भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 5

5.1

अथेदानीं प्रवक्ष्यामि गुणाधिक्यान्महारसान्
तेषां नामानि वर्गांश्च सत्त्वानि तद्गुणांस्तथा ॥

5.2

क्रमेण गगनं ताप्यं वैक्रांतं विमलं तथा
रसकं शैलसंभूतं राजावर्तकसस्यके
एते महारसाश्चाष्टाव् उदिता रसवादिभिः ॥

5.3

क्रमप्राप्तमहं वक्ष्ये गगनं तु चतुर्विधम्
श्वेतं रक्तं तथा पीतं कृष्णं परमसुंदरम् ॥

5.4

श्वेतं श्वेतक्रियायोग्यं रक्तं पीतं हि पीतकृत्
कृष्णाभ्रं सर्वरोगाणां नाशनं परमं सदा ॥

5.5

वज्रं पिनाकं नागं च मंडूकमभिधीयते
अनेन विधिना प्रोक्ता भेदाः सन्तीह षोडश ॥

5.6

अभ्राणामेव सर्वेषां वज्रमेवोत्तमं सदा
शेषाणि त्रीणि चाभ्राणि घोरान् व्याधीन् सृजन्ति हि
तस्माद्यत्नेन सद्वैद्यैर् वर्जनीयानि नित्यशः ॥

5.7

वज्राभ्रं धम्यमानेऽग्नौ विकृतिं न क्वचिद् भजेत्
सेवितं तन्मृतिं हन्ति वज्राभं कुरुते वपुः ॥

5.8

पिनाकं चाग्निसंतप्तं विमुञ्चति दलोच्चयम्
सेवितं चैकमासेन कृमिं कुष्ठं करोत्यलम् ॥

5.9

नागाभ्रं ध्मापितं सम्यक् नागवत् स्फूर्जते ध्रुवम्
सेवितं तत्प्रकुरुते क्षयरोगसमुद्भवम् ॥

5.10

विषं हालाहलं पीतं मारयत्येव निश्चितम्
तथा नागाभ्रनामेदं सद्वैद्यः कथयत्यलम् ॥

5.11

मंडूकाभ्रं प्रकुरुते ताप्यमानं हि नित्यशः
क्षणं चाग्नौ न तिष्ठेत मंडूकसदृशां गतिम् ॥

5.12

मंडूकाभ्रं न सेव्यं हि कथितं रसवेदिभिः ॥

5.13

स्वेदयेद्दिनमेकं तु कांजिकेन तथाभ्रकम्
पश्चात्कुलत्थजे क्वाथे तक्रे मूत्रेऽथ वह्निना ॥

5.14

पाचितं दोषशून्यं तु शुद्धिमायाति निश्चितम्
तथाग्नौ परितप्तं तु निषिञ्चेत् सप्तवारकम् ॥

5.15

कांजिके चापि निर्दोषम् अभ्रके जायते ध्रुवम्
वराक्वाथे तथा दुग्धे गवां मूत्रे तथैव च
मार्कवस्य रसेनापि दोषशून्यं प्रजायते ॥

5.16

सूक्ष्मचूर्णं ततः कृत्वा पिष्ट्वा हंसपदीरसैः
चक्राकारं कृतं शुष्कं दद्यादर्धगजाह्वये ॥

5.17

षट् पुटानि ततो दत्त्वा पुनरेवं पुनर्नवा
रसेन मर्दितं गाढम् अभ्रांशेन तु टंकणम् ॥

5.18

पुनश्च चक्रिकां कृत्वा सप्तवारं पुटेत्खलु
तण्डुलीयरसेनैव तद्वद्वासारसेन च ॥

5.19

पुटयेत्सप्तवाराणि पुटं दद्याद्गजार्धकम्
अनेन विधिना चाभ्रं म्रियते नात्र संशयः
चन्द्रिकारहितं सम्यक् सिंदूराभं प्रजायते ॥

5.20

कासमर्दरसेनैव धान्याभ्रं पाचितं शुभम्
शतवारेण म्रियते नात्र कार्या विचारणा ॥

5.21

एवं मुस्तारसेनापि तण्डुलीयशिफारसैः
टंकणेन समं पिष्ट्वा चक्राकारमथाभ्रकम् ॥

5.22

षष्टिसंख्यपुटैः पक्वं सिन्दूरसदृशं भवेत्
कुष्ठक्षयादिरोगघ्नं अभ्रकं जायते ध्रुवम् ॥

5.23

नागवल्लीदलरसैर् वटमूलत्वचा तथा
वृषामत्स्यादनीभ्यां च मत्स्याक्ष्या सपुनर्भुवा ॥

5.24

वटवृक्षस्य मूलेन मर्दितं पुटितं घनम्
सिंदूरसदृशं वर्णे भवेद्विंशतिमे पुटे ॥

5.25

सूक्ष्मं सूक्ष्मं जलप्लावं रक्तवर्णसमुज्ज्वलम्
सर्वरोगहरं चापि जायते बहुभिः पुटैः ॥

5.26

मृतं वज्राभ्रकं सम्यक् सेवनीयं सदा बुधैः
वलिपलितनाशाय दृढतायै शरीरिणाम् ॥

5.27

सर्वव्याधिहरं त्रिदोषशमनं वह्नेश्च संदीपनम् वीर्यस्तंभविवृद्धिकृत्परमिदं कृच्छ्रादिरोगापहम्
भूतोन्मादनिवारणं स्मृतिकरं शोफामयध्वंसनं सद्यः प्राणविवर्धनं ज्वरहरं सेव्यं सदा चाभ्रकम् ॥

5.28

यथा विषं यथा वज्रं शस्त्रो ऽग्निः प्राणहृद्यथा
भक्षितं चन्द्रिकायुक्तम् अभ्रकं तादृशं गुणैः ॥

5.29

पादांशं टंकणं दत्त्वा मुसलीरसमर्दितम्
ध्मापितं कोष्ठिकायन्त्रे सत्त्वरूपं प्रजायते ॥

5.30

खल्वे पिष्ट्वा तु मतिमान् सूक्ष्मचूर्णं तु कारयेत्
गालितं वस्त्रखण्डेन घृतेन च परिप्लुतम् ॥

5.31

भर्जितं दशवाराणि लोहखर्परकेण वै
अग्निवर्णसमं यावत् तावत्पिष्ट्वा तु भर्जयेत् ॥

5.32

शुकपिच्छसमं पिष्ट्वा क्वाथे तु वटमूलजे
ततो विंशतिवाराणि पुटेच्छूकरसंज्ञकैः ॥

5.33

वराकषायैर्मतिमान् तथा कुरु भिषग्वर
नीलीगुंजावरापथ्याम् ऊलकेन सुभावयेत् ॥

5.34

संशुष्कं भक्षयेद्विद्वान् सर्वरोगहरं परम्
अभ्रसत्वात्परं नास्ति रसायनमनुत्तमम् ॥

5.35

यदि चेत् शतवाराणि पाचयेत्तीव्रवह्निना
तदामृतोपमं चाभ्रं देहलोहकरं परम् ॥

5.36

धान्याभ्रकं ततः कृत्वा द्वात्रिंशत्पलमात्रकम्
लाक्षागुंजाक्षुद्रमीनाः टङ्कणं दुग्धम् आविकम् ॥

5.37

सर्षपाः शिग्रुपिण्याकं सिन्धूत्थं मृगशृङ्गकम्
माक्षिकं च समांशानि सर्वाण्येव तु कारयेत् ॥

5.38

धान्याभ्रकेन तुल्येन मर्दयेन्मतिमान्भिषक्
पुनर्नवाया वासायाः कासमर्दस्य तण्डुलैः ॥

5.39

मत्स्याक्ष्या हंसपद्याश्च कारवेल्ल्या रसैः पृथक्
खलगोधूमयोश्चूर्णैः कारयेद्वटकान् शुभान् ॥

5.40

पश्चात् कोष्ठ्यां धमेच्छुष्कान् भस्त्रिकाद्वितयेन तान्
खदिरस्य तु चांगारैः सत्वं निःसरति ध्रुवम् ॥

5.41

पृथक् कृत्वा तु रवकान् कांस्यवर्णान् विशेषतः
तत्किट्टं गोमयेनाथ वटकान्कारयेत्पुनः ॥

5.42

ध्मापयेत् पूर्वविधिना पुनः सत्वं हि निःसरेत्
अनेन विधिना कार्यं पञ्चगव्येन मिश्रितम् ॥

5.43

पञ्चाजेनाथ महिषी पञ्चकेन समं कुरु
पतत्येवमसंदिग्धं सत्यं गुरुवचो यथा ॥

5.44

अथाभ्रसत्त्वरवकान् अम्लवर्गेण पाचयेत्
शोधनीयगणेनैव मूषामध्ये तु शोधयेत् ॥

5.45

काचटंकणगुंजाज्य सारघैः शोधयेत्खलु
मधुतैलवसाज्येषु दशवाराणि ढालयेत् ॥

5.46

मार्दवं कारयेत्सत्यं योगेनानेन सर्वदा
सत्वस्य गोलकानेवं तप्तानेवं तु कांजिके ॥

5.47

निर्वाप्य तत्क्षणादेव कण्डयेल्लोहपारया
अनेनैव प्रकारेण सूक्ष्मचूर्णं तु कारयेत् ॥

5.48

भर्जयेद् घृतमध्ये तु त्रीणि वाराणि यत्नतः
पेषणं तु प्रकर्तव्यं शिलापट्टेन यत्नतः ॥

5.49

धात्रीपत्ररसेनापि तस्याः फलरसेन वा
पुनर्भुवा वासया च कांजिकेनाथ गन्धकैः
पुटयेद्दशवाराणि म्रियते चाभ्रसत्त्वकम् ॥

5.50

मृतं सत्वं हरेन्मृत्युं सर्वरोगविनाशनम्
क्षयं पाण्डुं ग्रहणिकां श्वासं शूलं सकामलम् ॥

5.51

ज्वरान्मेहांश्च कासांश्च गुल्मान्पञ्चविधानपि
मन्दाग्निमुदराण्येवम् अर्शांसि विविधानि च ॥

5.52

अनुपानप्रयोगेण सर्वरोगान्निहन्ति च
अभ्रसत्वगुणान्वक्तुं शक्यते न समासतः ॥

5.53

किंचिद्रक्तोऽथ नीलश्च मिश्रवर्णप्रभः सदा
तौल्ये गुरुश्च मसृणो राजावर्त्तो वरः स्मृतः ॥

5.54

गोमूत्रेणाथ क्षारैश्च तथाम्लैः स्वेदिताः खलु
त्रिवारेण विशुध्यन्ति राजावर्तादयो रसाः ॥

5.55

चूर्णितः शुकपिच्छेन भृंगराजरसेन वै
सप्तवारेण पुटितो राजावर्त्तो मरिष्यति ॥

5.56

श्लेष्मप्रमेहदुर्नाम पाण्डुक्षयनिवारणः
पाचनो दीपनश्चैव वृष्योऽनिलविषापहः ॥

5.57

कोशातकी क्षीरकन्दो वंध्याकर्कोटकी तथा
काकमाची राजशमी त्रिफला गृहधूमकः ॥

5.58

राजावर्तो रसैरेषां सत्वं मुञ्चति मर्दितः
ध्मापितः खदिरांगारैर् भस्त्रिकाद्वितयेन च ॥

5.59

अष्टधारोष्ठफलकः षट्कोणो मसृणो गुरुः
शुद्धमिश्रितवर्णैश्च युक्तो वैक्रांत उच्यते ॥

5.60

श्वेतः पीतस्तथा कृष्णो नीलः पारावच्छविः
कर्बूरः श्यामवर्णश्च वैक्रांतश्चाष्टधा स्मृतः ॥

5.61

क्वाथे कुलत्थजे स्विन्नो वैक्रांतः शुध्यति ध्रुवम्
गन्धनिम्बूरसैर्मर्द्यः पुटितो म्रियते ध्रुवम् ॥

5.62

आयुःप्रदस्त्रिदोषघ्नो वृष्यः प्राणप्रदः सदा
वेगप्रदो वीर्यकर्ता प्रज्ञावर्णौ करोति हि ॥

5.63

रसायनेषु सर्वेषु पूर्वगण्यस्तु रोगहा
वज्रवद् गुणकारी च वैक्रांतो रसबन्धकः ॥

5.64

सूर्यातपे मर्दितोऽसौ सत्वपातगणौषधैः
शुष्कायितो वटीकृत्य मूषास्थो ध्मापितोऽपि वै ॥

5.65

सत्वं मुञ्चति वैक्रांतः सत्यं गुरुवचो यथा
मृतसूतेन तुल्यांशं सत्वं वैक्रांतसंभवम् ॥

5.66

मृताभ्रसत्वसंयुक्तं मर्दितं सममात्रकम्
कणामध्वाज्यसंमिश्रं वल्लमात्रं निषेवितम् ॥

5.67

सर्वान् रोगान्निहन्त्याशु जीवेद् वर्षशतं सुखी
त्रिवर्षसेवनान्नूनं वलीपलितनाशनम् ॥

5.68

सद्यो हालाहलं पीतम् अमृतं गरुडेन च
सुधायुक्ते विषे वान्ते पर्वते मरुताह्वये ॥

5.69

घनीभूतं च संजातं सस्यकं खलु कथ्यते
नीलं मरकतच्छायं तेजोयुक्तं प्रशस्यते ॥

5.70

स्वेदितं माहिषाज्याभ्यां गवां मूत्रैर्नरस्य वा
दोलायन्त्रेण यामौ द्वौ शुध्यत्येव हि सस्यकम् ॥

5.71

गंधाश्मटंकणाभ्यां च लकुचद्रावमर्दितम्
कुक्कुटाह्वैः सप्तपुटैर् म्रियते चांधमूषया ॥

5.72

निघृष्टं टंकणेनैव निम्बूद्रावेण मूषया
ध्मातं च ताम्ररूपं हि सत्त्वं मुञ्चति सस्यकम् ॥

5.73

विषेण सहितं यस्मात् तस्माद्विषगुणाधिकम्
सुधायुक्तं विषं येन सुधाधिकगुणं तथा ॥

5.74

त्रिदोषशमनं चैव विषहृद् गुदशूलनुत्
अम्लपित्तविबन्धघ्नं रसायनवरं सदा ॥

5.75

वान्तिं करोति रेकं च श्वित्रकुष्ठापहं तथा
नाम्ना मयूरतुत्थं हि सर्वव्याधिनिवारणम् ॥

5.76

भूनागसत्वसंयुक्तं सत्वमेतत्समीकृतम्
अनयोर्मुद्रैका कार्या शूलघ्नी सा भवेत् खलु ॥

5.77

डाकिनीभूतसंवेश चराचरविषं जयेत्
राज्ञां सदैव रक्षार्थं विधातव्या सुमुद्रिका ॥

5.78

माक्षिकं द्विविधं ज्ञेयं रुक्मताप्यप्रभेदतः
प्रथमं माक्षिकं स्वर्णं कान्यकुब्जसमुत्थितम् ॥

5.79

सुवर्णवर्णसदृशं नववर्णसमन्वितम्
तटे तपत्याः संजातं ताप्याख्यं माक्षिकं वदेत् ॥

5.80

पाषाणदलसंमिश्रं पाण्डुरं पञ्चवर्णवत्
गुणाल्पकं भवत्येतत् स्वल्पं सत्त्वं विमुञ्चति ॥

5.81

मूत्रे तक्रे च कौलत्थे मर्दितं शुष्कमेव च
गंधाश्मबीजपूराभ्यां पिष्टं तच्छ्रावसंपुटे ॥

5.82

पञ्चवाराहपुटकैर् दग्धं मृतिमवाप्नुयात् ॥

5.83

लोहपात्रे सुसंदग्धं लोहदण्डेन घर्षितम्
यदा रक्तं धातुनिभं जायते निंबुकद्रवैः ॥

5.84

घर्षयेत् त्रिगुणं सूतं मुक्त्वा संघर्षणं कुरु
दिनैकं घर्षयित्वा तु दृढवस्त्रेण गालयेत् ॥

5.85

वस्त्रस्था पिष्टिका लग्ना त्वधः पतति पारदः
अनेनैव प्रकारेण द्वित्रिवारेण गालयेत् ॥

5.86

तत्पिष्टीगोलकं ग्राह्यं यंत्रे डमरुके न्यसेत्
प्रहरद्वयमात्रं चेद् अग्निं प्रज्वालयेदधः ॥

5.87

इन्द्रगोपसमं सत्वम् अधःस्थं ग्राहयेत्सुधीः
अनेनैव विधानेन ताप्यसत्वं समाहरेत् ॥

5.88

टंकणेन समायुक्तं द्रावितं मूषया यदा
तदा ताम्रप्रभं सत्वं जायते नात्र संशयः ॥

5.89

देहलोहकरं सम्यक् देवीशास्त्रेण भाषितम् ॥

5.90

सर्वामयघ्नं सततं पारदस्यामृतं परम्
मेलनं कुरुते लोहे परमं च रसायनम् ॥

5.91

प्रथमो हेमविमलो हेमवद्वर्णसंयुतः
द्वितीयो रूप्यविमलो रूप्यवद् दृश्यते खलु ॥

5.92

तृतीयः कांस्यविमलः कांस्यवर्णसमो हि सः
स्निग्धश्च वर्तुलश्चैव षट्कोणः फलकान्वितः ॥

5.93

वासारसे मर्दितो हि शुद्धोऽतिविमलो भवेत्
गंधाश्मनिंबुकद्रावैर् मर्दितः पुटितो मृतिम्
शृङ्गस्य भस्मना चापि पुटैश्च दशधा पुटेत् ॥

5.94

निम्बूरसेन संपिष्ट्वा मूषामध्ये निरुध्य च
विमलः सीससदृशं ध्मातो मुञ्चति सत्त्वकम् ॥

5.95

पिष्टीकृतं हि तत्सत्वं पारदेन समन्वितम्
द्रुते गंधे हि निक्षिप्तं तालकं त्रिगुणं तथा ॥

5.96

मनःशिला पञ्चगुणा वालुकायन्त्रके खलु
ज्वालयेत् क्रमशश्चैव पश्चाद्रजतभस्मकम् ॥

5.97

सममात्रं हि वैक्रांतं सर्वं संचूर्णयेत्खलु
संगाल्य यत्नतो वस्त्रात् स्थापयेत्कूपिकान्तरे ॥

5.98

वह्निं कुर्यादष्टयामं स्वांगशीतं समुद्धरेत्
वल्लमात्रं च मधुना लेहयेत् व्योषसंयुतं ॥

5.99

बालानां रोगहरणं ज्वरपाण्डुप्रमेहनुत्
ग्रहणीकामलाशूल मन्दाग्निक्षयपित्तहृत् ॥

5.100

अनुपानविशेषणं सर्वरोगान्निहन्ति च ॥

5.101

वृष्यः पित्तानिलहरो रसायनवरः खलु ॥

5.102

तत्राद्यं द्विविधं चैव सत्सत्वं सत्वहीनकम्
गुणाधिकं तयोर्मध्ये यत्पूर्वं सर्वदोषहृत् ॥

5.103

निदाघे तीव्रतापाद्धि हिमप्रत्यन्तपर्वतात्
हेमतारार्कगर्भेभ्यः शिलाजतु विनिःसरेत् ॥

5.104

बन्धूकपुष्पसदृशं गुरु स्निग्धं सुशीतलम्
रुक्मगर्भगिरौ जातं परमं तद्रसायनम् ॥

5.105

किंचित्तिक्तं च मधुरं शिलाजं सर्वदोषनुत् ॥

5.106

तारगर्भगिरेर्जातं पाण्डुरं स्वादु शीतलम्
पित्तपाण्डुक्षयघ्नं च शिलाजतु हि पाण्डुरम् ॥

5.107

शुल्वगर्भगिरेर् जातं कृष्णवर्णं घनं गुरु
गिरिजं कफवातघ्नं विशेषात्सर्वरोगजित् ॥

5.108

अग्नौ यज्जायते क्षिप्तं लिंगाकारमधूमकम्
उदके च विलीयेत तच्छुद्धं च विधीयते ॥

5.109

अम्लैश्च गुग्गुलूपेतैः क्षाराद्यैर् भाण्डमध्यतः
विशुध्यति शिलाजातं स्वेदितं घटिकाद्वयम् ॥

5.110

मनःशिलालुङ्गरसैः शिलया गंधकेन वा
तालकेनाथ पुटितं शिलाजं म्रियते ध्रुवम् ॥

5.111

छगणैरष्टभिः कृत्वा भस्मीभूतं शिलाजतु ॥

5.112

शिलाजतु तु संशुद्धं सेवेत यः पुमान् सदा
जीवेद्वर्षशतं साग्रं न रोगैर्बाध्यते खलु ॥

5.113

मूत्रकृच्छ्राश्मरीरोगाः प्रयान्त्येव न संशयः
महारसे चोपरसे धातुरत्नेषु पारदे
ये गुणाः कथिताः सद्भिः शिलाधातौ वदन्ति ते ॥

5.114

वैक्रांतकांतत्रिफला त्रिकटुभिः समन्वितम्
वल्लोन्मितं वै सेवेत सर्वरोगगणापहम् ॥

5.115

पलितं वलिभिः सार्धं हन्यादेव न संशयः ॥

5.116

कर्पूरसदृशं श्वेतं कर्पूराख्यं शिलाजतु
अश्मरीमेहकृच्छ्रघ्नं कामलापाण्डुनाशनम् ॥

5.117

अम्लतोयेन संस्विन्नं शुष्कं शुद्धिमुपैति च
नोदितं मारणं तस्य सत्वपातनकं बुधैः ॥

5.118

द्विविधो रसकः प्रोक्तः कारवेल्लकदर्दुरः
सत्वपाते परः प्रोक्तः प्रथमश्चौषधादिषु ॥

5.119

सर्वमेहहरश्चैव पित्तश्लेष्मविनाशनः
नागार्जुनेन कथितौ सिद्धौ श्रेष्ठरसावुभौ ॥

5.120

कृतौ येनाग्निसहनौ सूतखर्परकौ शुभौ
तेन स्वर्गमयी सिद्धिर् अर्जिता नात्र संशयः ॥

5.121

रसकस्तापितः सम्यक् निक्षिप्तो रसपूरके
निर्मलत्वमवाप्नोति सप्तवारं निमज्जितः ॥

5.122

कांजिके वाथ तक्रे वा नृमूत्रे मेषमूत्रके
द्रावितो ढालितः सम्यक् खर्परः परिशुध्यति ॥

5.123

खर्परं रेतितं शुद्धं स्थापितं नरमूत्रके
रञ्जयेन्मासमेकं हि ताम्रं स्वर्णप्रभं वरम् ॥

5.124

शिला हरिद्रा त्रिफला गृहधूमैः ससैंधवैः
भल्लातकैष्टंकणैश्च क्षारैरम्लैश्च वर्तितम् ॥

5.125

पादांशसंयुतैर्मूषां वृंताकफलसन्निभाम्
निरुध्य शोषयित्वाथ मूषां मूषोपरि न्यसेत् ॥

5.126

प्रध्माते खर्परे ज्वाला सिता नीला भवेद्यदा
लोहसंदंशके कृत्वा धृत्वा मूषामधोमुखीम् ॥

5.127

भूम्याम् आढालयेत् सत्त्वं यथा नालं न भज्यते
तदा सीसोपमं सत्वं पतत्येव न संशयः ॥

5.128

अनेनैव प्रकारेण त्रिवारं हि कृते सति
विनिःसरेत्सर्वसत्वं सत्यं हि गुरुणोदितम् ॥

5.129

तालकेन समायुक्तं सत्वं निक्षिप्य खर्परे
घर्षयेल्लोहदण्डेन म्रियते च न संशयः ॥

5.130

मृतं सत्वं मृतं कांतं समांशेनापि योजितम्
माषमात्रमिदं चूर्णं वराक्वाथेन संयुतम् ॥

5.131

लोहपात्रस्थितं रात्रौ तिलजप्रतिवापकम्
निहन्ति मधुमेहं च क्षयं पाण्डुं तथानिलम् ॥

5.132

योनिरोगांश्च नारीणां ज्वरांश्च विषमानपि
स्त्रीरोगान्हन्ति सर्वांश्च श्वासकासपुरोगमान् ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc