भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 8

8.1

भवति गदगणानां नाशनं येन सद्यो विविधरसविधानं कथ्यते ऽत्रैव सम्यक्
रसनिगमसुधाब्धौ मथ्यमाने मयैव गणितरसशतानां संग्रहः प्रोच्यते वै ॥

8.2

सुखण्डितं हारिणजं विषाणं रसेन पाच्यं जलजंबुकस्य
रुद्ध्वाथ भाण्डे विपचेच्च चुल्ल्यां यामद्वयं शीतगतं समुद्धरेत् ॥

8.3

ततोऽष्टभागं त्रिकटुं नियोज्य निष्कप्रमाणं च भजेत्प्रभाते
तं नागवल्लीदलजेन सार्धं निहन्ति वातोद्भवकं ज्वरं च ॥

8.4

सूतगंधविषकारवीकणा दन्तिबीजमिति वर्धितैः क्रमात्
मर्दितैश्च दशनिंबुकद्रवै रक्तिकार्धतुलिता वटी कृता
भक्षिता ज्वरगणान् निहन्त्ययं रेचनो ज्वरहरोऽयम् अङ्कुशः ॥

8.5*

एक एव कथितस्तु सोऽमलः स्वेदितोऽपि सह चूर्णजलेन ।
यामपूर्वमपि रक्तिकामितो भक्षितः सकलशीतजूर्तिहृत् ॥

8.6

पारदं रसकगंधतालकं तुत्थटंकणयुतं सुशोधितम्
मर्दयेच्च सममात्रमेकतः कारवेल्लजरसैर्दिनं तथा ॥

8.7

लेपयेच्च रविभाजनोदरे चांगुलार्धमपि मानमेव हि
ताम्रभाजनमुखं निरुध्य वै तं पचेत्सिकतयंत्रमध्यतः ॥

8.8

धान्यकान्युपरि मुञ्चितानि चेत् संस्फुटन्ति यदि शुद्धमुच्यते
जायतेऽतिरुचिरो ज्वरारिकः सेवितो ज्वरगणापहारकः ॥

8.9

माषमात्रमुषणैः समैः सदा पर्णखण्डसहितैश्च भक्षितः
नाशयेद्धि विषमोद्भवान् ज्वरान् अन्धकारमिव भास्करोदयः ॥

8.10

तालताम्ररसगंधतुत्थकान् शाणमात्रतुलितान् समस्तकान्
निष्कमात्ररुचिरां मनःशिलां मर्दयेत् त्रिफलकाम्बुभिर्दृढम् ॥

8.11

गोलमस्य च विधाय संपुटे पाचयेच्च पुटपाकयोगतः
अर्कवज्रिपयसा सुभावयेत् सप्तवारमथ दन्तिकाशृतैः ॥

8.12

माषमात्ररस एष भक्षितः शाणमानमरिचैर्युतो यदा
सार्धनिष्ककगुडेन योजितः सौरसैर्द्विदशपत्रकैर्युतः ॥

8.13

शीतपूर्वमथ दाहपूर्वकं द्व्याहिकं च सकलान् ज्वरानपि
नाशयेद्धि तरुणज्वरारिकः सर्वदोषशमनः सुखावहः ॥

8.14

भागैकः स्यात्पारदः शोधितश्च एलीयः स्यात्पिप्पली श्रेयसी च
आकल्लो वै गंधकः सार्षपेण तैलेनाथो शोधितो बुद्धिमद्भिः ॥

8.15

तुर्यान्भागानिन्द्रवल्लीफलानां कृत्वा चूर्णं शोषयेत्सूर्यतापे
चूर्णं चैतद् भावयेत्तद्रसेन माषैस्तुल्यां कारयेत्तद्वटीं च ॥

8.16

दत्त्वा चैकां जातसद्योज्वराय छिन्नाङ्गायाः क्वाथपानं विधेयम्
दोषोद्भूतं सन्निपातोद्भवां च जूर्तिं सम्यङ् नाशयत्याशु तीव्राम् ॥

8.17

शुद्धः सूतो गंधको वत्सनाभः प्रत्येकं वै शाणमात्रा विधेया
धूर्ताद्बीजं कारयेद्वै त्रिशणं सर्वेभ्यो वै द्वैगुणा हेमदुग्धा ॥

8.18

सूक्ष्मं चूर्णं कारयेत्तत्प्रयत्नाद् देयं गुंजायुग्ममानं च सम्यक्
खादेदार्द्रं चानुपाने ज्वरार्तः सद्यो हन्यात्सर्वदोषोत्थजूर्तिम् ॥

8.19

सूतं गंधं हिङ्गुलं दंतिबीजं भागैर्वृद्धं कारयेच्च क्रमेण
चूर्णं कृत्वा मर्दितं दंतितोयैर् गुंजामात्रो भक्षितश्चेज्ज्वरारिः ॥

8.20

एकं भागं वत्सनाभं च कुर्याद् द्वौ भागौ चेट् टङ्कणं दंतिबीजम्
त्रीण्येवैते हिंगुलस्यापि तुर्यः सद्यो जूर्तिं नाशयत्येव सूर्यः ॥

8.21

शुद्धं सूतं भागमेकं तु तालाद् द्वौ भागौ चेद्वेदसंख्याः शिलायाः
ताम्रस्यैवं भागयुग्मं प्रकुर्याद् भल्लातं वा वेदभागं तथैव ॥

8.22

अर्कक्षीरैर्भावयेच्च त्रिवारं कृत्वा चूर्णं कारयेद्गोलकं तत्
स्थालीमध्ये स्थापितं तच्च गोलं दत्त्वा मुद्रां भस्मना सैंधवेन ॥

8.23

धूम्रस्यैवं रोधनं च प्रकुर्याच् छाणैर्दद्यात्स्वेदनं मन्दवह्नौ
पश्चात्तोयेनैव भाव्यं च चूर्णं गोलं कृत्वा मंदवह्नौ विपाच्य ॥

8.24

पश्चादेनं भक्षयेद्वै रसेन्द्रं वल्लं चैकं शर्कराचूर्णमिश्रम् ॥

8.25

तद्वत्कृष्णामाक्षिकेणैव जूर्तिं हन्यादेतत्सर्वदोषोत्थितां वै ॥

8.26

अथातीसारशमनान् रसान् संकथयामि वै
भक्षिताश्चैव ये नित्यं सद्यः प्रत्ययकारकाः ॥

8.27

शुद्धं सूतं गंधकं वै समांशं चित्रोन्मत्तैर् मर्दयेद्वासरैकम्
चूर्णैरेतैः शंखमापूरितं वै भाण्डे स्थाप्यं मुद्रितव्यं प्रयत्नात् ॥

8.28

तस्याधस्ताद् अष्टयामं प्रकुर्याद् वह्निं शीते कर्षमात्रं विषं हि
दत्त्वा घर्मे त्रीणि चाथो पुटानि दद्यात्तद्वत् कन्यकाया रसेन ॥

8.29

वल्लं योज्यं जीरकेणाथ भृंग्या क्षौद्रैर्युक्तं भक्षितं संग्रहण्याम्
श्वासे शूले चानिले श्लेष्मजे वा कासेऽर्शःसु विड्ग्रहे चातिसारे ॥

8.30

सौभाग्यं वै हिंगुलं वत्सनाभं मारीचं वै हेमबीजेन युक्तम्
कृत्वा चूर्णं सर्वमेतत्समांशं जम्बीरैस् तन्मर्दितं यामयुग्मम्
गुंजामात्रा निर्मिता भक्षिता हि गुट्यो हन्युः सन्निपातातिसारान् ॥

8.31

जातीपत्त्री देवपुष्पं च शुण्ठी कङ्कोल्लं चेच् चंदनं कुंकुमं च
कृष्णायुक्तं शुद्धमाकल्लकं स्यात् सर्वाण्येवं चूर्णयेद्वै समानि ॥

8.32

सूतस्यैवं भस्म मिश्रं प्रकुर्याद् भागं चैकं मिश्रयेन्नागफेनम्
खल्वे सर्वं मर्दितं चैकयामं कार्या गोली वल्लमात्रा जलेन ॥

8.33

भक्षेद्रात्रौ पाययेत्तंडुलोदं हन्यात् सर्वान् सर्वदोषातिसारान् ॥

8.34

मारीचं चेट् टंकणं हिंगुलं च गंधाश्मा वै पिप्पली वत्सनाभम्
धूर्तस्यैवं बीजकानीह शुद्धान्य् एवं कृत्वा तच्च चूर्णं विधेयम् ॥

8.35

प्रातः सायं भक्षितं वल्लमात्रं जूर्तिं रक्तं नाशयेच्चातिसारम्
दध्यन्नं वा भोजयेत्तक्रयुक्तं हन्याद् एवं चाग्निमान्द्यं सुतीव्रम् ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc