भाषा

ENहिગુ
ग्रंथ पाठ

रसप्रकाशसुधाकर · अध्याय 1

1.1

शशिकलाकलितं हि शुभाननं शिवनिधानमथो ऋषिपूजितम्
जननपालनसंहरणात्मकं हरिहरं प्रथमं प्रणमाम्यहम् ॥

1.2

कुमुदकुन्दसिताम्बरधारिणीं विमलमौक्तिकहारसुशोभिताम्
सकलसिद्धगणैर् अपि सेविताम् अहरहः प्रणमामि च शारदाम् ॥

1.3

वदनकुंजरम् अभ्रदलद्युतिं त्रिनयनं च चतुर्भुजवामनम्
कनकरत्नसुशोभितशेखरं गणपतिं प्रथमं प्रणमाम्यहम् ॥

1.4

गिरिशधाम सदा महदद्भुतं सकलरोगविघातकरं परम्
सकलसिद्धिसमूहविशारदं प्रणतपापहरं भवपारदम् ॥

1.5

प्रथमं पारदोत्पत्तिं कथयामि यथातथम्
ततः शोधनकं तस्य तथाष्टादश कर्म च ॥

1.6

चतुर्धा बंधविज्ञानं भस्मत्वं सूतकस्य च
धातूनां शोधनं चैव मारणं गुणवर्णनम् ॥

1.7

अष्टौ महारसाः सम्यक् प्रोच्यन्ते ऽत्र मया खलु
तथा चोपरसानां हि गुणाः शोधनमारणम् ॥

1.8

द्रुतिपातं च सर्वेषां कथयामि सविस्तरम्
रत्नानां गुणदोषश्च तथा शोधनमारणम् ॥

1.9

क्रामणं रंजनं चैव द्रुतिमेलानकं रसे
रसांश्च शतसंख्याकान् कथयामि सविस्तरात् ॥

1.10

औषधीनां समाख्याता भेदाश्चत्वार एव च
दिव्यौषध्यो रसौषध्यः सिद्धौषध्यस्तथा पराः ॥

1.11

महौषध्य इति प्रोक्ता यंत्राण्यथ पुटानि च
मूषाश्चैव हि धातूनां कौतुकानि समासतः ॥

1.12

वाजीकरणयोगाश्च शुक्ररतंभकरास्त
नातिसंक्षेपविस्तारात् ग्रंथे ऽस्मिन् परिकल्पिताः ॥

1.13

हिमालयात्पश्चिमदिग्विभागे गिरीन्द्रनामा रुचिरो ऽस्ति भूधरः
तत्सन्निधाने ऽतिसुवृत्तकूपे साक्षाद्रसेंद्रो निवसत्ययं हि ॥

1.14

कुमारिकारूपगुणेन युक्ता स्वलंकृता वाहवरे ऽधिरूढा
तत्रागता कूपमवेक्षमाणा निवर्तिता सा महता जवेन ॥

1.15

प्रधावितः सूतवरश्चतुर्षु ककुप्सु भूमौ पतितो हि नूनम् ॥

1.16

परितः पर्वतात्सम्यक् क्षेत्रं द्वादशयोजनम्
विस्तीर्णं च सुवृत्तं हि सूतकस्य समीरितम् ॥

1.17

तन्मृदः पातने यंत्रे पातितः खलु रोगहा
जायते रुचिरः साक्षाद् उच्यते पारदः स्वयम् ॥

1.18

कूपाद्विनिःसृतः सूतश् चतुर्दिक्षु गतो द्विजः
क्षत्रियो वैश्यशूद्रौ च चतुर्णां जायते खलु ॥

1.19

श्वेता कृष्णा तथा पीता रक्ता वै जायते छविः
प्राच्यां याम्यां प्रतीच्यां च कौबेर्यां च दिशि क्रमात् ॥

1.20

श्वेतः श्वेतविधाने स्यात् कृष्णो देहकरस्तथा
पीतवर्णः स्वर्णकर्ता रक्तो रोगविनाशकृत् ॥

1.21

सर्व एकीकृता एव सर्वकार्यकराः सदा
सेविताः सर्वरोगघ्नाः सर्वसिद्धिविधायकाः ॥

1.22

इत्थं सूतोद्भवं ज्ञात्वा न रोगैवार्ध्यते खलु
शोधितो मारितश्चैव क्रामितः सारितः शुभः ॥

