भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 4

4.1

अथेदानीं प्रवक्ष्यामि धातुशोधनमारणम्
अनुभूतं मया किंचित् किंचित् शास्त्रानुसारतः ॥

4.2

सुवर्णं रजतं चेति शुद्धलोहमुदीरितम्
ताम्रं चैवाश्मसारं च नागवंगौ तथैव ॥

4.3

पूतिलोहं निगदितं द्वितीयं रसवेदिना
संमिश्रलोहं त्रितयं सौराष्ट्ररीतिवर्तकम्
एतेऽष्टौ धातवो ज्ञेया लोहान्येवं भवन्ति हि ॥

4.4

सुवर्णं द्विविधं ज्ञेयं रसजं खनिसंभवम्
अन्ये त्रयः सुवर्णस्य प्रकाराः सन्ति नोदिताः ॥

4.5

रसजं रसवेधेन जायते हेम सुन्दरं
तच्चतुर्दशवर्णाढ्यं सर्वकार्यकरं परम् ॥

4.6

पर्वते भूमिदेशेषु खन्यमानेषु कुत्रचित्
दृश्यते खनिजं प्राज्ञैस् तच्चतुर्दशवर्णकम् ॥

4.7

रूप्यादियोगेन यदा मिश्रं स्वर्णं हि जायते
हेमकार्यं न चेत्तेन तदा शोध्यं भिषग्वरैः ॥

4.8

हीनवर्णस्य हेम्नश्च पत्राण्येव तु कारयेत्
खटिकापटुचूर्णं च कांजिकेन प्रमर्दयेत् ॥

4.9

पत्राणि लेपयेत्तेन कल्केनाथ प्रयत्नतः
आरण्योत्पलकैः कार्या कोष्ठिका नातिविस्तृता ॥

4.10

मध्ये तत्संपुटं मुक्त्वा वह्निं प्रज्वालयेत्ततः
एवं पुटत्रयं दत्त्वा शुद्धं हेम समुद्धरेत् ॥

4.11

न तु शुद्धस्य हेम्नश्च शोधनं कारयेद्भिषक्
अन्येषामेव लोहानां शोधनं कारयेद् भिषक् ॥

4.12

ततः स्वर्णभवं पत्रं तापितं हि विनिक्षिपेत्
ज्वालामुखीरसे षष्ठी पुटैर्भस्मीभवत्यलम् ॥

4.13

गुरुणा कथितं सम्यक् निरुत्थं जायते ध्रुवम्
रोगान्हिनस्ति सकलान् नात्र कार्या विचारणा ॥

4.14

हेम्नः पत्राणि सूक्ष्माणि सूचिवेध्यानि कारयेत्
पुराम्बुभस्मसूतेन लेपयित्वाथ शोषयेत् ॥

4.15

संपुटे च ततो रुन्ध्यात् पुटयेद्दशभिः पुटैः
म्रियते नात्र संदेहो निरुत्थं भस्म जायते ॥

4.17

हेम्नः सूक्ष्मदलानि भूर्जसदृशान्यादाय संलेप्य वै वज्रीदुग्धकहिङ्गुहिङ्गुलसमैर् एकत्र पिष्टीकृतैः
सत्यं संपुटके निधाय दशभिश्चैवं पुटैः कुक्कुटैः पाच्यं हेम च रक्तगैरिकसमं संजायते निश्चितम् ॥

4.17

लोहपर्पटीकाबद्धं मृतं सूतं समांशकम्
विद्रुते हेम्नि निक्षिप्तं स्वर्णभूतिप्रभं भवेत् ॥

4.18

तद्भस्म पुरतोयेन दरदेन समन्वितम्
मर्दयेद् दिनम् एकं तु संपुटे धारयेत्ततः ॥

4.19

पुटितं दशवारेण स्वर्णं सिंदूरसन्निभम्
जायते नात्र संदेहो रंजनं कुरुते ध्रुवम्
देहं लोहं च मतिमान् सुधनी साधयेदिदम् ॥

