रसहृदयतन्त्र (टीका सहित) · अध्याय 8
*चोम्म्. मुग्धावबोधिनी:
रसे विडयोजनमाह बिडमित्यादि ॥ ग्र्ह्त्च्म्_7.9:1 ॥
आदौ प्रथमं सूतस्य रसस्याष्टमांशेन पूर्वनिर्मितं विडं अधरोत्तरं अध उपरिभागं च दत्त्वा एवं अमुना प्रकारेण जारणं कुर्यात् पुनः क्रम्यते अनेनेति क्रमो बिडरूपः तत्क्रमः परंपरा तस्मात् अग्निं विवर्धयेत् कर्मकृत् इत्यध्याहारः वारंवारं बिडसंप्रयोगादग्निर्वर्धते ॥ ग्र्ह्त्च्म्_7.9:2 ॥
स्तर्त् ग्र्ह्त् 8.1-2
<रञ्जन:: चोलोउर् अच्च्. तो अभ्र>
जीर्णाभ्रको रसेन्द्रो दर्शयति घनानुरूपिणीं छायाम् ।
कृष्णां रक्तां पीतां सितां तथा संकरैर्मिश्राम्
कृष्णाभ्रकेण बलवदसितरागैर्युज्यते रसेन्द्रस्तु ।
श्वेतै रक्तैः पीतैर्वह्नेः खलु वर्णतो ज्ञेयः
*चोम्म्. मुग्धावबोधिनी:
द्योतते दिवि चन्द्रो ऽसौ जीर्णेऽभ्रे कान्तिमत्तया ।
तथेह तामुपाश्रित्य शालते मनुजेषु च ॥ ग्र्ह्त्च्म्_8.1-2:1 ॥
सुसिद्धबिडधात्वादिजारणेन रसस्य हि ।
पीतादिरागजननं रञ्जनं परिकीर्तितम् ।
इति परिभाषा ॥ ग्र्ह्त्च्म्_8.1-2:2 ॥
अभ्रस्य छायाविशेषम् आह जीर्णाभ्रक इत्यादि ॥ ग्र्ह्त्च्म्_8.1-2:3 ॥
रसेन्द्रो यदा जीर्णाभ्रो भवति तदा घनानुरूपिणीं जीर्णाभ्रसमवर्णां छायां दर्शयति ॥ ग्र्ह्त्च्म्_8.1-2:4 ॥
कृष्णे जीर्णे कृष्णां रक्तेऽभ्रे जीर्णे रक्तां पीते पीतां तथा सिते शुभ्रे सितां एवं चतुर्विधां छायां दर्शयति ॥ ग्र्ह्त्च्म्_8.1-2:5 ॥
पुनर्द्वयोस्त्रयाणां वा चतुर्णां संकरे मेलापे सति द्वित्रिचतुर्णाम् अनुरूपिणीं छायां दर्शयतीत्यर्थः ॥ ग्र्ह्त्च्म्_8.1-2:6 ॥
अभ्रयोगाद् वर्णविशेषमाह कृष्णेत्यादि ॥ ग्र्ह्त्च्म्_8.1-2:7 ॥
कृष्णाभ्रकेण जीर्णेन रसो बलवान् भवेत् तु पुनः असितरागैः कृष्णरागैर्युज्यते ॥ ग्र्ह्त्च्म्_8.1-2:8 ॥
तथा श्वेतेन श्वेतै रागैर् युज्यते रक्तेन रक्तैः पीतेन पीतैः कपिलाग्नेर्दिव्यस्यापि सर्वस्यादर्शनरूपं क्षयकरस्य बलैर्द्रव्याणां तादृशो वर्णो रसवर्णतो वर्णकोविदैर्ज्ञेयः ॥ ग्र्ह्त्च्म्_8.1-2:9 ॥
स्तर्त् ग्र्ह्त् 8.3
<मेर्चुर्य् त्रन्स्fएर्स् ओwन् चोलोउर् ओन् ओथेर् सुब्स्तन्चेस्>
अथ निजकर्मे वर्णं न जहाति यदा स रज्यते रागैः ।
क्रमशो हि वक्ष्यमाणैर्निर्णिक्तो रंजनं कुरुते
*चोम्म्. मुग्धावबोधिनी:
रञ्जितरसप्रशंसाम् आह अथेत्यादि ॥ ग्र्ह्त्च्म्_8.3:1 ॥
अथानन्तरं रसः रसेन्द्रो यदा वक्ष्यमाणैः श्वेतादिभिः रागैः रज्यते तदा निजकर्मे वर्णं स्वकीयमेव स्वाभाविकं रूपं न जहाति न त्यजति पुनस्तैरेव रागैः निर्णिक्तो रक्तः सन् रञ्जनं कुरुते रागदायी भवतीति ॥ ग्र्ह्त्च्म्_8.3:2 ॥
तथा नो रक्तो न रञ्जनं कुरुते अविद्यमानत्वान्निषेधः ॥ ग्र्ह्त्च्म्_8.3:3 ॥
स्तर्त् ग्र्ह्त् 8.4
<(स्तोffए, दिए वेर्स्छ्. संस्कारस् इन्दुzइएरेन्)>
बलमास्तेऽभ्रकसत्वे जारणरागाः प्रतिष्ठितास्तीक्ष्णे ।
बन्धश्च सारलोहे सारकमथ नागवंगाभ्याम्
*चोम्म्. मुग्धावबोधिनी:
अभ्रसत्वादीनां योगे रसे व्यवस्थामाह बलमित्यादि ॥ ग्र्ह्त्च्म्_8.4:1 ॥
अभ्रकसत्वेऽधिकरणे बलमास्ते अभ्रसत्वसंयोगेन रसो बलमाप्नोतीत्यर्थः ॥ ग्र्ह्त्च्म्_8.4:2 ॥
पुनस्तीक्ष्णे लोहभेदे जारणरागा जारणेन तीक्ष्णस्था रागाः प्रतिष्ठिता भवन्तीत्यर्थः ॥ ग्र्ह्त्च्म्_8.4:3 ॥
सारणमथ नागवङ्गाभ्याम् इति नागवङ्गाभ्यां दुःसरणं सारणद्रव्यं सरत इति ॥ ग्र्ह्त्च्म्_8.4:4 ॥
स्तर्त् ग्र्ह्त् 8.5
<पोतेन्च्य् ओf तीक्ष्णलोह>
क्रामति तीक्ष्णेन रसस्तीक्ष्णेन च जीर्यते क्षणाद्ग्रासः ।
हेम्नो योनिस्तीक्ष्णं रागान् गृह्णाति तीक्ष्णेन
*चोम्म्. मुग्धावबोधिनी:
सर्वकारणं तीक्ष्णमाह क्रामतीत्यादि ॥ ग्र्ह्त्च्म्_8.5:1 ॥
तीक्ष्णेन लोहभेदेन रसः क्रामति क्रामणं विदधाति पुनस् तीक्ष्णेन कृत्वा ग्रासः क्षणादल्पकालतो जीर्यते जारणम् आप्नोति पुनर्हेम्नः सुवर्णस्य योनिरुत्पत्तिस्थानं तीक्ष्णमस्ति पुनः रागान् रञ्जनभावान् तीक्ष्णेन कृत्वा रसो गृह्णाति स्वस्मिन् रागान् दधातीत्यर्थः ॥ ग्र्ह्त्च्म्_8.5:2 ॥
स्तर्त् ग्र्ह्त् 8.6
<तीक्ष्णलोह:: चारण, जारण>
तदपि च दरदेन हतं कृत्वा माक्षिकेण रविसहितम् ।
वासितमपि वासनया घनवच्चार्यं च जार्यं च
*चोम्म्. मुग्धावबोधिनी:
तीक्ष्णस्य हिङ्गुलयोगेन गुणाधिक्यमाह तदपीत्यादि ॥ ग्र्ह्त्च्म्_8.6:1 ॥
अपि निश्चयेन तत् तीक्ष्णं दरदेन हिङ्गुलेन हतं मारितं वा माक्षिकेन स्वर्णमाक्षिकेन रविसहितं ताम्रसंयुतं तीक्ष्णं हतं मारितं पुनर्वासनया वासनौषधेन वासितं परिभावितं घनवद् अभ्रवत् चार्यं जार्यं च सत्वाभ्रवत् नान्यथा ॥ ग्र्ह्त्च्म्_8.6:2 ॥
स्तर्त् ग्र्ह्त् 8.7
<रञ्जन:: सुइतब्ले सुब्स्तन्चेस्>
कान्तं वा तीक्ष्णं वा काञ्चीं वा वज्रसस्यकादीनाम् ।
एकतमं सर्वं वा रसरंजने संकरोऽभीष्टः
*चोम्म्. मुग्धावबोधिनी:
तीक्ष्णवदेतानाह कान्तम् इत्यादि ॥ ग्र्ह्त्च्म्_8.7:1 ॥
रसरञ्जने रसेन्द्रे रागकर्मणि कान्तं चुम्बकपाषाणोत्थं लोहं श्रेष्ठं वेति समुच्चये तीक्ष्णं लोहभेदो वा काञ्चीं स्वर्णमाक्षिकं वा वज्रसस्यकादीनां वज्रसस्यकावादिर्येषां ते तेषां हीरकचपलादीनां एकतमं तन्मध्यादेकतमं सर्वं वा अत्राभीष्टशब्दस्य प्रत्येकं संबन्धः हीरकादीनि रत्नानि सस्यकाद्या उपधातवः ॥ ग्र्ह्त्च्म्_8.7:2 ॥
वा रसरञ्जने अयमेव संकरः सर्वेषां कान्तादीनां मेलापः सर्वत्राभीष्टः ॥ ग्र्ह्त्च्म्_8.7:3 ॥
स्तर्त् ग्र्ह्त् 8.8-9
<(छेम्. पोतेन्zएन् वेर्स्छ्. स्तोffए)>
कुटिले बलमभ्यधिकं रागस्तीक्ष्णे तु पन्नगे स्नेहः ।
रागस्नेहबलानि तु कमले शंसन्ति धातुविदः
<मेर्चुर्य्:: रञ्जन>
सर्वैर् एभिर् लोहैर् माक्षिकनिहतैस्तथा द्रुतैर्गर्भे ।
विडयोगेन तु जीर्णो रसराजो रागमुपयाति
*चोम्म्. मुग्धावबोधिनी:
स्वे स्वे विकारे वक्ष्यमाणमाह बलमित्यादि ॥ ग्र्ह्त्च्म्_8.8-9:1 ॥
धातुविदो रसवैद्या इति शंसन्ति ॥ ग्र्ह्त्च्म्_8.8-9:2 ॥
इति किं कुटिले बलं अभ्यधिकं सर्वाधिकं पुनस्तीक्ष्णेऽभ्यधिको रागः रञ्जनं तु पुनः पन्नगे नागेऽभ्यधिकं स्नेहः स्निग्धत्वं तु पुनः रागस्नेहबलानि त्रीण्येवोक्तानि कमले ताम्रे कुटिलतीक्ष्णपन्नगानां जारणाद्रसे यथा बलरागस्नेहा भवन्ति तथैकताम्रजारणात् त्रयो भवन्तीत्यर्थः ॥ ग्र्ह्त्च्म्_8.8-9:3 ॥
रसबन्धनोपायमाह सर्वैरित्यादि ॥ ग्र्ह्त्च्म्_8.8-9:4 ॥
बिडयोगेन पूर्वोक्तेन जीर्णो जारणमापन्नो रसराजो बन्धमुपयाति बन्धनमादत्ते ॥ ग्र्ह्त्च्म्_8.8-9:5 ॥
कैः सह जीर्णः एभिः पूर्वोक्तैः सर्वैर् लोहैर्धातुभिः ॥ ग्र्ह्त्च्म्_8.8-9:6 ॥
किंविशिष्टैः माक्षिकनिहतैः स्वर्णमाक्षिकमारितैः ॥ ग्र्ह्त्च्म्_8.8-9:7 ॥
पुनः किंविशिष्टैः गर्भे रसोदरे द्रुतैर्विद्रुतैरिति ॥ ग्र्ह्त्च्म्_8.8-9:8 ॥
स्तर्त् ग्र्ह्त् 8.10-11
<मेर्चुर्य्:: रञ्जन (wइथ् अ कृष्टि)>
तालकदरदशिलाभिः स्नेहक्षाराम्ललवणसहिताभिः ।
समकद्विगुणत्रिगुणान् पुटो वहेद्वंगशस्त्रादीन्
रक्तस्नेहनिषेकैः शेषं कुर्याद्रसस्य कृष्टिरियम् ।
चारणजारणमात्रात्कुरुते रसमिन्द्रगोपनिभम्
*चोम्म्. मुग्धावबोधिनी:
वक्ष्यमाणधातूनां मारणविधानमाह तालकेत्यादि ॥ ग्र्ह्त्च्म्_8.10-11:1 ॥
वङ्गशस्त्रादीन् वङ्गं त्रपुषं शस्त्रं तीक्ष्णं ते आदिर्येषां ते तान् ॥ ग्र्ह्त्च्म्_8.10-11:2 ॥
काभिः सह पुटो वहेत् तालकदरदशिलाभिः तालकं हरितालं दरदं हिङ्गुलं शिला मनःशिला ताभिः ॥ ग्र्ह्त्च्म्_8.10-11:3 ॥
किंविशिष्टाभिः स्नेहक्षाराम्ललवणसहिताभिः स्नेहः तैलं कङ्गुणितुम्बिन्यादीनां क्षारः स्वर्जिकादिः अम्लं जम्बीरादि लवणानि सैन्धवादीनि एतैः सहिताभिः ॥ ग्र्ह्त्च्म्_8.10-11:4 ॥
एकधातुतो द्वादशांशाद् आरभ्य यावत्समकद्विगुणत्रिगुणभागाः समाप्यन्ते तावत्पुटो वहेदिति व्यक्तिः ॥ ग्र्ह्त्च्म्_8.10-11:5 ॥
पुटितधातुकृत्यम् आह रक्तेत्यादि ॥ ग्र्ह्त्च्म्_8.10-11:6 ॥
उक्तधातुर्गर्भितं रसं रक्तस्नेहनिषेकैः रक्तो रक्तवर्गः स्नेहः कङ्गुण्यादीनां अनयोर्निषेकाः सिञ्चनानि तैः शेषं धातुवर्जितं कुर्यात् इयं रसस्य कृष्टिः रसस्य गुणाकर्षणं पुनरियं कृष्टिः रसेन्द्रं इन्द्रगोपनिभं कुरुते अतिरिक्तवर्णं कुरुते ॥ ग्र्ह्त्च्म्_8.10-11:7 ॥
कुतः चारणजारणमात्रात् पुनः पुटितधातूनां चारणं च जारणं जीर्णंकरणं च तन्मात्रात् वा चारणस्य द्रव्यस्य जारणं तन्मात्रात् उभयोः पक्षयोरेक एवार्थः परमुक्तिविशेषः ॥ ग्र्ह्त्च्म्_8.10-11:8 ॥
स्तर्त् ग्र्ह्त् 8.12
<मेर्चुर्य्:: रञ्जन>
अथवा केवलम् अमलं कमलं दरदेन वापितं कुरुते ।
त्रिगुणं हि चीर्णजीर्णं लाक्षारससन्निभं सूतम्
*चोम्म्. मुग्धावबोधिनी:
मुख्यत्वेन ताम्रप्रंशसनम् आह अथवेत्यादि ॥ ग्र्ह्त्च्म्_8.12:1 ॥
अथवेति विधानान्तरे केवलं शुद्धं वान्यसंयोगेन वर्जितं अमलं जातपूर्वशोधनं त्रिगुणं चीर्णजीर्णं कुर्यादित्यर्थः पूर्वं चीर्णं चारणमाप्तं पश्चाज्जीर्णं जारणमापन्नं एवंभूतं ताम्रं सूतं लाक्षारससन्निभं अलक्तकप्रभं कुरुते ॥ ग्र्ह्त्च्म्_8.12:2 ॥
स्तर्त् ग्र्ह्त् 8.13
<मेर्चुर्य्:: रञ्जन>
रक्तगणगलितपशुजलभावितताप्यगन्धकशिलानाम् ।
एकेन वापितमृतं कमलं रञ्जयति रसराजम्
*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह रक्तेत्यादि ॥ ग्र्ह्त्च्म्_8.13:1 ॥
रक्तगणेन दाडिमकिंशुकबन्धूकादिना पूर्वोक्तेन गलितं यत् पशुजलं गोमूत्रं तेन भाविता यास् ताप्यगन्धकमनःशिलास् तासां मध्याद् एकेन ताप्येन स्वर्णमाक्षिकेन वा गन्धकेन वा शिलया वापितमृतं सत् कमलं ताम्रं रसं रञ्जयति रागं ददातीत्यर्थः ॥ ग्र्ह्त्च्म्_8.13:2 ॥
स्तर्त् ग्र्ह्त् 8.14
<दुरतिओन् ओf चोलोउरिन्ग् अच्च्. तो सुब्स्तन्चे>
बाह्यो गन्धकरागो विलुलितरागे मनःशिलाताले ।
माक्षिकसत्वरसकौ द्वावेव हि रञ्जने शस्तौ
*चोम्म्. मुग्धावबोधिनी:
रागाधिकारिगन्धकादीन् आह ॥ ग्र्ह्त्च्म्_8.14:1 ॥
तत्र गन्धकः कीदृशं रागं ददाति तत्स्वरूपमाह बाह्य इत्यादि ॥ ग्र्ह्त्च्म्_8.14:2 ॥
गन्धकरागो बाह्यो बहिर्भवः पुनर्मनःशिलाताले मनःशिला मनोह्वा तालं हरितालं तावुभे विलुलितरागे चञ्चलरागे पुनर् माक्षिकसत्वरसकौ स्वर्णमाक्षिकसत्वखर्परिकौ द्वावेव रञ्जने रसरागे शस्तौ गन्धकमनःशिलातालेभ्यः प्रधानौ अत्यधिकावित्यर्थः ॥ ग्र्ह्त्च्म्_8.14:3 ॥
स्तर्त् ग्र्ह्त् 8.15
<रसरञ्जक् (15)>
क्रमवृत्तौ रविरसकौ संशुद्धौ मूकमूषिकाध्मातौ ।
त्रिगुणं चीर्णो जीर्णो हेमाभो जायते सूतः
*चोम्म्. मुग्धावबोधिनी:
प्रधानयोस्ताम्रखर्परयोः कृत्यमाह क्रमवृत्तावित्यादि ॥ ग्र्ह्त्च्म्_8.15:1 ॥
क्रमवृत्तौ रविरसकौ संशुद्धौ विशेषविधानेन शोधितौ वा उत्तमजातीयौ मूकमूषिकाध्मातौ अन्धमूषायां ध्मातौ वह्नियोगीकृतौ कार्यौ एतत्त्रिगुणं यथा स्यात्तथा चीर्णो जीर्णश्च सूतः हेमनिभो जायते एतेन चारणमापन्नः पश्चात्तेनैव जारणाम् आपन्नो रसः स्वर्णप्रभो भवेदित्यर्थः ॥ ग्र्ह्त्च्म्_8.15:2 ॥
स्तर्त् ग्र्ह्त् 8.16
<रसरञ्जक् (16)>
अथ कृष्णाभ्रकचूर्णं पुटितं रक्तं भवेत्तथा सकलम् ।
त्रिगुणं चीर्णो जीर्णो हेमद्रुतिसन्निभः सूतः
*चोम्म्. मुग्धावबोधिनी:
अभ्रकयोगमाह अथेत्यादि ॥ ग्र्ह्त्च्म्_8.16:1 ॥
अथ रसकयोगानन्तरं कृष्णवर्णाभ्रकचूर्णं श्यामवर्णाभ्रकरजः तथा रविरसकविधानेन खर्परकेण सहितं पुटितं सत् सकलं समस्तं रक्तं भवेत् तद्रक्तभूतमभ्रं त्रिगुणं यथा स्यात्तथा चीर्णः चारणमापन्नस् ततो जीर्णो जारणमापन्नश्च सन् सूतो हेमद्रुतिसन्निभः स्वर्णद्रवसदृशो भवेद् इत्यर्थः ॥ ग्र्ह्त्च्म्_8.16:2 ॥
स्तर्त् ग्र्ह्त् 8.17-18
<मेर्चुर्य्:: रञ्जन>
त्रिगुणेन माक्षिकेण तु कनकं च मृतं रसकतालयुतम् ।
पटुसहितं तत्पक्वं हण्डिकया यावदिन्द्रगोपनिभम्
तच्चूर्णं सूतवरे त्रिगुणं चीर्णं हि जीर्णं तु ।
द्रुतहेमनिभः सूतो रञ्जति लोहानि सर्वाणि
*चोम्म्. मुग्धावबोधिनी:
अथ स्वर्णमारणमाह त्रिगुणेनेत्यादि ॥ ग्र्ह्त्च्म्_8.17-18:1 ॥
तु पुनः त्रिगुणेन माक्षिकेण स्वर्णत्रिगुणितेन ताप्येन यत्कनकं मृतं तत्कनकं इन्द्रगोपको वर्षाकालीनो रक्तवर्णो जीवविशेषः तद्वन्निभा दीप्तिर्यस्य तदिन्द्रगोपनिभं भवतीति शेषः ॥ ग्र्ह्त्च्म्_8.17-18:2 ॥
किंविशिष्टं कनकं मृतं रसकतालयुतं रसकं खर्परं तालं हरितालं ताभ्यां युतं मिश्रितं सत् यन्मृतं पञ्चत्वमाप्तमित्यर्थः ॥ ग्र्ह्त्च्म्_8.17-18:3 ॥
पुनः पटुसहितं लवणमिश्रितं पुनर् हण्डिकया भाजनेन पक्वं वह्निपुटितं तदपि पूर्ववत् ॥ ग्र्ह्त्च्म्_8.17-18:4 ॥
मृतकनकचूर्णं सूतवरे पारदे त्रिगुणं चीर्णं जीर्णं चारितं जारितं च सत् सूतो द्रुतहेमनिभो भवेत् गलितस्वर्णप्रभ इत्यर्थः ॥ ग्र्ह्त्च्म्_8.17-18:5 ॥
एवं रञ्जितो रसः सर्वलोहानि धातूनि कृत्रिमाकृत्रिमानि नवविधानि रञ्जति स्वर्णरूपाणि करोतीत्यर्थः ॥ ग्र्ह्त्च्म्_8.17-18:6 ॥
स्तर्त् ग्र्ह्त् 8.19
<बीज्जारण् का महत्त्व्>
पत्रादष्टगुणं सत्वं सत्वादष्टगुणा द्रुतिः ।
द्रुतेरष्टगुणं बीजं तस्माद्बीजं तु जारयेत्
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0