रसप्रकाशसुधाकर · अध्याय 6
तालकं तुवरी गंधं कंकुष्ठं कुनटी तथा
सौवीरं गैरिकं चैवम् अष्टमं खेचराह्वयम् ॥
तालकं द्विविधं प्रोक्तं दलाख्यं चाश्मसंज्ञितम्
सूक्ष्मपत्रं हेमवर्णं गुरु स्निग्धं च भासुरम् ॥
दलाख्यं तालकं तच्च बहुसत्वं रसायनम्
निष्पत्रं चाश्मसदृशं किंचित्सत्वं तथागुरु ॥
नारीणां पुष्पहृत् तत्तु कुपथ्यं चाश्मतालकम्
कुष्माण्डतोयसंस्विन्नं ततः क्षारजलेन वा
चूर्णतोयेन वा स्विन्नं दोलायंत्रेण शुध्यति ॥
कुलत्थक्वाथसौभाग्य माहिषाज्यमधुप्लुतम्
खल्वे क्षिप्त्वा च तत्तालं मर्दयेदेकवासरम् ॥
निस्तुषीकृत्य चैरण्ड बीजान्येव तु मर्दयेत्
पलाष्टमानं तालस्य चाष्टमांशं तु कारयेत् ॥
बीजान्येरण्डजान्येव क्षिप्त्वा चैकत्र मर्दयेत्
यवाभा गुटिका कार्या शुष्का कुप्यां निधाय च ॥
वालुकायंत्रमध्ये तु वह्निं द्वादशयामकम्
स्वांगशीतं समुत्तार्य ऊर्ध्वगं सत्वमाहरेत् ॥
पाषाणधातुसत्त्वानां प्रकाराः सन्त्यनेकशः
यानि कार्यकराण्येव सत्वानि कथितानि वै ॥
वातश्लेष्महरं रक्त भूतनुत् पुष्पहृत् स्त्रियाः
सुस्निग्धमुष्णकटुकं दीपनं कुष्ठहारि तत् ॥
सौराष्ट्रदेशे संजाता खनिजा तुवरी मता
या लेपिता श्वेतवस्त्रे रङ्गबन्धकरी हि सा ॥
फुल्लिका खटिका तद्वत् द्विप्रकारा प्रशस्यते
किंचित्पीता च सुस्निग्धा गरदोषविनाशिनी ॥
श्वेतवर्णापरा साम्ला फुल्लिका लोहमारणी
कषाया मधुरा कांक्षी कटुका विषनाशिनी ॥
व्रणघ्नी कफहा चैव नेत्रव्याधित्रिदोषहा
कुष्ठरोगहरा सा तु पारदे बीजधारिणी ॥
धान्याम्ले तुवरी क्षिप्ता शुध्यति त्रिदिनेन वै
क्षारैरम्लैश्च मृदिता ध्माता सत्वं विमुञ्चति
तत्सत्वं धातुवादार्थे औषधे नोपपद्यते ॥
मनःशिला त्रिप्रकारा श्यामा रक्ता च खण्डिका
श्यामा रक्ता मिश्रवर्णा भाराढ्या श्यामिका भवेत् ॥
कणवीरा सुरक्ताङ्गी ताम्राभा सैव शस्यते
चूर्णिता याति रक्ताङ्गी गुरुः स्निग्धा च खण्डिका ॥
सर्वाः कुनट्यः कथिताः पूर्वं पूर्वं गुणोत्तराः
मुनिपत्ररसेनापि शृङ्गवेररसेन वा ॥
भाविता सप्तवारेण विशुध्यति न संशयः
सर्पिषा च गुडेनाथ किट्टगुग्गुलुनाथ वा ॥
ध्माता तु कोष्ठिकायन्त्रे मुञ्चेत् सत्त्वं न संशयः ॥
रसायनवरा सर्वा वातश्लेष्मविनाशिनी
सत्वाधिका विषघ्नी च भूतकण्डूक्षयापहा
अग्निमांद्यं प्रशमयेत् कोष्ठरोगनिबर्हिणी ॥
सौवीरं च रसांजनं निगदितं स्रोतोंजनं चैव हि तद्वत् पुष्पमथाञ्जनं तदनु चेन्नीलांजनं कथ्यते
पञ्चानामपि नामवर्णगुणवद्रूपाणि सम्यग्विधौ कथ्यन्तेऽत्र मयापि शोधनम् इदं सत्वं मृतिश्चोच्यते ॥
सौवीराख्यं चांजनं धूमवर्णं पित्तास्रघ्नं छर्दिहिध्माव्रणघ्नम् ।
नेत्रव्याधौ शोधने रोपणे च श्रेष्ठं प्रोक्तं कर्णरोगप्रशांत्यै ॥
पीताभं विषरक्तदोषशमनं सश्वासहिध्मापहं वर्ण्यं वातविनाशनं कृमिहरं दार्व्युद्भवं शोभनम्
स्निग्धं स्वादु कषायकं विषवमीपित्तास्रनुल्लेखनं नेत्र्यं हिध्मरुजापहं निगदितं स्रोतोंजनं सर्वदा ॥
सितं स्निग्धं हिमं चैव नेत्ररोगविषापहम्
ज्वरघ्नम् अतिहिध्माघ्नं पुष्पांजनमिहोदितम् ॥
रसायनं सुवर्णघ्नं गुरु स्निग्धं त्रिदोषहा
नीलांजनं च कथितं लोहमार्दवकारकम् ॥
भृंगराजरसेनैव सर्वाण्येवांजनानि हि
विशुध्यन्तीह सततं सत्यं गुरुवचो यथा
शिलायाः सत्ववत् सत्त्वम् अञ्जनानां च पातयेत् ॥
गंधकस्य चतुर्भेदा लक्षिताः पूर्वसूरिभिः
श्वेतः पीतस्तथा रक्तः कृष्णश्चेति चतुर्विधः ॥
श्वेतस्तु खटिकाकारो लेपनाल्लोहमारणम्
जायते नात्र संदेहो ह्य् अनुभूतं मया खलु ॥
पीतवर्णो भवेद्यस्तु स चोक्तोऽमलसारकः
रसे रसायने श्रेष्ठः शुकपिच्छः स कथ्यते ॥
लाक्षारसनिभो रक्तः शुकतुण्डः स कथ्यते
धातूनां रंजनं कुर्याद् रसबन्धं करोत्यलम् ॥
यः कृष्णवर्णः स तु दुर्लभोऽस्ति नाशं करोतीह जरापमृत्योः
संसेवनाद्वज्रसमं शरीरं भवेत्सुकान्तं हि निरामयं च ॥
घटीमध्ये पयः क्षिप्त्वा मुखे वस्त्रं प्रबन्धयेत्
वस्त्रोपरि बलेश्चूर्णं मुखं रुद्ध्वा शरावतः ॥
भूमौ निधाय तत्पात्रं पुटं दद्यात्प्रयत्नतः
विंशत्युपलकैश्चैव स्वांगशीतं समुद्धरेत् ॥
अनेनैव प्रकारेण स्वांगशीतं पुनः पुनः
एवं संशोधितो गन्धः सर्वकार्यकरो भवेत् ॥
विपाके मधुरो गन्ध पाषाणस्तु रसायनः
विसर्पकण्डुकुष्ठस्य शमनो दीपनस्तथा ॥
आमाजीर्णप्रशमनो विषहा रसशोषणः
सूतस्य वीर्यदः साक्षात् पार्वतीपुष्पसंभवः ॥
कृमिरोगहरः सम्यक् सूतं मूर्छयति ध्रुवम्
सेवितो बलिराज्ञा यः प्रभूतबलहेतवे ॥
तस्माद्बलिवसेत्युक्तो गंधकोऽतिमनोहरः
शुकपिच्छस्तु मरिच समांशेन तु कल्कितः ॥
त्रिफला षड्गुणा कार्या मर्दयेत्कृतमालकैः
मूलद्रवैस्ततः पीतो हन्ति कुष्ठान्यनेकशः ॥
तन्मूलसलिले घृष्टं वपुस्तेनाथ लेपितम्
कुष्ठान्येव निहन्त्याशु सद्यः प्रत्ययकारकम् ॥
संशुद्धगंधकं चैव तैलेन सह पेषयेत्
अपामार्गक्षारतोयैस् तैलेन मरिचेन च ॥
विलिप्य सकलं देहं तिष्ठेत्सूर्यातपेषु च
भोजयेत्तक्रभक्तं च तृतीये प्रहरे खलु ॥
वह्निना स्वेदयेद्रात्रौ प्रातरुत्थाय मर्दयेत्
महिषस्य पुरीषेण स्नायाच्छीतेन वारिणा ॥
स्नानं कुर्यादुषस्येवं कण्डूः पामा च नश्यति
दृष्टप्रत्यययोगोऽयं कथितोऽत्र मया खलु
नाशयेच्चिरकालोत्थाः कुष्ठपामाविचर्चिकाः ॥
कलांशव्योषसंयुक्तं शुद्धगन्धकचूर्णकम्
वस्त्रे वितस्तिमात्रे तु गंधचूर्णं सतैलकम् ॥
विलिप्य वेष्टयित्वा च वर्तिं सूत्रेण वेष्टयेत्
धृत्वा संदंशतो वर्ति मध्यं प्रज्वालयेच्च ताम् ॥
विद्रुतः पतते गंधो बिन्दुशः काचभाजने
तां द्रुतिं प्रक्षिपेत्पत्त्रे नागवल्ल्यास्त्रिबिन्दुकाम् ॥
रसं वल्लमितं तत्र दत्त्वाङ्गुल्या विमर्दयेत्
तत्सर्वं भक्षयेत्पश्चाद् गोदुग्धं चानु सम्पिबेत् ॥
कामस्य दीप्तिं कुरुते क्षयपाण्डुविनाशनम्
ग्रहणीं नाशयेद् दुष्टां शूलार्तिश्वासकासकम् ॥
आमाजीर्णं प्रशमयेल् लघुत्वं च प्रजायते
गंधकस्य गुणान्वक्तुं शक्तः कः शंभुना विना ॥
पर्वते हिमसमीपवर्तिनि जायतेऽतिरुचिरं कङ्कुष्ठकम्
एकमेव नलिकाभिधानकं रेणुकं तदनु चापरं भवेत् ॥
पीतवर्णमसृणं च वै गुरु स्निग्धम् उत्तमतरं प्रवक्ष्यते
श्यामपीतमतिहीनसत्त्वकं रेणुकं हि कथितं द्वितीयकम् ॥
वदन्ति कंकुष्ठमथापरे हि सद्यः प्रसूतस्य च दन्तिनः शकृत् ।
तत् कृष्णपीतं भवतीव रेचनं तृतीयमाहुर्विबुधा भिषग्वराः ॥
चतुर्थकङ्कुष्ठमिहैव वाजिनां नालं हि केचित्प्रवदन्ति तज्ज्ञाः
यद्धस्तिजं श्वेतमथातिपीतं विरेचनं तत्प्रकरोति शीघ्रम् ॥
रसायने श्रेष्ठतरं रसे च सत्वेन युक्तं खलु गौरवान्वितम्
शुंठ्यम्भसा भावितमेव शुद्धिं कंकुष्ठमायाति हि सत्यमुक्तम् ॥
कङ्कुष्ठकं तिक्तकटूष्णवीर्यं विशेषतो रेचनकं करोति
गुदार्तिगुल्मव्रणशूलहृत्परं प्रचक्षते शास्त्रविदः पुराणाः ॥
सत्त्वाकृष्टिर्न च प्रोक्ता यस्मात्सत्वमयं हि तत्
यवमात्रं भजेदेनं विरेकार्थं न संशयः ॥
क्षणादामज्वरं हन्ति जाते सति विरेचने
तांबूलेन समं चैवं भक्षितं सारयेद् ध्रुवम् ॥
बब्बूलमूलिकाक्वाथं सौभाग्याजाजिसंयुतम्
भूयो भूयः पिबेद्धीमान् विषं कंकुष्ठजं जयेत् ॥
कासीसं प्रथमं हि सैकतमिदं पुष्पाख्यमन्यत्तथा क्षाराम्लं गुरु धूम्रवर्णविषहृत् वीर्योष्णकं रागदम्
श्वित्रघ्नं मुखकेशरंजनकरं तत्सैकतं पूर्वकं पुष्पाख्यं ह्यपरं गुणैश्च सहितं सेव्यं सदा रोगहृत् ॥
पुष्पाभिधं च कासीसं प्रसिद्धं नेत्ररोगहा
सोष्णवीर्यं कषायाम्लं विषघ्नं श्लेष्मनाशनम्
व्रणहृत् क्षयरोगघ्नं पटरञ्जनकं परम् ॥
भृंगराजरसे स्विन्नं निर्मलं हि प्रजायते
सौराष्ट्रीसत्ववत् सत्त्वम् एतस्यापि समाहरेत् ॥
कासीसं भस्म कांतस्य चोभयं समभागिकम्
वराविडङ्गसंयुक्तं घृतक्षौद्रप्लुतं प्रगे ॥
भक्षितं हन्ति वेगेन पाण्डुयक्ष्माणमेव च
प्लीहं गुल्मं गुदे शूलं मूत्रकृच्छ्राण्यशेषतः ॥
सेवितं सर्वरोगघ्नं रसायनविधानतः
अग्निसंधुक्षणं कुर्यात् वलीपलितनाशनम्
आमाजीर्णभवान् रोगान् निहन्त्येव न संशयः ॥
उद्दिष्टं नवसाराख्यं लवणं चुल्लिकाभिधम्
लोहद्रावणकं प्रोक्तं रसजारणकं तथा ॥
वह्निं च दीपयत्याशु गुल्मप्लीहामयापहम्
मांसादिजारणं सम्यक् भुक्तपाकं करोति तत् ॥
पीता वराटिका या तु सार्धनिष्कप्रमाणिका
श्रेष्ठा सैव बुधैः प्रोक्ता टङ्कभारा हि मध्यमा ॥
पादोनटङ्कभारा या कथ्यते सा कनिष्ठिका ॥
रसे रसायने प्रोक्ता परिणामादिशूलनुत्
ग्रहणीक्षयरोगघ्नी वीर्योष्णा दीपनी मता ॥
वृष्या दोषहरी नेत्र्या कफवातविनाशिनी
रसेन्द्रजारणे शस्ता बिडमध्ये सदा हिता ॥
स्थूला वराटिका प्रोक्ता गुरुश्च श्लेष्मपित्तहा
स्वेदिता ह्यारनालेन यामाच्छुद्धिमवाप्नुयात् ॥
दरदः शुकतुण्डाख्यो हंसपाकस्तथापरः
चर्मारः प्रथमः प्रोक्तो हीनसत्वः स उच्यते ॥
प्रवालाभः शलाकाढ्यः उत्तमो हंसपाककः
दीपनः सर्वदोषघ्नो हिंगुलोऽतिरसायनः ॥
सर्वरोगहरः साक्षात् द्रावणे संप्रशस्यते
यथा षड्गुणगंधेन जारितरसराजकः ॥
दरदाकर्षितः सूतो गुणैरेवंविधो भवेत्
कुष्माण्डखण्डमध्ये तु स्वेदितो लकुचाम्बुना
सकृत् संजायते शुद्धः सर्वकार्येषु योजयेत् ॥
पाषाणगैरिकं चैकं द्वितीयं स्वर्णगैरिकम्
पाषाणगैरिकं प्रोक्तं कठिनं ताम्रवर्णकम् ॥
अत्यन्तशोणितं स्निग्धं मसृणं स्वर्णगैरिकम्
स्वादु तिक्तं हिमं नेत्र्यं कषायं रक्तपित्तनुत् ॥
हिक्कावमिविषघ्नं च रक्तघ्नं स्वर्णगैरिकम्
पाषाणगैरिकं चान्यत् पूर्वस्मादल्पकं गुणैः ॥
गैरिकं तु गवां दुग्धैर् भावितं शुद्धिमृच्छति
गैरिकं सत्वरूपं हि नन्दिना परिकीर्तितम् ॥
समुद्रेणाग्निनक्रस्य जरायुर् बहिरुज्झितः
रवितापेन संशुष्कः सोऽग्निजार इति स्मृतः ॥
त्रिदोषशमनो ग्राही धनुर्वातहरः परः
वर्धनो रसवीर्यस्य जारणः परमः स्मृतः ॥
महागिरौ शिलान्तस्थो रक्तवर्णच्युतो रसः
सूर्यातपेन संशुष्को गिरिसिन्दूरसंज्ञितः ॥
रसबंधकरो भेदी त्रिदोषशमनस्तथा
देहलोहकरो नेत्र्यो गिरिसिन्दूर ईरितः ॥
भवेद्गुर्जरके देशे सदलं पीतवर्णकम्
अर्बुदस्य गिरेः पार्श्वे नाम्ना वोदारशृङ्गकम् ॥
नागसत्वं लिंगदोष हरं श्लेष्मविकारनुत्
रसबन्धकरं सम्यक् श्मश्रुरञ्जनकं परम् ॥
साधारणरसाः सर्वे बीजपूररसेन वै
त्रिवारं भाविताः शुष्का जायन्ते दोषवर्जिताः ॥
बिडं हि कथ्यते तद्वत् सर्वदोषहरं परम् ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0