रसप्रकाशसुधाकर · अध्याय 7
माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम्
वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥
सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम्
दाने रसायने चैव धारणे देवतार्चने ॥
पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम्
द्वितीयं नीलगन्धि स्याद् घनं रक्तं सुशोभनम् ॥
महच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम्
समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥
गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि
माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥
माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु
कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥
संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च
भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥
ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम्
स्निग्धं तौल्ये गौरवं चेन्महत्तल् लिंगैरेतैर् लक्षितं तच्च शुद्धम् ॥
रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च
क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभिः ॥
कासं श्वासं वह्निमांद्यं क्षयं च हन्याद् वृष्यं बृंहणं पित्तहारि
दाहश्लेष्मोन्मादवातादिरोगान् हन्यादेवं सेवितं सर्वकाले ॥
स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम्
ख्यातं सद्भिः सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥
रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम्
दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर् भक्षणे धारणे च ॥
पित्तास्रघ्नं श्वासकासादिरोगान् हन्याद् एवं दुर्निवारं विषं च
भूतोन्मादान् नेत्ररोगान् निहन्यात् सद्यः कुर्याद्दीपनं पाचनं च ॥
तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रैः शुद्धं भारवद्रश्मियुक्तम्
एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥
नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम्
दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥
शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥
स्वच्छं स्थूलं पुष्परागं गुरु स्यात् स्निग्धं वर्णे कर्णिकारप्रसूनम्
तच्चावक्रं मसृणं कोमलं च लिंगैरेतैः शोभनं पुष्परागम् ॥
रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम्
दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्यः ॥
कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम्
दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यैः ॥
सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम्
नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥
पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद् वीर्यात् पाकतश्च प्रभावात्
तेषां वर्णा जातयश्च प्रभेदाः कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥
श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधैः ।
स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णाः ॥
पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेद् इन्द्रचापेन तुल्यम्
अष्टौ चेत्स्युः फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥
स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च
कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥
स्त्री पुमान् नो स्त्री पुमान् यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे
व्यत्यासाद्वै नैव दत्तं फलं तद् दद्याद् वज्रं वा विना तत्पुमांसम् ॥
वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम्
न्यायश्चायं भैरवेण प्रदिष्टः सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥
यामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये
सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥
सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च
छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥
ध्मातं पुनर्ध्माय शतं हि वारान् क्वाथे कुलत्थस्य हि निक्षिपेच्च ।
संपेषयेत्तं हि शिलातलेन मनःशिलाभिः सह कारयेद्वटीम् ॥
क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् ।
वारान् शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥
वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च ।
श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्युः कथितो हि सम्यक् ॥
कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर् विलेपितम् ।
स्वेदितं च भिदुरं हि सप्तभिर्वासरैः परिनिषेच्य मूत्रके ॥
ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विदः ।
नीलज्वालावीरुधः कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥
वज्रं याति स्वैरवह्निप्रदानात् पिष्टैश्चापि क्षोणिनागैः प्रलिप्तम्
विंशद्वारान् संपुटेच्च प्रयत्नाद् आरण्यैर्वा गोमयैस्तद्धठाग्नौ
वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥
आयुःप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव
रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥
भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना
ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥
भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम्
वज्रस्य भूतिः किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥
वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम्
अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥
अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत्
वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेयाः ॥
षाड्गुण्यसंसिद्धिम् उपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥
इन्द्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम्
कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरैः
कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥
एकच्छायं स्निग्धवर्णं गुरु स्यात् स्वच्छं मध्ये चोल्लसत्कांतियुक्तम्
नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैर् एतैर् लिङ्गैर् लक्षितं चोत्तमं हि ॥
निर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च
प्रोक्तं वै तद्वारिनीलं भिषग्भिर् एतैर्लिंगैः सप्तभिः क्षेपणीयम् ॥
संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम्
दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥
गोमेदकं रत्नवरं प्रशस्तं गोमेदवद् रागयुतं प्रचक्षते
सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥
दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च
एभिर् लिङ्गैर्लक्षितं वै गरीयः सर्वास्वेतद्योजनीयं क्रियासु ॥
विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन
निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥
गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च
संदीपनं पाचनमेव रुच्यम् अत्यंतबुद्धिप्रविबोधनं च ॥
स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा
यज्ञोपवीतोपमशुद्धरेषास् तिस्रश्च संदर्शयतीह शुभ्राः ॥
कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छविः
रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥
रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम्
पित्तरोगमलमोचनं सदा धारयेच्च मतिमान् सुखावहम् ॥
घर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता
सर्वेषु रत्नेषु च पञ्चदोषाः साधारणास्ते कथिता मुनीन्द्रैः ॥
ये क्षेत्रतोयप्रभवाश्च दोषाः सर्वेषु रत्नेषु गलन्ति सम्यक् ॥
तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात्
अम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकायाः स्वरसेन मौक्तिकम् ॥
क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस् तार्क्ष्यमुपैति शुद्धिम्
धान्यस्याम्लैः पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥
नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन
वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥
तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु
वज्रवर्ज्यमपि चाष्टभिः पुटै रत्नभस्म भवतीति निश्चितम् ॥
रामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम्
चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥
चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका
अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥
गोलमस्य च विधाय निक्षिपेद् रत्नजातिषु वराणि पेषयेत्
भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य मूत्रतः ॥
वस्त्रेण संवेष्ट्य ततः प्रयत्नाद् दोलाख्ययंत्रेऽथ निवेश्य गोलकम् ।
सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥
दिनत्रयं स्वेदनकं विधेयम् आहृत्य तस्माद्वरगोलकं हि
संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥
वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक्
लोहस्य वेधं प्रकरोति सम्यक् सूतेन सम्यङ्मिलनं प्रयाति ॥
तदा भवेयुः खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक्
यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यैः ॥
कस्यापि नुः सिध्यति वै द्रुतिश्च यदा प्रसन्नः खलु पार्वतीशः
न स्याद्यावद् भैरवस्य प्रसादस् तावत्सूते बन्धनं दुर्लभं हि
तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥
रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुतेः पातनम्
सर्वेषां हि परीक्षणं च द्रुतयः सम्मेलनं वै रसे अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0