भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 9

9.1

*चोम्म्. मुग्धावबोधिनी:
सर्वेषां धातुरसानामुत्तरोत्तरं विशेषत्वम् आह पत्रादित्यादि ॥ ग्र्ह्त्च्म्_8.19:1 ॥
पत्रादष्टगुणं सत्वं अभ्रपत्रे जीर्णे सति रसे यो गुणस्तस्मादष्टगुणो गुणस्तत्सत्वे इत्यर्थः पुनः सत्त्वात् द्रुतिस्तद्द्रवरूपा अष्टगुणा पुनर्द्रुतेर् बीजं धातूपरससंयोगजनितं पूर्वोपवर्णितं तदष्टगुणं ततः सर्वोत्कृष्टत्वाद्बीजं जारयेन्नत्वन्यत् ॥ ग्र्ह्त्च्म्_8.19:2 ॥
स्तर्त् ग्र्ह्त् 9.1
<बीज (देfइनितिओन्)>
इति रक्तोऽपि रसेन्द्रो बीजेन विना न कर्मकृद्भवति ।
द्विविधं तत्पीतसितं नियुज्यते सिद्धमेवैतत्

9.2

*चोम्म्. मुग्धावबोधिनी:
हिमांशुरिव दीप्त्यासौ चण्डांशुरिव तेजसा ।
निशाह्नोरिव कर्ता च दुर्जनैः सहनालयः ॥ ग्र्ह्त्च्म्_9.1:1 ॥
निर्वापणविशेषेण तद्वद्वर्णं भवेद्यदा ।
मृदुलं चित्रसंस्कारं तद्बीजमिति कथ्यते ॥ ग्र्ह्त्च्म्_9.1:2 ॥
इति परिभाषा ॥ ग्र्ह्त्च्म्_9.1:3 ॥
बीजप्रशंसनमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_9.1:4 ॥
इत्युक्तविधानेन रक्तोऽपि रसेन्द्रो बीजेन विना कर्मकृन्न भवति बीजेनैव कर्मकारी स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_9.1:5 ॥
तद्बीजं द्विविधं द्विप्रकारं पीतसितं एकं पीतं अपरं सितं श्वेतं स्वर्णरूप्यक्रियायोग्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_9.1:6 ॥
तद्बीजं सिद्धं सर्वलक्षणोपेतं रसे पारदे नियोज्यं नासिद्धमिति ॥ ग्र्ह्त्च्म्_9.1:7 ॥
स्तर्त् ग्र्ह्त् 9.2
<बीज:: शोधन नेचेस्सर्य्>
तस्य विशुद्धिर्बहुधा गगनरसोपरसलोहचूर्णैश् च ।
द्विविधं बीजं तैरपि नाशुद्धैः शुध्यते वै तत्

9.3

*चोम्म्. मुग्धावबोधिनी:
तस्येत्यादि ॥ ग्र्ह्त्च्म्_9.2:1 ॥
तस्य बीजस्य विशुद्धिः शोधनं बहुधा बहुप्रकारैः कृत्वा रसोपरसधातूनां बहुविधत्वात् ॥ ग्र्ह्त्च्म्_9.2:2 ॥
कैः कृत्वा गगनरसलोहचूर्णैः गगनमभ्रं रसा वैक्रान्तादयोऽष्टौ वक्ष्यमाणाः उपरसा गन्धकादयः लोहा धातवः तेषां चूर्णानि तैः ॥ ग्र्ह्त्च्म्_9.2:3 ॥
च पुनः तैर् गगनरसोपरसलोहचूर्णैर् अशुद्धैः शुद्धिवर्जितैस्तद्बीजं न शुध्यते शुद्धिहीनं स्यात् कारणानुरूपं कार्यमितिन्यायात् ॥ ग्र्ह्त्च्म्_9.2:4 ॥
स्तर्त् ग्र्ह्त् 9.3
यः पुनरेतैः कुरुते कर्माशुद्धैर्भवेद्रसस्तस्य ।
अव्यापकः पतंगी न रसे रसायने योग्यः

