भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 10

10.1

अथ यन्त्राणि वक्ष्यन्ते पारदो येन यन्त्र्यते
तस्माद्यन्त्रस्य रूपाणि दर्शनीयानि शास्त्रतः ॥

10.2

दोला पलभलीयन्त्रम् ऊर्ध्वपातनकं च यत्
अधःपातनकं चापि तिर्यक्पातनकं तथा ॥

10.3

घटीयन्त्रं गर्भयन्त्रम् इष्टिका जलयन्त्रकम्
खल्वं डमरुकाख्यं च चिपिटाख्यं तुलाभिधम् ॥

10.4

लवणं कोष्ठिकासंज्ञम् अन्तरालिकसंज्ञितम्
धूपयन्त्रं नाभियन्त्रं ग्रस्तयन्त्रं तथैव च ॥

10.5

विद्याधरं कुण्डकं च ढेकीसंज्ञम् उदाहृतम्
सोमानलं च निगडं किंनरं भैरवाभिधम् ॥

10.6

वालुकानामकं चापि पातालं भूधराभिधम्
सारणायन्त्रकं गुह्यं गन्धपिष्टकयन्त्रकम् ॥

10.7

कूपीयन्त्रं पालिकाख्यं दीपिकायन्त्रकं तथा
स्थालीयन्त्रं भस्मयंत्रं देगयन्त्रमुदीरितम् ॥

10.8

घाणिकायन्त्रमुद्दिष्टं हंसपाकाभिधं तथा
ऊनचत्वारिंशदत्र यन्त्राण्युक्तानि नामतः ॥

10.9

अथ मूषाश्च कथ्यन्ते मृत्तिकाभेदतः क्रमात्
मूषा कुमुदिका प्रोक्ता कोविका करहाटिका ॥

10.10

पातिनी कथ्यते सैव वह्निमित्रा प्रकीर्तिता
तुषभस्मयुता मृत्स्ना वाल्मिकी बिडसंयुता ॥

10.11

तया या रचिता मूषा योगमूषेति कथ्यते
गारभूनागसत्वाभ्यां शणैर्दग्धतुषैस्तथा ॥

10.12

मर्दिता महिषीक्षीरे मृत्तिका पक्षमात्रकम्
तन्मृदा रचिता मूषा गारमूषेति कथ्यते ॥

10.13

वस्त्रांगारतुषास् तुल्यास् तच्चतुर्गुणमृत्तिका
भूनागमृत्तिका तुल्या सर्वैरेभिर्विमर्दिता
कथिता वरमूषा सा यामं वह्निं सहेत वै ॥

10.14

पूर्वोक्ता मृत्तिका या तु रक्तवर्गांबुभाविता
रक्तवर्गयुता मृत्स्ना कारिता मूषिका शुभा ॥

10.15

तुरीपुष्पकसीसाभ्यां लेपिता सा च मूषिका
वर्णोत्कर्षे प्रयोक्तव्या वर्णमूषेति कथ्यते ॥

10.16

श्वेतवर्गेण वै लिप्ता रूप्यमूषा प्रकीर्तिता ॥

10.17

विडेन रचिता या तु विडेनैव प्रलेपिता
देहलोहार्थसिद्ध्यर्थं विडमूषेत्युदाहृता ॥

10.18

गारभूनागसत्त्वाभ्यां तुषमिश्रा शणेन च
मृत्समा महिषीक्षीरैर् दिवसत्रयमर्दिता ॥

10.19

संस्थिता पक्षमात्रं हि पश्चान्मूषा कृता तया
लेपिता मत्कुणस्याथ शोणितेन बलारसैः ॥

10.20

चतुर्यामं ध्मापिता हि द्रवते नैव वह्निना
वज्रमूषेति कथिता वज्रद्रावणहेतवे ॥

10.21

वृन्ताकाकारमूषायां नालं कृत्वा दशांगुलम्
धत्तूरपुष्पवद्दीर्घं सुदृढं चैव कारयेत् ॥

10.22

अष्टांगुलं च सच्छिद्रं भवेद् वृन्ताकमूषिका
अनया खर्परादीनां मृदूनां सत्त्वम् आहरेत् ॥

10.23

गोस्तनाकारमूषा या मुखोपरि विमुद्रिता
सत्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥

10.24

निर्दिष्टा मल्लमूषा या मल्लद्वितयसंपुटात्
रसपर्पटिकादीनां स्वेदनाय प्रकीर्तिता ॥

10.25*

पक्वमूषा कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥

10.26

अतिस्थूलातिदीर्घा च मुखे किंचिच्च विस्तृता
महामूषेति सा प्रोक्ता सत्वरद्रव्यशोधिनी ॥

10.27

षडंगुलोन्नता दीर्घा चतुरस्रा च निम्नका
मञ्जूषाकारमूषा सा कथिता रसमारणे ॥

10.28

भूमौ निखन्यमानां हि मूषामाच्छाद्य वालुकैः
गर्भमूषा तु सा ज्ञेया पारदस्य निबन्धिनी ॥

10.29

मूषा या चिपिटा मूले वर्तुलाष्टांगुलोच्छ्रया
मूषा सा मुसलाख्या स्याच् चक्रीबद्धरसे हिता ॥

10.30

अंगारकोष्ठिका नाम राजहस्तप्रमाणका
द्वादशांगुलविस्तारा चतुरस्रा प्रकीर्तिता ॥

10.31

वेष्टिता मृण्मयेनाथ एकभित्तौ च गर्तकम्
वितस्तिमात्रं द्वारं च सार्धवैतस्तिकं दृढम् ॥

10.32

अधोभागे विधातव्या देहली धमनाय वै
प्रादेशमात्रा भित्तिः स्याद् उत्तरङ्गस्य चोर्ध्वतः ॥

10.33

प्रादेशमात्रं कर्तव्यं द्वारं तस्योपरि ध्रुवम्
द्वारं चेष्टिकया रुद्ध्वा संधिरोधं च कारयेत् ॥

10.34

पूरयेत्कोकिलैस्तां तु भस्त्रिकां प्रधमेत्खलु
कोकिलाधमनद्रव्यम् ऊर्ध्वद्वारे विनिक्षिपेत् ॥

10.35

एषा चांगारकोष्ठी च खराणां सत्त्वपातनी ॥

10.36

गर्तं खनेद् दृढं भूमौ द्वादशांगुलमात्रकम्
तन्मध्ये वर्तुलं गर्तं चतुरङ्गुलकं दृढम् ॥

10.37

खर्परं स्थापयेत्तत्र मध्यगर्तोपरि दृढम्
आपूर्य कोकिलैर् गर्तं प्रधमेदेकभस्त्रया
पातालकोष्ठिका सा तु मृदुसत्त्वस्य पातनी ॥

10.38

वितस्तिप्रमिता निम्ना प्रादेशप्रमिता तथा
उपरिष्टात् पिधानं तु भूरिच्छिद्रसमन्वितम् ॥

10.39

गर्तमापूर्य चांगारैः प्रधमेद्वंकनालतः
गारगोष्ठी समुद्दिष्टा सत्वपातनहेतवे ॥

10.40

वितस्तिप्रमितोत्सेधा सा बुध्ने चतुरंगुला
तिर्यक्प्रधमनाख्या च मृदुसत्वस्य पातनी ॥

10.41

भूम्यां वै खनयेद्गर्तं द्विहस्तं चतुरस्रकम्
छगणानां सहस्रेण पूरयेत्तमनन्तरम् ॥

10.42

औषधं धारयेन्मध्ये तमाच्छाद्य वनोत्पलैः
सहस्रार्धैश्च वै सम्यग् वह्निं प्रज्वालयेत्ततः ॥

10.43

महापुटमिदं प्रोक्तं ग्रन्थकारेण निर्मितम् ॥

10.44

राजहस्तप्रमाणं हि चतुरस्रं हि गर्तकम्
वनोत्पलसहस्रेण गर्तमध्यं च पूरितम् ॥

10.45

मूषिकां चौषधेनाथ पूरितां तां तु मुद्रयेत्
गर्तमध्ये निधायाथ गिरिण्डानि च निक्षिपेत्
अधोऽग्निं ज्वालयेत्सम्यक् एवं गजपुटो भवेत् ॥

10.46

अरत्निमात्रे कुण्डे च वाराहपुटमुच्यते
वितस्तिद्वयमानेन गर्तं चेच्चतुरस्रकम्
कुक्कुटाख्यं पुटं विद्याद् औषधानां च साधनम् ॥

10.47

छगणैरष्टभिः सम्यक् कपोतपुटमुच्यते ॥

10.48

तुषैर्वा गोमयैर्वापि रसभस्मप्रसाधनम्
माणिकाद्वयमानेन गोवरं पुटमुच्यते ॥

10.49

मृदा भाण्डं प्रपूर्यैव मध्ये द्रव्यं तु विन्यसेत्
अधस्ताज्ज्वालयेदग्निं मृद्भाण्डपुटमुच्यते ॥

10.50

गर्ते तु वालुकापूर्णे मध्ये द्रव्यं तु विन्यसेत्
उपरिष्टादधस्ताच्च वह्निं कुर्यात्प्रयत्नतः
तद्वालुकापुटं सम्यग् उच्यते शास्त्रकोविदैः ॥

10.51

मूषिकां भूमिमध्ये तु स्थापितां द्व्यंगुलाद् अधः
उपरिष्टात्पुटं दद्यात् तत्पुटं भूधराह्वयम् ॥

10.52

गोवरैर्वा तुषैर्वापि कर्षमात्रमितैः पुटम्
यत्र तल्लावकाख्यं स्यान् मृदुद्रव्यस्य साधने ॥

10.53

उत्पलं पिष्टकं छाणम् उपलं च गरिण्डकम्
छगणोपलसारी च नवारि छगणाभिधाः ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc