रसहृदयतन्त्र (टीका सहित) · अध्याय 10
*चोम्म्. मुग्धावबोधिनी:
सामान्येन सर्वलोहानां शोधनमारणमाह सर्व इत्यादि ॥ ग्र्ह्त्च्म्_9.16:1 ॥
सर्वो लोहो धातुवर्गः शुध्यति मृतश्च भवति पुनः रज्यति च ॥ ग्र्ह्त्च्म्_9.16:2 ॥
केन भृशं अत्यर्थं यथा स्यात्तथा माक्षिकदरदेन ताप्यहिङ्गुलेन कृत्वा यो वापः गलितेषु लोहेषु माक्षिकदरदप्रक्षेपणं तस्मात् सुरगोपसंनिभ इन्द्रगोपसदृशः सर्वो लोहो भवेत् ॥ ग्र्ह्त्च्म्_9.16:3 ॥
वा शुल्बं ताम्रं माक्षिकदरदवापेन सुरगोपसन्निभं स्यात् वा गन्धेन गन्धकवापेन मृतमप्येव स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_9.16:4 ॥
स्तर्त् ग्र्ह्त् 10.1
अथ सत्वनिर्गममभिधास्यते ।
<सत्त्व:: इम्पोर्तन्चे ओf ~>
वैक्रान्तकान्तसस्यकमाक्षिकविमलादयो विना सत्वम् ।
शुद्धा अपि नो द्वन्द्वे मिलन्ति न च तान् रसो ग्रसति
*चोम्म्. मुग्धावबोधिनी:
दत्तवान्सततं सौख्यं शुद्धेभ्यश्च खलं तथा ।
दुःखमृत्यप्यमात्मानः कोपस्य समकारकम् ॥ ग्र्ह्त्च्म्_10.1:1 ॥
वैक्रान्तादीनां रससंज्ञिकानां सत्त्वप्रशंसनम् आह वैक्रान्तमित्यादि ॥ ग्र्ह्त्च्म्_10.1:2 ॥
वैक्रान्तकान्तसस्यकमाक्षिकविमलादयः शुद्धा अपि द्वन्द्वे न मिलन्ति ॥ ग्र्ह्त्च्म्_10.1:3 ॥
वैक्रान्तं वज्रभूमिजं रजः कान्तं चुम्बकं सस्यकश्चपलः माक्षिकं ताप्यं विमला रौप्यमाक्षिकम् इत्यादयो गन्धकादयश्चोपरसंज्ञका न मिलन्ति एकशरीरतां नाप्नुवन्ति ॥ ग्र्ह्त्च्म्_10.1:4 ॥
क्व द्वन्द्वे उभयमेलापे ॥ ग्र्ह्त्च्म्_10.1:5 ॥
पुनस्तान् शुद्धानपि रसः सूतो न ग्रसति ॥ ग्र्ह्त्च्म्_10.1:6 ॥
स्तर्त् ग्र्ह्त् 10.2-3
<??>
नागनासिकाभिधानं चन्द्रोदकम् अमृतम् आप्तकाठिन्यम् ।
रसवैक्रान्तकम् एवं बध्नाति रसं स्वसत्त्वेन
<शैलोदक>
नानाविधसंस्थानं निर्जरशिखरिशिखरसम्भूतम् ।
धारोदम्भसि श्रेष्ठं तदश्म शैलोदकं प्राप्य
*चोम्म्. मुग्धावबोधिनी:
वैक्रान्तप्राधान्यम् आह नागेत्यादि ॥ ग्र्ह्त्च्म्_10.2-3:1 ॥
एवंलक्षणं वैक्रान्तकं ज्ञातव्यम् ॥ ग्र्ह्त्च्म्_10.2-3:2 ॥
किंविशिष्टं नागनासिकाभिधानं नागानां फणिनां नासिका एव अभिधानं संज्ञा यस्य तत् ॥ ग्र्ह्त्च्म्_10.2-3:3 ॥
पुनः किंविशिष्टं चन्द्रोदकं चन्द्रमसः सम्बन्धि यदुदकं बलं तस्मादेवामृतं ॥ ग्र्ह्त्च्म्_10.2-3:4 ॥
आप्तकाठिन्यं प्राप्तं काठिन्यं येन पूर्वमेतच्च मृदूत्पन्नमित्यर्थः ॥ ग्र्ह्त्च्म्_10.2-3:5 ॥
एवंविधं रसवैक्रान्तं रससंज्ञकं वैक्रान्तं रसं सूतं बध्नाति ॥ ग्र्ह्त्च्म्_10.2-3:6 ॥
केन स्वसत्वेन स्वीयसारेणेति ॥ ग्र्ह्त्च्म्_10.2-3:7 ॥
वैक्रान्तप्रकारमाह नानेत्यादि ॥ ग्र्ह्त्च्म्_10.2-3:8 ॥
पूर्वमुपवर्णितं वैक्रान्तं नानाविधसंस्थानमस्ति नानाविधमनेकप्रकारं संस्थानं लक्षणं यस्य तत् संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः इति माधवनिदानं सितासितरक्तपीतवर्णत्वान् नानाविधसंस्थानम् इत्यर्थः ॥ ग्र्ह्त्च्म्_10.2-3:9 ॥
पुनर्निर्जरशिखरिशिखरसम्भूतं निर्जराणां देवानां यः शिखरी पर्वतस्तस्य शिखरं शृङ्गं तत्र सम्भूतम् उत्पन्नम् ॥ ग्र्ह्त्च्म्_10.2-3:10 ॥
नानाविधसंस्थानं कुतः धारोदम्भसि धाराभिरुदन्त उन्मत्तमम्भो यत्र समये तस्मिन् वर्षाकाले शैलोदकं शिलासंबन्धि यदुदकं जलं तत् प्राप्य श्रेष्ठं तदश्म वैक्रान्ताभिधानं नानावर्णं भवति यतः शिलोदकस्य नानाविधत्वम् ॥ ग्र्ह्त्च्म्_10.2-3:11 ॥
स्तर्त् ग्र्ह्त् 10.4-5
<वैक्रान्त:: सत्त्व:: पातन>
भस्त्राद्वयेन हठतो ध्मातव्यं पञ्चमाहिषसुबद्धम् ।
दत्त्वा दशांशस्वर्जिकपटुटंकणगुञ्जिकाक्षारान्
तद्गच्छति कठिनत्वं मुञ्चति सत्वं स्फुलिङ्गकाकारम् ।
मुक्तानिकरप्रायं ग्राह्यं तत् काचम् अधिवर्ज्य
*चोम्म्. मुग्धावबोधिनी:
वैक्रान्तसत्वपातनमाह भस्त्रेत्यादि ॥ ग्र्ह्त्च्म्_10.4-5:1 ॥
तद्वैक्रान्तं पञ्चमाहिषसुबद्धं दधिदुग्धाज्यमूत्रशकृद्भिः पञ्चसंख्याकैर् माहिषैः सह सुबद्धं पिण्डाकृति कृतं सत् भस्त्राद्वयेन खल्लयुग्मेन हठतो बलात् ध्मातव्यम् ॥ ग्र्ह्त्च्म्_10.4-5:2 ॥
किं कृत्वा दशांशसर्जिकपटुटङ्कणगुञ्जिकाक्षारान् दत्त्वा दशांशविभागेन सर्जिकालवणसौभाग्यरक्तिकायवक्षारान् पिष्टवैक्रान्ते क्षेप्येत्यर्थः ॥ ग्र्ह्त्च्म्_10.4-5:3 ॥
ध्मातं सत् किं स्यात्तदाह तदित्यादि ॥ ग्र्ह्त्च्म्_10.4-5:4 ॥
स्फुलिङ्गकाकारं वह्निकणनिभं सत्वं सारं मुञ्चति ॥ ग्र्ह्त्च्म्_10.4-5:5 ॥
पुनस्तत्सत्वं कठिनत्वं गच्छति कठिनं स्यादित्यर्थः ॥ ग्र्ह्त्च्म्_10.4-5:6 ॥
तत्सत्वं आकारतो मुक्तानिकरप्रायं मौक्तिकराशिसदृशं स्यात् एवंविधं सत्वं काचं अधिवर्ज्य दूरीकृत्य तत् निर्मलं ग्राह्यमित्यर्थः ॥ ग्र्ह्त्च्म्_10.4-5:7 ॥
युग्मम् ॥ ग्र्ह्त्च्म्_10.4-5:8 ॥
स्तर्त् ग्र्ह्त् 10.6
<वैक्रान्त:: बन्धन ओf मेर्चुर्य्>
रसवैक्रान्तकमेवं मिलति द्वन्द्वान्वितं समं हेम्ना ।
निर्व्यूढं घनसत्वं तेन रसो बन्धमुपयाति
*चोम्म्. मुग्धावबोधिनी:
वैक्रान्तसत्वयोगमाह रसेत्यादि ॥ ग्र्ह्त्च्म्_10.6:1 ॥
तद्रसवैक्रान्तकं सत्त्वं हेम्ना समं स्वर्णेन समभागं द्वन्द्वान्वितं सत् द्वन्द्वमेलापकौषधसहितं सत् एवममुना विधानेन मिलति रसे इति शेषः ॥ ग्र्ह्त्च्म्_10.6:2 ॥
पुनस्तेन सत्वेन सह घनसत्वमभ्रसारं निर्व्यूढं निर्वाहितं सत् तेनोभयसत्वसंयोगेन रसः सूतो बन्धमुपयाति बन्धनमाप्नोति ॥ ग्र्ह्त्च्म्_10.6:3 ॥
स्तर्त् ग्र्ह्त् 10.7
<मिनेरल्स्:: सत्त्वपातन>
वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनाम् ।
पातयति सत्वमेषां पिण्डी ध्माता दृढाङ्गारैः
*चोम्म्. मुग्धावबोधिनी:
सत्वपातनविधानमाह वज्रेत्यादि ॥ ग्र्ह्त्च्म्_10.7:1 ॥
दृढाङ्गारैर् इति दृढकथनात् खदिरादीनां पूर्वोक्तत्वाद्भस्त्राद्वयेन च ध्माता सती वज्राभ्रकान्तसस्यकमाक्षिकप्रभृतिसकलधातूनां वज्रसंज्ञकं यदभ्रं तद्वज्राभ्रं कान्तं चुम्बकं सस्यकं चपला माक्षिकं स्वर्णमाक्षिकं इतिप्रभृतयः सकलधातवः सर्वोपरसास्तेषां पिण्डी सत्वं पातयति ॥ ग्र्ह्त्च्म्_10.7:2 ॥
स्तर्त् ग्र्ह्त् 10.8
<माक्षिक:: सत्त्व:: स्पेचिअल् अल्छेम्. पोतेन्च्य्>
हित्वा माक्षिकसत्वं नान्येषां शक्तिरस्ति लोहघ्नी ।
न पतति तावत्सत्वं भस्त्रान्ते न यावद् आह्रियेत्
*चोम्म्. मुग्धावबोधिनी:
शक्तिमत्त्वेन माक्षिकसत्वप्रशंसनम् आह हित्वेत्यादि ॥ ग्र्ह्त्च्म्_10.8:1 ॥
माक्षिकसत्वं ताप्यसारं हित्वा त्यक्त्वा अन्येषां रसोपरसानां शक्तिः सामर्थ्यं नास्ति ॥ ग्र्ह्त्च्म्_10.8:2 ॥
किंभूता शक्तिः लोहघ्नीति लोहान् हन्तीति विग्रहः ॥ ग्र्ह्त्च्म्_10.8:3 ॥
पुनस्तावत्सत्त्वं न पतति यावद्भस्त्रा अन्ते सत्वसमीपे न आह्रीयेत न प्राप्येत तस्मादल्पेनाग्निना सत्वाप्रवृत्तिरित्यर्थः ॥ ग्र्ह्त्च्म्_10.8:4 ॥
स्तर्त् ग्र्ह्त् 10.9
<माक्षिक:: सत्त्व:: फ्य्स्. प्रोपेर्तिएस्>
रक्तं मृदु नागसमं सत्वं यस्माद्धि माक्षिकात्पतितम् ।
गन्धाश्मनोऽपि तद्वत्कार्यं यत्नेन मृदुभावम्
*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वम् उदास्यान्यसत्वप्रवृत्तिम् आह रक्तमित्यादि ॥ ग्र्ह्त्च्म्_10.9:1 ॥
रक्तं लोहितं नागसमं सीसकतुल्यं मृदु कोमलं एवंविधं सत्वं यस्माद्धेतोर् माक्षिकात् पतति ताप्यात् निर्गच्छति तद्वत्तस्माद्धेतोर् वा तस्माद्विधानतः गन्धाश्मनो गन्धकस्य यत्नेन मृदुभावं कार्यं यथा गन्धकोऽपि मृदुर्भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_10.9:2 ॥
स्तर्त् ग्र्ह्त् 10.10
<माक्षिक:: सत्त्व:: पातन>
लवणाम्लेन सुपुटितं माक्षिकमम्लेन मर्दितं विधिना ।
मुञ्चति सोष्णे ग्रासम् आयसपात्रे तु पिष्टिका भवति
*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वविधानमाह लवणेत्यादि ॥ ग्र्ह्त्च्म्_10.10:1 ॥
माक्षिकं ताप्यं लवणाम्लेन लवणं मुख्यत्वात् ग्रन्थान्तरसाम्याच्च सैन्धवं अम्लो जम्बीरादिः तेन मर्दितं पुनरम्लेन जम्बीरादिना विधिना उक्तरीत्या पुटितं वह्नौ प्रतापितं सत् मुञ्चति पूर्वश्लोकसंबन्धात् सत्त्वं इति शेषः ॥ ग्र्ह्त्च्म्_10.10:2 ॥
इत्थं पतितं सत्वं ग्राह्यम् ॥ ग्र्ह्त्च्म्_10.10:3 ॥
लवणाम्लेन गन्धकमपि मृदु स्यात् ॥ ग्र्ह्त्च्म्_10.10:4 ॥
तु पुनः सोष्णे आयसपात्रे वह्नौ तापिते लोहपात्रे पिष्टिका भवति रक्तवर्णरजोरूपेत्य् अर्थः ॥ ग्र्ह्त्च्म्_10.10:5 ॥
स्तर्त् ग्र्ह्त् 10.11
<सत्त्व:: चोलोउर् ओf दिff. ~>
तुत्थाद्धि ताप्यजसमं समसृष्टं पतति वै सत्वम् ।
अभ्रवैक्रान्तकान्तप्रभृतीनां तत्र लोहनिभम्
*चोम्म्. मुग्धावबोधिनी:
तुत्थादीनां सत्वपातनमाह तुत्थादित्यादि ॥ ग्र्ह्त्च्म्_10.11:1 ॥
तुत्थात् तुत्थं शिखिग्रीवं तस्मात् ताप्यजसममिति माक्षिकसत्ववत् माक्षिकसत्वविधानेनास्य सत्वपात इत्यर्थः ॥ ग्र्ह्त्च्म्_10.11:2 ॥
समसृष्टं समं ताप्येन तुल्यं वर्णमार्दवाभ्यां सृष्टं कथितमित्यर्थः ॥ ग्र्ह्त्च्म्_10.11:3 ॥
एवंविधं तुत्थकसत्वं पतति ॥ ग्र्ह्त्च्म्_10.11:4 ॥
अभ्रकेत्यादि अभ्रकं प्रतीतं वैक्रान्तं रसवैक्रान्तं कान्तं चुम्बकं इतिप्रभृतीनाम् इत्यादीनां तत्त्वं पत्रसत्वपातनयोगे लोहनिभं मुण्डवर्णम् इत्यर्थः ॥ ग्र्ह्त्च्म्_10.11:5 ॥
स्तर्त् ग्र्ह्त् 10.12
<स्वर्णमाक्षिक (?):: सत्त्वपातन (?)>
स्त्रीवज्रीदुग्धभावितमेरण्डस्नेहभावितं शतं ध्मातम् ।
एवं त्रिभिरिह वारैः शुल्वसमं भवति रञ्जकं हैमम्
*चोम्म्. मुग्धावबोधिनी:
पुनर्माक्षिकविधानान्तरम् आह स्त्रीत्यादि ।
ताप्यं स्त्रीवज्रीदुग्धभावितं स्त्री नारी वज्री सेहुण्डः तयोर्दुग्धं तेन भावितं घर्मपुटितं कुर्यात् ॥ ग्र्ह्त्च्म्_10.12:1 ॥
पुनरेरण्डस्नेहेन शतं शतवारं भावितं च कुर्यात् ॥ ग्र्ह्त्च्म्_10.12:2 ॥
ततो वारैस्त्रिभिरेव ध्मातं सत् हैमं स्वर्णमाक्षिकं तस्येदं हैमं सत्वं शुल्बसमं ताम्रनिभं भवति रञ्जकं रसे रागदायी स्यात्कनकेऽपि च ॥ ग्र्ह्त्च्म्_10.12:3 ॥
स्तर्त् ग्र्ह्त् 10.13
<माक्षिक, रसक:: सत्त्व:: पातन>
कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वम् ।
ताप्यं मुञ्चति सत्वं रसकं चैवं त्रिसन्तापैः
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह कदलीत्यादि ॥ ग्र्ह्त्च्म्_10.13:1 ॥
ताप्यं माक्षिकं कदलीरसशतभावितमध्वैरण्डतैलपरिपक्वम् इति प्रथमं रम्भाद्रवेण शतवारं भावितं पश्चात् मध्वैरण्डतैलाभ्यां सह परिपक्वं सम्यक् पाचितं सत् सत्वं मुञ्चति ॥ ग्र्ह्त्च्म्_10.13:2 ॥
कैः कृत्वा त्रिसंतापैः त्रिवारं धमनैः ॥ ग्र्ह्त्च्म्_10.13:3 ॥
एवं रसकं खर्परकमपि सत्वं मुञ्चतीति ॥ ग्र्ह्त्च्म्_10.13:4 ॥
स्तर्त् ग्र्ह्त् 10.14
<मिनेरल्स्:: सत्त्व:: पातन>
ऊर्णाटङ्कणगुडपुरलाक्षासर्जरसैः सर्वधातुभिः पिष्टैः ।
छागीक्षीरेण कृता पिण्डी शस्ता हि सत्वविधौ
*चोम्म्. मुग्धावबोधिनी:
सत्वपातने पिण्डीमाह ऊर्णेत्यादि ॥ ग्र्ह्त्च्म्_10.14:1 ॥
ऊर्णा इति ऊर्णा मेषरोम टङ्कणं सौभाग्यं गुडः प्रतीतः पुरो गुग्गुलुः लाक्षा जतु सर्जरसो रालः एतैः किंविशिष्टैः सर्वधातुभिः रसोपरसैर्वा स्वर्णादिभिः सह पिष्टैः पेषितैः पुनः छागीक्षीरेण अजापयसा कृता या पिण्डी सा सत्वविधौ सत्वपातनकर्मणि शस्ता प्रधाना ॥ ग्र्ह्त्च्म्_10.14:2 ॥
धातुरसोपरसानां सत्वं पातयत्येवेति ॥ ग्र्ह्त्च्म्_10.14:3 ॥
स्तर्त् ग्र्ह्त् 10.15-17
<मिनेरल्स्:: सत्त्व:: पातन>
चूर्णितसत्वसम्भारं त्रिंशत्पलमादरेण संगृह्य ।
टंकणपलसप्तयुतं गुंजापलत्रितययोजितं चैव
तिलचूर्णककिट्टपलैर् मत्स्यैर् आलोड्य द्विरंशयुक्तैश्च ।
गोधूमबद्धपिण्डी गोपञ्चकभाविता बहुशः
कोष्ठकधमनविधिना तीव्रं भस्त्रानलेन तत्पतति ।
संद्रवति चाभ्रसत्त्वं तथैव सर्वाणि सत्वानि
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0