रसप्रकाशसुधाकर · अध्याय 3
अथ मया रसभस्म निगद्यते सकलपारदशास्त्रनियोगतः
ससितकृष्णसुपीतकलोहितं भवति वर्णचतुष्टयभूषितम् ॥
हंसपाकदरदः सुशोभितो निखिलनिम्बरसेन विमर्दितः
नियतयामचतुष्टयमम्लके घनरसे समभागविलोडितः ॥
डमरुकाभिधयंत्रनिवेशितस् तदनु लोहरजः खटिकासमम्
सुपयसा लवणेन विमर्दितं कुरु भिषग्वर यन्त्रसुरोधनम् ॥
नियतयामचतुष्टयवह्निना मृदु समं रसमत्र विपाचयेत्
उपरि तत्र जलेन निषिञ्चयेद् इति भवेद्दरदाद् वरसूतकः ॥
अखिलशोधवरेण च वै यथा सकलकञ्चुकदोषविवर्जितः
बहुलदोषहरोऽपि भवेत्तथा भवति शुद्धतमो दरदोद्भवः ॥
विमलसूतवरो हि पलाष्टकं तदनु धातुखटीपटुकांक्षिकाः
पृथगिमाश्च चतुष्पलभागिकाः स्फटिकशुद्धपलाष्टकसंमिताः ॥
सह जलेन विमृद्य च यामकं लवणकाम्लजलेन विमिश्रिताः
उदितधातुगणस्य च मूषिकां कुरु विषं विनिवेशय तत्र वै ॥
डमरूकाभिधयंत्रवरेण तं द्विदशयामममुं पच वह्निना
पवनपित्तकफक्षयहारकः सकलरोगहरः परमः सदा ॥
गजपतेर् बलवद् बलदो नृणां द्विजपतीक्षणवन्नयनप्रदः
युवतिकामविलासविधायको भवति सूतवरः सुखदः सदा
सघनसाररसः किल कान्तिदस् त्व् अखिलकुष्ठहरः कथितो मया ॥
विगतदोषकृतौ रसगंधकौ तदनु लुङ्गरसेन परिप्लुतौ
प्रहरयुग्ममितं च शिलातले रविकरेण विमर्द्य विचूर्णितौ ॥
रुचिरकाचघटीविनिवेशितौ सिकतयंत्रवरेण दिनत्रयम्
कुरु भिषग्वर वह्निम् अधस्ततः स च भवेदरुणः कमलच्छविः ॥
उदयभास्करनामरसो ह्ययं भवति रोगविघातकरः स्वयम्
मगधजामधुना सह गुञ्जिका त्रयमितश्च सदा परिसेवितः ॥
ललितकामविधावभिलाषुकः स्थविरकोऽपि रतौ तरुणायते
गदहरो बलदोऽपि हि वर्णदो भवति कर्मविपाकजरोगहा
सकलसूतकशास्त्रविमर्शनाद् द्विजवरेण मया प्रकटीकृतः ॥
रसविदापि रसः परिशोधितो विगतदोषकृतोऽपि हि गंधकः
विमललोहमये कृतखर्परे ह्य् अमलसाररजः परिमुच्यताम् ॥
अतिकुशाग्नियुते द्रवति स्वयं तदनु तत्र रसः परिमुच्यताम्
विशदलोहमयेन च दर्विणा विघटयेत्प्रहरत्रयसंमितम् ॥
तदनु काचघटीं विनिवेश्य वै सिकतयन्त्रवरेण हि पाचितः
द्विदशयाममधःकृतवह्निना भवति रक्तरसस्तलभस्मसात् ॥
गतबलेन नरेण सुसेवितो भवति वाजिकरः सुखदः सदा ॥
स च वलीपलितानि विनाशयेच् छतशरत्सु निरामयकृत्परम् ॥
विमलनागवरैकविभागिकं हरजभागचतुष्टयमिश्रितम्
सततमेव विमर्द्य शिलातले बलिवसां च समां कुरु तद्भिषक् ॥
दिनमितं सुविमर्द्य च कन्यका स्वरस ऐनकरेण विशोषयेत्
तदनु सूतवरस्य तु कज्जलीं रुचिरकाचघटे विनिवेशय ॥
दिवसयुग्ममधः कृतवह्निना स च भवेदरुणः कमलच्छविः
सकलरोगविनाशनवह्निकृत् बलकरः परमोऽपि हि कान्तिकृत् ॥
नयनरोगविनाशकरो भवेत् सकलकामुकविभ्रमकारकः
स खलु कर्मविपाकजरोगहा विशदनागयुतः खलु पारदः ॥
मृदुमृदा रचिता मसृणेष्टिका उपरि गर्तवरेण च संयुता
रसवरं दशशाणमितं हि तत् सशुकपिच्छवरेण निधापयेत् ॥
सकलपूर्णकृतं च सुगर्तकं गलितनिम्बुफलोद्भवकेन वै
स्थगय तं च पिधानवरेण वै मृदितया सुमृदा परिमुद्रितम् ॥
तदनु कुक्कुटानां पुटे शृतो हुपलकेन वनोद्भवकेन वै
विधिविदा भिषजा ह्यमुना कृतो विमलषड्गुणगन्धकम् अश्नुते ॥
स च शरीरकरोऽप्यथ लोहकृत् सकलसिद्धिकरः परमो भवेत्
शतगुणं हि यदा परिजीर्यते रसवरः खलु हेमकरो भवेत् ॥
सशुकपिच्छसमोऽपि हि पारदो भवति खल्वतलेन च कुट्टितः
दृढतरामुपकल्पय पर्पटीं वसनबद्धकृतामपि पोटलीम् ॥
उपरि नागरसेन विलेपिता रविकरेण सदा परिशोषिताम्
कनकपत्ररसेन च सप्तधाप्य् अवनिगर्ततले विनिवेशय ॥
अवनिगर्तम् अरत्निकम् आयतं द्विदशमङ्गुलमेव सुनिम्नकम्
सिकतया परिपूर्य तदर्धकं तदनु तत्र निवेशय पोट्टलीम् ॥
उपरि वालुकया परिपूर्य तच् छगणकैश्च पुटं परिदीयताम्
द्विदशयामम् अथाग्निमहो कुरु भवति तेन महारसपोटली
इति मया कथिता रसपोटली बलकरा सुकरा सुखसिद्धिदा ॥
विशदसूतसमोऽपि हि गंधकस् तदनु खल्वतले सुविमर्दितः
त्रिदिनमेव हि हंसपदीरसे दिनकरस्य करेण सुशोषितः ॥
विमललोहमये दृढखर्परे तदनु कज्जलिकां प्रतिमुच्य वै
करमिता सुकृतापि हि चुह्लिका ह्य् उपरि तत्र निवेशय च भाजनं ॥
अमललोहमयेन च दर्विणा रसवरं नियतं परिमर्दयेत्
तदनु वह्निमधः कुरु वै दृढं सततमेव हि यामचतुष्टयम् ॥
सुपच एष रसो जलदोपमो भवति वल्लमितो मधुना युतः
कवलितः क्षयरोगगणापहो मदनवृद्धिकरः परमो नृणाम् ॥
स च वलीपलितानि विनाशयेत् सकलकुष्ठविनाशकरः परः ॥
मृदुमृदा परिकल्पितमूषिकां रसमिताङ्गुलिकां भुवि संन्यसेत्
रसवरं विमलं च सुशोभितं सशुकपिच्छसमं परिमर्दितम् ॥
रससमानमितं धृतमूषया द्वितययुग्मकृतं परिमुद्रितम्
कनकमूलरसेन च पाचितं तदनु सप्तदिनं कृशवह्निना ॥
रसवरस्य शुभं हि विपाचनं यवमितो रसराजवरस् तदा
दिनमुखे प्रतिहन्ति सुभक्षितः सकलदोषकृतां विकृतिं जयेत् ॥
रसवरं पलयुग्ममितं शुभं रुचिरताम्रमयः समभागिकम्
बलिवसां च घृतेन विमर्दयेद् अतिकृशाग्निकृते द्रवति स्वयम् ॥
तदनु ताम्ररसौ विनिवेश्यतां त्रयमिदं सरसं च विमर्दितम्
द्रुतमयं च सदायसभाजने तदनु सूतकृतां वरकज्जलीम् ॥
विघटयेदथ लोहसुदर्विणा तदनु मोचदलोपरि ढाल्यते
भवति सारतमा रसपर्पटी सकलरोगविघातकरी हि सा ॥
कुरु समानकटुत्रयसंयुतां मरिचयुग्ममितां सुखदां सदा ॥
अनुपाने प्रयोक्तव्या त्रिफलाक्षौद्रसंयुता
पर्पटीं भक्षयेत्प्रातस् तथा त्र्यूषणसंयुताम् ॥
सन्निपातहरा सा तु पञ्चकोलेन संयुता
भक्षिता मधुना सार्धं सर्वज्वरविनाशिनी ॥
कणाक्षौद्रेण सहिता सर्वशोफान्निकृन्तति
श्यामात्रिकटुकेनापि वातजां ग्रहणीं जयेत् ॥
गुग्गुलुत्रिफलासार्धं वातरक्तं विनाशयेत्
वातशूलहरा सम्यक् हिंगुपुष्करसंयुता ॥
व्योषैः कन्यारसैर्वापि कफामयविनाशिनी
दशमूलशृतेनापि वातज्वरनिबर्हणी ॥
वाकुचीबीजकल्केन कण्डूपामे विनाशयेत्
आरुष्करेण सहिता सा तु सिध्मविनाशिनी ॥
गोमूत्रेणानुपानेन चार्शोरोगविनाशिनी
नवमाल्यर्जुनश्चैव चित्रको भृङ्गराजकः ॥
शाल्मली निम्बपंचांगं कल्हारश्च गुडूचिका
निर्गुंडी च समांशानि कारयेद्भिषगुत्तमः ॥
चूर्णीकृत्य च तत्सर्वं पर्पट्याश्चानुपानकम्
अष्टादश च कुष्ठानि निहन्त्येव न संशयः ॥
पर्पटी रसराजश्च रोगान्हन्त्यनुपानतः
अपथ्यं नैव भुञ्जीयाद् दोषदूष्याद्यपेक्षया ॥
शुद्धं रसं गंधकमेव शुद्धं पृथक् समांशं कुरु यत्नतस्ततः
एरंडमूलस्य रसेन सूतं तथाद्रिकर्ण्या स्वरसेन मर्दयेत् ॥
तं काकमाच्याः स्वरसेन पिष्ट्वा तथा च तं दाडिमबीजतोयैः
क्रमेण सूतं हि दिनैश्चतुर्भिः शुद्धत्वमायाति हि निश्चयेन ॥
ततस्तु गंधं खलु मार्कवद्रवैर् विभाव्यमानं कुरु लोहपात्रे
प्रद्रावयेत्तं बदरस्य चाग्निना प्रढालयेद् भृंगरसे त्रिवारम् ॥
कार्या ततः कज्जलिका विमर्द्य तां द्रावयेल्लोहमये सुपात्रे
प्रढालयेत्तां कदलीदले हि संछाद्य चान्येन दलेन पश्चात् ॥
तस्यास् त्व् अधोर्ध्वं प्रददीत गोमयं शीतीकृता गव्यघृतेन भर्जिता ।
रोगानशेषान्मलदोषजातान् हिनस्ति चैषा रसपर्पटी हि ॥
सा जीरकेणैव तु रामठेन वातामशूलं गृहणीं सकामलाम्
गुल्मानि चाष्टावुदराणि हन्यात् संसेविता शुद्धरसस्य पर्पटी ॥
मयापि सद्वैद्यहिताय नूनं प्रदर्शितेयं खलु रोगनाशिनी ॥
सूतं सुशुद्धं लवणैश्चतुर्भिः क्षारैस्त्रिभिश्चापि विमर्दयेच्च
संशोष्य पश्चादपि हिंगुराजिका शुंठीभिरेभिश्च समं विमर्द्य ॥
रसेन सार्धं हि कुमारिकाया मूषां विदध्याद्रविघर्मशोषिताम्
तस्यां निधायाथ रसस्य गोलकं तं स्वेदितं चाम्लरसेन सम्यक् ॥
यामाष्टकेनाग्निकृतेन दोलया पश्चाद् रसेनाभिविमर्दितोऽसौ
भेकपर्ण्युरुवुभृंगराजकैः शृङ्गवेरगिरिकर्णिकारसैः ॥
काकमाचिजविभक्तिकाजलैर् धूर्तजैरपि जयन्तिकाद्रवैः
सिंधुवारकरसेन मर्दितं मसृणखल्वतले त्रिवासरम् ॥
प्रतिरसं च विशोष्य हि भक्षयेद् रक्तिकाद्वयमितं रुजापहम्
केकिमाहिषवराहपित्तकैः कच्छपस्य च रसेन मर्दितम्
जायतेऽधिकतरं गुणेन वै सन्निपातभवमूर्च्छनं जयेत् ॥
यः श्रीसूतवरस्य सेवनमिदं नित्यं करोतीह वै दीर्घायुर्धनधान्यधर्मसहितः प्राप्नोति सौख्यं परम्
लोके कीर्तिपरंपरां वितनुते धर्मे मतिर्जायते प्रान्ते तस्य परा गतिर्हि नियतं सत्यं शिवेनोदितम् ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0