भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 1.7

1.7.1

र्रा, 1, 7
{हरिताल:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
अशुद्धतालमायुर्घ्नं ककमारुतमेहकृत् ।
तापशोफाङ्गसंकोचं कुरुते तेन शोधयेत्

1.7.2

{हरिताल:: शोधन}
तालकं कणशः कृत्वा दशांशेन च टङ्कणम् ।
जम्बीराणां द्रवैः क्षाल्यं काञ्जिकैः क्षालयेत् पुनः

1.7.3

वस्त्रैश्चतुर्गुणैर् बद्ध्वा दोलायन्त्रे दिनं पचेत् ।
संयुक्तं चारनालेन दिनं कुष्माण्डजैः रसैः

1.7.4

तिलतैलैः पचेद्यामं यामं च त्रिफलाजलैः ।
त्रिवारं तालकं भाव्यं पिष्ट्वा मूत्रैश्च काञ्जिकैः

1.7.5

तत्फलैर् दशभिर् देयं रुद्ध्वा पुटं च पेषयेत् ।
एवं द्वादशधा पाच्यं शुद्धं योगेषु योजयेत्

1.7.6

{हरिताल:: शोधन}
तालकं पोटलीबद्धं सप्ताहं काञ्जिके पचेत् ।
दोलायन्त्रेण यामैकं ततः कुष्माण्डजैः रसैः

1.7.7

तिलतैले पचेद्यामं यामं च त्रिफलाजलैः ।
एवं यन्त्रे चतुर्यामं पाच्यं शुध्यति तालकः

1.7.8

{हरिताल:: शुद्ध:: मेदिच्. प्रोपेर्तिएस्}
तालको हरते रोगान् कुष्ठमृत्युज्वरापहः ।
शोधितः शीतवीर्ये च कुरुते वायुवर्धनम्

1.7.9

{मनःशिला:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
अश्मरीं मूत्रहृद्रोगमशुद्धा कुरुते शिला ।
मन्दाग्निं मलबन्धं च शुद्धा सर्वरुजापहा

1.7.10

{मनःशिला:: शोधन}
अजामूत्रे त्र्यहं पाच्या दोलायन्त्रे मनःशिला ।
सप्तधा तैरजापित्तैर् घर्मे भाव्यं विशुद्धये

1.7.11

{मनःशिला:: शोधन}
जयन्तीभृङ्गराजोत्थरक्तागस्त्यरसैः शिला ।
दोलायन्त्रे दिनं पाच्या यामं छागस्य मूत्रके

1.7.12

क्षालयेदारनालेन सर्वरोगेषु योजयेत्

1.7.13

{रसक:: शोधन}
नरमूत्रैश्च गोमूत्रैः सप्ताहं रसकं पचेत् ।
दोलायन्त्रेण सम्यक्तच्छुद्धं योगेषु योजयेत्

1.7.14

{तुत्थ:: शोधन}
विष्ठया मर्दयेत्खल्वे मार्जारकपोतयोः ।
दशांशं टङ्कणं दद्यात्पाच्यं मृद्वग्निना ततः

1.7.15

पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये

1.7.16

{विमला:: शोधन}
विमला त्रिविधं पाच्या रम्भातोयेन संयुता ।
अम्लवेतसधान्याम्लमेषीमूत्रेण पेषयेत्

1.7.17

दोलायन्त्रे चतुर्यामं शुद्धिरेषा महोत्तमा ।
{विमल:: शोधन}
कर्कटीमेषशृङ्ग्युत्थद्रवैर् जम्बीरजैर् द्रवैः

1.7.18

भावयेदातपे तीव्रे विमला शुध्यति ध्रुवम्

1.7.19

{माक्षिक:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
मन्दाग्निं बलहानिं च व्रणविष्टम्भनेत्ररुक् ।
कुरुते माक्षिको मृत्युम् अशुद्धो नात्र संशयः

1.7.20

{माक्षिक:: शोधन}
माक्षिकं नरमूत्रेण क्वाथयेत् कोद्रवैर्द्रवैः ।
वेतसेनाम्लवर्गेण टंकणेन कटुत्रिकैः

1.7.21

दोलायन्त्रे दिनं पाच्यं सूरणस्यैव मध्यगम् ।
दिनं रम्भाद्रवैः पच्यात्तद्धृत्वा पेषयेद्घृतैः

1.7.22

एरण्डतैलसंयुक्तं पुटे पच्याद्विशुद्धये ।
{माक्षिक:: शोधन}
माक्षिकस्य त्रयो भागा भागैकं सैन्धवस्य च

1.7.23

मातुलुङ्गद्रवैर्वाथ जम्बीरोत्थद्रवैः पचेत् ।
लोहपात्रे पचेत्तावद्यावत्पात्रं सुलोहितम्

1.7.24

ताम्रवर्णमयो याति तावच्छुध्यति माक्षिकम् ।
{माक्षिक:: शोधन}
अगस्त्यपुष्पनिर्यासैः शिग्रुमूलं विघर्षयेत्

1.7.25

द्रवैः पाषाणभेद्याश्च पच्यादेभिश्च माक्षिकम् ।
तद्वटीं चान्धमूषायां विंशद्भिर् उपलैः पचेत्

1.7.26

पुनः पिष्ट्वाथ रुन्ध्याच्च पुटैःषड्भिर् विशुध्यति

1.7.27

{माक्षिक:: शोधन}
मेघनादपाषाणभेदी पिष्ट्वा तत्पिण्डमध्ये माक्षिकं कणशः कृत्वा निक्षिपेत् ।
तद्गोलकं वस्त्रे बद्ध्वा दोलायन्त्रे कुलत्थक्वाथे दिनमेकं पचेत् ।
एतच्छुद्धलोहानां युक्तस्थाने मारणे योज्यम्

1.7.28

{माक्षिक:: परीक्षा:: गोओद् qउअलित्य्}
भङ्गे सुवर्णसंकाशो ऽन्तः कृष्णो बहिश्छविः ।
बृहद्वर्णं इति ख्यातो माक्षिकः श्रेष्ठ उच्यते

1.7.29

व्यापयत्यङ्गम् अङ्गानि तैलबिन्दुरिवाम्भसि ।
न विना शोधनं सर्वे धातवः प्रबलादयः

1.7.30

रोगोपशमकर्तारः शोधनं तेन वक्ष्यते

1.7.31

{चोरल्:: मारण}
प्रवालानां स्त्रीदुग्धेन भावना पश्चाद्धण्डिकामध्ये स्थापयित्वा निरुध्योपरि शरावकं दत्त्वा लेपयेत् ।
वह्निसंदीपनं कृत्वा प्रहरद्वयेन विद्रुमं म्रियते

1.7.32

{उपरस (?):: मारण}
कुलत्थस्य पचेद्द्रोणे वारिद्रोणेन बुद्धिमान् ।
तेन पादावशेषेण क्वाथेऽष्टौ मणयः शिला

1.7.33

आतपे त्रिदिनं शुष्कं क्वाथसिक्तं पुनः पुनः ।
मुक्ताचूर्णं समादाय करकाम्बुविभावितम्

1.7.34

आतपे त्रिदिनं भाव्यं चूर्णितं मृत्युम् आप्नुयात्

1.7.35

{शिलाजतु:: शोधन}
शङ्खं नीलाञ्जनं चैव पूर्ववच्छोधयेद्दिनम् ।
गोमूत्रैस्त्रिफलाक्वाथैर् भृङ्गराजद्रवैर् जतुम्

1.7.36

मर्दयेदायसे पात्रे दिनाच्छुद्धिः शिलाजतोः ।
{दरद:: शोधन}
मेषीक्षीरेण दरदमम्लवर्गैश्च भावितम्

1.7.37

सप्तवारं प्रयत्नेन शुद्धिमायाति निश्चितम् ।
{उपरस:: शोधन}
सूर्यावर्तं वज्रकन्दं कदली देवदालिका

1.7.38

शिग्रु कोशातकी वन्ध्या काकमाची च वायसी ।
आसामेकरसेनैव त्रिक्षारैर्लवणैर् युतम्

1.7.39

भावयेदम्लवर्गेण दिनमेकं प्रयत्नतः ।
सौवीरं कान्तपाषाणं शुद्धभूनागमृत्तिका

1.7.40

शङ्खं नीलाञ्जनं चैव सर्वोपरसाश्च ये ।
पृथग्भाव्यं विधानेन शुद्धिं यान्ति दिने दिने

1.7.41

ततः पश्चात्तु तद्द्रावैर्दोलायन्त्रे दिनं सुधीः ।
शुध्यन्ते नात्र सन्देहः सर्वेषु परमा अमी

1.7.42

मुञ्चन्ति द्रुतसत्त्वांश्च मतं साधारणं स्मृतम्

1.7.43

{?:: सत्त्वपातन}
गुग्गुलुं टङ्कणं लाक्षा मज्जा सर्जरसं पुनः ।
ऊर्णा गुञ्जा क्षेत्रमीनम् अस्थीनि शशकस्य च

1.7.44

गुडमध्वाज्यपिण्याकं तुत्थं पेष्यमजाजलैः ।
सर्वं तुल्यं च धान्याभ्रं भूनागं मृत्तिकापि च

1.7.45

कान्तपाषाणतुल्यं च कठिन्युपरसाश्च ये ।
मेलयेन्माहिषैः पच्याद्दध्यादिगोमयान्तिकैः

1.7.46

दृढं मर्द्यं वटीं कुर्यात्कर्षमात्रं तु शोषयेत् ।
कोष्ठीयन्त्रे धमेद्गाढम् अङ्गारैश्च चिरोद्भवैः

1.7.47

त्रिवारं धमनाद् एव सत्त्वं पतति निर्मलम् ।
असाध्यान् मोचयेत् सत्त्वान् मृत्तिकादेश्च का कथा

1.7.48

{हरिताल:: सत्त्वपातन}
लाक्षा आज्यं तिलाः शिग्रुः टंकणं लवणं गुडम् ।
तालकार्धेन संयोज्य छिद्रमूषां निरोधयेत्

1.7.49

पुटे पातालयन्त्रेण सत्वं पतति निश्चितम् ।
{??}
चाङ्गेरी चणकाम्लं च मातुलुङ्गाम्लवेतसम् ।
चिञ्चा नारङ्गं जम्बीरनम्ण वर्ग इति स्मृतम् ।
{हरिताल:: सत्त्वपातन}
तालकं चूर्णयित्वा तु छागीक्षीरेण भावयेत्

1.7.50

वारत्रयं ततो विद्धिमूलं पिष्ट्वा तु मिश्रितम् ।
कृत्वा च गुडकं शुष्कं सत्वं ग्राह्यं च पूर्ववत्

1.7.51

{हरिताल:: सत्त्वपातन}
तालकं मर्दयेद्दुग्धैः सर्पाक्षीं वाथ मूलकैः ।
पूर्ववद्ग्राहयेत् सत्त्वं छिद्रमूषां निरुध्य च

1.7.52

{मनःशिला:: सत्त्वपातन}
तालवच्च शिलासत्वं ग्राह्यं तैरेव चौषधैः ।
तुल्येन टंकणेनैव ध्मातं सत्त्वं चतुर्थकम्

1.7.53

{माक्षिक:: सत्त्वपातन}
गोक्षीरैश्च तुत्थक्षीरैर्भाव्यमेरण्डतैलकैः ।
माक्षिकं दिनमेकं तु मर्दितं वटकीकृतम्

1.7.54

अभ्रवद्धमने सत्वं सम्यगस्याप्ययं विधिः ।
{माक्षिक (?):: सत्त्वपातन}
जयन्ती त्रिफलाचूर्णं हरिद्रागुडटङ्कणम्

1.7.55

पादांशं टङ्कणस्येदं पिष्ट्वा मूषां विलेपयेत् ।
नालिकां सम्पुटे बद्ध्वा शोषयेदातपे खरे

1.7.56

ग्राह्यं पातालयन्त्रे च सत्वं ध्मातं पुटेन च

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc