भाषा

ENहिગુ
ग्रंथ पाठ

रसरत्नाकर · अध्याय 1.6

1.6.1

र्रा, 1, 6
{अभ्र:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
अशुद्धाभ्रं निहन्त्यायुर् वर्धयेन्मारुतं कफम् ।
अहतं छेदयेद्देहं मन्दाग्निक्रिमिदायकम्

1.6.2

{अभ्र:: सुब्त्य्पेस्}
कृष्णं पीतं सितं रक्तं योज्यं योगे रसायने ।
पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम्

1.6.3

पिनाकाद्यास्त्रयो वर्ज्या वज्रं यत्नात्समाहरेत् ।
{पिनाक:: परीक्षा}
मुञ्चत्यग्नौ विनिक्षिप्ते पिनाको दलसंचयम्

1.6.4

अज्ञानाद्भक्षणं तस्य महाकुष्ठप्रदायकम् ।
{दर्दुर}
दर्दुरो निहितो ह्यग्नौ कुरुते दर्दुरध्वनिम्

1.6.5

{नाग}
नागश्चाग्निगतः शब्दं फूत्कारं च विमुञ्चति ।
स च देहगतो नित्यं व्याधिं कुर्याद्भगन्दरम्

1.6.6

{वज्राभ्र}
वज्राभ्रकं वह्निसंस्थं न किंचिद् विकृतिं व्रजेत् ।
तस्माद्वज्राभ्रकं योज्यं व्याधिवार्द्धक्यमृत्युजित्

1.6.7

{धान्याभ्रक:: प्रोदुच्तिओन्}
धमेद्वज्राभ्रकं वह्नौ ततः क्षीरे निषेचयेत् ।
भिन्नपत्रं तु तं ज्ञात्वा मेघनादद्रवाम्लयोः

1.6.8

भावयेदष्टयामं तद्धान्याभ्रं कारयेत्सुधीः ।
{धान्याभ्रक:: प्रोदुच्तिओन्}
अथवाभ्रस्य भागौ द्वौ टङ्कश्चैकं जलैः सह

1.6.9

द्विदिनं स्थापयेत्पात्रे सूक्ष्मं कृत्वा प्रपेषयेत् ।
बद्ध्वा धान्ययुतं वस्त्रे मर्दयेत्काञ्जिकैः सह

1.6.10

अधो यद्गालितं सूक्ष्मं शुद्धं धान्याभ्रकं भवेत्

1.6.11

{अभ्र:: मारण:: निश्चन्द्र}
पुनर्नवामेघनादद्रवैर् धान्याभ्रकं दिनम् ।
मर्द्यं गजपुटे पच्यात्पुनश्चिञ्चाथ सूरणैः

1.6.12

द्रवैर्मुस्तभवैर्मर्द्यं पृथग्देयं पुटत्रयम् ।
एवं मर्कदलैर् वेष्ट्यं देयं वा मोचसम्पुटे

1.6.13

निश्चन्द्रं जायते ह्यभ्रं यथा दोषेषु योजयेत् ।
{अभ्र:: मारण:: निश्चन्द्र}
गोघृतैस्त्रिफलां क्वाथैः पक्त्वा च पूर्ववत् पचेत्

1.6.14

पञ्चविंशत्पुटैरेव कासमर्द्याः द्रवैः पचेत् ।
देयं पुटत्रयं क्षीरैर् मर्दयेच्च पुटे पुटे

1.6.15

निश्चन्द्रं जायते ह्यभ्रं जरामृत्युरुजापहम् ।
{अभ्र:: मारण}
धान्याभ्रकस्य भागैकं द्वौ भागौ टंकणस्य च

1.6.16

पिष्ट्वा तदन्धमूषायां रुद्ध्वा तीव्राग्निना पचेत् ।
स्वभावशीतलं चूर्णं सर्वरोगेषु योजयेत्

1.6.17

{धान्याभ्रक:: मारण}
धान्याभ्रकमम्लंपिष्टं पुटे तप्तेऽम्लसेचनम् ।
तत् पिष्ट्वा धारयेत् खल्वे भाव्यमम्लारनालकैः

1.6.18

तप्तं तप्तं चारनालैः पाच्यं शोध्यं पुनः पुनः ।
पुटे वा धमने पाच्यं विंशद्वारं पुनः पुनः

1.6.19

तप्तं तप्तं क्षिपेद्दुग्धे पिष्ट्वाथ शोषयेत्पुनः ।
दुग्धतप्तं पुटं पच्यात्तप्तं दुग्धेन सेचयेत्

1.6.20

एवं त्रिसप्तवाराणि शोष्यं पेष्यं पुटे पचेत् ।
पेषयित्वा पचेत्स्थाल्यां लौहदर्व्या विचालयेत्

