रसहृदयतन्त्र (टीका सहित) · अध्याय 7
*चोम्म्. मुग्धावबोधिनी:
जारणायां विधिद्वयमाह एवमित्यादि ॥ ग्र्ह्त्च्म्_6.19:1 ॥
एवममुना प्रकारेण कच्छपयन्त्रे निधाय जीर्यति ग्रासं रस इति शेषः ॥ ग्र्ह्त्च्म्_6.19:2 ॥
यथा रसो न क्षयति क्षयं नाप्नोति तथा कार्यो विधिः इति शेषः ॥ ग्र्ह्त्च्म्_6.19:3 ॥
कार्यस्याश्रयरक्षणायेति भावः ॥ ग्र्ह्त्च्म्_6.19:4 ॥
पुनः क्षारबिडैः क्षयमेति नाशमाप्नोति ग्रास इत्यध्याहारः ॥ ग्र्ह्त्च्म्_6.19:5 ॥
पुनः स रस उपरसैर्गन्धादिभिः ग्रासं उत्प्रावल्येन गिरति गिलतीत्यर्थः ॥ ग्र्ह्त्च्म्_6.19:6 ॥
क्षारैरम्लैश्च गन्धाद्यैर् मूत्रैः पटुभिरेव च ।
रसग्रासस्य जीर्णार्थं बिडः स परिकीर्तितः ।
इति परिभाषा ॥ ग्र्ह्त्च्म्_6.19:7 ॥
बिडशब्देन पिण्डः ॥ ग्र्ह्त्च्म्_6.19:8 ॥
स्तर्त् ग्र्ह्त् 7.1
<विड:: पोसितिवे एffएच्त्स्>
ग्रासं न मुञ्चति न वाञ्छति तं च भूयः कांश्चिद्गुणान्भजति भुक्तविभुक्तिमात्रात् ।
यज्जीर्यते प्रचुरकेवलवह्नियोगात् तस्माद्विडैः सुनिविडैः सह जारणा स्यात्
*चोम्म्. मुग्धावबोधिनी:
बिडैर्जारणायाः सुगमत्वमाह ग्रासमित्यादि ॥ ग्र्ह्त्च्म्_7.1:1 ॥
ग्रासं न मुञ्चति च पुनस्तम् एवान्यग्रासं न वाञ्छति भूयः पुनः भुक्तविभुक्तिमात्रात् कांश्चिद्गुणान् नित्यं भजति दधाति ग्रासग्रसनमात्रात् गुणं करोतीत्यर्थः ॥ ग्र्ह्त्च्म्_7.1:2 ॥
यतो हेतोर्बिडैर्वक्ष्यमाणलक्षणैः कृत्वा जीर्यते ग्रासमित्यर्थः ॥ ग्र्ह्त्च्म्_7.1:3 ॥
कुतः प्रचुरकेवलवह्नियोगात् प्रचुर उदग्रो यः केवलवह्नियोगः शुद्धाग्नियोगस्तस्मात् ॥ ग्र्ह्त्च्म्_7.1:4 ॥
किंविशिष्टैः सुनिबिडैः घनैः ॥ ग्र्ह्त्च्म्_7.1:5 ॥
यतो बिडाः श्रेष्ठास् तस्माद्विडैर् एव जारणा स्यात् सुगमत्वादिति भावः ॥ ग्र्ह्त्च्म्_7.1:6 ॥
स्तर्त् ग्र्ह्त् 7.2
<विड:: fओर् जारण ओf चोप्पेर् लेअfस्>
सौवर्चलकटुकत्रयकाक्षीकासीसगन्धकैश्च विडैः ।
शिग्रो रसशतभाव्यैस्ताम्रदलान्यपि जारयति
*चोम्म्. मुग्धावबोधिनी:
बिडविधानमाह सौवर्चलेत्यादि ॥ ग्र्ह्त्च्म्_7.2:1 ॥
ताम्रदलान्यपि जारयति बुद्धिमान् इति शेषः स्वर्णबीजादीनां का कथेति भावः ॥ ग्र्ह्त्च्म्_7.2:2 ॥
कैः कृत्वा बिडैः कृत्वा ॥ ग्र्ह्त्च्म्_7.2:3 ॥
किंविशिष्टैर् बिडैः सौवर्चलकटुकत्रयकांक्षीकासीसगन्धकैः सौवर्चलं रुचकं कटुत्रयं शुण्ठीमरिचपिप्पल्यात्मकं काक्षी सौराष्ट्री कासीसं पुष्पकासीसं गन्धकं लेलितकं एतान्यौषधानि येषु विडेषु सन्ति ते तथोक्ताः तैः ॥ ग्र्ह्त्च्म्_7.2:4 ॥
पुनः किंविशिष्टैः शिग्रो रसशतभाव्यैः शिग्रोः सौभाञ्जनस्य रसेन शतवारं भाव्याः ये बिडास्तैः एवं निष्पन्नैर्विडैर्निश्चितं जारणा स्यादिति भावः ॥ ग्र्ह्त्च्म्_7.2:5 ॥
स्तर्त् ग्र्ह्त् 7.3
<विड:: fओर् जारण ओf गोल्द्>
सर्वाङ्गदग्धमूलकभस्म प्रतिगालितं सुरभिमूत्रेण ।
शतभाव्यं बलिवसया तत्क्षणतो जार्यते हेम
*चोम्म्. मुग्धावबोधिनी:
बिडान्तरमाह सर्वेत्यादि ॥ ग्र्ह्त्च्म्_7.3:1 ॥
सर्वाङ्गदग्धमूलकभस्म प्रतिगालितमिति सर्वाङ्गेन मूलत्वक्पत्रपुष्पफलेन सह दग्धं भस्मतां प्राप्तं यन्मूलककन्दं तद्भस्म सुरभिमूत्रेण गोजलेन गालितं कार्यं क्षारो ग्राह्य इत्यर्थः ॥ ग्र्ह्त्च्म्_7.3:2 ॥
पुनर्बलिवसया बलमुख्या या जलौका मण्डूकादीनां वसा यथा च ।
भेकमत्स्यवसा या तु कुक्कुटस्य वसाथवा ।
भाव्यम् एभिः क्रमाद्गन्धं शिशुमारवसापि वा ॥ ग्र्ह्त्च्म्_7.3:3 ॥
एका बलिवसा सम्यक् सूतस्य बन्धिनी परम् ।
रञ्जनं चैव कुरुते मणिमूषाविधिक्रमात् ।
इति ॥ ग्र्ह्त्च्म्_7.3:4 ॥
बलिवसया शतं शतवारं क्षारभूतं भस्म भाव्यं पुनः तच्छतभाव्यम् औषधं तत्क्षणतः तत्कालतो हेम स्वर्णं जार्यते रसो ग्रासभूतं हेम जरतीति बिडयोगादिति भावः ॥ ग्र्ह्त्च्म्_7.3:5 ॥
स्तर्त् ग्र्ह्त् 7.4-7
<विड:: fओर् जारण>
कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः ।
वर्षाभूवृषमोक्षकसहिताः क्षारो यथालाभम्
आनीय क्षारवृक्षान् कुसुमफलशिफात्वक्प्रवालैरुपेतान् कृत्वातः खण्डशस्तान् विपुलतरशिलापिष्टगात्रातिशुष्कान् ।
दग्ध्वा काण्डैस्तिलानां करिसुरभिहयाम्भोभिर् आस्राव्य वस्त्रैर् भस्म त्यक्त्वा जलं तन्मृदुशिखिनि पचेद्वंशपाकेन भूयः
तच्छुष्यमाणं हि सबाष्पबुद्बुदान् यदा विधत्ते क्षणभङ्गुरान् बहून् ।
तदा क्षिपेत्त्र्यूषणहिंगुगन्धकं क्षारत्रयं षड्लवणानि भूखगौ
द्रव्याणि संमिश्र्य निवृत्य भूतले व्यवस्थितं शस्त्रकटोरिकापुटे ।
संस्थापयेत्सप्तदिनानि धान्यगतं प्रयोज्यं रसजारणादिकम्
*चोम्म्. मुग्धावबोधिनी:
अथ क्षारवृक्षगुल्मौषधिविशेषानाह कदलीत्यादि ॥ ग्र्ह्त्च्म्_7.4-7:1 ॥
यथालाभं लाभम् अनतिक्रम्य एषां क्षारः कर्तव्यः ॥ ग्र्ह्त्च्म्_7.4-7:2 ॥
ते के कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः कदली रम्भा पलाशो ब्रह्मवृक्षः तिलाः प्रतीताः निचुलो वेतसवृक्षः कनको धत्तूरः सुरदाली देवदाली वास्तुकं क्षारशाकं एरण्डो वातारिः एते क्षारसंभवाः ॥ ग्र्ह्त्च्म्_7.4-7:3 ॥
किंविशिष्टा एते वर्षाभूवृषमोक्षकसहिताः वर्षाभूः पुनर्नवा वृषो वासकः मोक्षको मोखावृक्ष इति प्रतीतः एतैः संयुता इत्युद्देशः ॥ ग्र्ह्त्च्म्_7.4-7:4 ॥
क्षारकरणविधानम् आहानीयेत्यादि ॥ ग्र्ह्त्च्म्_7.4-7:5 ॥
प्रथमं क्षारवृक्षान् पूर्वोक्तान् आनीय वनान्तराद्गृहीत्वा ॥ ग्र्ह्त्च्म्_7.4-7:6 ॥
किंविशिष्टान् कुसुमफलशिफात्वक्पलाशैरुपेतान् कुसुमानि प्रसूनानि प्रतीतानि शिफा मूलं त्वक्त्वचा प्रवाला नूतनपल्लवाः एतैः पञ्चाङ्गाह्वयैर् उपेतान् संयुतान् ॥ ग्र्ह्त्च्म्_7.4-7:7 ॥
खण्डशः बहुशकलान् कृत्वा ॥ ग्र्ह्त्च्म्_7.4-7:8 ॥
न केवलं खण्डशः विपुलतरशिलापिष्टगात्रातिशुष्कान् कृत्वा विपुलतरा अतिविस्तीर्णा या शिला तस्यां पिष्टानि गात्राणि येषां तेऽशुष्का निरसाः तानेवंविधान् कृत्वा ॥ ग्र्ह्त्च्म्_7.4-7:9 ॥
पुनस्तानेव च तिलानां काण्डैर्नालैः सह दग्ध्वा ॥ ग्र्ह्त्च्म्_7.4-7:10 ॥
पुनः करिसुरभिहयाम्भोभिः हस्तिगोऽश्वानां मूत्रैरास्राव्य आप्लुत्य तद्भस्म त्यक्त्वा वस्त्रैर् जलं ग्राह्यमिति शेषः ॥ ग्र्ह्त्च्म्_7.4-7:11 ॥
तज्जलं मृदुशिखिनि कोमलाग्नौ पचेत् केन वंशपाकेन वंशानां समवह्नित्वात् ॥ ग्र्ह्त्च्म्_7.4-7:12 ॥
क्षारजलपाकलक्षणमाह तदित्यादि ॥ ग्र्ह्त्च्म्_7.4-7:13 ॥
तज्जलं क्षारपानीयं शुष्यमाणं सत् निश्चितं यदा सबाष्पबुद्बुदान् विधत्ते सह बाष्पेण जलात्ययधूमेन वर्तन्ते ये बुद्बुदास्तान् तदा क्षारो निष्पन्नो ज्ञेयः ॥ ग्र्ह्त्च्म्_7.4-7:14 ॥
पुनस्तदा त्र्यूषणं शुण्ठीमरिचपिप्पल्यः हिङ्गु रामठं गन्धकं लेलीतकं पुनः क्षारत्रयं सर्जिकायवाग्रजटङ्कणाह्वयं लवणानि षट् सैन्धवादीनि भूः तुवरी खगं कासीसं एतानि क्षिपेत् एतत्क्षारेणार्द्रेण सह मिश्रं कार्यमित्यर्थः ॥ ग्र्ह्त्च्म्_7.4-7:15 ॥
तथा च द्रव्याणि त्र्यूषणादीनि संमिश्र्य एकीकृत्य निवृत्य च संमर्द्य शस्त्रकटोरिकापुटे लोहमयपात्रसंपुटे व्यवस्थितं सप्तदिनानि धान्यगतं कस्यचिद्धान्यस्य मध्यगतं स्थापयेत् कुत्र भूतले पृथिव्या आस्थाने ततोऽनन्तरं तत्सिद्धं रसजारणादिकं प्रति प्रयोज्यं एतद्बिडरूपं रसजारणादिषु प्रशस्तमित्यर्थः ॥ ग्र्ह्त्च्म्_7.4-7:16 ॥
स्तर्त् ग्र्ह्त् 7.8
<विड:: fओर् गर्भद्रुति>
जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः
*चोम्म्. मुग्धावबोधिनी:
जारणायां क्षारविधानमाह जम्बीरेत्यादि ॥ ग्र्ह्त्च्म्_7.8:1 ॥
क्षारा उक्तवृक्षोद्भवाः नितराम् अतिशयेन गर्भद्रुतिजारणे रसान्तर्ग्रासजारणे शस्ता उत्कृष्टा भवन्ति ॥ ग्र्ह्त्च्म्_7.8:2 ॥
कुतः जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात् जम्बीरः प्रतीतः बीजपूरको मातुलुङ्गः चाङ्गेरी अम्लपत्रिका वेतसाम्लं चुक्रकं एषां यो रसस्तस्य संयोगात् एतैर्भाविताः क्षारा बिडवत्कार्यकरा इति भावः ॥ ग्र्ह्त्च्म्_7.8:3 ॥
स्तर्त् ग्र्ह्त् 7.9
<विड:: होw तो उसे>
विडमधरोत्तरमादौ दत्त्वा सूतस्य चाष्टमांशेन ।
कुर्याज्जारणमेवं क्रमक्रमाद्वर्धयेदग्निम्
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0