रसप्रकाशसुधाकर · अध्याय 2
अथेदानीं प्रवक्ष्यामि रसराजस्य बंधनम्
अनुभूतं मया किंचित् गुरूणां हि प्रसादतः ॥
बंधश्चतुर्विधः प्रोक्तो जलौका खोटपाटकौ
तथा भस्माभिधः साक्षात् कथितोऽपि रसागमे ॥
पक्वबन्धो जलौका स्यात् पिष्टीस्तम्भस्तु खोटकः
पाटः पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥
मूलिकात्र मणिश्चैव स्वर्णकं नागवङ्गके
चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥
उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यमः
अधमो धातुबन्धस्तु पूतिबन्धो ऽधमाधमः ॥
द्रुतिबन्धः पञ्चमोऽसौ देहलोहकरः सदा
अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरैः ॥
क्रमप्राप्तमिदं वक्ष्ये मूलिकाबन्धनं रसे
शुद्धो राक्षसवक्त्रश्च रसश्चाभ्रकजारितः ॥
इङ्गुदीमूलनिर्यासे मर्दितः पारदस्त्र्यहम्
तत उद्धृत्य वस्त्रेण बंधनं कारयेद् भिषक् ॥
कांजिके स्वेदनं कुर्यान् नियतं सप्तवासरम्
पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥
ततो धूर्तफले न्यस्तं स्वेदयेच्छतसंख्यया
पाचितोऽसौ महातैले धूर्ततैले ऽन्नराशिके ॥
बद्धस्तु तेन विधिना कठिनत्वं प्रजायते
वंगस्य स्तम्भनं सम्यक् करोत्येव न संशयः ॥
धारितोऽसौ मुखे साक्षाद् वीर्यस्तम्भकरः सदा
मूलिकाबंधनं ह्येकं कथितं पारदस्य वै ॥
अथापरः प्रकारो हि बन्धनस्यापि पारदे
नागार्जुनीमूलरसैर् मर्दयेद् दिनसप्तकम् ॥
मुखचर्वणसम्भूतैर् निम्बकाष्ठेन पेषितः
नवनीतसमस् तेन जायते पारदस्ततः ॥
वस्त्रेण बंधनं कृत्वा फले धौर्ते निवेशयेत्
गोमयैर्वेष्टितं तच्च करीषाग्नौ विपाचयेत् ॥
लावकाख्ये पुटे सम्यक् क्रमवृद्ध्या शतं पुटेत्
मासत्रयप्रमाणेन पाचयेदन्नमध्यतः ॥
पश्चात्पुटशतं दद्याच् छगणेनाथ पूर्ववत्
अनेनैव प्रकारेण बध्यते सूतकः सदा ॥
दृष्टप्रत्यययोगोऽयं कथितः साधकाय वै
धारितोऽसौ मुखे सम्यक् वीर्यस्तंभकरः परम्
वंगस्तंभकरोऽप्येवं बद्धः सूतवरोऽप्यलम् ॥
शुद्धं सुजारिताभ्रं वै सूतकं च विमर्दयेत्
अर्कमूलरसेनैव वासरैकं प्रयत्नतः ॥
वज्रमूषा ततः कार्या सुदृढा मसृणीकृता
अर्कमूलभवेनैव कल्केन परिलेपिता ॥
मूषामध्ये रसं मुक्त्वा चान्धयेद् अन्यमूषया
यामार्धं ध्मापितः सम्यक् रसखोटः प्रजायते ॥
स्वांगशीतं परिज्ञाय रसखोटं समुद्धरेत्
वर्षमात्रं धृतो वक्त्रे वलीपलितनाशनः ॥
सर्वसिद्धिकरोऽप्येष मूलिकाबद्धपारदः
मूलिकाबंधनं सत्यं कृतं नागार्जुनादिभिः ॥
सर्वसिद्धिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥
शुद्धं रसवरं सम्यक् तथैवाम्बरभक्षितम्
जलकूम्भीरसैः पश्चान् मर्दयेद्दिनसप्तकम् ॥
तस्याः प्रकल्पयेन्मूषां सूतकं तत्र निक्षिपेत्
अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत् ॥
पुटं तत्र प्रदातव्यं एकेनारण्यकेन च
पुटान्येवं प्रदेयानि एकैकोत्पलवृद्धितः ॥
अनेनैव प्रकारेण पुटानि त्रीणि दापयेत्
बन्धमाप्नोति सूतेन्द्रः सत्यं गुरुवचो यथा ॥
