रसरत्नाकर · अध्याय 2.2
र्रा, 2, 2
धर्मज्ञैः शिववत्सलैर् निर्जरैर् भूपैर् महासाधकैः सम्यग्दिव्यरसायनेन सततं कल्पान्तसीमावधि ।
रक्ष्यं गात्रम् अनन्तपुण्यनिचये मुक्तिश् च यस्माद् भवेत् तद् वक्ष्ये परमाद्भुतं सुखकरं साम्राज्यदं धीमताम्
अभ्रकं भक्षयेद् आदौ मारितं चामृतीकृतम् ।
मासैकं निष्कनिष्कं वै क्षेत्रीकरणहेतवे
यस्माद् अभ्रं रसक्षेत्रं ततः कुर्याद् रसायनम् ।
अक्षेत्रीकरणे सूतो ह्य् अमृतो विषतां व्रजेत्
फलसिद्धिः कुतस् तस्य सुबीजस्योषरे यथा ।
वज्रपारदयोर् भस्म समभागं प्रकल्पयेत्
सूतपादं मृतं स्वर्णं सर्वं मर्द्यं दिनावधि ।
हंसपाद्या द्रवैर् एव तद्गोलं चान्धितं पुटेत्
अर्कक्षीरैः पुनर् मर्द्यं तद्वद् गजपुटे पचेत् ।
भक्षयेत् सर्षपवृद्धं यावन् माषं विवर्धयेत्
शरण्यः साधकानां तु रसो ऽयं वज्रपञ्जरः ।
चित्रकार्द्रकसिन्धूत्थमृततीक्ष्णसुवर्चलम्
समं सर्वं सदा चानु भक्ष्यं स्यात् क्रामणे हितम् ।
मासषट्कप्रयोगेण जीवेद् आचन्द्रतारकम्
वलीपलितनिर्मुक्तो दिव्यकायो महाबलः ।
मृतसूताद् द्वादशांशं मृतं वज्रं प्रकल्पयेत्
द्वाभ्यां तुल्यं मृतं कान्तं कान्ततुल्यं मृताभ्रकम् ।
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दितं भावयेत् त्र्यहम्
त्र्यहं गोक्षुरकद्रावैः क्षौद्रैर् माषं ततो लिहेत् ।
रसो वज्रेश्वरो नाम वज्रकायकरो नृणाम्
चतुर्मासैर् जरां हन्ति जीवेद् ब्रह्मदिनं किल ।
भृङ्गराजस्य पञ्चाङ्गं चूर्णयेत् त्रिफलासमम्
पलैकं मधुना लेह्यं क्रामकं परमं रसे ।
वज्रसूताभ्रहेम्नां तु भस्म शुद्धं तु माक्षिकम्
तुल्यं सप्तदिनं मर्द्यं दिव्यौषधिरसैर् दृढम् ।
रुद्ध्वा तं त्रिदिनं पच्याद् वालुकायन्त्रगं पुनः
उद्धृत्य त्रिदिनं भाव्यं भृङ्गसर्पाक्षिजैर् द्रवैः ।
माषैकं मधुसर्पिर्भ्यां वज्रधारारसं लिहेत्
मासषट्कप्रयोगेण रुद्रतुल्यो भवेन् नरः ।
वलीपलितनिर्मुक्तो वायुवेगो महाबलः
पुनर्नवाभृङ्गतिलवाजिगन्धाः समांशकाः ।
सर्वतुल्या सिता योज्या चूर्णितं भक्षयेत् पलम्
सुवर्णं पारदं कान्तं मृतं सर्वं समं भवेत् ।
शतावर्याः शिफाद्रावैर् भावयेद् दिवसत्रयम्
त्रिदिनं त्रिफलाक्वाथैर् भृङ्गद्रावैर् दिनत्रयम् ।
भावितं मधुसर्पिर्भ्यां भक्षयेद् भैरवं रसम्
माषैकैकं वर्षमात्रं जीवेच् चन्द्रार्कतारकम् ।
मूलचूर्णं शतावर्याः कृष्णाजपयसा युतम्
पलैकैकं पिबेच् चानु क्रामकं परमं हितम् ।
रसभस्म समं गन्धं शिलाजत्वम्लवेतसम्
यामैकं मर्दयेत् सर्वं मधुसर्पिर्युतं लिहेत् ।
निष्कैकैकं वर्षमात्रं शिलावीरो महारसः
जराकालं निहन्त्य् आशु जीवेद् वर्षशतत्रयम् ।
पलार्धं मुसलीचूर्णं भृङ्गराजरसैः पिबेत्
धात्रीफलरसैर् वाथ क्रामकं ह्य् अनुपानकम् ।
मेघनादद्रवैर् मर्द्यं शुद्धसूतं दिनत्रयम्
विडङ्गं द्विनिशं व्योषं समं चूर्णं प्रकल्पयेत् ।
आरग्वधस्य मूलं तु चूर्णस्य द्विगुणं भवेत्
चूर्णस्य द्विगुणं चाज्यं क्षौद्रं चैव चतुर्गुणम् ।
सर्वं पूर्वरसे क्षिप्त्वा मृद्वग्नौ चालयत् पचेत्
तत्पिण्डं कर्षम् एकैकं भक्षयेद् अमृतार्णवः ।
वर्षमात्राञ् जरां हन्ति जीवेद् वर्षशतत्रयम्
वाकुचीचूर्णकर्षैकं धात्रीफलरसैः पिबेत् ।
पारदाद् द्विगुणं गन्धं शुद्धं सर्वं विमर्दयेत्
मुण्ड्यार्द्रकरसैः खल्वे त्रिसप्ताहं पुनः पुनः ।
एतत् तुल्यं शुद्धताम्रं सम्पुटे तन् निरोधयेत्
वेष्टयेद् वस्त्रखण्डेन वज्रमृत्तिकया बहिः ।
लिप्त्वा विशोषयेत् तं वै सम्यग् गजपुटे पचेत्
उद्धृत्य सम्पुटं चूर्ण्यं देवदाल्या द्रवैस् त्र्यहम् ।
भङ्गीपुनर्नवाद्रावैः पृथग्भाव्यं त्र्यहं त्र्यहम्
तत्तुल्यं नागराच् चूर्णं क्षिप्त्वा मध्वाज्यसंयुतम् ।
लिहेन् माषद्वयं नित्यं यावत् संवत्सरावधि
रसो ऽयम् उदयादित्यो जरामृत्युहरः परः ।
पुनर्नवादेवदालीभृङ्गचूर्णं समं समम्
मध्वाज्याभ्यां लिहेत् कर्षम् अनु स्यात् क्रामणं परम् ।
पारदो गगनं कान्तं तीक्ष्णं च मारितं समम्
भृङ्गधात्रीफलद्रावैश् छायायां भावयेत् त्र्यहम् ।
सितामध्वाज्यकैस् तुल्यं सर्वं भाण्डे निरोधयेत्
धान्यराशौ स्थितं मासं ततो निष्कत्रयं समम् ।
भक्षयेच् च पिबेत् क्षीरं कर्षैकं त्रिफलाम् अनु
रात्रौ शुण्ठीं कणां खादेद् वर्षैकाद् अमरो भवेत् ।
जीवेद् ब्रह्मदिनं वीरः स्याद् रसो गगनेश्वरः
वटक्षीरैस् त्र्यहं मर्द्यं गन्धं शुद्धरसं समम् ।
वटकाष्ठाग्निना पच्यान् मृत्पात्रे यामपञ्चकम्
क्षिपन् क्षिपन् वटक्षीरं तत्काष्ठेनैव चालयेत् ।
समुद्धृत्य त्र्यहं भाव्यं देवदालीदलद्रवैः
उष्णकाले तु गुञ्जैकं ताम्बूलपत्रसंयुतम् ।
चन्द्रवृद्ध्या सदा भक्ष्यं यावत् षोडशगुञ्जकम्
चूर्णम् उत्तरवारुण्या वाकुच्या देवदालिजम् ।
मध्वाज्याभ्यां लिहेत् कर्षं क्रामकं ह्य् अनुपानकम्
वर्षमात्राज् जरां हन्ति जीवेद् वर्षशतत्रयम् ।
रसो वटेश्वरो नाम वज्रकायकरो नृणाम्
मृतं सूतं शुद्धगन्धं त्रिफलां गुग्गुलुं समम् ।
सर्वं वातारितैलेन मिश्रं कर्षं लिहेत् सदा
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनत्रयम् ।
तस्य मूत्रपुरीषेण शुल्बं भवति काञ्चनम्
अजस्य वृषणं पाच्यं गवां क्षीरेण तं निशि ।
सितायुक्तं पिबेच् चानु रसो ऽयम् अचलेश्वरः
रसं वज्रं स्वर्णकान्ते मुण्डं च मारितं समम् ।
माक्षिकं गन्धकं शुद्धं सर्वं जम्बीरजैर् द्रवैः
सप्ताहं मर्दयेत् खल्वे तद्गोलं चान्धितं पुटेत् ।
भूधरे दिनम् एकं तु ख्यातः सिद्धरसः परः
माषैकं मधुना लेह्यं वर्षान् मृत्युजरापहम् ।
दिव्यकायो नरः सिद्धो भवेद् विष्णुपराक्रमः
श्वेतपौनर्नवं मूलं क्षीरपिष्टं सदा पिबेत् ।
भक्षयेद् वा सिता सार्धं क्रामकं परमे रसे
मृतसूतस्य द्विगुणं शुद्धं गन्धं विमिश्रयेत् ।
दिनैकं कन्यकाद्रावैर् मर्दयित्वा निरोधयेत्
दिनैकं मधुना पच्यान् निष्कैकं मधुना लिहेत् ।
गन्धामृतो रसो नाम वत्सरान् मृत्युजिद् भवेत्
समूलं भृङ्गराजं तु छायाशुष्कं विचूर्णयेत् ।
तत्समं त्रिफलाचूर्णं सर्वतुल्या सिता भवेत्
एकीकृत्य पलैकैकं भक्षयेद् अनुपानकम् ।
पारदाभ्रं मृतं तुल्यं द्वाभ्यां तुल्यं तु गन्धकम्
तत् सर्वं भृङ्गजैर् द्रावैर् मर्दयेद् दिनसप्तकम् ।
षड्वारं चाङ्कुलीतैलैर् भावयित्वाथ भक्षयेत्
माषमात्रं तु वर्षैकं रसो ऽयं कालकण्टकः ।
पिष्ट्वा करञ्जपत्राणि गवां क्षीरैः पिबेद् अनु
जरामृत्युविनिर्मुक्तो जीवेद् ब्रह्मदिनं नरः ।
मृतसूताभ्रकं कान्तं विषं ताप्यं शिलाजतु
तुल्यांशं मधुसर्पिर्भ्यां लिहेद् गुञ्जात्रयं सदा ।
षण्मासेन जरां हन्ति जीवेद् ब्रह्मदिनं नरः
अश्वगन्धामूलचूर्णं सप्तभागघृतैः समम् ।
भागाष्टकं गुडं तस्मिन् क्षिपेद् भागं च पिप्पलीम्
मृद्वग्निना च तत् सर्वं पिण्डितं भक्षयेत् पलम् ।
क्रामकं ह्य् अमृतेशस्य रसराजस्य सिद्धये
त्रिगुणं शुद्धसूतस्य योजयेच् छुद्धगन्धकम् ।
लोहपर्पटिकाचूर्णं सूततुल्यं विनिक्षिपेत्
स्नुह्यर्कपयसा मर्द्यं तत् सर्वं दिवसत्रयम् ।
तच् छुष्कं चान्धितं पच्यात् करीषाग्नौ दिवानिशम्
ततश् च टङ्कणं काचं दत्त्वा रुद्ध्वा धमेद् दृढम् ।
गुञ्जैकं मधुना खादेद् रसवीरो महारसः
अब्दैकेन जरां हन्ति जीवेद् आचन्द्रतारकम् ।
मुसलीमूलचूर्णं तु गुञ्जापत्रद्रवैः पिबेत्
छागीमूत्रेण वा तं वै कर्षैकं क्रामकं परम् ।
मृतसूतसमं गन्धं काकमाच्या द्रवैर् दिनम्
मर्दितं चान्धितं पच्यात् करीषाग्नौ दिवानिशम् ।
दिव्यौषधदलद्रावैर् दिनं मर्द्यं तम् अन्धयेत्
ध्मातं तस्मात् समुद्धृत्य तत्तुल्यं हाटकं मृतम् ।
एकीकृत्य घृतैर् लेह्यं माषैकं वत्सरावधि
जरां मृत्युं निहन्त्य् आशु सत्यं काञ्चायनो रसः ।
काकमाचीद्रवैर् भाव्यं चूर्णं धात्रीफलोद्भवम्
मधुना भक्षयेत् कर्षम् अनु स्यात् क्रामकं परम् ।
मृतसूताभ्रकं गन्धं तुल्यं सप्तदिनावधि
शिग्रुमूलद्रवैर् मर्द्यं तद्गोलं भाण्डमध्यगम् ।
रुद्ध्वा पच्याल् लघुत्वेन शाककाष्ठैर् दिनावधि
परानन्दो रसो नाम घृतैर् निष्कं सदा लिहेत् ।
दिनैकं त्रिफलाक्वाथैः कुष्ठं सम्यग् विपाचयेत्
तच् छुष्कं चूर्णितं कर्षं मध्वाज्याभ्यां लिहेद् अनु ।
संवत्सरप्रयोगेण जीवेद् आचन्द्रतारकम्
मृतसूताभ्रकं तुल्यं मृतलोहं तयोः समम् ।
लोहांशं शोधितं गन्धं भावयेद् दिनसप्तकम्
तत् सर्वं त्रिफलाक्वाथैर् भृङ्गशिग्रुकचित्रकैः ।
द्रवैः पृथक् पृथग् भाव्यं सप्तधा सप्तधा क्रमात्
सप्तधा कटुकीक्वाथैर् भावितं चूर्णयेत् पुनः ।
चूर्णतुल्यं कणाचूर्णं पुरातनगुडैः समैः
सर्वमेकीकृतं खादेन् निष्कैकं वत्सरावधि ।
महाकालो रसो नाम जराकालभयंकरः
तिलकोरण्टपत्त्राणि गुडेन भक्षयेदनु ।
मृतपारदसंतुल्यं लोहपर्पटकं भवेत्
त्रिगुणं गन्धकं सूतात्सर्वं दिव्यौषधद्रवैः ।
मर्दितं तद्दिनं रुद्ध्वा ध्मातो बद्धो भवेद्रसः
तस्मिन् पादं मृतं स्वर्णं क्षिप्त्वा वह्न्यार्द्रकद्रवैः ।
मर्द्यं यामं विचूर्ण्याथ व्योषजीरकसैन्धवैः
तुल्यं पूर्वरसं तुल्यं निष्कैकैकं च भक्षयेत् ।
जरामृत्युं निहन्त्याशु हेमपर्पटको रसः
अश्वगन्धासमां यष्टिं धात्रीफलरसैर्दिनम् ।
भावितां लेहयेत्क्षौद्रैः पलैकां क्रामकं परम्
स्वर्णतारार्ककान्तं च तीक्ष्णं वा मारितं समम् ।
कृष्णाभ्रसत्त्वमाक्षीकं प्रत्येकं स्वर्णतुल्यकम्
तत्सर्वं चान्धितं धाम्यं तत्खोटं मृतपारदम् ।
समं सूतान्मृतं वज्रं पादांशं तत्र योजयेत्
सर्वं जम्बीरजैर्द्रावैस्तप्तखल्वे विमर्दयेत् ।
दिनैकं तं निरुध्याथ भूधरे पावयेद् दिनम्
उद्धृत्य गन्धकं तुल्यं दत्त्वा रुद्ध्वा धमेद् द्रुतम् ।
तच्चूर्णं मधुनाज्येन माषमात्रं लिहेत्सदा
रसः श्रीकण्ठनामायं खेचरत्वं प्रयच्छति ।
संवत्सरप्रयोगेन जीवेत्कल्पान्तमेव च
तस्य मूत्रपुरीषाभ्यां सर्वलोहानि काञ्चनम् ।
पलैकं गन्धकं क्षीरैः क्रामकं चानु पाययेत्
शुद्धताम्रस्य भागैकं द्विषट् शुद्धरसस्य च ।
त्रयं भूनागसत्त्वस्य भागमेकत्र वारयेत्
सर्वं मर्द्यं तप्तखल्वे जम्बीराणां द्रवैर्दिनम् ।
तत्सर्वं कच्छपे यन्त्रे क्षिप्त्वा तत्रैव गन्धकम्
कासमर्दरसैः पिष्टं तुल्यं दत्त्वा निरुध्य च ।
यावज् जीर्णं पुटे पच्याद् एवं षड्गुणगन्धकम्
जारयेत्क्रमयोगेन समुद्धृत्याथ मर्दयेत् ।
यामं जम्बीरजैर्द्रावैस्ततो निश्चन्द्रमभ्रकम्
अम्लवेतससंतुल्यं मर्दितं दापयेद्रसे ।
षोडशांशं तप्तखल्वे चणकाम्लं च तालकम्
कासीसं च दशांशेन दत्त्वा मर्द्यं दिनावधि ।
तत्सर्वं पक्वमूषायां क्षिप्त्वा वस्त्रेण बन्धयेत्
दोलायन्त्रे सारनाले त्र्यहं लघ्वग्निना पचेत् ।
उद्धृत्य क्षालयेदुष्णैः काञ्जिकैर्जीर्यते यदि
अजीर्णं चेत्पचेद्यन्त्रे कच्छपाख्ये विडान्वितम् ।
एव पुनः पुनर्जार्यं गगनं सूततुल्यकम्
शिखिपित्तप्रलिप्तानि स्वर्णपत्त्राणि तस्य वै ।
चतुःषष्ट्यंशयोगेन दत्त्वा खल्वे विमर्दयेत्
स्वेदयेत्पूर्ववद्यन्त्रे जीर्णे स्वर्णं च दापयेत् ।
इत्येवं षोडशांशं तु स्वर्णं जार्यं रसस्य वै
ततो जार्यं मृतं वज्रं षोडशांशं च हेमवत् ।
तालकासीसजम्बीरयुक्तं मर्द्यं च तत्परम्
ततो दिव्यौषधद्रावैस्तं सूतं मर्दयेत् त्र्यहम् ।
वज्रमूषान्धितं धाम्यं बद्धं स्याच् चूर्णयेत्पुनः
मधुशर्करया सार्धं गुञ्जामात्रं च भक्षयेत् ।
रसः खेचरबद्धोऽयं षण्मासान्मृत्युजिद्भवेत्
वलीपलितनिर्मुक्तो महाबलपराक्रमः ।
सप्ताहं भृङ्गजैर्द्रावैर् नीलमुण्डीफलत्रयम्
भावयेन्मधुसर्पिर्भ्यां कर्षमात्रं लिहेदनु ।
शुद्धसूतं द्विधा गन्धं कुर्यात्खल्वेन कञ्जलम्
तयोस्तुल्यं कान्तचूर्णं तीक्ष्णं वा मुण्डमेव वा ।
सर्वमेकीकृतं खल्वे मर्दयेत्कन्यकाद्रवैः
दिनैकं गोलकं कृत्वा ताम्रपात्रे निवेशयेत् ।
आच्छाद्यैरण्डपत्त्रैस्तु यामार्धेऽत्युष्णतां व्रजेत्
धान्यराशौ न्यसेत्तं तु द्विदिनान्ते समुद्धरेत् ।
कन्याभृङ्गीकाकमाचीमुण्डीनिर्गुण्डीचित्रकम्
कोरण्टवाकुचीब्राह्मीसहदेवीपुनर्नवाः ।
शाल्मलीविजयाधूर्ता द्रवैरेषां पृथक्पृथक्
सप्तधा सप्तधा भाव्यं सप्तधा त्रिफलोद्भवैः ।
कषायैर्भावितं चूर्ण्यं जातीफललवंगकम्
त्रिकटु त्रिफला चैला चूर्णयेन् नवकं समम् ।
तच्चूर्णं पूर्वचूर्णं च समं क्षौद्रेण कर्षकम्
वर्षैकं लेहयेन् नित्यं जराकालप्रशान्तये ।
स्वयमग्निरसो नाम सिद्धानां सुमुखागतः
तिलाश्वगन्धयोश्चूर्णं पलार्धं मधुना लिहेत् ।
निर्गुण्डी नीलिका वज्री ब्रह्मदण्डी त्रिदण्डिका
शतपुष्पा मुद्गपर्णी श्वेतार्को वानरी जया ।
पेटारीकृष्णधत्तूरविजयाक्षीरकन्दकम्
एतैः समस्तैर्व्यस्तैर्वा द्रव्यैर्मर्द्यं दिनत्रयम् ।
शुद्धसूतं तप्तखल्वे तत्कल्कं क्षीरकन्दके
वज्रकन्देऽथवा रुद्ध्वा तन्मज्जाभिर्मृदा पुनः ।
तं कन्दं वज्रमूषायां रुद्ध्वा लघुपुटे पचेत्
पुनर्मर्द्यं पुनः पाच्यमित्येवं सप्तधा क्रमात् ।
रसः कक्षपुटो नाम गुञ्जैकं मधुना लिहेत्
जीवेद्ब्रह्मदिनैकं तु वलीपलितवर्जितः ।
वर्षैकेन न संदेहो रसकायो भवेन् नरः
भल्लातबीजचूर्णं च हयगन्धामृताघृतैः ।
पलैकं भक्षयेच् चानु क्रामकं परमं हितम्
मृतसूताभ्रकं वज्रं कान्ततारार्कहाटकम् ।
तीक्ष्णं च तुल्यतुल्यांशं सर्वेषां गन्धकं समम्
सर्वं पालाशतैलेन मर्दयेद् दिनसप्तकम् ।
महाशक्तिरसो नाम क्षौद्रैर्माषं लिहेत्सदा
षण्मासेन जरां हन्ति जीवेद्ब्रह्मदिनत्रयम् ।
वत्सरात् सप्तकल्पानि जीवत्येव न संशयः
इच्छावेगी महासिद्धः पराशक्तिसमो भवेत् ।
तस्य मूत्रपुरीषाभ्यां ताम्रं भवति काञ्चनम्
पालाशबीजजं तैलं क्षौद्रैर्लेह्यं पलाष्टकम् ।
क्रामकं ह्य् अनुपानं स्यात् सम्यक्छक्त्या प्रकाशितम्
लोहितं वाथ वा कृष्णं वैक्रान्तं मारितं पलम् ।
स्वर्णचूर्णपलैकं च द्विपलं शुद्धपारदम्
बालरण्डाजमूत्राभ्यां तत्सर्वं मर्दयेद् दिनम् ।
शरपुङ्खा मेषशृङ्गी सर्पाक्षीकटुतुम्बिका
इन्द्रवारुणिका चैषां द्रवैर्मर्द्यं दिनत्रयम् ।
तद्गोलं गर्भयन्त्रे तु रुद्ध्वा पच्याद् दिनत्रयम्
तुषाग्निना लघुत्वेन समुद्धृत्य विचूर्णयेत् ।
सप्तधा भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्पुनः
त्रिफलात्र्यूषमध्वाज्यैः समं चूर्णं विमिश्रयेत् ।
माषैकैकं सदा खादेद्रसोऽयं नाटकेश्वरः
सर्वरोगजरामृत्यून् वत्सरान्नाशयत्यलम् ।
दिव्यतेजा महाकायो जीवेदाचन्द्रतारकम्
मूलत्वचं ब्रह्मवृक्षाच्छायाशुष्कां विचूर्णिताम् ।
पिबेन् निष्कद्वयां तक्रैः क्रामकं परमं शुभम्
सुशुद्धं श्वेतवैक्रान्तं सप्ताहं भाव्यमातपे ।
अम्लवेतससम्पिष्टं तेनैव द्रुतिमाप्नुयात्
एतद्द्रुतिं शुद्धसूतं समं क्षौद्रैर्दिनत्रयम् ।
मर्दितं लेहयेन्माषं मासाद्बालो भवेन् नरः
वत्सराद्ब्रह्मतुल्यः स्याद्रसोऽयं बालसुन्दरः ।
वाकुचीबीजकर्षैकं मध्वाज्याभ्यां लिहेदनु
चतुःपलं शुद्धसूतं पलैकं मृतहाटकम् ।
पलाशकुड्मलद्रावैस्तत्तैलैश्च दिनत्रयम्
मर्दयेत्तप्तखल्वे तु स्वर्णतुल्यं च गन्धकम् ।
शोधितं निक्षिपेत्तस्मिन् पूर्वोक्तैर्मर्दयेद् दिनम्
माषमात्रां वटीं खादेद्वत्सरान् मृत्युजिद्भवेत् ।
जीवेद्ब्रह्मदिनं वीरो रसोऽयं ब्रह्मपञ्जरः
वानरीकाकतुण्ड्युत्थबीजचूर्णं समं समम् ।
शाल्मलीत्वग्दलद्रावैर् भावयेद् दिवसत्रयम्
त्र्यहं च भृङ्गजैर्द्रावैर्भावितं चूर्णयेत्ततः ।
पुरातनगुडैस्तुल्यं कर्षैकमनु भक्षयेत्
रक्तभूमौ तु भूनागान् ग्राहयित्वा परीक्षयेत् ।
छेदे निर्याति रक्तं चेत् तान् स्वीकुर्यात् प्रयत्नतः
कृष्णवर्णागवाज्येन समेन सह तान् पचेत् ।
लोहजे चालयन् पात्रे यावत् सिन्दूरवर्णकम्
तत्सर्वं जायते भस्म तत्तुल्यं मृतपारदम् ।
मधुनालोडितं सर्वं गुञ्जार्धार्धं विवर्धयन्
पश्चाद्गुञ्जां सदा खादेद्यावत्संवत्सरावधि ।
शिवामृतो रसो नाम जरामृत्युहरो नृणाम् ।
आयुर् ब्रह्मदिनं दत्ते शिवाम्बु पाययेदनु
एवं दिव्यरसायनैः समुचितैः सारातिसारैः शुभैः सिद्धं देहमनेकसाधनबलाद् येषां तु दृष्टं मया ।
तानाराध्य च तेषु सारमखिलं संगृह्य शास्त्रादपि भूपानां विदुषां महामतिमतां प्रोक्तं हितार्थाय वै
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0