4.20

एतत्स्वर्णभवं करोतिच रजः सौन्दर्यतां वै सदा रोगान्दैवकृतान् निहन्ति सकलान्येवं त्रिदोषोद्भवान्
यः सेवेत नरः समान् द्विदशकान् वृद्धश्च नो जायते दोषाश्चैव गरोद्भवा विषकृता आगन्तुजा नैव हि ॥

4.21

रूप्यं च त्रिविधं प्रोक्तं खनिजं सहजं तथा
कृत्रिमं च त्रयो भेदाः कथिताः पूर्वसूरिभिः ॥

4.22

भूधरे कुत्र चेत्प्राप्तं खन्यमाने च खनिजम्
कैलासशिखराज्जातं सहजं तदुदीरितम् ॥

4.23

रसवेधेन यज्जातं वङ्गात्तत्कृत्रिमं मतम्
यद्रूप्यं वह्निना तप्तम् उज्ज्वलं हि विनिःसरेत्
तच्छुद्धं कलधूतं हि सर्वकार्यकरं परम् ॥

4.24

ताम्रादिसंसर्गभवं त्वशुद्धं रूप्यं हि मिश्रं खलु दोषलं च
तच्छोधयेद्वै भसितस्य मूष्यां सीसेन सार्धं रजतं तु ध्मापयेत् ॥

4.25

ताराच्च षड्गुणं नागं ध्मापयेद्यत्नतः सुधीः
शनैर् विधम्यमानं हि दोषशून्यं प्रजायते ॥

4.26

अनेनैव प्रकारेण शोधयेद्रजतं सदा
सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिविधायकम् ॥

4.27

भागमेकं तु रजतं सूतभागचतुष्टयम्
मर्दयेद् दिनमेकं तु सततं निम्बुवारिणा ॥

4.28

पेषणाज्जायते पिष्टीर् दिनैकेन तु निश्चितम्
मूषामध्ये तु तां मुक्त्वा अधोर्ध्वं गंधकं न्यसेत् ॥

4.29

वालुकायंत्रमध्यस्थां दिनैकं तु दृढाग्निना
पाचितां तु प्रयत्नेन स्वांगशीतलतां गताम् ॥

4.30

तालेनाम्लेन सहितां मर्दितां हि शिलातले
ततो द्वादशवाराणि पुटान्यत्र प्रदापयेत् ॥

4.31

अनेन विधिना सम्यक् रजतं म्रियते ध्रुवम्
तारमाक्षिकयोश्चूर्णम् अम्लेन सह मर्दयेत् ॥

4.32

विंशत्पुटेन तत्तारं भूतीभवति निश्चितम्
पुटाधिक्यं हि लोहानां सम्यक् स्याद् गुणकारि च
रंजनं कुरुतेऽत्यर्थं रक्तं श्वेतत्वमादिशेत् ॥

4.33

शुद्धं भस्मीकृतं रूप्यं सारघाज्यसमन्वितम्
नेत्ररोगानपि सदा क्षवजान्गुदजानपि ॥

4.34

पित्तजान् काससम्भूतान् पाण्डुजानुदराणि च
दोषजानपि सर्वांश्च नाशयेदरुचिं सदा ॥

4.35

ताम्रं चापि द्विधा प्रोक्तं नेपालं म्लेच्छदेशजम्
नेपालदेशजाद् अन्यन् म्लेच्छं तत्कथितं बुधैः ॥

4.36

सीसकेन समं ताम्रं रजतेनैव शोधयेत्
पश्चान्मारणकं सम्यक् कर्तव्यं रसवादिना ॥

4.37

कृत्वा ताम्रस्य पत्राणि कन्यापत्रे निवेशयेत्
कुक्कुटाख्ये पुटे सम्यक् पुटयेत्तदनंतरम् ॥

4.38

सूतगंधकयोः पिष्टिः कार्या चातिमनोरमा
विमर्द्य निम्बुतोयेन तानि पत्राणि लेपयेत् ॥

4.39

स्थालीमध्ये निरुन्ध्याथ पचेद्यामचतुष्टयम्
पञ्चदोषविनिर्मुक्तं शुल्बं तेनैव जायते ॥

4.40

रवितुल्येन बलिना सूतकेन समेन च
तालकेन तदर्धेन शिलया च तदर्धया ॥

4.41

चूर्णं कज्जलसंकाशं कारयेन्मतिमान् भिषक् ॥

4.42

शरावसंपुटस्यान्तः पत्राण्याधाय यत्नतः
उपर्युपरि पत्राणि कज्जलीं च निधापयेत् ॥

4.43

यामैकं पाचयेदग्नौ गर्भयन्त्रोदरान्तरे
स्वांगशीतं समुत्तार्य खल्वे सूक्ष्मं प्रचूर्णयेत् ॥

4.44

लेहयेन्मधुसंयुक्तम् अनुपानैर् यथोचितैः
शुद्धताम्रस्य पत्राणि कर्तव्यानि प्रयत्नतः ॥

4.45

तत्समांशस्य गंधस्य पारदस्य समस्य च ॥

4.46

तालकस्य तदर्धस्य शिलायाश्च तदर्धतः
लांगलीचित्रकव्योष तालमूलीकरञ्जकैः ॥

4.47

विषशम्याकातिविषा सैंधवैश्च समांशकैः
जंबीरस्य द्रवेणाथ चूर्णं चातिद्रवीकृतम् ॥

4.48

तत्सर्वं हि शिलाभाण्डे विनिधाय प्रयत्नतः
सूचीवेध्यानि पत्राणि रसेनालेपितानि च ॥

4.49

कल्कमध्ये विनिःक्षिप्य दिनसप्तकमेव हि
चूर्णीकृतं तु मध्वाज्यैः कणाद्वयसमन्वितम् ॥

4.50

लेहितं वल्लमात्रं हि जरामृत्युविनाशनम्
कथितं सोमदेवेन सोमनाथाभिधं शुभम् ॥

4.51

शुद्धं शुल्वं गंधकं वै समांशं पूर्वं स्थाल्यां स्थापयेद्गंधकार्धम्
मध्ये शुल्बं स्थापनीयं प्रयत्नात् तस्योर्ध्वं वै गंधचूर्णस्य चार्धम् ॥

4.52

स्थालीमुखे चूर्णघटीं निवेश्य लेपं तथा सैन्धवमृत्स्नयापि
चुल्ल्यां च कुर्यादथ वह्निमेव यामत्रयेणैव सुपाचितं भवेत् ॥

4.53

शीतीभूतं दोषहीनं तदेव कृत्वा चूर्णं गालितं वस्त्रखण्डे
सेव्यं सम्यक् चैकवल्लप्रमाणं कासं श्वासं हन्ति गुल्मप्रमेहान् ॥

4.53*

वल्लम् एकं ताम्रभस्म पूर्वाह्णे भिषजाज्ञया
परिणामभवं शूलं तथा चाष्टविधं च रुक् ॥

4.54

उदरं पाण्डुशोफं च गुल्मप्लीहयकृत्क्षयान्
अग्निसादक्षयकृतान् मेहादीन् ग्रहणीगदान् ॥

4.55

जयेद्बहुविधान् रोगान् अनुपानप्रभेदतः
पिप्पलीमधुना सार्धं सर्वदोषहरं परम् ॥

4.56

अर्शोऽजीर्णज्वरादींश्च निहन्ति च रसायनम्
वृद्धिश्वसनकासघ्नं जरामृत्युविनाशनम् ॥

4.57

यथोत्तरं स्याद् गुणवर्णहीनं प्रकाशितं वैद्यवरेण सम्यक्
कांतं तथा तीक्ष्णवरं हि मुण्डं लोहं भवेद्वै त्रिविधं क्रमेण ॥

4.58

कांतं चतुर्धा किल कथ्यतेऽत्र तद्रोमकं भ्रामकचुम्बके च
संद्रावकं श्रेष्ठतमं तथा हि संकथ्यते शास्त्रविदै रसज्ञैः ॥

4.59

खन्यां संखन्यमानायां पाषाणा निःसरन्ति ये
तेभ्यो यद्द्रावितं लोहं रोमकं तत्प्रचक्षते ॥

4.60

यत्र क्वापि गिरौ श्रेष्ठे लभ्यते भ्रामकोपलः
तस्माज्जातं तु यल्लौहं भ्रामकं तदिहोच्यते ॥

4.61

विंध्याचले भवेदश्मा लोहं चुम्बति चाद्भुतम्
न मुञ्चत्येव सततं शिवभक्तिं यथानुगः ॥

4.62

हिमाद्रौ लभ्यते दुःखाद् यः स्पृष्टो द्रावयेदयः
सुवर्णादींश्च तद्वद्धि तत्कांतं द्रावकं भवेत् ॥

4.63

शुद्धे कांतभवे पात्रे शृतं दुग्धं हि नोद्गिरेत्
पानीयं क्वथितं चास्मिन् हिंगुगंधसमं भवेत् ॥

4.64

तैलबिंदुर्जले क्षिप्तो न चातिप्रसृतो भवेत्
लेपोऽपि नैव जायेत शुद्धकांतस्य लक्षणम् ॥

4.65

मुंडाच्छतगुणं तीक्ष्णं तीक्ष्णात्कांतं महागुणम्
कोटिसंख्यागुणं प्रोक्तं चुंबकं द्रावकं तथा ॥

4.66

शशरक्तेन लिप्तं हि सप्तवारेण तापितम्
कांतादिसर्वलोहं हि शुध्यत्येव न संशयः ॥

4.67

सामुद्रलवणैस्तद्वल् लेपितं त्रिफलाजले
निर्वापितं भवेच्छुद्धं सत्यं गुरुवचो यथा ॥

4.68

लोहचूर्णं घृताक्तं हि क्षिप्त्वा लोहस्य खर्परे
अग्निवर्णप्रभं यावत् तावद्दर्व्या प्रचालयेत् ॥

4.69

खल्वे च विपचेत्तद्वत् पञ्चवारम् अतः परम्
वरोदकैः पुटेल्लोहं चतुर्वारम् इदं खलु ॥

4.70

सुपेषितं वारितरं जायते नात्र संशयः
अनेन विधिना कार्यं सर्वलोहस्य साधनम् ॥

4.71

जायते सर्वरोगानां सेवितं पलितापहम्
लोहचूर्णं पलद्वंद्वं गुडगंधौ समांशकौ ॥

4.72

खल्वे विमर्द्य नितरां पुटेद्विंशतिवारकम्
पेषणं तु प्रकर्तव्यं पुटः पश्चात्प्रदीयते ॥

4.73

अनेन विधिना सम्यग् भस्मीभवति निश्चितम्
सर्वरोगान्निहन्त्येव नात्र कार्या विचारणा ॥

4.74

श्वेता पुनर्नवापत्र तोयेन दशसंख्यकाः
पुटास्तत्र प्रदेयाश्च सिन्दूराभं प्रजायते ॥

4.75

अथापरः प्रकारोऽत्र कथ्यते लोहमारणे
लोहचूर्णसमं गंधं मर्दयेत्कन्यकाद्रवैः ॥

4.76

पिण्डीकृतं लोहपात्रे छायायां स्थापयेच्चिरम्
म्रियते नात्र संदेहो ह्य् अनुभूतं मयैव हि ॥

4.77

निरुत्थं लोहजं भस्म सेवेतात्र पुमान्सुधीः
व्योषवेल्लाज्यमधुना टंकमानेन मिश्रितम् ॥

4.78

जरां च मरणं व्याधिं हन्यात्पुत्रप्रदायकम्
जरादोषकृतान् रोगान् विनिहन्ति शरीरिणाम् ॥

4.79

बंगं तु द्विविधं प्रोक्तं खुरं मिश्रं तथैव च
यच्छुद्धं सरलं शुभ्रं खुरं तदभिधीयते ॥

4.80

भल्लातकभवे तैले खुरं शुध्यति ढालितम्
पुनर्नवासिन्धुचूर्ण विषयुक्तं प्रढालितम्
तक्रमध्ये त्रिवारं हि मिश्रं बंगं विशुध्यति ॥

4.81

छाणोपरि कृते गर्ते चिंचात्वक्चूर्णकं क्षिपेत्
कर्षमानां बंगचक्रीं तत्रोपरि निधापयेत् ॥

4.82

चक्रीं चतुर्गुणेनैव वेष्टितां धारयेत्ततः
छगणेन विशुष्केण पुटाग्निं दापयेत्ततः ॥

4.83

स्वांगशीतं समुद्धृत्य सर्वकार्येषु योजयेत्
अनेन विधिना शेषम् अपक्वं मारयेद् ध्रुवम् ॥

4.84

अथापरः प्रकारो हि वक्ष्यते चाधुना मया
शुद्धबंगस्य पत्राणि समान्येव तु कारयेत् ॥

4.85

अजाशकृत् वरा तुल्या चूर्णिता च निशा तथा
चतुरस्रमथो निम्नं गर्तं हस्तप्रमाणकम् ॥

4.86

कृत्वा छगणकैश्चार्धं पूरयेत्सततं भिषक्
ततः शणभवेनापि वस्त्रेणाच्छाद्य गर्तकम् ॥

4.87

पूर्वं प्रकल्पितं चूर्णं तत्रोपरि च विन्यसेत्
तस्योपरि च पत्राणि समानि परितो न्यसेत् ॥

4.88

चूर्णेनाच्छाद्य यत्नेन छगणेनाथ पूरयेत्
पुटयेदग्निना सम्यक् स्वांगशीतं समुद्धरेत् ॥

4.89

मृतं बंगं ततः पश्चान् मर्दयेत्पूरवारिणा
समांशं रससिन्दूरम् अनेन सह मेलयेत् ॥

4.90

खल्वे दृढतरं पिष्ट्वा काचकूप्यां निवेशयेत्
विपचेदग्नियोगेन यामषोडशमात्रया ॥

4.91

हेमप्रभं मृतं बंगं जायते रसवङ्गकम्
बंगं वातकरं रूक्षं तिक्तं मेहप्रणाशनम्
मेदःकृम्यामयघ्नं हि कफदोषविषापहम् ॥

4.92

सर्वरोगान् हरत्याशु शक्तिदायि गुणाधिकम् ॥

4.93

यथारोगबलं वीक्ष्य दातव्यं वल्लमात्रकम्
अशीतिर्वातजान् रोगान् तथा मेहांश्च विंशतिः
हन्ति भक्षणमात्रेण सप्तकैकेन नान्यथा ॥

4.94

बंगं वातकरं रूक्षं प्रोक्तं मेहप्रणाशनम्
कृमिमेदामयघ्नं हि कफदोषविषापहम् ॥

4.95

छेदे कृष्णं गुरु स्निग्धं द्रुतद्रावम् अथोज्ज्वलम्
कृष्णवर्णं बहिः शुद्धं नागं हितमतोऽन्यथा ॥

4.96

दालयेच्च रसे नागं सिन्दुवारहरिद्रयोः
एवं नागो विशुद्धः स्यान् मूर्च्छास्फोटादि नाचरेत् ॥

4.97

शुद्धनागस्य पत्राणि सदलान्येव कारयेत्
शिलां वासारसेनापि मर्दयेद् याममात्रकम् ॥

4.98

पत्राण्यालेपयेत्तेन ततः संपुटके न्यसेत्
पुटेन विपचेद् धीमान् वाराहेण खराग्निना
एवं कृते त्रिवारेण नागभस्म प्रजायते ॥

4.99

अथापरप्रकारेण नागमारणकं भवेत्
लोहपात्रे द्रुते नागे घर्षणं तु प्रकारयेत् ॥

4.100

चतुर्यामं प्रयत्नेन मूलैश्चैव पलाशजैः
अधस्ताज्ज्वालयेत्सम्यक् हठाग्निं म्रियते ध्रुवम्
रक्ताभं जायते चूर्णं सर्वकार्येषु योजयेत् ॥

4.101

जायते सर्वकार्येषु रोगोच्छेदकरं सदा
नागस्य मारणं प्रोक्तं बहुधा बहुभिर्बुधैः ॥

4.102

सर्वथा सूतनागस्य शंभोश्च मरणं नहि ॥

4.103

प्रमेहान् वातजान् रोगान् धनुर्वातादिकान् गदान्
विंशतिश्लेष्मजांश्चैव निहन्ति च न संशयः ॥

4.104

पित्तलं द्विविधं प्रोक्तं रीतिका काकतुंडिका
तप्ता तुषजले क्षिप्ता शुक्लवर्णा तु रीतिका ॥

4.105

निक्षिप्ता कांजिके कृष्णा सा स्मृता काकतुण्डिका ॥

4.106

पीताभा मृदु चेद्गुर्वी साराङ्गी हेमवर्णिका
मसृणाङ्गी तु सुस्निग्धा शुभा रीतीति कथ्यते ॥

4.107

दुर्गन्धा पूतिगन्धा वा खरस्पर्शा च पाण्डुरा
घनघाताक्षमा रूक्षा रीतिर्नेष्टा रसायने ॥

4.108

तापिता चैव निर्गुंडी रसे क्षिप्ता प्रयत्नतः
पञ्चवाराणि चायाति शुद्धिं रीतिस्तु तत्क्षणात् ॥

4.109

शिलागंधकसिन्धूत्थ रसैश्चातिप्रमर्दितैः
रीतिपत्राणि लेप्यानि पुटितान्यष्टधा पुनः
सद्यो भस्मत्वमायान्ति ततो योज्या रसायने ॥

4.110

रक्तपित्तहरा रूक्षा कृमिघ्नी रीतिका मता
काकतुंडा कुष्ठहरा सोष्णवीर्या सरा मता ॥

4.111

चतुर्भागेन रविणा भागैकं त्रपु चोत्तमम्
जायते प्रवरं कांस्यं तत्सौराष्ट्रभवं शुभम् ॥

4.112

तप्तं कांस्यं गवां मूत्रे सप्तवारेण शुध्यति
हरितालकगंधाभ्यां म्रियते पञ्चभिः पुटैः ॥

4.113

मृतं कांस्यं वातहरं प्रमेहाणां च नाशनम्
शुद्धे कांस्यभवे पात्रे सर्वमेव हि भोजनम्
पथ्यं संजायते नाम्लं घृतशाकादिवर्जितम् ॥

4.114

लोहकांस्यार्करीतिभ्यो जातं तद् वर्तलोहकम्
तदेव विडलोहाख्यं विद्वद्भिः समुदाहृतम् ॥

4.115

हयमूत्रे द्रुतं सम्यक् निक्षिप्तं शुद्धिमृच्छति
गन्धतालेन पुटितं म्रियते वर्तलोहकम् ॥

4.116

श्लेष्मपित्तहरं चाम्लं रुच्यं कृमिहरं तथा
नेत्ररोगप्रशमनं गलरोगनिबर्हणम् ॥

4.117

पथ्यं सर्वं हि तद्भाण्डे सर्वदोषहरं परम्
क्षारेणाम्लेन च विना दीप्तिकृत्पाचनं परम् ॥

4.118

संशोधनान्येव हि मारणानि गुणागुणान्येव मयोदितानि
अन्यानि शास्त्राणि सुविस्तराणि निरीक्ष्य यत्नात्कृतमेव सम्यक् ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc