्रा, 2, 1
जयति स रसराजो मृत्युशङ्कापहारी सकलगुणनिधानं कायकल्पाधिकारी ।
वलिपलितविनाशं सेवितो वीर्यवृद्धिं स्थिरम् अपि कुरुते यः कामिनीनां प्रसङ्गम्
अथातः सम्प्रवक्ष्यामि देहसिद्धिं सुशोभनाम् ।
यस्याः सिद्धौ मनुष्याणां जायन्ते सर्वसिद्धयः
न देहेन विना किंचिद् इष्टम् अस्ति जगत्त्रये ।
तस्मात् सर्वप्रयत्नेन तस्मिन् यत्नो विधीयताम्
शुभनक्षत्रदिवसे वमने रेचने कृते ।
ततो विशेषशुद्ध्यर्थं केतकीस्तनजं द्रवम्
त्रिदिनं कुडवैकैकं लोणदोषहरं पिबेत् ।
विडङ्गं च वचा कुष्ठं केतकीस्तनसंयुतम्
क्वथितं त्रिदिनं पीतम् अम्लदोषहरं परम् ।
श्यामावह्निविडङ्गानि त्र्यूषणं त्रिफला वृषः
सैन्धवं देवदारुश् च मुस्ता चैतत् समं समम् ।
घृतैर् लेह्यं तु कर्षैकं सप्ताहात् सर्वदोषजित्
एवं विशुद्धदेहस् तु पूजयेद् देवतां गुरुम् ।
कुमारीं योगिनीचक्रं ततः कुर्याद् रसायनम्
{रसायन}
निर्वाते भूगृहे वाथ बाह्यचिन्ताविवर्जितः ।
जितेन्द्रियो जितक्रोधः क्षीरशाल्यन्नभुग् भवेत्
षष्ट्योदनं यवान्नं च गोधूमं मुद्गयूषकम् ।
जाङ्गलं भक्षयेन् मांसं केवलं क्षीरम् एव वा
बलान्नं वाथ भुञ्जीत शाकलोणविवर्जितम् ।
अभ्यङ्गं मस्तुना कुर्यात् स्नानं चैव सुखाम्बुना
काकिनीं स्त्रीं भजेन् नित्यं स्वानुकूलां सुयौवनाम् ।
रसेन्द्रे भक्ष्यमाणे तु कामान्धो जायते नरः
मैथुनेन विना तस्य ह्य् अजीर्णो जायते रसः ।
अजीर्णे कम्पदाहार्ती हिक्का मूर्छा ज्वरो ऽरतिः
कासश्वासारुचिच्छर्दिभ्रममोहा भवन्ति हि ।
सेवेत सुभगां तस्माद् दुर्भगां परिवर्जयेत्
अभ्यङ्गं कटुतैलेन काञ्जिकं मदिरां दधि ।
कलिङ्गकारवल्ल्यम्लतैलकूष्माण्डराजिकाः
बिल्वच्छत्राकवार्ताकविदलं काकमाचिकाम् ।
मूलकं लशुनं तीक्ष्णं शीतम् उष्णं च वर्जयेत्
रात्रौ जागरणं त्याज्यं दिवास्वापं च मैथुनम् ।
कलहोद्वेगचिन्ताश् च शोकं चैव विवर्जयेत्
आवर्जनाद् भवेच् छूलं निद्रालस्यं ज्वरो ऽरतिः ।
त्र्यहं पिबेत् तत्प्रशान्त्यै वारिणा कर्कटीफलम्
शुण्ठीसैन्धवचूर्णं वा मातुलुङ्गाम्लकैर् लिहेत् ।
सौवर्चलं गवां मूत्रैः पिबेद् वा तत्प्रशान्तये
वन्ध्याकर्कोटकीं पुङ्खां पातालगरुडीं जलैः ।
क्वाथयेद् अष्टगुणितैस् तदष्टांशं ससैन्धवम्
पिबेत् सर्वविकारघ्नं त्रिदिनं शिवभाषितम् ।
मूलं वा कारवल्ल्युत्थं सैन्धवं वा गवां जलैः
त्रिदिनं कर्षमात्रं तु पिबेत् सर्वविकारजित् ।
अपथ्यशीलिनाम् एतत् कथितं रससेविनाम्
अमुम् एव विधिं कुर्याद् रसायनविधौ किल ।
अमृतं विधिसंयुक्तं विधिहीनं तु तद् विषम्
चातुर्जातककर्पूरकङ्कोलं कटुकीफलम् ।
खादेत् ताम्बूलसंयुक्तं रससङ्क्रामणे हितम्
अथात्र वक्ष्यते सम्यग् आदौ पारदमारणम् ।
समुखस्य रसेन्द्रस्य वासनामुखितस्य वा
क्रमेण जारयेत् स्वर्णं समांशं पूर्ववत् ततः ।
तत्तुल्यं गन्धकं तस्मिन् दत्त्वा दिव्यौषधिद्रवैः
मर्दयेत् त्रिदिनं खल्वे मूषायां चान्धितं ततः ।
करीषाग्नौ दिवारात्रं त्रिरात्रं वा तुषाग्निना
स्वेदितं मर्दयेद् भूयो बीजैर् दिव्यौषधोद्भवैः ।
तुल्यं खल्वे चतुर्यामं वज्रमूषान्धितं धमेत्
भस्मसूतं भवेत् तद्वै योज्यं सर्वरसायने ।
शुद्धसूतं समं स्वर्णं यामम् अम्लैर् विमर्दयेत्
प्रक्षाल्य ग्राहयेत् पिष्टीं पिष्ट्यर्धं शुद्धगन्धकम् ।
गन्धार्धं टङ्कणं दत्त्वा सर्वतुल्यां हरिद्रिकाम्
स्त्रीपुष्पेण तु तत्सर्वं मर्द्यं रम्भाद्रवान्वितम् ।
दिनान्ते गोलकं कृत्वा वालुकायन्त्रगं पचेत्
दिनं मन्दाग्निना तं वै समुद्धृत्य विचूर्णयेत् ।
चूर्णांशं गन्धकं दत्त्वा गर्भयन्त्रे त्र्यहं पचेत्
तुषाग्निना लघुत्वेन जायते भस्मसूतकः ।
शुद्धसूतस् त्रिभागः स्याद् भागैकं ताम्रचूर्णकम्
दिनैकं मर्दयेद् अम्लैः क्षालितं पिष्टिम् आहरेत् ।
माक्षिकाद् धौतसत्त्वं च पिष्टितुल्यं प्रकल्पयेत्
तत्सर्वं त्रिदिनं मर्द्यं चक्रमर्ददलद्रवैः ।
तद्गोलं गर्भयन्त्रस्थं त्रिदिनं तुषवह्निना
करीषाग्नौ दिवारात्रं पचेद् वा भस्मतां व्रजेत् ।
शुद्धसूतं व्योमसत्त्वं सुवर्णं च समं समम्
सर्वतुल्यं विडं दत्त्वा मर्द्यं रम्भाद्रवैर् दिनम् ।
बीजैर् दिव्यौषधीनां च तुल्यैर् मर्द्यं दिनद्वयम्
गर्भयन्त्रगतं पच्यान् म्रियते पूर्ववत् पुटे ।
चतुरङ्गुलदीर्घं स्याद् विस्तारे चाङ्गुलत्रयम्
मृन्मयं सम्पुटं कृत्वा छायाशुष्कं च कारयेत् ।
लवणं विंशभागं स्याद् भागम् एकं तु गुग्गुलुम्
सर्वं तोयैः प्रपिष्याथ तेनैव सम्पुटोदरम् ।
लिप्त्वा तत्र रसं रुन्ध्याद् गर्भयन्त्रम् इदं भवेत्
विमला पारदं शुद्धं तुल्यं निर्गुण्डिकाद्रवैः ।
मर्दयेत् त्रिदिनं तं वै काचकूप्यां निवेशयेत्
काचकूप्या ह्य् अभावे तु निरुन्ध्याच्छरावसम्पुटे ।
पाचयेद् वालुकायन्त्रे चतुर्यामान् मृतो भवेत्
माक्षिकाद् धौतसत्त्वं तु तत्समं शुद्धगन्धकम् ।
द्वाभ्यां तुल्यं शुद्धरसं दिनं निर्गुण्डिकाद्रवैः
तत् सर्वं मर्दितं गोलं वज्रमूषान्धितं पचेत् ।
दिनैकं वालुकायन्त्रे मृतं स्याद् रक्तवर्णकम्
ऊर्ध्वाधो गन्धकं तुल्यं दातव्यं शुद्धपारदे ।
उदरे पक्वमूषायाः काकमाचीद्रवं पुनः
द्वाभ्यां चतुर्गुणं दत्त्वा ताम् आच्छाद्य पचेच् छनैः ।
क्रमाग्नौ वालुकायन्त्रे चतुर्यामान् मृतो भवेत्
स्नुह्या वा हेमवल्ल्या वा क्षीरैः शुद्धरसं दिनम् ।
मर्दयेद् गन्धकं तुल्यं गर्भयन्त्रगतं पुटेत्
पूर्ववत् क्रमयोगेन मृतं योगेषु योजयेत् ।
शुद्धसूतसमं गुञ्जालाक्षोर्णामधुटङ्कणम्
तत् सर्वं भृङ्गजैर् द्रावैर् दिनम् एकं विमर्दयेत् ।
वज्रमूषान्धितं ध्मातं म्रियते शशिसन्निभम्
द्रवैस् तु कीटमारिण्या ह्य् अजमोदाद्रवैश् च वा ।
अहिमार्या द्रवैर् वाथ किंवा श्वेताङ्कुलद्रवैः
मर्दयेत् पारदं शुद्धं समगन्धं दिनत्रयम् ।
सम्पुटे मृन्मये रुद्ध्वा करीषाग्नौ दिवानिशि
पचेत् तुषाग्निना वाथ त्रिदिनान् म्रियते ध्रुवम् ।
शुद्धसूतं मृतं वज्रं समांशं तप्तखल्वके
हंसपाद्या द्रवैर् मर्द्यं त्रिदिनान्ते समुद्धरेत् ।
बीजैर् दिव्यौषधीनां च वज्रमूषां प्रलेपयेत्
तत्र पूर्वरसं रुद्ध्वा त्रिदिनं तुषवह्निना ।
पाचयित्वा समुद्धृत्य तत्समं शुद्धपारदम्
एकीकृत्य त्र्यहं मर्द्यं हंसपाद्या द्रवैर् दृढम् ।
तद्गोलं पूर्ववत् पच्यान् मृतं भवति शोभनम्
वज्राभ्राद्यष्टलोहानां रसखण्डे यथोदितम् ।
मारणं वादिखण्डे वा तथा ज्ञेयं रसायने
एवं मृतो रसवरः परमामूतः स्यात् तत्सेवकाः सततम् अस्य दृढं तु तेषाम् ।
देहं करोति सहसा सुरसुन्दरीणां क्रीडाक्षमं परमसुन्दरम् एव नित्यम्
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0