भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 1.10

1.10.1

र्रा, 1, 10
तैलानां पातनं वक्ष्ये सूर्यपाकेऽथवानले ।
यन्त्रयोगेन यत्तैलं ग्राह्यं योगेषु योजयेत्

1.10.2

{धत्तूर:: ओइल्}
धत्तूरबीजचूर्णानि वस्त्रपूतानि कारयेत् ।
आलिप्य कांस्यपात्रं तु धारयेदातपे खरे

1.10.3

सुतप्तं वस्त्रपूतं च पातयेत् तैलमाहरेत् ।
{शिग्रु:: ओइल्}
शिग्रुपुष्करबीजानां बीजस्य मार्कवस्य च

1.10.4

ग्राह्यं धत्तूरवत् तैलमेकैकस्य पृथक् पृथक् ।
यथा धत्तूरजं तैलं क्वाथाद् घर्मे समुद्धृतम्

1.10.5

तथा सर्वत्र तैलानि संग्राह्यान्यौषधान्तरैः ।
{अङ्कोट:: ओइल्}
अङ्कोटस्यापि तैलं स्यात्काकतुण्डया समूलया

1.10.6

वाकुचीदेवदाल्याश्च कर्कोटीमूलतः भवेत् ।
अपामार्गकषायेण तैलं स्याद्विषतुण्डजम्

1.10.7

मूलक्वाथैः कुमार्यास्तु तैलं जैपालजं भवेत् ।
क्वाथेन रक्तमार्गस्य वाकुचीतैलमाहरेत्

1.10.8

क्वाथेन चेन्द्रवारुण्यास्तैलमारग्वधं भवेत् ।
काकतुण्ड्यपामार्गोत्थक्वाथात् तैलं समाहरेत्

1.10.9

{कटुतुम्बी:: ओइल्}
बीजानि कटुतुम्ब्याश्च गोमयेन विलोडयेत् ।
शुष्कं धान्यतुषैः सार्द्धं कुट्टयेच्च उलूखले

1.10.10

निस्तुषं तं विचूर्ण्याथ भृङ्गराजरसैः सह ।
मर्दयित्वातपे तैलं गृह्णीयात्पीडने सति

1.10.11

{ओइल् fरोम् कृष्णा अन्द् काकतुण्डी}
कृष्णायाः काकतुण्ड्याश्च बीजं चूर्णानि कारयेत् ।
कान्तपाषाणचूर्णं चैकीकृत्य निरोधयेत्

1.10.12

धान्यराशिगतं पक्त्वा उद्धृते तैलमाहरेत् ।
धात्रीफलरसैर् भाव्यं चूर्णं पाषाणबीजकम्

1.10.13

दिनैकं च ततो यन्त्रे तैलं ग्राह्यं च तैलके ।
{ओइल्:: fरोम् गुञ्जा अन्द् करञ्ज}
गुञ्जाकरञ्जफलं च नरमूत्रेण भावयेत्

1.10.14

सप्तवारं ततो घर्मे लेपयेत्कांस्यभाजनम् ।
उद्धृत्य धारयेद् घर्मे तैलं पतति पीडनात्

1.10.15

{ओइल्:: ज्योतिष्मती}
वर्धमानारनालेन पिष्ट्वा चूर्णं विभावयेत् ।
ज्योतिष्मत्युत्थबीजानाम् आतपे तैलमाहरेत्

1.10.16

{ओइल्:: पुत्रजीव}
पुत्रजीवस्य बीजानां चूर्णम् अगस्त्यबीजजम् ।
आम्रातवत्प्रकर्तव्यं ततस्तैलं पृथक् पृथक्

1.10.17

{ओइल्:: बिल्व}
नारिकेलाम्बुना भाव्यं बिल्वबीजस्य चूर्णकम् ।
दिनैकं तैलयन्त्रेण तैलमाकृष्य योजयेत्

1.10.18

{ओइल्:: अङ्कोल}
निस्तुषाङ्कोलबीजानां सुखं किंचिद् विघर्षयेत् ।
प्रलेपयेत्कांस्यपात्रे पिष्ट्वा चणकलेपने

1.10.19

तन्मुखे टंकणं चूर्णं किंचित् किंचित् प्रलेपयेत् ।
धारयेदातपे तीव्रे मुखात् तैलं समाहरेत्

1.10.20

{केशतैल}
शमीचूर्णसमं पिष्ट्वा छिद्रमाण्डे निवेशयेत् ।
छिद्राधः स्थापयेद् भाण्डं छिद्रे केशं च दापयेत्

1.10.21

जलेन सेचयेद्द्रव्यं छिद्राधो ग्राहयेच्च तम् ।
तन्मध्ये धृतकेशस्य क्षिपेदूर्ध्वं पुटं शनैः

1.10.22

तत्क्षणाच्छ्रवरूपं च केशतैलमिदं भवेत् ।
{ओइल्:: एxत्रच्तिओन् (गेन्.)}
अपक्वभानुपत्राणां रसमादाय भावयेत्

1.10.23

समस्तं बीजचूर्णं चोक्तानुक्तं पृथक् पृथक् ।
आतपे मुच्यते तैलं साध्यासाध्यं न संशयः

1.10.24

{ओइल्}
तथैवोत्तरवारुण्याः कषायेण समाहरेत् ।
तैलं समस्तबीजानां ग्राहयेदातपे खरे

1.10.25

{ओइल्}
सर्वबीजास्थिमांसानां शुष्कं पिष्ट्वा ह्यनेकधा ।
सर्वबीजेषु वा तैलं ग्राह्यं पातालयन्त्रके

1.10.26

{ओइल्}
वंशादिसर्वकाष्ठानां नारिकेलकपालकम् ।
तुषधान्यादिबीजानां गर्भयन्त्रेण तैलकम्

1.10.27

ग्राहयेत्सर्वबीजानां तं च योगेषु योजयेत्

1.10.28

{वत्सनाभ}
वत्सनाभं विषं स्वादु दीपनं कफवातजित् ।
त्रिदोषशमनं योगयुक्तं सुधामयं भवेत्

1.10.29

बृंहणं बलवीर्यस्य वाडबाग्निशतोपमम् ।
सन्निपाते प्रतीकारे प्रभवः प्रभवोऽस्य हि

1.10.30

उद्धृतं फलपाकान्ते नवं स्निग्धं घनं गुरु ।
अव्यापकं विषहरं वातातपविशोषितम्

1.10.31

रक्तसर्षपतैलेन लिप्तं वाससि धारयेत् ।
अथवापि यथा प्राप्तं विषं गोमूत्रसंयुतम्

1.10.32

आतपे त्रिदिनं शुष्कं निहितं वीर्यधृक् भवेत् ।
मृतं सूताभ्रकं लौहं विषं च तुल्यवीर्यकम्

1.10.33

तस्माद्विषं योगवाहे योज्यं योगे रसायने ।
तानि चैव तु मानानि अष्टौ षड्वा चतुर्थकम्

1.10.34

मात्रात्रयं समाख्यातमुत्तमाधममध्यम् ।
दातव्यं सर्वरोगेषु घृताशिने हिताशिने

1.10.35

क्षीराशिने प्रदातव्यं रसायनवते नरे ।
न क्रोधिने न पित्ताढ्ये न क्लीबे राजयक्ष्मणि

1.10.36

क्षुत्तृष्णाश्रमकर्माध्वशोषिणे क्षयरोगिणे ।
गर्भिणीबालवृद्धेषु न विषं राजमन्दिरे

1.10.37

न दातव्यं न भोक्तव्यं विसंवादे कदाचन ।
आचार्येण तु भोक्तव्यं शिष्यप्रत्ययकारकम्

1.10.38

अनेन मन्त्रेण मर्दयेद्भूमौ न स्थापयेत् ।
अमृतमिति वदेदिति क्रमोऽयम् ।
ओं सिद्धगुरुभ्यो नमः ।
परमगुरुभ्यो नमः ।
परात्परगुरुभ्यो नमः ।
परमेष्ठिगुरुभ्यो नमः ।
{वेगेतब्ले पोइसोन्स्}
सक्तुकं मुस्तकं शृङ्गी वालकं सर्षपाह्वयम् ।
वत्सनाभं च कूर्मश्च श्वेतशृङ्गी तथाष्टमम्

