रसप्रकाशसुधाकर · अध्याय 9
दिव्यौषधीनां नामानि कथ्यन्तेऽत्र मयाधुना
चतुःषष्टिमिताः सम्यग् रसबन्धकराः शुभाः
सोमवल्ली तथा सोभव् ऋक्षं सोमकला लता ॥
भूपद्मिनी गोनसा चेद् उच्चटा चेश्वरी लता
भूतकेशी कृष्णलता लशुनी च रुदन्तिका
वाराही सप्तपत्त्रा च नागिनी सर्पिणी तथा ॥
छत्त्रिणी चैव गोशृंगी ज्योतिर्नाम्नी च रक्तिका
पत्त्रवल्ली काकिनी च चाण्डाली ताम्रवल्लिका ॥
पीतवल्ली च विजया महौषध्यमरी लता
नवनीता रुद्रवल्ली लम्बिनी भूमितुम्बिका ॥
गान्धर्वी व्याघ्रपादी च गोमारी च त्रिशूलिनी
त्रिदण्डी करसी भृंग वल्ली चमरिका तथा ॥
करवल्ली लता चैव वज्राङ्गी चिरवल्ल्यपि
रोहिणी बिल्विनी भूत शोचनी चैव कथ्यते ॥
मार्कण्डी च करीरी च ह्य् अक्षरा कुटजा तथा
मूलकन्दाम्बुवल्ली च मुनिवल्ली च कीर्तिता ॥
घृतगन्धा निम्बुवल्ली तिलकन्दातसीतला
बोधवल्ली सत्त्वगन्धा कूर्मवल्ली च माधवी ॥
विशाला च महानागी मण्डूकी क्षीरगन्धिका
चतुःषष्टिरिति प्रोक्ता दिव्यौषध्यो महाबलाः ॥
एकैकाया रसेनापि सूतो बन्धत्वमाप्नुयात्
अनया साधितः सूतो जरादारिद्र्यनाशनः ॥
तास्तु लक्षणसंयुक्ताः सोमदेवेन भाषिताः
ग्रन्थविस्तरभीत्यात्र नाममात्रेण कीर्तिताः ॥
अतः परं रसौषध्यः प्रोच्यन्ते शास्त्रवर्त्मना
जलोत्पला चिञ्चिका च जलापामार्गमांसिके ॥
जलकुम्भी मेघनादा ईश्वरी चापराजिता
मालार्जुनी वेणुका च शिखिपादा च तिक्तिका ॥
काश्मर्यतिविषा प्रोक्ता समङ्गा जालिनी तथा
तुषम्बुका च दुर्गन्धा पाषाणी शुकनासिका ॥
वनमाली च वाराही गोजिह्वा मुसली तथा
पटोली शठिका मूर्वा पाटला जलमूलका ॥
रसाजमारी कथिता शिंशिका सितगन्धिका
पोतकी च विषघ्नी च बृहती गरुडी तथा ॥
तुलसी च विदारी च मञ्जिष्ठा चित्रपालिका
जलपिप्पलिका भार्ंगी मण्डूकी चोत्तमा तथा ॥
चन्द्रोदका सारिवा च हरिणी कुक्कुटापि च
सर्पाक्षी हंसपादी च वनकुष्माण्डवल्लिका ॥
मर्कस्फोटी धन्वयासः पागवः स्थलसारिणी
अर्धचन्द्रा हेमपुष्पी मोहिनी वज्रकन्दिका ॥
अलम्बुषा च हलिनी रसचित्रा च नन्दिनी
वृश्चिकाली गुडूची च वासा शृङ्गी च कथ्यते ॥
अष्टषष्टिरिति प्रोक्ता रसौषध्यो महाबलाः
सूतस्य मारणे प्रोक्ता जारणे च नियामने ॥
अष्टषष्टिर् महौषध्यः प्रोच्यन्ते रसशास्त्रतः
ऋद्धिः शोषिण्यधोगुप्ता श्रावणी सारिवा तथा ॥
ज्योतिष्मती तेजवती रास्ना बाकुची बिम्बिका
विषाणिका चाश्वगन्धा वर्षाभूः शरपुष्पिका ॥
बला चातिबला नाग बला दन्ती महाबला
द्रवन्ती नीलिनी चैव शतपुष्पा प्रसारणी ॥
वरा शतावरी चैला हपुषा सातला त्रिवृत्
स्वर्णक्षीरी तुगा पृथ्वी विशाला नलिकामली ॥
इन्द्रवारुणिकाकाह्वे सिन्दुवारोऽजमोदिका
त्रायमाणासुरी शंख पुष्पी च गिरिकर्णिका ॥
धातकी कदली दूर्वा अम्लिका कासमर्दिका
जन्तुपादी च निर्गुण्डी द्राक्षा नीलोत्पलं शमी ॥
नालिकेरी च खर्जूरी फल्गुः शिंशी च मल्लिका
वार्षिकी शाल्मली जाती ग्रीष्मवर्षा तु यूथिका ॥
केकिचूडाजगन्धा च लक्ष्मणा तरुणीति च
अष्टषष्टिरिति प्रोक्ता महौषध्यो महाबलाः ॥
अथेदानीं प्रवक्ष्यामि सिद्धौषध्यो रसाधिकाः
देवीलता कालवर्णी विजयासुरी सिंहिका ॥
पालाशतिलका क्षेत्री संवीरा ताम्रवल्लिका
नाही कन्या तथा सोम राजिका च टुटुम्भटी ॥
कुबेराक्षी गृध्रनखी पर्पटी छिद्रलम्बिका
क्षुत्कारी दुग्धिका भृंगी गङ्गेटी शरपुङ्खिका ॥
अष्टावल्ली राजशमी पनसी च जयन्तिका
विषखर्परिकावन्ती काकाण्डोलाम्बुमूलिका ॥
सिद्धेश्वरी हंसपादी खोटका शृङ्गरीटिका
अधःपुष्पी मधुराख्या शृङ्खला गृञ्जनीति च ॥
जारावली महाराष्ट्री सहदेवेश्वरी तथा
काष्ठगोधामती देव गान्धारी रजनीङ्गुदी ॥
पलाशिनी नाकुली च काम्बोजिकाश्विनी तथा
चक्रवल्ली सर्पदंष्ट्रा शल्लकी रोहिता तथा ॥
तौवरी वङ्गजा राज पद्मा जम्बीरवल्लिका
गजपिप्पलिका भृंग वल्ली चैवार्कवल्लिका ॥
जन्तुकारी शिग्रुवल्ली करवीरा शिवाटिका
नाराची काञ्चनी चाज गन्धा सूतेन्द्रसिद्धिदाः ॥
अष्टषष्टिरिति प्रोक्ताः सिद्धौषध्यो रसाधिकाः
सर्वकार्यकरा देह लोहसिद्धिप्रदायकाः ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0