1.23

स्वेदनं मर्दनं चैव मूर्च्छनं स्यात्तदुत्थितम्
पातनं रोधनं सम्यक् नियामनसुदीपने ॥

1.24

तथाभ्रकग्रासमान चारणं च क्रमेण हि
गर्भद्रुतिर्बाह्यद्रुतिः प्रोक्तं जारणकं तथा ॥

1.25

सारणं क्रामणं प्रोक्तं वेधकर्म च रंजनम्
सेवनं पारदस्याथ कर्माण्यष्टादशैव हि
उद्देशतो मयात्रैव नामानि कथितानि वै ॥

1.26

दोषाः पञ्च समुद्दिष्टाः पारदानां भिषग्वरैः
मलो विषं तथा वह्निर् मदो दर्पश्च वै क्रमात्
मूर्च्छां मृत्युं मदं चैव स्फोटं कुर्युः शिरोभ्रमम् ॥

1.27

कञ्चुकाः सप्त सूतस्य कथयामि यथार्थतः
नामानि कथयाम्येषां देवीशास्त्रानुसारतः ॥

1.28

मृच्छैलजलशुल्बायो नागवंगसमुद्भवाः
सूतके कंचुकाः सप्त ततश्चैव विषोपमाः ॥

1.29

द्वादशैव हि दोषाः स्युर् यैश्च निष्कासिता द्विजैः
तेषां हि रससिद्धिः स्याद् अपरे यमसन्निभाः
तस्माद्दोषापहरणं कर्तव्यं भिषगुत्तमैः ॥

1.30

तत्र स्वेदनकं कुर्याद् यथावच्च शुभे दिने
सूतस्य स्वेदनं कार्यं दोलायंत्रेण वार्तिकैः ॥

1.31

क्षारौ चाम्लेन सहितौ तथा च पटुपंचकम्
त्रिकटु त्रिफला चैव चित्रकेण समन्विता ॥

1.32

पुष्पकासीससौराष्ट्र्यौ सर्वाण्येव तु मर्दयेत्
ओषधानि समांशानि रसाद् अष्टमभागतः ॥

1.33

कृत्वान्धमूषां तेषां तु तन्मध्ये पारदं क्षिपेत्
त्रिगुणेन सुवस्त्रेण भूर्जपत्रेण वेष्टयेत् ॥

1.34

गुणेन काष्ठखण्डे वै बद्धां तु रसपोटलीम्
लम्बायमानां भाण्डे तु तुषवारिप्रपूरिते ॥

1.35

त्रिदिनं स्वेदयेत्सम्यक् स्वेदनं तदुदीरितम् ॥

1.36

अथ मर्दनकं कर्म येन शुद्धतमो रसः
प्रजायते विस्तरेण कथयामि यथातथम् ॥

1.37

खल्वे विमर्दयेत्सूतं दिनानि त्रीणि चैव हि
अथ खल्वप्रमाणं हि वक्ष्ये तत्र मयाधुना ॥

1.38

कलांगुलस् तदायामश् चोत्सेधो ऽपि नवांगुलः
विस्तरेण तथा कुर्यान् निम्नत्वेन षडङ्गुलम् ॥

1.39

द्व्यंगुलः पृष्ठविस्तारो मध्ये ऽतिमसृणीकृतः
अर्धचन्द्राकृतिश्चापि मर्दको ऽत्र दशांगुलः ॥

1.40

सूतः पञ्चपलस्तस्मिन् मर्दयेत् काञ्जिकैस्त्र्यहम्
बहिर्मलविनाशाय रसराजं तु निश्चितम् ॥

1.41

उष्णकांजिकतोयेन क्षालयेत् तदनन्तरम् ॥

1.42

अतःपरं प्रवक्ष्यामि पारदस्य तु मूर्च्छनम्
मूर्च्छनं दोषरहितं सप्तकञ्चुकनाशनम् ॥

1.43

स्वर्जिका यावशूकश्च तथा च पटुपंचकम्
अम्लौषधानि सर्वाणि सूतेन सह मर्दयेत् ॥

1.44

खल्वे दिनत्रयं तावद् यावन्नष्टत्वम् आप्नुयात्
स्वरूपस्य विनाशेन मूर्च्छनं तदिहोच्यते
निर्मलत्वम् अवाप्नोति ग्रन्थिभेदश्च जायते ॥

1.45

अथोत्थापनकं कर्म पारदस्य भिषग्वरैः
करणीयं प्रयत्नेन रसशास्त्रस्य वर्त्मना ॥

1.46

दोलायंत्रे ततः स्वेद्यः पूर्ववद्दिवसत्रयम्
सूर्यातपे मर्दितो ऽसौ दिनमेकं शिलातले
उत्थापनं भवेत्सम्यक् मूर्छादोषविनाशनम् ॥

1.47

पातनं हि महत्कर्म कथयामि सुविस्तरम्
त्रिधा पातनमित्युक्तं रसदोषविनाशनम् ॥

1.48

ऊर्ध्वपातस्त्वधःपातस् तिर्यक्पातः क्रमेण हि
ऊर्ध्वपातनयंत्रस्य लक्षणं तदिहोच्यते
मृण्मयी स्थालिका कार्या चोच्छ्रिता तु षडंगुला ॥

1.49

मुखे सप्ताङ्गुलायामा परितस्त्रिदशांगुला
इयन्माना द्वितीया च कर्तव्या स्थालिका शुभा ॥

1.50

क्षारद्वयं रामठं च तथा हि पटुपञ्चकम्
अम्लवर्गेण संयुक्तं सूतकं तैस्तु मर्दयेत् ॥

1.51

लेपयेत्तेन कल्केन अधःस्थां स्थालिकां शुभाम्
उपरिस्थाम् अधोवक्त्रां दत्त्वा संपुटमाचरेत् ॥

1.52

सभस्मलवणेनैव मुद्रां तत्र प्रकारयेत्
चुल्यां स्थालीं निवेश्याथ धान्याग्निं तत्र कारयेत् ॥

1.53

तस्योपरि जलाधानं कार्यं यामचतुष्टयम्
स्वाङ्गशीतलतां ज्ञात्वा ऊर्ध्वंगं ग्राहयेद्रसम् ॥

1.54

ऊर्ध्वपातनयंत्रं हि तदेवं परिकीर्तितम्
पूर्वोक्तां स्थालिकां सम्यक् विपरीतां तु पंकिले
गर्ते तु स्थापितां भूमौ ज्वालयेन्मूर्ध्नि पावकम् ॥

1.55

यामत्रितयपर्यंतं अधः पतति पारदः
अधःपातनयंत्रं हि कीर्तितं रसवेदिभिः ॥

1.56

पूर्वोक्तैरौषधैः सार्धं रसराजं विमर्दयेत्
तिर्यग्घटे रसं क्षिप्त्वा तन्मुखे ह्यपरो घटः ॥

1.57

कनीयानुदरे छिद्रं छिद्रे चायसनालिकाम्
नालिकां जलपात्रस्थां कारयेच्च भिषग्वरैः ॥

1.58

अधस्ताद्रसयंत्रस्य तीव्राग्निं ज्वालयेद्बुधः
यामत्रितयपर्यंतं तिर्यक्पातो भवेद्रसः ॥

1.59

यंत्राणां पातनानां च त्रितयं सुकरं खलु ॥

1.60

कथितं हि मया सम्यक् रसागमनिदर्शनात् ॥

1.61

अधुना कथयिष्यामि रसरोधनकर्म च
यत्कृते च पलत्वं हि रसराजस्य शाम्यति ॥

1.62

सिन्धूद्भवं दशपलं जलप्रस्थत्रयं तथा
धारयेद्घटमध्ये च सूतकं दोषवर्जितम् ॥

1.63

पिधानेन यथा सम्यक् मुद्रितं मृत्स्नया खलु
निर्वाते निर्जने देशे धारयेद् दिवसत्रयम् ॥

1.64

अनेनैव प्रकारेण रोधनं कुरु वैद्यराट् ॥

1.65

अतःपरं प्रवक्ष्यामि पारदस्य नियामनम्
जलसैंधवसंयुक्तो घटस्थो हि रसोत्तमः
दिनत्रयं स्वेदितश्च वीर्यवानपि जायते ॥

1.66

अथेदानीं प्रवक्ष्यामि रसराजस्य दीपनम्
बुभुक्षा व्यापकत्वं च येन कृत्वा प्रजायते ॥

1.67

राजिका लवणोपेता मरिचं शिग्रुटंकणे
कासीससंयुता कांक्षी कांजिकेन समन्वितैः ॥

1.68

दिनानि त्रीणि संस्वेद्य पश्चात् क्षारेण मर्दयेत्
अनेनैव प्रकारेण दीपनं जायते ध्रुवम् ॥

1.69

तीव्रत्वं वेगकारित्वं व्यापकत्वं बुभुक्षुता
बलवत्त्वं विशेषेण कृते सम्यक् प्रजायते ॥

1.70

मुखोत्पादनकं कर्म प्रकारो दीपनस्य हि
कथयामि समासेन यथावद्रसशोधनम् ॥

1.71

अष्टादशांशभागेन कनकेन च सूतकः
निम्बूरसेन संमर्द्यो वासरैकमतःपरम् ॥

1.72

क्षारैश्च लवणै रम्यैः स्वेदितः कांजिकेन हि
क्षालिते कांजिकेनैव वक्त्रं भोक्तुं प्रजायते ॥

1.73

ताप्यसत्वं कलांशेन हेम्ना तद् द्विगुणेन च
तप्तम् आयसखल्वेन तप्तेनाथ प्रमर्दयेत् ॥

1.74

व्यक्तं हि रसचुक्रेण क्षारेण चणकस्य हि
जंबीरपूरकजलैर् मर्दयेदेकविंशतिम् ॥

1.75

वासरे याममेकं तु प्रत्येकं हि विमर्दयेत्
यातुधानमुखं सम्यक् यात्येव हि न संशयः ॥

1.76

द्वितीयो दीपनस्यैवं प्रकारः कथितो मया
सूतस्याष्टौ च संस्काराः कथिता देहकर्मणि ॥

1.77

तथा च दश कर्माणि देहलोहकराणि हि ॥

1.78

अथेदानीं प्रवक्ष्यामि भक्षणं चाभ्रकस्य हि
करोटिविधिना सम्यक् कर्तव्यं लोहसंपुटम् ॥

1.79

जलयंत्रस्य योगेन विडेन सहितो रसः
भक्षयत्येव चाभ्रस्य कवलानि न संशयः ॥

1.80

अतो हि जलयंत्रस्य लक्षणं कथ्यते मया
सुवृत्तं लोहपात्रं च जलं तत्राढकत्रयम् ॥

1.81

तन्मध्ये सुदृढं सम्यक् कर्तव्यं लोहसंपुटम्
लोहसंपुटमध्ये तु निक्षिप्तं शुद्धपारदम् ॥

1.82

बिडेन सहितं चैव षोडशांशेन यत्नतः
चतुःषष्ट्यंशकं चाभ्र सत्त्वं संपुटके तथा ॥

1.83

संपुटं मुद्रयेत्पश्चात् दृढया तोयमृत्स्नया
वह्निमृत्तिकया वापि संधिरोधं तु कारयेत् ॥

1.84

चुल्यां निवेश्य तं यंत्रं जलेनोष्णेन पूरितम्
क्रमादग्निः प्रकर्तव्यो दिवसार्धकमेव हि ॥

1.85

एवं कृते ग्रासमानं भक्षयेन्नात्र संशयः
अनेनैव प्रकारेण षड्ग्रासं भक्षयेद् ध्रुवम् ॥

1.86

भक्षिते चाभ्रसत्त्वे तु सर्वकार्येषु सिद्धिदः
मानं मानविहीनेन कर्तुं केन न शक्यते ॥

1.87

तस्मान्मया मानकर्म कथितव्यं यथोदितम्
चतुःषष्ट्यंशतो बीजं पारदान्मुखकारकम् ॥

1.88

पश्चाद् द्वात्रिंशभागेन दातव्यं बीजमुत्तमम्
ततःषोडशभागेन बीजस्य कवलं न्यसेत् ॥

1.89

रसादष्टमभागेन दातव्यं भिषगुत्तमैः
चतुर्थेनाथ भागेन ग्रास एवं प्रदीयते ॥

1.90

तथा च समभागेन ग्रासेनैव च साधयेत्
बिडेन षोडशांशेन क्षुधितो जायते रसः ॥

1.91

यदा जीर्णो भवेद् ग्रासः पातितश्च विडेन हि ॥

1.92

कासीससिन्धुलवण सौवर्चलसुराष्ट्रिकाः
गंधकेन समं कृत्वा विडो ऽयं वह्निकृद् भवेत् ॥

1.93

अथ गर्भद्रुतेः कर्म चारणं गुणवर्धनम्
कथयामि यथातथ्यं रसराजस्य सिद्धिदम् ॥

1.94

ताप्यसत्वाभ्रसत्त्वं च घोषाकृष्टं च ताम्रकम्
समभागानि सर्वाणि ध्मापयेत्खदिराग्निना ॥

1.95

भस्त्रिकाद्वितयेनैव यावदभ्रकशेषकम्
तदभ्रसत्वं सूतस्य चारयेत्समभागिकम् ॥

1.96

अनेनैव प्रकारेण त्रिगुणं जारणं रसे
गर्भद्रुतेर्जारणं हि कथितं भिषगुत्तमैः ॥

1.97

बाह्यद्रुतिविधानं हि कथ्यते गुरुमार्गतः
अभ्रसत्वं हि मूषायां वज्रवल्लीरसेन हि ॥

1.98

सौवर्चलेन संध्मातं रसरूपं प्रजायते
अभ्रद्रुतेश्च सूतस्य समांशैर्मेलनं कृतम् ॥

1.99

तेन बन्धत्वमायाति बाह्या सा कथ्यते द्रुतिः
बाह्यद्रुतिक्रियाकर्म शिवभक्त्या हि सिध्यति ॥

1.100

गुरोः प्रसादात्सततं महाभैरवपूजनात्
शिवयोरर्चनादेव बाह्यगा सिध्यति द्रुतिः ॥

1.101

अथ जारणकं कर्म कथयामि सुविस्तरम्
अभ्रकं ताप्यसत्वं च समं कृत्वा तु संधमेत् ॥

1.102

अभ्रशेषं कृतं यच्च तत्सत्वं जारयेद्रसे
एवं पूतिद्वयेनैव घनसत्वं हि साधयेत् ॥

1.103

धातुवादविधानेन लोहकृत् देहकृन्न हि
गजवंगौ महाघोराव् असेव्यौ हि निरन्तरम् ॥

1.104

साधितं घनसत्वं तद् रेतितं रजःसन्निभम्
बुभुक्षितरसस्यास्ये निक्षिप्तं वल्लमात्रकम् ॥

1.105

रसो गद्याणकस्यापि तुर्यभागः प्रकीर्तितः
ताम्रपात्रस्थमम्लं वै सैंधवेन समन्वितम् ॥

1.106

क्षीरेण सहितं वापि प्रहितं द्विदिनावधि
जातं तुत्थसमं नीलं कल्कं तत्प्रोच्यते बुधैः ॥

1.107

कल्केनानेन सहितं सूतकं च विमर्दयेत्
दिनत्रयं तप्तखल्वे धौतः पश्चाच्च कांजिकैः ॥

1.108

स्थापयेत्कांस्यपात्रे तु तदूर्ध्वाधो विडं न्यसेत्
रसस्याष्टमभागेन संपुटं कारयेत्ततः ॥

1.109

भूर्जपत्रैर्मुखं रुद्ध्वा सूत्रेणैव तु वेष्टयेत्
संपुटं वाससावेष्ट्य दोलायां स्वेदयेत्ततः ॥

1.110

गोमूत्रेणाम्लवर्गेण कांजिकेन दिनं दिनम्
अश्मपात्रेऽथ लोहस्य पात्रे काचमये ऽथवा ॥

1.111

उष्णकांजिकतोयेन क्षालयित्वा रसं ततः
दृढे चतुर्गुणे वस्त्रे क्षिप्त्वाधः पीडनाद्रसः ॥

1.112

निपतत्यन्यपात्रे तु सर्वो ऽपि यदि पारदः
तदाभ्रं जारितं सम्यक् दण्डधारी भवेद्रसः ॥

1.113

ग्रासमाने पुनर्देयं अभ्रबीजमनुत्तमम्
अष्टग्रासेन सर्वं हि जारयेद् गुरुमार्गतः ॥

1.114

एवं कृते समं चाभ्रं सूतके जीर्यति ध्रुवम्
स्वहस्तेन कृतं सम्यक् जारणं न श्रुतं मया ॥

1.115

समाभ्रे जारिते सम्यक् दण्डधारी भवेद्रसः
बालश्च कथ्यते सोऽपि किंचित्कार्यकरो भवेत् ॥

1.116

द्विगुणे त्रिगुणे चैव कथ्यते ऽत्र मया खलु
चतुर्गुणे ऽभ्रके जीर्णे किशोरः कथ्यते मया ॥

1.117

जीर्णे पञ्चगुणे चाभ्रे युवा चैव रसोत्तमः
षड्गुणे जारिते त्वभ्रे वृद्धश्चैव रसोत्तमः ॥

1.118

सप्ताष्टगुणिते चाभ्र सत्वे जीर्णे ऽतिवृद्धकः
सर्वसिद्धिकरः सो ऽयं पारदः पारदः स्वयम् ॥

1.119

अनेनैव प्रकारेण सर्वलोहानि जारयेत् ॥

1.120

अथेदानीं प्रवक्ष्यामि वेधवृद्धेश्च कारणम्
महासिद्धिकरं यत्स्यात् सारणं सर्वकर्मणाम् ॥

1.121

धूर्तपुष्पसमाकारा मूषाष्टाङ्गुलदीर्घिका
मुखे सुविस्तृता कार्या चतुरंगुलसंमिता ॥

1.122

मृण्मया सापि शुष्का च मध्ये ऽतिमसृणीकृता
अन्या पिधानिका मूषा सुनिम्ना छिद्रसंयुता ॥

1.123

शुद्धं सुजारितं सूतं मूषामध्ये निधापयेत्
मत्स्यकच्छपमण्डूक जलौकामेषसूकराः ॥

1.124

एकीकृत्य वसामेषाम् एवं तैलं तु सारणम्
भूनागविट् तथा क्षौद्रं वायसानां पुरीषकम् ॥

1.125

तथैव शलभादीनां महिषीकर्णयोर्मलम्
रसस्य षोडशांशेन चैतेषां कल्कमादिशेत् ॥

1.126

पटेन गालितं कृत्वा तैलमध्ये नियोजयेत्
सारणार्थे कृतं तैलं तस्मिन् तैले सुपाचयेत् ॥

1.127

बीजं च कल्कमिश्रं हि कृत्वा मूषोपरि न्यसेत्
पिधानेन द्वितीयेन मूषावक्त्रं निरुन्धयेत् ॥

1.128

भस्मना लवणेनैव मूषायुग्मं तु मुद्रयेत्
मूषिकायास्त्रिभागं हि खनित्वा वसुधां क्षिपेत् ॥

1.129

तदूर्ध्वं ध्मापयेत्सम्यक् दृढांगारैः खराग्निना
एवं संजारितं बीजं रसमध्ये पतत्यलम् ॥

1.130

बन्धमायाति सूतेन्द्रः सारितो गुणवान् भवेत्
प्रथमं जारितश्चैव सारितः सर्वसिद्धिदः ॥

1.131

नो जारितः सारितश्च कथं बन्धकरो भवेत्
गुरूपदेशतो दृष्टं सारणं कर्म चोत्तमम् ॥

1.132

हस्तानुभवयोगेन कृतं सम्यक् श्रुतं नहि ॥

1.133

अथ क्रामणकं कर्म पारदस्य निगद्यते
शास्त्रात्कृतं न दृष्टं हि यथावत् क्रामयेद्रसम् ॥

1.134*

कर्णमलं महिषीणां स्त्रीदुग्धं टंकणेन सम्मिश्रम् ।
एतान्येव समानि च कृत्वा द्रव्याणि मर्दयेच्च दिनम् ॥

1.135

विषं च दरदश्चैव रसको रक्तकान्तकौ
इन्द्रगोपश्च तुवरी माक्षिकं काकविट् तथा ॥

1.136

कल्कमेतद् अधोर्ध्वं हि मध्ये सूतं निधापयेत्
काचचूर्णं ततो दत्त्वा चान्धमूषागतं धमेत् ॥

1.137

अनेन क्रामणेनैव पारदः क्रमते क्षणात्
इदं क्रामणकं श्रेष्ठं नन्दिराजेन भाषितम् ॥

1.138

ताप्यसत्त्वं तथा नागं शुद्धं क्रामणकं तथा
बीजानि पारदस्यापि क्रमते च न संशयः ॥

1.139

अथ वेधविधानं हि कथयामि सुविस्तरम्
येन विज्ञातमात्रेण वेधज्ञो जायते नरः ॥

1.140

धूर्ततैलमहेःफेनं कंगुणीतैलमेव च
भृङ्गीतैलं विषं चैव तैलं जातीफलोद्भवम् ॥

1.141

हयमारशिफातैलम् अब्धेःशोषकतैलकम्
एतान्यन्यानि तैलानि विद्धि वेधकराणि च ॥

1.142

सिद्धसूतेन च समं मर्दितं वेधकृद् भवेत् ॥

1.143

लेपवेधस्तथा क्षेपः कुंतवेधस्तथैव च ॥

1.144

धूमाख्यः शब्दवेधः स्याद् एवं पञ्चविधः स्मृतः
सूक्ष्माणि ताम्रपत्राणि कलधूतभवानि च
कल्केन लेपितान्येव ध्मापयेद् अन्धमूषया ॥

1.145

शीतीभूते तमुत्तार्य लेपवेधश्च कथ्यते
द्रुते ताम्रे ऽथवा रौप्ये रसं तत्र विनिक्षिपेत् ॥

1.146

विध्यते तेन सहसा क्षेपवेधः स कथ्यते
द्रावयेन्नागरूप्यं च ताम्रं चैव तथावरान् ॥

1.147

पारदो ऽन्यतमे पात्रे द्राविते ऽत्र नियोजितः
वेधते कुन्तवेधः स्याद् इति शास्त्रविदो ऽब्रुवन् ॥

1.148

धूमस्पर्शेन जायन्ते धातवो हेमरूप्यकौ
धूमवेधः स विज्ञेयो रसराजस्य निश्चितम् ॥

1.149

बद्धे रसवरे साक्षात् स्पर्शनाज्जायते रवः
तथैव जायते वेधः शब्दवेधः स कथ्यते ॥

1.150

अथेदानीं प्रवक्ष्यामि रंजनं पारदस्य हि
रञ्जितः क्रामितश्चैव साक्षाद्देवो महेश्वरः ॥

1.151

रंजनं लोहताम्राभ्यां रसकेन विधीयते
तथा रक्तगणेनैव कर्तव्यं शास्त्रवर्त्मना ॥

1.152

गन्धरागेण कर्तव्यं पारदस्याथ रंजनम्
ताम्रेण रक्तकाचेन रक्तसैन्धवकेन च ॥

1.153

अंधमूषागतं सूतं रञ्जयेत्ताम्रकादिभिः
इष्टिकायन्त्रयोगेन गन्धरागेण रञ्जयेत् ॥

1.154

रसकस्य च रागेण तुलायन्त्रस्य योगतः
मर्दनात्तीक्ष्णचूर्णेन रञ्जयेत्सूतकं सदा ॥

1.155

ताम्रकल्कीकृतेनैव स्थापयेत्सप्तवासरम्
रंजनं सूतराजस्य जायते नात्र संशयः ॥

1.156

मृण्मूषा च प्रकर्तव्या रक्तवर्गेण लेपिता
तन्मध्ये पारदं क्षिप्त्वा ध्मानाद् रञ्जनकं भवेत् ॥

1.157

मया संक्षेपतः प्रोक्तं रंजनं पारदस्य हि
शास्त्रमार्गेण बहुधा रंजनं हि निदर्शितम् ॥

1.158

अथ सेवनकं कर्म पारदस्य दशाष्टमम्
कथ्यते ऽत्र प्रयत्नेन विस्तरेण मयाधुना ॥

1.159

यत्नेन सेवितः सूतः शास्त्रमार्गेण सिद्धिदः
अन्यथा भक्षितश्चैव विषवन्मारयेन्नरम् ॥

1.160

आदौ तु वमनं कृत्वा पश्चाद्रेचनमाचरेत्
ततो मृताभ्रं भक्षेत पश्चात्सूतस्य सेवनम् ॥

1.161

सम्यक् सूतवरः शुद्धो देहलोहकरः सदा
सेवितः सर्वरोगघ्नः सर्वसिद्धिकरो भवेत् ॥

1.162

यावन्मानेन लोहस्य गद्याणे वेधकृद्भवेत्
तावन्मानेन देहस्य भक्षितो रोगहा भवेत् ॥

1.163

राजिकाथ प्रियंगुश्च सर्षपो मुद्गमाषकौ
रक्तिका चणको वाथ वल्लमात्रो भवेद्रसः ॥

1.164

एषा मात्रा रसे प्रोक्ता सर्वकर्मविशारदैः
अनुपानेन भुञ्जीत पर्णखण्डिकया सह ॥

1.165

इत्थं संसेविते सूते सर्वरोगाद्विमुच्यते
सर्वपापाद्विनिर्मुक्तः प्राप्नोति परमां गतिम् ॥

मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc