रसरत्नाकर · अध्याय 1.8
र्रा, 1, 8
{मेतल्स्}
स्वर्णं तारं ताम्रं नागं वङ्गं कान्तं च तीक्ष्णकम् ।
मुण्डान्तमष्टधा लोहं कांस्यारं घोषकं त्रिधा
{उपलोहाः}
उपलौहाः समाख्याता मण्डूरोलौहकिट्टकम् ।
एते द्वादशधा शोध्या मार्या द्राव्याः पुटादिषु
{मेतल्स्:: शोधन}
तैले तक्रे गवां मूत्रे ह्यारनाले कुलत्थके ।
क्रमात्प्राप्तं तथा तप्तं द्रावे द्रावे तु सप्तधा
स्वर्णादिलोहपत्राणां शुद्धिरेषा प्रकीर्तिता ।
{मेतल्स्:: मारण}
हेम्नः पादं मृतं सूतं पिष्टमम्लेन केनचित्
पत्रे लिप्त्वा पुटे पच्यादष्टाभिर्म्रियते ध्रुवम् ।
शुद्धानां सर्वलौहानां मारणे रीतिरीदृशी
{गोल्द्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
सौख्यं वीर्यं बलं हन्ति नानारोगं करोति च ।
अशुद्धं स्वर्णं सूतं च तस्माच्छुद्धं तु मारयेत्
{पञ्चमृत्तिकाः}
वल्मीकमृत्तिकाधूमगैरिकं चेष्टिकापुटे ।
{गोल्द्:: शोधन}
इत्याद्याः मृत्तिकाः पञ्च जम्बीरैर् आरनालकैः
पिष्ट्वा लेप्यं स्वर्णपत्रं श्रेष्ठं पुटेन शुध्यति ।
{गोल्द्:: शोधन}
भावयेन्मातुलुङ्गाम्लैस्त्रिदिनं पञ्चमृत्तिका
सैन्धवं भूमिभस्मापि स्वर्णं शुध्यति पूर्ववत्
{सुब्स्तन्चेस् fओर् मारण ओf मेतल्स्}
नागैः सुवर्णं रजतं च ताप्यैर्गन्धेन ताम्रं शिलया च नागम् ।
तालेन वङ्गं त्रिविधं च लौहं नारीपयो हन्ति च हिंगुलेन
{गोल्द्:: मारण}
माक्षिकं नागचूर्णं च पिष्टमर्करसेन तु ।
हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः
{गोल्द्:: मारण}
स्वर्णार्धं पारदं दत्त्वा कुर्याद्यत्नेन पिष्टिकाम् ।
दत्त्वोर्ध्वाधो नागचूर्णं पुटनान्म्रियते ध्रुवम्
{गोल्द्:: मारण}
नागचूर्णं शिलां वज्रीक्षीरेण परियसितम् ।
तेनालिप्य सुवर्णस्य कल्कश्च म्रियते पुटात्
{गोल्द्:: मारण}
मृतं नागं स्नुहीक्षीरैरथवाम्लेन केनचित् ।
पिष्ट्वा लेप्यं सुवर्णपत्रं रुद्ध्वा गजपुटे पचेत्
आदाय पेषयेदम्लैर् मृन्नागं चाष्टमांशकम् ।
बद्ध्वा गजपुटे पच्यात् पूर्वनागयुतं युतम्
एवं पुनः पुनः पच्यादष्टधा म्रियते ध्रुवम् ।
{गोल्द्:: मारण:: निरुत्थ}
शुद्धसूतसमं गन्धं माक्षिकं च महाम्लकैः
अष्टाभिश्च पुटैर्हेम्नो म्रियते पूर्ववत्क्रियाम् ।
शुद्धसूतं समं स्वर्णं खल्वे कुर्याच्च गोलकम्
अधो वै गन्धकं दत्त्वा सर्वं तुल्यं निरुध्य च ।
त्रिंशद्वनोपलैर्देयं पुटान्येवं चतुर्दश
निरुत्थं जायते भस्म गन्धं देयं पुटे पुटे ।
{गोल्द्:: मारण:: निरुत्थ}
स्वर्णस्य द्विगुणं सूतं याममम्लेन मर्दयेत्
अधः ऊर्ध्वं माक्षिकं पिष्ट्वा मूषायां स्वर्णतुल्यकम् ।
तत्पृष्ठे मर्दितं हेम तत्पृष्ठे हेममाक्षिकम्
देयं स्वर्णं समं तच्च पृष्ठे गन्धं च तत्समम् ।
षड्वारं चूर्णितं दत्त्वा रुद्ध्वा मूषां धमेद्दृढम्
स्वभावशीतलं ग्राह्यं तद्भस्म भागपञ्चकम् ।
टंकणं श्वेतकाचं च भागैकं च प्रयोजयेत्
त्रितयं मधुनाज्येन मिलितं गोलकीकृतम् ।
धान्याभ्रकस्य भागैकम् अधश्चोर्ध्वं च दापयेत्
निरुध्य तद्धमेद्गाढं मूषायां घटिकाद्वयम् ।
निरुत्थं जायते भस्म तत्तद्योगेषु योजयेत्
{गोल्द्:: मारण:: निरुत्थ}
शुद्धमाक्षिकं भागैकं भागं चावोटमाक्षिकम् ।
त्रिभागं सूतकं क्षिप्त्वा त्रयमम्लेन मर्दयेत्
तद्गोलं पातालयन्त्रे तदा यामत्रयं पचेत् ।
इत्येवं म्रियते स्वर्णं निरुत्थं नात्र संशयः
{गोल्द्:: मारण}
तथैव च राजवृक्षभल्लातैष्टंकणेन च ।
लिप्त्वा स्वर्णस्य पत्राणि रुद्ध्वा गजपुटे पचेत्
तैः द्रवैश्च पुनः पिष्ट्वा म्रियते सप्तधा पुटे ।
हेममारभ्य तोलैकं माषैकं शुद्धनागकम्
लिप्त्वा देयं तु तं चूर्णं तच्छुद्धैर्गन्धमाक्षिकैः ।
अम्लेन मर्दयेद्यामं रुद्ध्वा लघुपुटे पचेत्
गन्धं पुनः पुनर्देयं म्रियते दशभिः पुटैः ।
{गोल्द्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
सुवर्णं च भवेच्छीतं तिक्तं स्निग्धं हिमं गुरु
बुद्धिविद्यास्मृतिकरं विषहारि रसायनम्
{सिल्वेर्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
आयुः शुक्रं बलं हन्ति रोगवेगं करोति च ।
अशुद्धममृतं तारं शुद्धं मार्यमतो बुधैः
{सिल्वेर्:: शोधन}
नागेन टङ्कणेनैव द्रावितं शुद्धिम् ऋच्छति ।
{सिल्वेर्:: मारण}
माक्षिकं गन्धकं चैवमर्कक्षीरेण मर्दयेत्
तेन लिप्तं रूप्यपत्रं पुटेन म्रियते ध्रुवम् ।
{सिल्वेर्:: मारण}
तारं त्रिवारं निक्षिप्तं तैले ज्योतिष्मती भवेत्
स्नुक्क्षीरैः पेषयेत्ताम्रं तारपत्राणि लेपयेत् ।
रुद्ध्वा गजपुटे पच्यात् पूर्वोक्तैः पेषयेत्पुनः
भूधात्री माक्षिकं तुल्यं पिप्पली सैन्धवाम्लकैः ।
लिप्त्वा तारस्य पत्राणि रुद्ध्वा सप्तपुटे पचेत्
द्रवैः पुनः पुनः पिष्ट्वा म्रियते नात्र संशयः ।
{सिल्वेर्:: मारण:: निरुत्थ}
तारपत्रैस्त्रिभिर् भागैर् भागैकं शुद्धमाक्षिकम्
मर्द्यं जम्बीरजैर्द्रावैस्तारपत्राणि लेपयेत् ।
शोषयेदन्धयेत् तं च त्रिंशद्वन्योपलैः पचेत्
चतुर्दशपुटेनैवं निरुत्थं म्रियते ध्रुवम् ।
{सिल्वेर्:: मारण}
रूप्यपत्रं चतुर्भागाद्भागैकं मृतवङ्गकम्
अथवा गन्धतालेन लेप्यं जम्बीरपेषितम् ।
रुद्ध्वा त्रिःपुटैः पच्यात् पञ्चविंशद्वनोपलैः
म्रियते नात्र संदेहो गन्धो देयः पुटे पुटे ।
{सिल्वेर्:: मारण}
रसगन्धौ समौ कृत्वा काकतुण्डस्य मूलकम्
मर्दयेन्महिषीक्षीरैः पिष्ट्वा तं क्षालयेज्जलैः ।
हरिद्रागोलके क्षिप्त्वा गोलं हयपुरीषके
क्षिप्त्वा दिनैकविंशं तं तद्गोलमुद्धरेत् पुनः ।
तत्पिष्ट्वा तारपत्राणि लेप्यान्यम्लेन केनचित्
पुटैर् विंशतिभिर्भस्म जायते नात्र संशयः ।
भस्मना चाम्लपिष्टेन मेलयेत्तालकं पुटैः
जायते तद्विधानेन सर्वरोगापहारकम्
{चोप्पेर्:: अशुद्ध:: मेदिच्. प्रोपेर्तिएस्}
अपक्वताम्रम् आयुर्घ्नं कान्तिघ्नं सर्वधातुहा ।
भ्रान्तिमूर्च्छाभ्रमोत्केशं नानारुक्कुष्ठशूलकृत्
{चोप्पेर्:: शोधन}
स्नुह्यर्कक्षीरलवणकाञ्जिकैस् ताम्रपत्रकम् लिप्त्वा ।
प्रताप्यं निर्गुण्डीरसैः सिञ्च्यात्पुनः पुनः
वारद्वादशदाहत्वं लेपनात्ताम्रसिञ्चनात् ।
खटिका लवणं तक्रैर् आरनालैश्च पेषयेत्
तेन लिप्त्वा ताम्रपत्रं तप्तं तप्तं निषेचयेत् ।
षड्वारम् अम्लपिष्टेन निर्गुण्ड्यास्तु विशुद्धये
{चोप्पेर्:: शोधन}
गोमूत्रेण पचेत्ताम्रपत्रं यामं दृढाग्निना ।
शुध्यते नात्र सन्देहो मारणं कथ्यतेऽधुना
{चोप्पेर्:: मारण}
गन्धेन ताम्रतुल्येन ह्यम्लपिष्टेन लेपयेत् ।
कण्टकवेधीकृतं पत्रं सिद्धयित्वा पुटे पचेत्
उद्धृत्य चूर्णयेत् तस्मिन् पादांशं गन्धकं क्षिपेत् ।
जम्बीरैरारनालैर्वा मृगदूर्वाद्रवैस्तथा
पिष्ट्वा पिष्ट्वा पचेत्तद्वत् सगन्धं च चतुष्पुटे ।
मातुलङ्गरसैः पिष्ट्वा पुटमेकं प्रदापयेत्
अनेनैव विधानेन ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेर्:: मारण}
ताम्रस्य द्विगुणं सूतं जम्बीराम्लेन मर्दयेत्
सितशर्करयाप्येवं पुटत्रये मृतं भवेत् ।
{चोप्पेर्:: मारण}
पाषाणभेदीमत्स्याक्षीद्रवैर्द्विगुणगन्धकैः
ताम्रस्य लेपयेत्पत्रं रुद्ध्वा गजपुटे पचेत् ।
सप्तांशेन पुनर्दग्धं दत्त्वा द्रावैश्च पेषयेत्
एवं सप्तपुटे पक्वं ताम्रभस्म भवेद्ध्रुवम् ।
{चोप्पेर्:: मारण}
ताम्रस्य हिङ्गुलं सूतं जम्बीराम्लेन पेषयेत्
आदौ मूषान्तरे क्षिप्त्वा धत्तूरस्य तु पत्रकम् ।
तत्पृष्ठे ताम्रतुल्यं तु गन्धकं चूर्णितं क्षिपेत्
तत्पृष्ठे मर्दितं ताम्रं पूर्वतुल्यं तु गन्धकम् ।
आच्छाद्य धुस्तूरपत्रे रुद्ध्वा गजपुटे पचेत्
स्वांगशीतं तु तच्चूर्णं भस्मीभवति निश्चितम् ।
{चोप्पेर्:: मारण}
किंचिद्गन्धेन चाम्लेन क्षालयेत्ताम्रपत्रकम्
तेन गन्धेन सूतेन ताम्रपत्रं प्रलेपयेत् ।
गन्धेन पुटितं पश्चान्म्रियते नात्र संशयः
{चोप्पेर्:: मारण}
ताम्रद्विगुणगन्धेन चाम्लपिष्टेन तत्पुनः ।
क्षिप्त्वा ह्यधोऽर्धभागेन देया पिष्टाम्लकैर्बुधः
तत्पिण्डं भाण्डगर्भे तु रुद्ध्वा चुल्यां विपाचयेत् ।
यामैकं तीव्रपाकेन भस्मीभवति निश्चितम्
{चोप्पेर्:: मारण}
सूतमेकं द्विधा गन्धं यामं कृत्वा विमर्दितम् ।
द्वयोस्तुल्यं ताम्रपत्रं स्थाल्यां गर्भे निधापयेत्
सम्यग्लवणयन्त्रस्थं पार्श्वे भस्म निधापयेत् ।
चतुर्यामं पचेच्चुल्ल्यां पात्रपृष्ठे सगोमयम्
जलं पुनः पुनर्देयं स्वाङ्गशैत्यं विचूर्णयेत् ।
म्रियते नात्र संदेहः सर्वरोगेषु योजयेत्
{चोप्पेर्:: मारण (शोधन?)}
नानाविधं मतं ताम्रं शुद्ध्यर्थं भागपञ्चकम् ।
भागैकं श्वेतकाचं च भागपञ्चैकटंकणम्
मूषायां मिलितं कृत्वा भागैकं ताम्रपत्रकम् ।
ऊर्ध्वे दत्त्वा निरुद्ध्याय ध्मातैर्ग्राह्यं सुशीतलम्
निर्दोषं तु भवेत्ताम्रं सर्वरोगहरं भवेत् ।
{चोप्पेर्:: मृत:: मेदिच्. अप्प्लिचतिओन्}
अथवा मारितं ताम्रमम्लेनैकेन मर्दयेत्
तद्गोलं सूरणस्यान्तर् उर्ध्वारुद्ध्वा तु लेपयेत् ।
शुष्कं गजपुटे पच्यात् सर्वदोषहरो भवेत्
वान्तिं भ्रान्तिं विरेकं च न करोति कदाचन ।
{चोप्पेर्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
ताम्रं तीक्ष्णोष्णमधुरं कषायं शीतलं सरम्
कफपित्तक्षयं पाण्डुकुष्ठघ्नं च रसायनम् ।
परिणामशूलम् अर्शांसि मन्दाग्निं च विनाशयेत्
{तिन्, लेअद्:: अमृत:: मेदिच्. प्रोपेर्तिएस्}
पाकहीनौ नागवंगौ कुष्ठगुल्मरुजाकरौ ।
मेहपाण्डूदरवातकफमृत्युकरौ किल
{लेअद्:: शोधन}
निर्गुण्डीमूलचूर्णेन मार्कदुग्धेन लेपयेत् ।
नागपत्रं तु तं शुष्कं द्रावयित्वा निषेचयेत्
निर्गुण्डीद्रवमध्ये तु ततः पत्रं तु कारयेत् ।
लिप्त्वा भाव्यं पुनः सेच्यं सप्तवारं विशुद्धये
{लेअद्:: शोधन}
निशा तुम्बरुबीजानि कोकिलाक्षं कुठारिकाम् ।
गौरीफलाम्लिका चण्डी क्षुद्रा ब्राह्मी सजीरकम्
यथालाभेन भस्मैकं वज्रीक्षीरेण भावयेत् ।
तन्मध्ये भावितं नागं शुद्धं सेकं तु सप्तधा
{लेअद्:: मारण:: निरुत्थ}
अश्वत्थचिञ्चात्वग्भस्म नागस्य चतुरंशतः ।
क्षिप्त्वा चुल्ल्यां पचेत्पात्रे चालयेल्लोहचट्टके
यावद्भस्म भवेद् एतच्च भस्म तुल्यं मनःशिलाम् ।
जम्बीरैरारनालैर्वा पिष्ट्वा रुद्ध्वा पुटे पचेत्
स्वांगशीतं पुनः पिष्ट्वा विंशत्यंशैः शिलाम्लकैः ।
एवं षड्भिः पुटे पाको नागस्यापि निरुत्थितः
{लेअद्:: मारण}
अथवा नागपत्राणि चूर्णलिप्तानि खर्परे ।
अत्यग्नौ पाचयेद्यामं तद्भस्म चित्रकद्रवैः
भर्जयेल्लौहजे पात्रे चाल्यमर्जुनदण्डकैः ।
यामषोडशपर्यन्तं द्रवं देयं पुनः पुनः
दण्डेन मर्दयेत्क्वाथ्यम् उद्धृत्य चित्रकद्रवैः ।
गोलयित्वा निरुध्याथ षट्पुटे मारयेल्लघु
{लेअद्:: मारण}
चिञ्चाक्षमिक्षुभल्लातबलावज्रलताभवैः ।
अपामार्गार्जुनाश्वत्थभस्मभिर् भर्जयेद् दृढम्
लोहपात्रं तु सप्ताहं तुल्यं भस्मानि चाशु च ।
दण्डपलाशकेनैव म्रियते नात्र संशयः
{लेअद्:: मारण}
पिष्ट्वागस्तिं च भूनागं लिप्त्वा पात्रं विशोषयेत् ।
तद्भाण्डे द्रावयेद्यामं दृढे भाण्डे विनिक्षिपेत्
वासाचिर्चिटयोः क्षारे वासादले विघट्टयेत् ।
यामैकं पाचयेच्चुल्ल्यां समुद्धृत्य विमिश्रयेत्
तच्चूर्णं तु शिलाताप्यैर्वासकक्षारसंयुतैः ।
तत्तुल्यं पूर्वनागं विंशदेकपुटे पचेत्
द्विपुटं चिर्चिटाक्षारैः देयं वासारसैः सह ।
नागः सिन्दूरवर्णाभो म्रियते सर्वकार्यकृत्
{लेअद्:: मारण}
कुनटी माक्षिकं चैव समभागं तु कारयेत् ।
अर्कपर्णेन तत्पिष्ट्वा सीसपत्राणि मारयेत्
{लेअद्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
सतिक्तमधुरो नागो मृतो भवति भस्मसात् ।
आयुष्कीर्तिं वीर्यवृद्धिं करोति सेवनात्सदा
{तिन्:: मारण}
माक्षिकं हरितालं च पलाशस्वरसेन च ।
कृतकल्केन संलिप्य वंगपत्राणि मारयेत्
नागवच्छोधयेद् वङ्गं तद्वदश्वत्थचिंचयोः ।
तद्भस्म हरितालं च तुल्यमम्लेन केनचित्
पलाशोत्थद्रवैर्वाथ गोलयित्वान्धयेत्पुटे ।
उद्धृत्य दशमांशेन तालेन सह मर्दयेत्
पूर्वद्रावैः सहालोड्य रुद्ध्वा गजपुटे पचेत् ।
एवं विंशत्पुटे पक्त्वा मृतं भवति भस्मसात्
{तिन्:: मारण}
वङ्गपादेन सूतेन वङ्गपत्राणि लेपयेत् ।
चिञ्चावृक्षस्य संगृह्य चान्तश्छन्नं च तण्डुलैः
पिष्ट्वा तत्पिण्डमध्ये तु वङ्गपत्राणि लेपयेत् ।
शिरीषरजनीचूर्णैः कुमार्याः शुभगोलकम्
सूतलिप्तं वङ्गपत्रं गोलके समलेपितम् ।
रुद्ध्वा गजपुटे पक्वं पूर्वसंख्या मृतो भवेत्
{तिन्:: मारण}
अक्षभल्लातकं तोयैः पिष्ट्वा तानि विलेपयेत् ।
ततस्तिलखली मध्ये क्षिप्त्वा रुद्ध्वा पुटे पचेत्
गजाख्ये जायते भस्म चत्वारिंशतिवङ्गकम् ।
{तिन्:: मृत:: मेदिच्. प्रोपेर्तिएस्}
सतिक्तलवणं वङ्गं पाण्डुघ्नं क्रिमिमेहजित्
लेखिनं पित्तलं किंचित् सर्वदेहामयापहम्
मूल पाठ: Rasaratnākara · Edition: Vaidya Jadavji Tricumji Acarya Benares : Caukhamba Sanskrit Office, 1939 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0