9.4

*चोम्म्. मुग्धावबोधिनी:
अशुद्धबीजप्रभावमाह य इत्यादि ॥ ग्र्ह्त्च्म्_9.3:1 ॥
पुनर्विशेषेण यः संस्कारकृदेतैर्गगनाद्यैर् अशुद्धैः कृत्वा रसस्य कर्म कुरुते तस्य पुरुषस्य रसः पारदो ऽव्यापको ऽसरणशीलो भवेत् पतङ्गी ऊर्ध्वगामी च भवेत् यन्त्रस्याधोभागे न तिष्ठतीत्यर्थः ॥ ग्र्ह्त्च्म्_9.3:2 ॥
स्तर्त् ग्र्ह्त् 9.4
<महारस>
वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश्च ।
अष्टौ रसास्तथैषां सत्त्वानि रसायनानि स्युः

9.5

*चोम्म्. मुग्धावबोधिनी:
एते वक्ष्यमाणा अष्टौ रसाः रससंज्ञकाः स्युः ॥ ग्र्ह्त्च्म्_9.4:1 ॥
एते के वैक्रान्तकान्तसस्यकमाक्षिकविमलाद्रिदरदरसकाश् चेति वैक्रान्तं वज्रभूमिजं रजः कान्तं चुम्बकोत्थं सस्यकं चपलं माक्षिकं ताप्यं विमला रौप्यमाक्षिकं अद्रि शिलाजतु दरदं हिङ्गुलं रसकः खर्परिकः एते रससंज्ञिका ज्ञेयाः ॥ ग्र्ह्त्च्म्_9.4:2 ॥
तथा एषां सत्वानि साराणि रसायनानि जराव्याधिनाशनानि स्युरिति ॥ ग्र्ह्त्च्म्_9.4:3 ॥
स्तर्त् ग्र्ह्त् 9.5-6
<उपरस>
गन्धकगैरिकशिलालक्षितिखेचरमञ्जनं च कंकुष्ठम् ।
उपरससंज्ञकानाह गन्धकेत्यादि ॥ ग्र्ह्त्च्म्_9.4:1 ॥
इदं वक्ष्यमाणं उपरससंज्ञकं स्यात् ॥ ग्र्ह्त्च्म्_9.4:2 ॥
किमिदं गन्धकगैरिकशिलालक्षितिखेचरम् इति गन्धकं प्रतीतं गैरिकं धातुगैरिकं शिला मनोह्वा आलं हरितालं क्षितिः स्फटिका खेचरं कासीसं एतत् सर्वमिति च पुनः अञ्जनं नीलाञ्जनं पुनः कङ्कुष्ठं विरङ्गं इत्यष्टौ उपरससंज्ञका इत्यर्थः ॥ ग्र्ह्त्च्म्_9.4:3 ॥
स्तर्त् ग्र्ह्त् 9.5-6
<सारलोह>
उपरससंज्ञकमिदं स्यात् शिखिशशिनौ सारलोहाख्यौ

9.6

<पूतिलोह>
ताम्रारतीक्ष्णकान्ताभ्रसत्त्वलोहानि वङ्गनागौ च ।
कथितास्तु पूतिसंज्ञास्तेषां संशोधनं कार्यम्

9.7

*चोम्म्. मुग्धावबोधिनी:
शिखिशशिनौ स्वर्णतारकौ सारलोहाख्यौ सारलोहसंज्ञकावित्यर्थः ॥ ग्र्ह्त्च्म्_9.5-6:1 ॥
पूतिलोहसंज्ञानाह ताम्रेत्यादि ॥ ग्र्ह्त्च्म्_9.5-6:2 ॥
ताम्रारतीक्ष्णकान्ताभ्रसत्वलोहानीति ताम्रं नेपालकं आरं राजरीतिः तीक्ष्णं सारं कान्तं चुम्बकोद्भवं अभ्रसत्वं गगनसारं लोहं मुण्डं एतानीति पुनर्वङ्गनागौ एते पूतिसंज्ञकाः कथिताः ॥ ग्र्ह्त्च्म्_9.5-6:3 ॥
तेषां पूतिलोहसंज्ञकानां शोधनं सम्यङ्मलापनयनं कार्यमिति ॥ ग्र्ह्त्च्म्_9.5-6:4 ॥
स्तर्त् ग्र्ह्त् 9.7
<षड्लवण>
सौवर्चलसैन्धवकचूलिकसामुद्ररोमकबिडानि ।
लवणक्षारसंज्ञे आह सौवर्चलेत्यादि ॥ ग्र्ह्त्च्म्_9.6:1 ॥
एतानि वक्ष्यमाणानि लवणसंज्ञान्याहुः आचार्याः इति शेषः ॥ ग्र्ह्त्च्म्_9.6:2 ॥
कानि सौवर्चलसैन्धवकचूलिकसामुद्ररोमकबिडानीति सौवर्चलं रुचकं सैन्धवं मणिकमन्थाह्वयं चूलिकं काचलवणं सामुद्रं क्षाराब्धिजं रोमकं प्रतीतं बिडं लवणविशेषः एतानीति ॥ ग्र्ह्त्च्म्_9.6:3 ॥
स्तर्त् ग्र्ह्त् 9.7
<त्रिक्षार>
षट् लवणान्येतानि तु स्वर्जीटङ्कणयवक्षाराः

9.8

*चोम्म्. मुग्धावबोधिनी:
पुनः स्वर्जी सर्जिका टङ्कणं सौभाग्यं यवक्षारः प्रतीतः एते क्षाराः क्षारसंज्ञिकाः रसकर्मणि इत्यध्याहारः ॥ ग्र्ह्त्च्म्_9.7:1 ॥
स्तर्त् ग्र्ह्त् 9.8-9
<उपरस:: शोधन, सत्त्वपातन>
सूर्यावर्तः कदली वन्ध्या कोशातकी च सुरदाली ।
शिग्रुश्च वज्रकन्दो नीरकणा काकमाची च

9.9

आसामेकरसेन तु लवणक्षाराम्लभाविता बहुशः ।
शुध्यन्ति रसोपरसा ध्माताः सत्त्वानि मुञ्चन्ति

9.10

*चोम्म्. मुग्धावबोधिनी:
सद्रावकं शोधकगणमाह सूर्यावर्त इत्यादि ॥ ग्र्ह्त्च्म्_9.8-9:1 ॥
सूर्यं प्रति आवर्तको भ्रमणं यस्येत्येवंविधः कदली रम्भा वन्ध्या फलरहिता कर्कोटी कोशातकी जालिनी सुरदाली देवदाली शिग्रुः सौभाञ्जनं वज्रकन्दो वदसूरणकन्दः नीरकणा जलपिप्पली काकमाची वायसी इति गणः शोधनद्रावणयोग्य इति ॥ ग्र्ह्त्च्म्_9.8-9:2 ॥
शोधनद्रावकाणां शोधनद्रावणविधानम् आह आसामित्यादि ॥ ग्र्ह्त्च्म्_9.8-9:3 ॥
आसां पूर्वौषधीनां मध्यात् एकरसेन एकस्या रसेन रसोपरसा वैक्रान्तादयोऽष्टौ रसाः गन्धकादयो ऽष्टावुपरसाः बहुशोऽनेकवारं भाविता घर्मपुटिताः कार्याः पुनर्लवणक्षाराम्लभाविताश्च लवणानि सौवर्चलादीनि षट् क्षाराः स्वर्जिकादयः अम्ला जम्बीरादयः तैर्बहुवारं भावितास् तीव्रघर्मपुटिता रसोपरसाः शुध्यन्ति दोषवर्जिता भवन्ति पुनस्ते ध्माताः सन्तः सत्वानि स्वीयसाराणि मुञ्चन्ति त्यजन्तीति ॥ ग्र्ह्त्च्म्_9.8-9:4 ॥
स्तर्त् ग्र्ह्त् 9.10-11
<वैक्रान्त:: शोधन>
स्विन्नं सक्षाराम्लैर्ध्मातं वैक्रान्तकं हठाद् द्रवति ।
रसानां क्रमेण शोधनमाह स्विन्नमित्यादि ॥ ग्र्ह्त्च्म्_9.9:1 ॥
सक्षाराम्लैर्वैक्रान्तकं स्विन्नं दोलाभिधानेन स्वेदितं कुर्यात् तत् स्विन्नं वैक्रान्तं हठात् प्राबल्यात् ध्मातं सत् द्रवति सारं मुञ्चति द्रुतमात्रं सत्वनिर्गममात्रमेव शुध्यति पूर्वसंबन्धात् द्रवति ॥ ग्र्ह्त्च्म्_9.9:2 ॥
स्तर्त् ग्र्ह्त् 9.10-11
<कान्त (= चुम्बक):: शोधन>
तद् द्रुतमात्रं शुध्यति कान्तं शशरक्तभावनया