1.10.39

इत्यष्टौ योजयेद्योगे कालकूटादि वर्जयेत् ।
{पोइसोन्स्}
कालकूटं मेषशृङ्गी हालाहलं च दर्दुरम्

1.10.40

कर्कटं मर्कटं ग्रन्थि हारिद्रं रक्तशृङ्गकम् ।
केशवं दशमं चेति वर्जनीयं भिषग्वरैः

1.10.41

सक्तुकाद्यान् प्रयुञ्जीत सर्वरोगे रसायने ।
एतद्विषं जातिचतुष्टयं च विचार्य योज्यं भिषगुत्तमेन

1.10.42

विप्रो रक्षति यौवनं नरपतिस्तद्भूतले पालतां वैश्यः कुष्ठविनाशने च कुशलः शूद्रो हरेज्जीवनम् ।
तस्माच्चापि भिषग्वरेण निपुणैस्तद्वेदिना भावयेत् कुर्यादेव ततो विषं नृपवरो मृत्युंजयाय क्षितौ

1.10.43

श्वेता वा यदि वा पिङ्गा मधुरा ऊषरापि वा ।
लोमशा ब्रह्मजातिः स्यात्क्षत्रजातिस्तु लोहिता

1.10.44

पीता वा मधुरा किंचिद् वैश्यजातिस्तु धूसरा ।
कृष्णा शूद्रस्य दृश्येत एतेषां च भिषग्वरैः

1.10.45

क्षीरं सम्पूर्णभाण्डेऽपि विषं दत्त्वा विचिन्तयेत् ।
जायतेऽपि यदा वर्णं तदा जातिं विनिर्दिशेत्

1.10.46

शुक्लं रक्तं तथा पीतं कृष्णं चेति चतुर्विधम् ।
ब्रह्मक्षत्रविट्शूद्राणां ज्ञातव्यो जातिनिर्णयः

1.10.47

क्षिप्तं दुग्धे विषं वैद्यो जानीयात् क्रमशो यदि ।
श्वेतं रक्तं तथा पीतं कृष्णं चोष्णलमेव च

1.10.48

तुत्थेन टङ्कणेनैव म्रियते पेषणाद्विषम् ।
विषेषु जङ्गमाख्येषु विषं नागभवं हितम्

1.10.49

इदमेव महाश्रेष्ठं त्रिदोषक्षपणं क्षणात् ।
दीपनं कुरुते सद्यो वडवाग्निशतोपमम्

1.10.50

संनिपातप्रतिकारे प्रभावः प्रभवो हि सः

1.10.51

नागोद्भवं यथाप्राप्तं विषं गोमूत्रसंयुतम् ।
आतपे त्रिदिनं शुष्कं निहितं वीर्यधृग् भवेत्

1.10.52

अतिमात्रं यदा भुङ्क्ते तदार्ज्य टङ्कणं पिबेत् ।
रजनी मेघनादा वा सर्पाक्षी वा घृतान्विता

1.10.53

लिहेद्वा मधुसर्पिर्भ्यां चूर्णिताम् अर्जुनत्वचम् ।
पुत्रजीवकमज्जां वा पिबेद्वा निम्बकद्वयम्

1.10.54

एवं विषविधिः ख्यातः प्रयोगं च वदाम्यहम् ।
विषं त्रिकटुकं मुस्तं हरिद्रानिम्बपत्रकम्

1.10.55

विडङ्गम् अष्टमं चूर्णं छागमूत्रैः समं समम् ।
चणकाभा वटी ख्याता स्याज्जया योगवाहिका

1.10.56

विषं पाठाश्वगन्धाश्च बला तालीसपत्त्रकम् ।
मरिचं पिप्पली निम्बमजामूत्रेण तुल्यकम्

1.10.57

वटिका पूर्ववत्कार्या वटिका योगवाहिका ।
निद्रां तन्द्रां क्लमं दाहं सफेनं लोमहर्षणम्

1.10.58

शोषं चैवातिसारं च कुरुते जङ्गमं विषम् ।
स्थावरं तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम्

1.10.59

फेनछर्द्यरुचिश्वासं मूर्च्छां च कुरुते विषम् ।
न जानाति यदा मन्त्री विषं भक्षेच्चिकित्सितम्

1.10.60

विषमेव तदादाय मज्जत्यम्बुनिधाविव ।
तस्माद्यत्नेन संरक्षेद्राजा विषचिकित्सकात्

1.10.61

प्रथमं वह्निखर्परिकायां मनाग्भृष्ट्वा वक्ष्यमाणमन्त्रेण निर्विषं विधाय गृह्णीयादिति ।
निम्बुद्रवे पित्तं वारत्रयं विभाव्य प्रक्षाल्य संशोष्य गृह्णीयादिति ।
{शिलाजतु:: ओरिगिन्}
हेमाद्याः सूर्यसंतप्ताः स्रवन्ति गिरिधातवः ।
जत्वाभं मृदु मृत्स्नाभं यन्मलं तच्छिलाजतु

1.10.62

{शिलाजतु:: मेदिच्. प्रोपेर्तिएस्}
अनघं चाल्पकषायं च कटु पाके शिलाजतु ।
नात्युष्णशीतं धातुभ्यश्चतुर्भ्यस्तस्य सम्भवः

1.10.63

{शिलाजतु:: fरोम् गोल्द्:: मेदिच्. प्रोपेर्तिएस्}
हेम्नोऽथ रजतात्ताम्राद्वरं कालायसाद् अपि ।
मधुरं च सतिक्तं च जपापुष्पनिभं च यत्

1.10.64

विपाके कटु शीतं च तत्सुवर्णस्य निसृतम् ।
{शिलाजतु:: fरोम् सिल्वेर्:: मेदिच्. प्रोपेर्तिएस्}
राजतं कटुकं श्वेतं शीतं स्वादु विपच्यते

1.10.65

{शिलाजतु:: fरोम् चोप्पेर्:: मेदिच्. प्रोपेर्तिएस्}
ताम्राद् बर्हिणकण्ठाभं तीक्ष्णोष्णं पच्यते कटु ।
{शिलाजतु:: fरोम् इरोन्:: मेदिच्. प्रोपेर्तिएस्}
यच्च गुग्गुलुसंकाशं सतिक्तं लवणान्वितम्

1.10.66

विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ।
गोमूत्रगन्धः सर्वेषां सर्वकर्मसु यौगिकाः

1.10.67

रसायनप्रयोगेषु पश्चिमं तु विशिष्यते ।
यथाक्रमं वातपित्ते श्लेष्मपित्ते कफे त्रिषु

1.10.68

विशेषेण प्रशस्यन्ते मला हेमादिधातुजाः ।
{शिलाजतु:: फ्य्स्. प्रोपेर्तिएस्}
लौहः किट्टायते वह्नौ विधूमं दह्यतेऽम्भसि

1.10.69

तृणाद्यग्रे कृतं श्रेष्ठम् अधो गलति तन्तुवत् ।
दंशदंष्ट्रौषधादिदोषहरणार्थं मेषशृङ्गं भूर्जपत्रेण धूपयेत् ।
क्वाथ्यद्रव्यं शिलाजतुसमं चतुर्गुणेन जलं दत्त्वा चतुर्भागावशेषेण भावयेद् इत्येकः पक्षः ।
वाग्भट्टस्तु अष्टगुणजलदानेनाष्टावशेषे पूर्ववदुभयथैव व्यवहारः ।
भद्रशिलाजतु त्रिफलादशमूलोष्णक्वाथे निक्षिप्य ।
केवलोष्णोदके वा स्थिते ऊर्ध्वं वीभूते पद्धपत्रवत् सर्वं ग्राह्यम् ।
ततः शिवागुडिकोक्तक्रमेण भावनां दत्त्वा विशोध्य सालसारादिना भावयेद्यथा ।
सालयुग्मौ करञ्जौ द्वौ खदिरं चन्दनद्वयम् ।
गर्दभाण्डो ऽर्जुनश्चेह लोध्रयुग्मधवासनाः

1.10.70

शिरीषागुरुकालीयपूगपूतिककर्कटाः ।
सालसारादिरप्येष गणः श्लेष्मगदापहः

1.10.71

मेहगुल्मार्शःकुष्ठारिमेदःपाण्डुरुजापहः ।
एभिर्दिवातपे शोष्यं रात्रौ रात्रौ च भावयेत्

1.10.72

द्रवेण यावता द्रव्यमेकीभूयार्द्रतां व्रजेत् ।
भवेत् प्रमाणं निर्दिष्टं भिषग्भिर् भावनाविधौ

1.10.73

भवेद्द्रव्यं समं क्वाथ्यं क्वाथं चाष्टावशेषितम् ।
तेनार्द्रसमं द्रव्यं शोषयेत्प्रबलातपे

1.10.74

दग्धहीरकं योज्यं निक्षिप्याग्नौ ध्मापयित्वा निर्गुण्डीरसेन सप्तवारान् निर्वाप्य प्रक्षाल्य च गृह्णीयात्

1.10.75

जायन्ते वामरुक्वाथे जनपदे ग्रीष्मे ऽर्कतापार्दिताः ।
शीतोषणे शिशिरे च गुग्गुलुरसं मुञ्चन्ति ते पञ्चधा

1.10.76

हेमाभं महिषाक्षतुल्यमपरं तत्पद्मरागोपमं भृङ्गाभं कुमुदद्युतिं च विधिना ग्राह्या परीक्ष्या ततः

1.10.77

वह्नौ ज्वलन्ति तपने विलयं प्रयान्ति क्लिद्यन्ति कोष्णसलिले पयसा समानाः

1.10.78

ग्राह्याः शुभाः परिहरेच्चिरकालजातान् अङ्गात्स्फुटं खर्परगन्धिकतुल्यवर्णान्

1.10.79

{गुग्गुलु:: मेदिच्. प्रोपेर्तिएस्}
स्वादे स्वादुः कषायतिक्तकटुको वीर्ये विपाके कटुः ।
वृष्यो मार्गविशोधने ऽतिविशदस्तीक्ष्णो विकाशी सरः

1.10.80

सायुष्यः स्वरदस्त्रिदोषशमनो मेधास्मृतिश्रीकरः ।
धन्यः पापनिसूदनोऽग्निजननो हृत्कण्ठशोधीपुनः

1.10.81

{गुग्गुलु:: शोधन}
दशमूलक्वाथे उष्णे पूते गुग्गुलुं परिक्षिप्यालोड्य च वस्त्रपूतं विधाय चण्डातपे विशोष्य घृतं दत्त्वा पिण्डितव्यम्

1.10.82

{चोन्छ्:: शोधन}
शंखनाभिं तथाम्लेन सप्तवारं हि भावयेत् ।
रौद्रे मलादिकं त्यक्त्वा प्रक्षाल्य ग्राहयेदिति

1.10.83

{मोनेय् चोwरिए:: शोधन}
वराटीं तक्रचाङ्गेरीजम्बीराणां रसे शुभे ।
प्रक्षिप्य भावयेत्तावद्यावच्छुक्ला न पश्यति

1.10.84

पश्चादुद्धृत्य गृह्णीयाद् वराटीं शुद्धिमागताम्

1.10.85

{पेअर्ल्:: शोधन}
भौमिकं जलम् आदाय मुक्तां च व्युषितामपि ।
त्यक्त्वा मलादिकां तां च प्रक्षाल्य ग्राहयेदिति

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc