रसप्रकाशसुधाकर · अध्याय 11
अथातः सम्प्रवक्ष्यामि धातूनां कौतुकं परं
स्वानुभूतं मया किंचित् श्रुतं वा शास्त्रतः खलु
तदहं सम्प्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत् ॥
रसकं दरदं ताप्यं गगनं कुनटी समम्
रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥
जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम्
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥
सहस्रवेधी तत्कल्को जायते नात्र संशयः ॥
एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दितः
खल्वे त्रिनेम्याः स्वरसे पञ्चभागसमन्विते ॥
वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते
षोडशांशेन दातव्यं द्रुते ताम्रं सुशोधिते ॥
जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥
सुवर्णमाक्षिकं स्वेद्यं कांजिके दिवसत्रयम्
चर्मरङ्ग्या रसेनैव मर्दयेद्दिनसप्तकम्
जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥
दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत्
दोलायंत्रे चतुर्यामं पश्चाच्छुद्धतमो भवेत् ॥
मनःशिला पद्मनिभा रक्ता चैव सुशोभना
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥
याममर्धमितं शुद्धा सर्वकार्येषु योजयेत्
नवसारस्तथा सूतः शोधितोऽग्निसहः खलु ॥
समभागानि सर्वाणि मर्दयेन्निम्बुकै रसैः
मातलुंगरसेनैव कुमारीस्वरसेन च ॥
सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके
दिनानि त्रीणि तीव्राग्नौ ततस्तदवतारयेत् ॥
शतांशं वेधयेत्तारं शुद्धं हेम प्रजायते
जलभेदो यदा न स्यान् नात्र कार्या विचारणा ॥
शिलया मारितं नागं कुमार्याः स्वरसेन च
पुटद्वादशयोगेन नागभस्म प्रजायते ॥
शतसंख्यानि वै कुर्यात् पुटान्येवं शरावके
कुमार्याः स्वरसेनैव भावयेद्दिनसप्तकम् ॥
पूर्ववत्पुटनं कार्यं शतसङ्ख्यामितं तथा
सूतभस्म शिला ताल समं चेन्नागभस्मकम् ॥
त्रिंशद्वनोपलैर्दद्यात् पुटं वाराहसंज्ञितम्
अनेन विधिना सम्यक् शतसंख्यानि दापयेत् ॥
पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम्
पश्चाद् दृढे काचमये कूपे द्वात्रिंशयामकम् ॥
वालुकाग्निं प्रदद्याच्च स्वांगशीतं समुद्धरेत्
तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥
शुद्धहेम भवेत्तेन नात्र कार्या विचारणा
दृष्टप्रत्यययोगोऽयं कथितो नात्र संशयः ॥
गोमूत्रे काञ्जिके चाथ कुलत्थे वासरत्रयम्
ताप्यकं स्वेदयेत्पश्चाल् लोहपात्रे प्रमर्दयेत् ॥
तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवैः
सैन्धवं दापयेत्पश्चाच् चतुर्थांशं विशेषतः ॥
भागैकं ताप्यकं सूताद् भागांस्त्रीनेव कारयेत्
मर्दयेन्निम्बुनीरेण शुद्धवस्त्रेण गालयेत् ॥
वस्त्रे लग्ना तु या पिष्टी ग्राहयेत्तां भिषग्वरः
एवं कृते द्विस्त्रिवारं ताप्यसत्वं ग्रसेद्रसः ॥
पिष्ट्या गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधीः
इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं सुशोभनम् ॥
हीनवर्णसुवर्णेऽपि गद्याणे वल्लमात्रकम्
तुत्थकं वल्लमात्रं च दत्त्वा हेम प्रगालयेत् ॥
तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत्
तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत् ॥
गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत्
मन्दवह्नौ च प्रपुटेत् द्वित्रिवारं प्रयत्नतः ॥
कुङ्कुमाभं सुवर्णं हि जायते नात्र संशयः
वार्तिकेन्द्राः कुरुध्वं हि सत्यं गुरुवचो यथा ॥
द्वौ वर्णौ वर्धते सम्यक् नात्र कार्या विचारणा ॥
शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चाड् ढालयेल्लाकुचे हि
गन्धाच्चूर्णं ताप्यताम्रावशेषं कृत्वा दद्याद्वल्लकं हीनवये
वर्णोत्कर्षो जायते तेन सम्यक् सत्यं प्रोक्तं नन्दिना कौतुकाय ॥
ताप्यं नागं गन्धकं सूतराजो हिंगूलं वै हेम शुद्धं शिला च
चूर्णं कृत्वा निक्षिपेत् काचकूप्याम् आपूर्यान्ते स्वै रसैः शाकजैर्वा ॥
अग्निं दद्याल्लावकाख्ये पुटे च शुद्धः कल्को जायते षष्टिसंख्यैः
शुद्धं तारं वेधितं वल्लकेन गद्याणं वै जायते शुद्धहेम ॥
अहिरिपुम् अहितुल्यं सारितं सूतराजे बलिवसगिरिचूर्णैः कान्तपात्रे सुदग्धम्
सुविहितफणिभागैर्हेमगर्भेण बद्धो भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥
द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमजौ
चतुर एव भागांश्च शुद्धतारस्य कारयेत् ॥
अष्टौ भागाः प्रकर्तव्या रसकस्य प्रयत्नतः
अन्धमूषागतं ध्मातं द्रावितं हेम जायते ॥
विदितागमवृद्धैर्हि पुटे पक्वं कनीयसि
त्रिगुणं चूर्णनिर्बद्धं तारमायाति काञ्चनम् ॥
पारदं पलमेकं तु प्रस्थार्धं शुद्धगन्धकम्
किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवैः ॥
सूर्यातपे मर्दयेद्धि षण्मासावधिमात्रकम्
षोडशांशेन रजतं विध्यते नात्र संशयः ॥
सप्तवर्णं भवेद्धेम हट्टविक्रययोग्यकम् ॥
पारदं गंधकं शुल्वं माक्षिकं तुत्थकं तथा
रसकं दरदं स्वर्ण गैरिकं नवसादरम् ॥
सूरक्षारं शिलां चैव समभागानि मर्दयेत्
तदर्धं रसकं मुक्त्वा वज्रमूषे निरुन्धयेत् ॥
यथा धूमो न निर्गच्छेत् तथा मुद्रां प्रदापयेत्
तोलमेकं सुवर्णं हि जायते नात्र संशयः ॥
घटिकातुर्यमात्रं हि ध्मापयेत्सततं भिषक् ॥
स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका
माक्षिकं रसकं तुत्थं गैरिकं नवसादरम् ॥
सूरक्षारं सदरदं टङ्कणेन समन्वितम्
प्रतिवल्लद्वयं कुर्यात् कासमर्दप्रसूनकैः ॥
स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम्
सोरक्षारं सदरदं टंकणेन समन्वितम् ॥
सैंधवस्य च भागैकम् इष्टिकाभागयुग्मकम्
स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम् ॥
यामत्रितयपर्यन्तं वह्निं कुर्यात्प्रयत्नतः
स्वांगशीतं ततः कृत्वा मुद्रिकां तां समुद्धरेत्
वेदवर्णास्तु संघर्षाद् वर्धन्ते नात्र संशयः ॥
घोषाकृष्टं तु यत्ताम्रं रजतेन समन्वितम्
तीक्ष्णचूर्णं सदरदं घृष्टं कन्यारसेन वै ॥
पश्चाद्विधेया गुटिकाः सूक्ष्माश्चैवाढकीसमाः
वापिता द्राविते द्रव्ये सर्वं ताम्रं तु संक्षिपेत् ॥
रूप्यमानं समुत्तार्य समहेम्ना च गालयेत्
जायते दशवर्णं तु सत्यमेतदुदीरितम् ॥
ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि
तेन ताम्रेण रसकं सप्तवारं च वाहयेत् ॥
स्वर्णवर्णं हि तत्ताम्रं जायते नात्र संशयः ॥
भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम्
ताप्यसत्वेन संयुक्तं शतवारं पुनः पुनः
जपापुष्पनिभं स्वर्णं जायते नात्र संशयः ॥
दशवर्णस्य गद्याणे रक्तं तद्धेमवल्लकम्
द्वौ वर्णौ वर्धतः सम्यक् हट्टविक्रययोग्यकम् ॥
पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे ।
रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥
वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत्
त्रिंशद्वनोपलैः सम्यक् पुटान्येवं हि विंशतिः ॥
षोडशांशेन रजतं विध्यते नात्र संशयः
सप्तवर्णसवर्णं हि जायते नात्र संशयः ॥
सूतको द्विपलः कार्यः सुम्बिलश्च चतुष्पलः
चतुष्टंकमिता कार्या स्फटिकी निर्मला शुभा ॥
वृश्चिकालीरसे घृष्टा दिनम् एकं तु वार्तिकैः
पश्चाच्च शोषयेत्सर्वं यन्त्रे डमरुके न्यसेत् ॥
गैरिकं स्थापयेत्पूर्वं खटिकां च तथोपरि
तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम् ॥
टङ्कमानं प्रकर्तव्यं तस्योपरि च सूतकम्
सूतकोपरि सारं हि पूर्वोक्तं टंकमानकम् ॥
मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत्
अग्निं कुर्यात्प्रयत्नेन यामषोडशमात्रकं ॥
स्वांगशीतं समुत्तार्य ऊर्ध्वलग्नं तु ग्राहयेत्
पश्चात् खल्वे निधायाथ वृश्चिकाल्या प्रमर्दयेत् ॥
काचकूप्यां क्षिपेत् सर्वं कूपीं वालुकायन्त्रके
वह्निं द्वादशभिर्यामैः कुर्याच्छीतं समाहरेत् ॥
वल्लमात्रं ततो दद्यात् सार्धटङ्के सुताम्रके
दृष्टप्रत्यययोगोऽयं नाथसुन्दरभाषितः ॥
लोहचूर्णं पलमितं सुमलक्षारम् अभ्रकम्
टंकणं शाणमानं हि तैलेनैरण्डजेन वै ॥
घर्षयेद्वटिकायुग्मं गोलं कृत्वा धमेत्ततः
भस्त्रया ध्मापयेत्सम्यक् लोहं रसनिभं भवेत् ॥
तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधीः
लोहं च रसकं पश्चाद् गालितं वज्रमूषया ॥
लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम्
गद्याणके भवेत्तारं तत्तारं शुद्धतारके ॥
अर्धभागे भवेच्छुद्धं तारं दोषविवर्जितम् ॥
खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य हि
वेष्टितं नरकेशेन द्रुते नागे निमज्जितम् ॥
निर्वापितं निम्बुजले चैकविंशतिवारकम्
द्रुते शुल्वस्य गद्याणे रक्तिकापञ्चमात्रकम् ॥
कल्कं दद्यात्प्रयत्नेन तारवर्णं प्रजायते
गद्याणे चतुरो वल्लान् रूप्यं दत्त्वा प्रगालयेत्
जायते रुचिरं तारं सत्यम् एतदुदीरितम् ॥
शंखं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत्
गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत् ॥
निम्बूरसेन धूर्तेन काकमाचीरसेन वै
गृंजनस्य रसेनैव दिनमेकं प्रमर्दयेत् ॥
अर्कदुग्धेन वै भाव्यं तैलेनैरण्डजेन च
यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥
काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखं
संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम् ॥
स्वांगशीतं समुत्तार्य ग्राह्यं सत्वं तद् ऊर्ध्वगम्
सत्त्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम् ॥
सूतं गद्याणकं स्वच्छं टंकणं वल्लपञ्चकम्
सूतमात्रं क्षारसत्त्वं सर्वं चैकत्र मर्दितम् ॥
स्वरसेन तु केतक्या गोलं कृत्वा विशोषितम्
तारसंपुटमध्ये तु धारितं तं च गोलकम् ॥
पश्चात्ताम्रकृतां मूषाम् अष्टवल्लमितां शुभाम् ।
शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥
धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् ।
वाराहाख्यपुटैकेन जायते कल्क उत्तमः ॥
ताम्रं द्वादशवल्लं हि रूप्यं वल्लद्वयं तथा
वंगं वल्लमितं शुद्धं सर्वमेकत्र गालयेत् ॥
चतुर्गुञ्जाप्रमाणं हि दापयेन्मतिमान् भिषक्
जायते प्रवरं तारं सत्यम् एतद् उदीरितम् ॥
अस्थिभक्षमलबंगमारितं तालकाभ्रविषसूतटंकणम्
वज्रिभानुपयसा सुभावितं स्यान्नरेन्द्र शुभतारपर्वतम् ॥
वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणं ।
त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥
आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् ।
भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥
पारदस्य त्रयो भागा भागैकं रजतस्य हि
निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नतः ॥
कांजिकेन तु तां पिष्टीं स्तम्भयेद्वासरत्रयम्
सारयेद्बंगमध्ये तु सूतकं तदनंतरम् ॥
सारितं सूतकं तेन तालसत्त्वेन साधयेत्
तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नतः ॥
जायते प्रवरं तारं चंद्रनक्षत्रसन्निभम् ॥
सूतकस्य त्रयो भागा बंगं भागद्वयं तथा
मर्दयेद्दिनमेकं तु कांजिकेन समन्वितम् ॥
सर्वेभ्यस्त्रिगुणेनाथ सुम्बलेन प्रमर्दयेत्
स्नुह्यर्कदुग्धेन समं भावयेद्वासरत्रयम् ॥
यवप्रमाणां गुटिकां रवितापेन शोषिताम्
काचकूप्यां निधायाथ वह्निं कुर्यात्प्रयत्नतः ॥
यामषोडशपर्यंतं वालुकायंत्रके पचेत्
स्वांगशीतं समुद्धृत्य चोर्ध्वगं सत्वमाहरेत् ॥
षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत्
जायते प्रवरं तारं हट्टविक्रययोग्यकम् ॥
पलाष्टमात्रं तालं तु द्विकर्षप्रमितं रसम्
निम्बूरसेन संमर्द्यं वासरैकं प्रयत्नतः ॥
पश्चात्तं मर्दयेद्धीमान् तैलेनैरण्डजेन वै
वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ॥
पश्चात्सत्त्वं समुद्धृत्य मर्दयेदेकवासरम्
अतसीतिलतैलेन काचकूप्यां निधापयेत् ॥
पूर्ववत्पाचयेद् वह्नौ स्वांगशीतं समुद्धरेत्
अनेनैव प्रकारेण पुनरेवं तु कारयेत् ॥
कूपीतलस्थितं सत्त्वं ग्राह्यं चेत्प्रवरं सदा
षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशयः ॥
पारदं टंकमानं तु लवणं द्विगुणं तथा
खल्वे विमर्दयेत्तावद् यावन्नष्टो रसो भवेत् ॥
ताम्रं गद्याणकं शुद्धं बंगं वल्लमितं कुरु
द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम् ॥
माषमात्रं प्रदातव्यं चतुर्थांशेन रूप्यकम्
तद्रूप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ॥
तत्त्रयोदशकं रूप्यं जायते नात्र संशयः ॥
तालेन निहतं बंगं तद्बंगेन तु रूप्यकम्
पचेद्यामाष्टकं सम्यक् कल्क एवं प्रजायते
वल्लं गद्याणके दद्याद् बंगं स्तम्भयते ध्रुवम् ॥
दरदं खण्डशः कृत्वा टंकत्रयमितं पृथक्
वज्रीक्षीरेण तत्स्वेद्यं दोलायंत्रेण वार्तिकैः ॥
तारचूर्णं समं लेप्यं लुङ्गतोयसमं तथा
गोवरैः पाचयेत्स्वल्पम् एव द्वादशयामकम् ॥
पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररजः पृथक्
कुर्याद्दरदखण्डेन समं सीसं च दापयेत् ॥
गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम्
भस्म मूषोपरि न्यस्य ध्मापयेच्च शनैः शनैः ॥
शुद्धशङ्खनिभं रूप्यं निष्कमात्रं हि निःसरेत् ॥
द्विपलं शुद्धसूतं च द्विपलं रसकस्य च
तालकं च पलद्वंद्वं सुर्मिलं युग्ममात्रकम् ॥
कूप्यामारोपयेत्सर्वं मुखं ताम्रेण रुन्धयेत्
वालुकायन्त्रके सम्यक् पचेद् द्वादशयामकम् ॥
कूपीमुखे तु यल्लग्नं सत्त्वं ग्राह्यं प्रयत्नतः
शुल्बे षोडशवेधेन कारयेद्रजतं वरम् ॥
सूतकं पलमेकं तु शंखाभं सुर्मिलं पलम्
एरण्डतैले घृष्टं तद् धारितं खर्परे वरे ॥
अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम्
पश्चाच्चुल्ल्यां समारोप्य वह्निं कुर्याच्छनैः शनैः ॥
सार्धं यामं ततः पाच्यं स्वांगशीतं समुद्धरेत्
ताम्रपात्रे तु यल्लग्नं सर्वं सत्त्वं समाहरेत् ॥
घृताक्तं टंकणोपेतं गालितं मूषिकामुखे
देयं तद्वल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम् ॥
शंखाभं जायते तारं नात्र कार्या विचारणा ॥
तालं ताम्रं रीतिघोषं समांशं कुर्यादेवं गालितं ढालितं हि
अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रूप्ये
शुद्धं रूप्यं षोडशाख्यं हि सम्यक् जातं दृष्टं नानृतं सत्यमेतत् ॥
श्वेतं सौवीरकं शुद्धं पाचितं विषमुष्टिना
स्वच्छे सूतवरे वल्लं निक्षिप्तं रूप्यकृद्भवेत् ॥
शुद्धस्फटिकसंकाशं सुर्मिलं दृश्यते क्वचित्
मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम् ॥
घटिकाद्वयमानेन शुद्धकल्कः प्रजायते
चतुःषष्ट्यंशमानेन वेधयेच्छुल्बकं शुभम् ॥
जायते प्रवरं तारं सर्वदोषविवर्जितम् ॥
सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता
कदल्याः क्षारकेणैव तथापामार्गसंभवैः ॥
मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत्
अनेन विधिना पूर्या द्वितीया मूषिका शुभा ॥
मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत्
सूतकं बन्धम् आयाति वङ्गाभं तु प्रजायते
द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ॥
नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम्
पश्चादाकृष्णकणकान् आकृष्य किल कण्डयेत् ॥
तानि शालिसमेतानि तावच्छुभ्राणि कारयेत्
पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत् ॥
मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥
मूषिकां कारयेच्छुद्धां स्फाटिकीं दहनोपलाम्
मौक्तिकानि तु सूक्ष्माणि निम्बूद्रावे निधापयेत् ॥
अहोरात्रेण सर्वाणि नवनीतसमानि च
तस्य पंकस्य गुटिकां मसृणां तु प्रकारयेत् ॥
पश्चात्तां मूषिकामध्ये चित्राघर्मे द्वियामकम्
चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥
अर्भकाः पातयेत्सर्वाः मध्यभाजनकोपरि
बध्यते मौक्तिकं श्रेष्ठ तरं सर्वगुणैर्युतम् ॥
शुद्धशङ्खस्य चूर्णं हि सूक्ष्मं कृत्वा प्रयत्नतः
अर्धभागं च दरदं चूर्णयेन्मतिमांस्ततः ॥
सद्यः सूताविकक्षीरं तेन दुग्धेन मर्दयेत्
वर्तिं विधाय मतिमान् कार्पासास्थिषु स्वेदयेत् ॥
स्वांगशीतं समुत्तार्य प्रवालं रुचिरं भवेत् ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0