9.11

<सस्यक:: शोधन>
सस्यकमपि रक्तगणैः सुभावितं स्नेहरागसंसिक्तम् ।
शुध्यति वारैः सप्तभिरतः परं युज्यते कार्ये

9.12

*चोम्म्. मुग्धावबोधिनी:
तच्चाह सस्यकमित्यादि ॥ ग्र्ह्त्च्म्_9.10-11:1 ॥
सस्यकमपि चपलमपि रक्तगणैर्दाडिमकिंशुकबन्धूकादिभिः सुभावितं कुर्यात् ॥ ग्र्ह्त्च्म्_9.10-11:2 ॥
किंविशिष्टं स्नेहरागसंसिक्तं स्नेहः कङ्गुणितुम्बुन्यादीनां रागो रक्तवर्णद्रवः ताभ्यां वह्नौ तप्तं सस्यकं संसिक्तं सेचितमिति घृतैः संसिक्तं कोमलं भावनायोग्यं स्यात् ॥ ग्र्ह्त्च्म्_9.10-11:3 ॥
कतिभिर्वारैः सुभावितं कुर्यात् सप्तभिः सप्तसंख्याकैः ॥ ग्र्ह्त्च्म्_9.10-11:4 ॥
अतः परं कार्ये बीजादिके युज्यते ॥ ग्र्ह्त्च्म्_9.10-11:5 ॥
स्तर्त् ग्र्ह्त् 9.12
<विमल, रसक, दरद, माक्षिक:: शोधन>
क्षारैः स्नेहैरादौ पश्चादम्लेन भावितं विमलम् ।
शुध्यति तथा च रसकं दरदं माक्षिकमप्येवम्

9.13

*चोम्म्. मुग्धावबोधिनी:
तच्चाह क्षारैरित्यादि ॥ ग्र्ह्त्च्म्_9.12:1 ॥
विमलं रौप्यमाक्षिकं आदौ प्रथमं क्षारैः स्वर्जिकादिभिः स्नेहैस्तैलैः कङ्गुण्यादीनां भावितं कुर्यात् पश्चादम्लेन जम्बीरादिना भावितं कुर्यात् एवंविधं कृतं सत् शुध्यति ॥ ग्र्ह्त्च्म्_9.12:2 ॥
तथा तेनैव विधिना रसकं खर्परकं शुध्यति दरदं हिङ्गुलं चैवं माक्षिकमप्येव शुध्यति ॥ ग्र्ह्त्च्म्_9.12:3 ॥
स्तर्त् ग्र्ह्त् 9.13
<चोप्पेर्:: रञ्जन, शोधन>
तनुरपि पत्रं लिप्तं लवणक्षाराम्लरविस्नुहिक्षीरैः ।
ध्मातं निर्गुण्डीरससंसिक्तं बहुशो भवेद्धि रक्तं च

9.14

*चोम्म्. मुग्धावबोधिनी:
स्वर्णरूप्ययोः शोधनमाह तनुरित्यादि ॥ ग्र्ह्त्च्म्_9.13:1 ॥
लवणेत्यादि ॥ ग्र्ह्त्च्म्_9.13:2 ॥
लवणानि सौवर्चलादीनि क्षाराः स्वर्जिकादयः अम्लाः जम्बीरादयः रविरर्कः स्नुही सुधा तयोः क्षीराणि एतैः तनुरपि सूक्ष्ममपि पत्रं दलं सारलोहाख्ययोः इति शेषः लिप्तं ध्मातं सत् बहुशोऽनेकवारं निर्गुण्डीरसे संसिक्तं शेफालीद्रवे सिञ्चितं कुर्यात् ॥ ग्र्ह्त्च्म्_9.13:3 ॥
तर्हि स्वर्णं रूप्यं च रक्तं आरक्तछवियुतं भवेदित्यर्थः चशब्दाच्छुध्यति ॥ ग्र्ह्त्च्म्_9.13:4 ॥
स्तर्त् ग्र्ह्त् 9.14
<लेअद्, तिन्, ब्रोन्zए, चोप्पेर्:: शोधन>
शुध्यति नागो वंगो घोषो रविणा च वारमपि मुनिभिः ।
निर्गुण्डीरससेकैस्तन्मूलरजः प्रवापैश्च

9.15

*चोम्म्. मुग्धावबोधिनी:
लोहशोधनमाह शुध्यतीत्यादि ॥ ग्र्ह्त्च्म्_9.14:1 ॥
नागः सीसकः निर्गुण्डीरससेकैः शेफालीरसंसेचनैः शुध्यति निर्दोषो भवति वङ्गश्च शुध्यति ॥ ग्र्ह्त्च्म्_9.14:2 ॥
एवं रविणा ताम्रेण सह घोषोऽपि कांस्यमपि शुध्यति ॥ ग्र्ह्त्च्म्_9.14:3 ॥
कतिवारं सेचनैः मुनिभिः सप्तसंख्याकैः तन्मूलरजः निर्गुण्डीशिफाचूर्णं तत्प्रवापैः गलितेषु नागवङ्गरविघोषेषु रजो निक्षेपणैश्च चत्वारः शुध्यन्तीति ॥ ग्र्ह्त्च्म्_9.14:4 ॥
स्तर्त् ग्र्ह्त् 9.15
<तीक्ष्णलोह:: रञ्जन>
रक्तगणगलितपशुजलभावितपुटितं हि रज्यते तीक्ष्णम् ।
<तीक्ष्णलोह:: शोधन>
शुध्यति कदलीशिखिरसभावितपुटितं त्रिभिर्वारैः

9.16

*चोम्म्. मुग्धावबोधिनी:
तच्चाह रक्तगणेत्यादि ॥ ग्र्ह्त्च्म्_9.15:1 ॥
तीक्ष्णं साराख्यं रक्तगणगलितपशुजलभावितं पुटितं सत् रक्तगणेन सह गलितं मिलितं यत् पशुजलं गोमूत्रं तेन भावितं ततो वह्निपुटितं सत् रज्यते रागमाप्नोति ॥ ग्र्ह्त्च्म्_9.15:2 ॥
पुनस्तीक्ष्णं कदलीशिखिरसभावितपुटितं वा रम्भाचित्रकरसभावितं घर्मपुटितं ततो वह्निपुटितं च सत् त्रिभिर्वारैः शुध्यतीत्यर्थः ॥ ग्र्ह्त्च्म्_9.15:3 ॥
स्तर्त् ग्र्ह्त् 9.16
<मेतल्स्:: शोधन>
सर्वं शुध्यति लोहो रज्यति सुरगोपसन्निभो वापात् ।
माक्षिकदरदेन भृशं शुल्वं वा गन्धकेन मृतम्

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc