रसप्रकाशसुधाकर · अध्याय 12
आत्मगुप्ताफलं शुष्कं निस्तुषं चाष्टपालिकम्
माषस्याष्टपलं तद्वज् जलेन परिपेषितम् ॥
आर्द्रं कृत्वोभयं सम्यक् शिलापट्टेन पेषयेत्
कुंकुमं केसरं चैव जातीपत्रं शतावरी ॥
गोक्षुरेक्षुरबीजानि लवंगं मरिचं कणा
शृङ्गाटकं कर्षमितं कुर्यादेवं पृथक् पृथक् ॥
सूक्ष्मचूर्णं विधायाथ पूर्वपिष्टे निधापयेत्
वटकान् कारयेत् पश्चात् कर्षमात्रान् विपाचयेत् ॥
घृतप्रस्थत्रयेणैव सुतलथ्य निमज्जयेत्
माक्षिके घृतमाने वै मुखं रुन्ध्याद्दिनत्रयम् ॥
मध्वाज्यमिश्रितं भुञ्ज्याद् एकैकं वटकं प्रगे
सप्तकानि च पञ्चैवम् आहारं मधुरं भजेत् ॥
दुग्धौदनं तथा रात्रौ क्षारमम्लं च वर्जयेत्
रेतःक्षयी तथा क्लीबो गच्छेच्च प्रमदाशतम् ॥
अपुत्रः पुत्रमाप्नोति षण्ढोऽपि पुरुषायते
दृष्टप्रत्यययोगोऽयं सत्यमेतदुदीरितम् ॥
शतावरीं क्षीरविदारिकां च प्रस्थार्धमानां पृथगेव कुर्यात्
रसं तथा शाल्मलिमध्यमूलात् प्रस्थं सितार्धाढकमत्र देयम् ॥
सुपाचितं वै मृदुवह्निना तथा दर्वीप्रलेपोऽपि हि जायते यथा ।
त्वक्पत्रकैलाः सह केसरेण पलप्रमाणा हि ततो विदध्यात् ॥
लेहे सुशीते मधु बिल्वमात्रं प्रातः प्रभक्षेदिह कर्षमात्रम् ॥
शृङ्गाटकस्यापि पलं विधेयं वाराहिकन्दश्च पलप्रमाणः
चूर्णीकृतं गालितमेव वस्त्राद् भृष्टं तथाज्येन सितासमेतम् ॥
लवंगकृष्णागरुकेशराणां पलं प्रदद्याद्दशभागदुग्धम्
लेहं सुजातं खलु भक्षयेत्तत् कर्षप्रमाणं नितरां प्रभाते
कामस्य बोधं कुरुते हि शीघ्रं नारीं रमेद्वै चटकायतेऽसौ ॥
शतावरीगोक्षुरदर्भमूलं शृङ्गाटकं नागबलात्मगुप्ते
संचूर्ण्य सर्वं पृथगेव पालिकं क्षीरेण पाच्यं दशभागकेन ॥
सिता प्रदेया दशपालिकात्र पाकं विदध्यादपि चाग्नियोगात्
मधुप्लुतं भक्षितमर्धयामात् कामप्रदीप्तिं कुरुते सदैव ॥
वीर्यस्य वृद्धिं जठराग्निवृद्धिं कामाग्निवृद्धिं सहसा करोति ॥
माषाणामात्मगुप्ताया बीजानामाढकं नवम्
जीवकर्षभकौ जीवां मेदां वृद्धिं शतावरीम् ॥
मधुकं चाश्वगन्धां च साधयेत् प्रसृतोन्मिताम्
रसे तस्मिन्घृतप्रस्थं गव्यं दशगुणं पयः ॥
विदारीस्वरसप्रस्थं प्रस्थमिक्षुरसस्य च
दत्त्वा मृद्वग्निना साध्यं सिद्धसर्पिर्निधापयेत् ॥
शर्करायास्तुगाक्षीर्याः क्षौद्रस्य च पृथक् पृथक्
भागांश्चतुष्पलांस्तत्र पिप्पल्याश्चावपेत्पलम् ॥
पलं पूर्वमितो लीढ्वा ततोऽन्नम् उपयोजयेत्
यदीच्छेदक्षयं शुक्रं शेफसश्चोत्तमं बलम् ॥
मूल पाठ: Rasaprakāśasudhākara · Edition: Jivram Kalidas Sastri Gondal : Rasasala Ausadhasram, 1940 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0