चूर्णीकृतानि सततं धूर्तबीजानि यत्नतः
सूतराजसमान्येवम् ऊर्ध्वयन्त्रेण पातयेत् ॥
एकविंशतिवाराणि ततः खल्वे निधापयेत्
इङ्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥
भृंगराजरसेनैव विषखर्परकेन च
पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥
त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम्
दोलायंत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥
विषमूषोदरे धृत्वा मांसे सूकरसंभवे
भर्जयेद्धूर्ततैलेन सप्ताहाज्जायते मुखम् ॥
कठिनो वज्रसदृशो जायते नात्र संशयः
क्षीरं शोषयते नित्यं कौतुकार्थे न संशयः ॥
वीर्यं वंगं स्तम्भयति सत्यं सत्यं न संशयः
प्रकाराः कथिताः पञ्च सूतराजस्य बंधने ॥
वज्रबंधं द्वितीयं तु क्रमेणैव यथातथम्
रसशास्त्राणि बहुधा निरीक्ष्य प्रवदाम्यहम् ॥
वज्रसत्वं तथा सूतं समांशं कारयेद् बुधः
रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥
वंध्याकर्कोटिकामूल रसेनैवाथ भावयेत्
तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥
काम्बोजीरसकेनापि तथा नाडीरसेन वै
आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥
सूर्यातपे दिनैकैकं क्रमेणानेन मर्दयेत्
अंधमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥
लोहसंपुटके पश्चान् निक्षिप्तं मुद्रितं दृढम्
घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥
स्वांगशीतलकं ज्ञात्वा गृह्णीयातां च मूषिकाम्
उत्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत् ॥
काचटंकणयोगेन ध्मापितं तं च गोलकम्
वेधते शतवेधेन सूतको नात्र संशयः ॥
वक्त्रस्थो निधनं हन्याद् देहलोहकरो भवेत् ॥
वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत्
त्रिनेमिकावज्रवल्ली सहदेवीरसेन च ॥
स्नुहिक्षीरेण सप्ताहं सूर्यघर्मे सुतीव्रके
रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ॥
काकमाचीरसेनैव लांगलीस्वरसेन हि
गोजिह्विकारसेनैव सप्तवारं प्रलेपयेत् ॥
वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया
लोहसंपुटमूषायाम् अन्धितं मध्यसंस्थितम् ॥
सप्तमृत्कर्पटैः सम्यग् लेपितं सुदृढं कुरु
ध्मापितं दृढमंगारैस् तत्रस्थं शीतलीकृतम् ॥
भित्त्वा मूषागतं सूतं खोटं नक्षत्रसन्निभम्
सर्वकार्यकरं शुभ्रं रञ्जितं वेधकृद्भवेत् ॥
अभ्रकद्रुतिभिः सार्धं सूतकं च विमर्दयेत्
समांशेन शिलापृष्ठे यामत्रयमनारतम् ॥
कस्तूरीधनसाराभ्यां कृष्णागरुसमन्वितम्
शर्करालशुनाभ्यां च रामठेन च संयुतम् ॥
पलाशबीजस्य तथा तत्प्रसूनरसेन हि
तीक्ष्णांशुनाथ मृदितं द्रुतिभिः सह सूतकम् ॥
मिलत्येव न संदेहः किमन्यैर् बहुभाषितैः
ततो गुञ्जारसेनैव श्वेतवृश्चीवकस्य च ॥
लांगल्याश्च रसैस्तावद् यावद्भवति बन्धनम् ॥
ततः प्रकाशमूषायां पञ्चांगारैर्धमेत्क्षणम्
बन्धमायाति वेगेन यथा सूर्योदये ऽम्बुजम् ॥
अभ्रद्रुतिसमायोगे रसेन्द्रो वध्यते खलु
शिवभक्तो भवेत्साक्षात् सत्यवाक् संयतेन्द्रियः ॥
शिवयोर्मेलनं सम्यक् तस्य हस्ते भविष्यति
रसागमेषु यत्प्रोक्तं बंधनं पारदस्य च ॥
कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् ॥
वज्राणां ब्रह्मजातीनां द्रुतिर्वल्लप्रमाणिका
तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ॥
तावत्तं मर्दयेत्सम्यग् यावत् पिष्टी प्रजायते
कृत्वा मूषां समां शुद्धां दहनोपलनिर्मिताम् ॥
तन्मध्ये पिष्टिकां मुक्त्वा पिष्टीमानं विषं त्वहेः
पिधानं तादृशं कुर्यान् मुखं तेनाथ रुन्धयेत् ॥
कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम्
भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ॥
चित्रं घर्मप्रसंगेन बन्धमायाति पारदः
यामात्खरातपे नित्यं शिवेनोक्तम् अतिस्फुटम् ॥
वज्रद्रुतिसमायोगात् सूतो बन्धनकं व्रजेत्
सर्वेषां सूतबन्धानां श्रेष्ठं सत्यमुदीरितम् ॥
अथेदानीं प्रवक्ष्यामि सूतराजस्य बन्धनम्
हेमद्रुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ॥
ज्वालामुखीरसेनैव धौतः पश्चाच्च कांजिकैः
प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ॥
अंधमूषागतं पश्चान् मृदा कर्पटयोगतः
लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ॥
द्वादशांगुलविस्तीर्णं द्वादशांगुलनिम्नकम्
खातप्रमाणं कथितं गुरुमार्गेण च स्फुटम् ॥
तत्रोपरि पुटं देयं गजाह्वं छगणेन च
यामद्वादशकेनैव बध्यते पारदः स्वयम् ॥
हेमद्रुतौ बद्धरसो देहलोहप्रसाधकः
सर्वसिद्धिकरः श्रीमान् जरादारिद्र्यनाशनः ॥
धातुबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया
तदहं कथयिष्यामि साधकार्थे यथातथम् ॥
भूर्जवत्सूक्ष्मपत्राणि कारयेत्कनकस्य च
तान्येव कोलमात्राणि पलमात्रं तु सूतकम् ॥
मर्दयेन्निम्बुकद्रावैर् दिनमेकमनारतम्
ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ॥
चुल्यामारोपणं कार्यं धान्याम्लेन निषिञ्चयेत्
पिष्टिस्तंभस्तु कर्तव्यो नियतं त्रिदिनावधि ॥
ततो धूर्तरसेनैव स्वेदयेत्सप्तवासरान्
श्वेता पुनर्नवा चिंचा सहदेवी च नीलिका ॥
तथा धूर्तवधूश् चैव लांगली सुरदालिका
सूतबन्धकरा श्रेष्ठा प्रोक्ता नागार्जुनादिभिः ॥
एतासां स्वरसैः पङ्कैर् लेपयेत्सूतगोलकम्
त्रिगुणैर् भूर्जपत्रैस्तु वेष्टयेत्तदनंतरम् ॥
वस्त्रेण पोटलीं बद्ध्वा स्वेदयेन्निंबुकद्रवैः
यामत्रयं प्रयत्नेन धौतः पश्चाद् गवां जलैः ॥
ततो धूर्तफलान्तस्थं पाचयेद्बहुभिः पुटैः
लावकाख्यैः सुमतिमान् शोभनः सूर्यकान्तिवत्
जायते नात्र संदेहो बद्धः शिवसमो भवेत् ॥
अष्टमांशेन रूप्येन सूतकं हि प्रमर्दयेत्
चांगेरीस्वरसेनैव पिष्टिकां कारयेद् बुधः ॥
खोटं बद्ध्वा तु विपचेत् धूर्ततैले त्रिवासरान्
तथा च कंगुणीतैले करवीरजटोद्भवे ॥
जातीफलोद्भवेनापि वत्सनागोद्भवेन च
भृंग्युद्भवेन च तथा समुद्रशोषकस्य वै ॥
देवदारुभवेनापि पाचयेन्मतिमान् भिषक्
पश्चात्सुतीक्ष्णमदिरा दातव्या तु तुषाग्निना ॥
दिनानि सप्तसंख्यानि मुखम् उत्पद्यते ध्रुवम्
शुक्रस्तम्भकरः सम्यक् क्षीरं पिबति नान्यथा ॥
लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम्
अष्टसंस्कारितं सूतं तस्मिन्निक्षिप्य मात्रया ॥
तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवैः
पिधानेन मुखं रुद्ध्वा लोहपात्रस्य यत्नतः ॥
निर्वाते निर्जने देशे त्रिदिनं स्थापयेत्ततः
उष्णकांजिकयोगेन क्षालयेद् बहुशो भिषक् ॥
नवनीतसमो वर्णः सूतकस्यापि दृश्यते
रसखोटं ततो बद्ध्वा स्वेदयेत्कांजिकैस्त्र्यहम् ॥
अश्मचूर्णस्य कणिकाम् अध्ये खोटं निधाय च
जलसेकः प्रकर्तव्यः शीतीभूतं समुद्धरेत् ॥
अनेनैव प्रकारेण त्रिवारं पाचयेद् ध्रुवम्
कठिनत्वं प्रयात्येव सत्यं गुरुवचो यथा ॥
ततो धूर्तफलानां हि सहस्रेणापि पाचयेत्
मुखम् उत्पद्यते सम्यक् वीर्यस्तंभकरो ऽप्ययम् ॥
वंगतीक्ष्णे समे कृत्वा ध्मापयेद्वज्रमूषया
वङ्गम् उत्तारयेत्सम्यक् तीव्राङ्गारैः प्रयत्नतः ॥
अनेनैव प्रकारेण त्रिगुणं वाहयेत्त्रपु
बीजं शाणप्रमाणं हि सूतं पलमितं भवेत् ॥
मर्दयेत्कन्यकाद्रावैर् दिनमेकं विशोषयेत्
गोलस्य स्वेदनं कार्यम् अहोभिः सप्तभिस्तथा ॥
त्रिफलाक्वाथमध्ये तु त्रियामं स्वेदयेत्सुधीः
कुमार्याः स्वरसेनैव भृंगराजरसेन हि ॥
भृंगीरसेन च तथा त्रिदिनं स्वेद्यमेव हि
एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥
खटीपटुशिवाभक्तं पिष्ट्वा वक्त्रं निरुन्धयेत्
खातं त्रिहस्तमात्रं स्याल् लद्दीपूर्णं तु कारयेत् ॥
मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत्
भूमिस्थां मासयुग्मेन पश्चादेनां समुद्धरेत् ॥
बद्धं सूतवरं ग्राह्यं शुभ्रं चंद्रप्रभानिभम्
मुखस्थं कुरुते सम्यक् दृढवज्रसमं वपुः ॥
कामिनीनां शतं गच्छेद् वलीपलितवर्जितः
देवीशास्त्रानुसारेण धातुबद्धरसोऽप्ययम् ॥
प्रकाशितो मया सम्यक् नात्र कार्या विचारणा ॥
रसेंद्रः कान्तलोहं च तीक्ष्णलोहं तथैव च
अभ्रसत्वं तथा ताप्य सत्वं हेमसमन्वितम् ॥
समांशानि च सर्वाणि मर्दयेन्निम्बुकद्रवैः
निषेचयेदेकदिनं पश्चाद् गोलं तु कारयेत् ॥
पक्वमूषा प्रकर्तव्या गोलं गर्भे निवेशयेत्
गोजिह्वा काकमाची च निर्गुंडी दुग्धिका तथा ॥
कुमारी मेघनादा च मधुसैंधवसंयुता
एतासां स्वरसेनैव स्वेदयेद्बहुशो भिषक् ॥
यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम्
वक्त्रे धृतं जरामृत्युं निहन्ति च न संशयः ॥
सर्वरोगान्निहत्याशु वयः स्तम्भयते ध्रुवम्
कर्णे कण्ठे तथा हस्ते धारिता मस्तकेऽपि वा
अभिचारादिदोषाश्च न भवन्ति कदाचन ॥
चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि
कुर्वन्ति ये तत्त्वविदो भिषग्वरा राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥
इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर् लब्धम् एतत् सुरत्नम्
सकलगुणवरिष्ठा वादिनः कौतुकज्ञा निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0