1.6.21

दुग्धस्थं च ततो दुग्धैः पुटे पच्यात्पुनः पुनः ।
एवं सप्तदिनं पच्याद्दिवा चैकं पुटे निशि

1.6.22

तण्डुली वज्रवल्ली च तालमूली पुनर्नवा ।
चाङ्गेरी मरिचं चैव बलायाः पयसा सह

1.6.23

एभिश्च पेषयेच्चाभ्रं प्रत्येकं तं त्र्यहं त्र्यहम् ।
स्थित्वा तप्ते पुटे पश्चात्प्रत्येकेन पुनः पुनः

1.6.24

पिष्ट्वा पुनः पुटे घृष्टं कज्जलाभं मृतं भवेत्

1.6.25

{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रकस्य शुद्धस्य दशांशं मरिचं क्षिपेत् ।
पेषयेदम्लवर्गेण चाम्ले भाव्यं दिनत्रयम्

1.6.26

तं शुष्कं सम्पुटे धाम्यं खदिराङ्गारकैर् दृढम् ।
ऊर्ध्वपात्रं निरूप्याथ सेचयेदम्लकेन तत्

1.6.27

अगस्त्यशिग्रुवर्षाभूमूलैस्तं पत्रजै रसैः ।
पिष्ट्वाभ्रं सेचयेत्तेन यद् वान्याम्लरसेन च

1.6.28

सितामध्वाज्यगोक्षीरैर् दध्नाम्लं पेष्यम् अभ्रकम् ।
मत्स्याक्ष्याः करवीरायाः द्रवैः पिष्ट्वा त्रिधा पचेत्

1.6.29

ततो गजपुरे पाच्यं निश्चन्द्रं जायतेऽभ्रकम् ।
{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रकं द्रवैर्मर्द्यं मत्स्याक्षीतुलसीद्रवैः

1.6.30

मूलजैः कोकिलाक्षस्य कुमारीश्वेतदूर्वयोः ।
व्याघ्रीकन्दपुनर्नवया दिनम् एतैर् विमर्दयेत्

1.6.31

कुञ्जराख्यैः पुटैः सप्त पिष्ट्वा पिष्ट्वा पचेत् पुनः ।
तद्वत्पञ्चामृतैः पाच्यं पिष्ट्वा पिष्ट्वा तु सप्तधा

1.6.32

एवं निश्चन्द्रतां याति सर्वरोगेषु योजयेत्

1.6.33

{अभ्र:: मारण:: निश्चन्द्र}
धान्याभ्रं टंकणं तुल्यं गोमूत्रैस्तुलसीदलैः ।
वाकुच्याः सूरणैर् अल्पैर् दिनं पिष्ट्वा पुटे पचेत्

1.6.34

जयन्त्याश्च द्रवैः पश्चान्मर्द्यं मर्द्य त्रिधा पुटेत् ।
चतुर्गजपुटेनैवं निश्चन्द्रं सर्वरोगजित्

1.6.35

{अभ्र:: मारण}
धान्याभ्रकं रविक्षीरैः रविमूलद्रवैश्च वा ।
मर्द्यं मर्द्यं पुटे पच्यात्सप्तधा म्रियते ध्रुवम्

1.6.36

{अभ्र:: मारण}
धान्याभ्रकं तुषाम्लाम्लैरातपे स्थापयेद्दिनम् ।
यामं मर्द्यं चतुर्गोलं रुद्ध्वा गजपुटे पचेत्

1.6.37

एवं गोक्षीरमध्यस्थं स्थाप्यं मर्द्य पुटे पचेत् ।
एवं कार्पासतोयेन स्थाप्यं पेष्यं पुटे पचेत्

1.6.38

ततोऽम्लैश्चैव कार्पासैर् गवां क्षीरैः पुनः पुनः ।
घर्मपाकं मर्दनं च पुटं चैवम् अनुक्रमात्

1.6.39

एवं विंशत्पुटे प्राप्ते मृतो भवति निश्चितम्

1.6.40

{अभ्र:: मृत:: अमृतीकरण}
सर्वेषां घातिताभ्राणाममृतीकरणं शृणु ।
त्रिफलोत्थकषायस्य पलान्यादाय षोडश

1.6.41

गोमूत्रस्य पलान्यष्टौ मृताभ्रस्य पलान्दश ।
एकीकृत्य लौहपात्रे पाचयेन्मृदुवह्निना

1.6.42

द्रवे जीर्णे समादाय सर्वं रोगेषु योजयेत् ।
{अभ्र:: मेदिच्. प्रोपेर्तिएस्}
अनुपानं विना ह्यभ्रं जरामृत्युरुजापहम्

1.6.43

योजयेदनुपानैर्वा तत्तद्रोगहरं क्षणात् ।
मृतं चाभ्रं हरेद् रोगान् जरामृत्युमनेकधा

1.6.44

सेवितं देहदार्ढ्यं च रूपवीर्यं विवर्धयेत्

मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc