भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 6

6.1

*चोम्म्. मुग्धावबोधिनी:
बीजस्यास्य पिष्टीकरणमाह एवमित्यादि ॥ ग्र्ह्त्च्म्_5.53-58:1 ॥
एवं अमुना प्रकारेण विधिनार्थाद् उपदेशेन पक्वं यद्बीजवरं तथा पूर्वसंस्कृतः सूतराट् पारदः अम्लेन जम्बीरादिना संस्वेद्यः स्वेदाख्यो विधिः कर्तव्यः ॥ ग्र्ह्त्च्म्_5.53-58:2 ॥
अत्र किमवधिस्तत्कर्तव्यो यावत् श्लक्ष्णा स्पष्टा पिष्टी एकशरीरता भवेत् रसबीजयोरिति शेषः ॥ ग्र्ह्त्च्म्_5.53-58:3 ॥
विध्यन्तरमाह तैलेनेत्यादिना ॥ ग्र्ह्त्च्म्_5.53-58:4 ॥
तेन पूर्वोक्तेन विधिना वधविधानेन तिलतैलेन स्विन्ना स्वेदिता सती पिष्टिर्भवति वह्नाविति शेषः ॥ ग्र्ह्त्च्म्_5.53-58:5 ॥
अथवेति विधानान्तरं दर्शयति ॥ ग्र्ह्त्च्म्_5.53-58:6 ॥
शिलया दृषन्मयया निघृष्टबीजं निघृष्टं घर्षितं यद्बीजं नागाख्यं तत् सूतेनेति शेषः अखिलं समस्तं यथा स्यात्तथा पिष्टिर्भवतीति ॥ ग्र्ह्त्च्म्_5.53-58:7 ॥
यथा वटकः पाच्यस्तथाह पाक इत्यादि ॥ ग्र्ह्त्च्म्_5.53-58:8 ॥
वटकविधिना माषवटकविधिना तैलयोगेन पाकः कर्तव्यः वह्नौ पाचनं विधेयमित्यर्थः ॥ ग्र्ह्त्च्म्_5.53-58:9 ॥
किं कृत्वा क्रामणपिण्डे क्षिप्त्वा बिडपिण्डमध्ये स्थाप्य च पुनर्माषैर् अन्नविशेषैर् दृढपिण्डत्वं स्यात् माषचूर्णवेष्टितं क्रामणपिण्डं दृढं भवेदिति व्यक्तिः ॥ ग्र्ह्त्च्म्_5.53-58:10 ॥
तद्विधानमाह मृद्वित्यादि ॥ ग्र्ह्त्च्म्_5.53-58:11 ॥
माषचूर्णितजातं क्रामणपिण्डं तावत् सुपक्वं कर्तव्यं यावद्दग्धं न भवेत् ॥ ग्र्ह्त्च्म्_5.53-58:12 ॥
केन सुपक्वं मृद्वग्निना कोमलवह्निना पुटः तत्पिण्डतः शेषं शिष्टं तं निर्मलपारदं आकृष्य गृहीत्वा पिण्डमन्यस्मिन् पिण्डे तथा पूर्वप्रकारेण पाच्यमिति ॥ ग्र्ह्त्च्म्_5.53-58:13 ॥
अपरं चाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.53-58:14 ॥
अथवेति प्रकारान्तरे ॥ ग्र्ह्त्च्म्_5.53-58:15 ॥
पुनरपि पिष्टीर्दोलातप्ते औषधपिण्डे दोलयोत्तप्ते उष्णतां नीते क्रामणौषधानां पिण्डे क्षेप्य मध्ये स्थाप्य कस्योपरि खर्परे मृन्मयपात्रोपरि ॥ ग्र्ह्त्च्म्_5.53-58:16 ॥
केन विधिना पूर्वोक्तेन तैलेन वा अम्लेनेति ॥ ग्र्ह्त्च्म्_5.53-58:17 ॥
कियत्कालं यावद्गर्भे रसोदरे पिष्टी द्रवति तावद्बिडान्तरे पिण्डान्तरे क्षेप्येति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_5.53-58:18 ॥
अपरं चाह एवमित्यादि ॥ ग्र्ह्त्च्म्_5.53-58:19 ॥
एवं अमुना प्रकारेण गर्भे रसोदरे जरति निःशेषत्वं रसोदरे प्राप्नोति च पुनर्गर्भद्रुत्या रहितं द्रवेण वर्जितं बीजवरं बिडैर्जरति द्रुतबीजमारणसमर्थो बिड इत्यर्थः ॥ ग्र्ह्त्च्म्_5.53-58:20 ॥
द्रुतग्रासपरिमाणो बिडयन्त्रादियोगतः ।
जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।
प्रकारा यन्त्राणां इति शेषः ॥ ग्र्ह्त्च्म्_5.53-58:21 ॥
जारणभेदास्तु ।
ग्रासस्य चारणं गर्भद्रावणं जारणं तथा ।
इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
इति ॥ ग्र्ह्त्च्म्_5.53-58:22 ॥
स्तर्त् ग्र्ह्त् 6.1-7
<जारण:: मेथोद्>
ग्रासमिति चारयित्वा गर्भद्रुतिं ततो भूर्जे ।
लवणक्षाराम्लसुधासुरभीमूत्रेण कृतलेपे

6.2

दृढवस्त्रबाह्यबद्धे दोलास्वेदेन जारयेद्ग्रासम् ।
सौवीरेणार्धपूर्णे कुम्भे सक्षारमूत्रकैरथवा

6.3

अमुना क्रमेण दिवसैस्त्रिभिस्त्रिभिर्जारयेद्ग्रासम् ।
गर्भद्रुतिजारणमाह ग्रासमित्यादि ॥ ग्र्ह्त्च्म्_6.1-2:1 ॥
पूर्वोक्तप्रकारेण ग्रासं कवलं यथासंख्यं चारयित्वा पुनर्गर्भद्रुतिं कृत्वा ततस्तदनन्तरं तद्गर्भद्रुतं सूतं भूर्जे भूर्जवृक्षत्वक्पुटके स्थापयेदित्यर्थः ॥ ग्र्ह्त्च्म्_6.1-2:2 ॥
किंविशिष्टे भूर्जे लवणक्षाराम्लसुधासुरभिमूत्रेण कृतलेपे लवणानि सैन्धवादीनि क्षाराः स्वर्जिकादयः अम्लो जम्बीरादिः सुधा शुक्तिचूर्णं सुरभी धेनुस्तन्मूत्रं एतेन योगेन कृत्वा कृतो लेपो यस्मिन् ॥ ग्र्ह्त्च्म्_6.1-2:3 ॥
उदरद्रुतियुक्तः सूतः स्थाप्य इत्यर्थः ॥ ग्र्ह्त्च्म्_6.1-2:4 ॥
जारणविधानमाह दृढेत्यादि ॥ ग्र्ह्त्च्म्_6.1-2:5 ॥
दृढवस्त्रबाह्यबद्धे इति दृढं नूतनं घनं च यद्वस्त्रं तेन बाह्ये सर्वतो बद्धे संयते पूर्वोक्तेन दोलास्वेदेन दोलायन्त्रविधिना यः स्वेदस्तं कृत्वा ग्रासं रसान्तर्द्रुतं कवलं जारयेत् ॥ ग्र्ह्त्च्म्_6.1-2:6 ॥
कुत्र कुम्भे कलशे किंविशिष्टे सौवीरेणार्धपूर्णे सौवीरेण स्वेदनसंस्कारोदितकाञ्जिकेन कृत्वा अर्धपूर्णे ॥ ग्र्ह्त्च्म्_6.1-2:7 ॥
अथवेति विध्यन्तरे ॥ ग्र्ह्त्च्म्_6.1-2:8 ॥
सक्षारमूत्रकैः सह क्षारः स्वर्जिकादिभिः वर्तन्ते यानि मूत्राणि गोऽजाविनारीणामिति शेषः एतैः अर्धभृते कुम्भे जारयेदित्यर्थः ॥ ग्र्ह्त्च्म्_6.1-2:9 ॥
अथ रसजारणे कालसंख्यामाह अमुनेत्यादि ॥ ग्र्ह्त्च्म्_6.1-2:10 ॥
अमुना क्रमेणेति उक्तप्रकारेण त्रिभिस्त्रिभिर्दिवसैः त्रिभिः संख्याकैर्दिवसैः ग्रासे जाते अन्यग्रासः क्रियते गर्भद्रुतग्रासः क्रियते गर्भद्रुतग्रासः त्रिदिवसैर्जरतीति भावः ॥ ग्र्ह्त्च्म्_6.1-2:11 ॥
स्तर्त् ग्र्ह्त् 6.3-7
जीर्णस्य लक्षणमथो ज्ञेयं यन्त्रात्समुद्धृत्य

6.4

<उन्तेर्सुछुन्ग्, ओब् जारण स्तत्त्गेfउन्देन् हत्>
उद्धृतमात्रं पात्रे प्रक्षाल्य कांजिकेनातः ।
समलं च कांजिकमतो हरणार्थं वस्त्रयोगेन

6.5

तदनु सुखोष्णे पात्रे संमर्द्योऽसौ यथा न हीये ।
तावद्यावच्छुष्यति तल्लग्नं काञ्जिकं सकलम्

6.6

इत्थं च शोषितजलः करमर्दनतः सुनिर्मलीभूतः ।
पीड्यः पात्रस्योपरि वस्त्रेण चतुर्गुणेनैव

6.7

यदि परिगलितः सकलो वस्त्राद् ग्रासेन चैकतां यातः ।
न भवति यदि दण्डधरो जीर्णग्रासस्तदा ज्ञेयः

6.8

*चोम्म्. मुग्धावबोधिनी:
अथेति त्रिदिनस्वेदानन्तरं जीर्णस्य रसस्य लक्षणं ज्ञेयं ग्रासो जीर्णो न वेति ज्ञातव्यः ॥ ग्र्ह्त्च्म्_6.3-7:1 ॥
किं कृत्वा यन्त्राद्दोलिकाभिधानाद् उद्धृत्य यन्त्राद् बहिर् गृहीत्वेति ॥ ग्र्ह्त्च्म्_6.3-7:2 ॥
रसमलापनयनमाह उद्धृतेत्यादि ॥ ग्र्ह्त्च्म्_6.3-7:3 ॥
उद्धृतमात्रमिति यन्त्राद् बहिर् गृहीतमात्रं तत्पात्रे भाजने मृन्मये काञ्जिकेन प्रक्षाल्य ॥ ग्र्ह्त्च्म्_6.3-7:4 ॥
पुनर् अतो रसात्समलं मलसंयुतं काञ्जिकं हरणीयं बहिः कार्यम् ॥ ग्र्ह्त्च्म्_6.3-7:5 ॥
केन कृत्वा वस्त्रयोगेन वस्त्रे क्षिप्तं सत् तदेव तिष्ठति न काञ्जिकम् ॥ ग्र्ह्त्च्म्_6.3-7:6 ॥
तस्यैव विधानं चाह तदन्वित्यादि ॥ ग्र्ह्त्च्म्_6.3-7:7 ॥
तदनु वस्त्रयोगानन्तरं सुखोष्णे पात्रे असौ रसः संमर्द्यः ॥ ग्र्ह्त्च्म्_6.3-7:8 ॥
कथं यथा न हीयते नाशं नाप्नुयात् अत्यौष्ण्यात् वा कांस्यताम्रनागवङ्गकनकतारपात्रात् वा दृढकरघाताद् रसो हीन एव स्यात् अतोऽसौ पारदस् तावन् संमर्द्यो यावल्लग्नकाञ्जिकं रससंसर्गसौवीरं शुष्यति निःशेषतां यातीत्यर्थः ॥ ग्र्ह्त्च्म्_6.3-7:9 ॥
तस्यैव विधानं चाह इत्थमित्यादि ॥ ग्र्ह्त्च्म्_6.3-7:10 ॥
इत्थं अमुना प्रकारेण करमर्दनतः हस्ततलमर्दनतः सुनिर्मलीभूतो मलरहितः शोषितजलो रसश्चतुर्गुणेन वस्त्रेण कृत्वा पानस्योपरि पीड्यः ॥ ग्र्ह्त्च्म्_6.3-7:11 ॥
जीर्णग्रासलक्षणम् आह यदीत्यादि ॥ ग्र्ह्त्च्म्_6.3-7:12 ॥
तदा पारदो जीर्णग्रासो ज्ञेयः जीर्णो निःशेषत्वमापन्नो ग्रासो यस्मिन् स तथोक्तः ॥ ग्र्ह्त्च्म्_6.3-7:13 ॥
यदि सकलः सर्वः वस्त्रात्परिगलितः चतुर्गुणवस्त्रात् च्युतो भवति पात्रे इति शेषः ॥ ग्र्ह्त्च्म्_6.3-7:14 ॥
पुनर्यदि ग्रासेन सह एकतां यातः सन् मिलितः सन् रसो दण्डधरो न भवति स्थिररूपो न स्यात् तदा जीर्णग्रासो ज्ञातव्य इत्यर्थः ॥ ग्र्ह्त्च्म्_6.3-7:15 ॥
स्तर्त् ग्र्ह्त् 6.8
<ग्रासाजीर्ण:: त्रेअत्मेन्त्>
ग्रासादजीर्णपिष्टीं सूतादुद्धृत्य पातयेद्यन्त्रे ।
स्वस्थो भवति रसेन्द्रो ग्रासः पक्वः पुनर्जरति

6.9

*चोम्म्. मुग्धावबोधिनी:
रसाजीर्णलक्षणमाह ग्रासादित्यादि ॥ ग्र्ह्त्च्म्_6.8:1 ॥
ग्रासात् कवलसंयोगात् अजीर्णपिष्टीं अजीर्णा अपरिपक्वा या पिष्टी पूर्वोक्तलक्षणा तां सूतात् रसात् यन्त्रे पातनकर्मोचिते पातयेत् ॥ ग्र्ह्त्च्म्_6.8:2 ॥
एवं ग्रासात्पृथक्कृत्य पतितः स्वस्थो निर्मलो भवति ॥ ग्र्ह्त्च्म्_6.8:3 ॥
पुनर्ग्रासः पक्वो वह्नितले दत्त्वा पक्वः कृतस्तं रसेन्द्रो जरतीति ॥ ग्र्ह्त्च्म्_6.8:4 ॥
स्तर्त् ग्र्ह्त् 6.9
दोलायां चत्वारो ग्रासा जार्या यथाक्रमेणैव ।
शेषाः कच्छपयन्त्रे यावद् द्विगुणादिकं जरति

6.10

*चोम्म्. मुग्धावबोधिनी:
ग्रासजारणायां यन्त्रादिकरणमाह दोलायामित्यादि ॥ ग्र्ह्त्च्म्_6.9:1 ॥
यथाक्रमेणैव चतुःषष्ट्यादिनैव चत्वारो ग्रासा दोलायां जार्याः शेषा ग्रासाश्चत्वारः असंख्या वा कच्छपयन्त्रे जलयन्त्रे च जार्याः ॥ ग्र्ह्त्च्म्_6.9:2 ॥
शेषाश्चत्वारः कुतः यतो ऽन्यशास्त्रेषु अष्टैव ग्रासाः ॥ ग्र्ह्त्च्म्_6.9:3 ॥
जारणे किमवधिः यावद्द्विगुणादिकं जरति पारदाद्द्विगुणितं आदिशब्देन द्विगुणान्न्यूनं न कार्यं अधिकमधिकं च भवतु ॥ ग्र्ह्त्च्म्_6.9:4 ॥
शक्त्यवतरेऽष्टौ बृहच्छास्त्रे क्वचिद् अष्टौ ग्रासा उक्ताः क्वचिद्विंशतिग्रासा इति ॥ ग्र्ह्त्च्म्_6.9:5 ॥
स्तर्त् ग्र्ह्त् 6.10-12
<ईउस्सेरे मेर्क्मले देस् ह्ग् नछ् जारण एइनेर् बेस्त्. मेन्गे अभ्र>
नादौ कर्तुं शक्योऽत्र ग्रासप्रमाणनियमस्तु ।
ग्रसते न हि सर्वाङ्गं गगनमतो लक्षणैर्ज्ञेयम्

6.11

यदि हि चतुःषष्ट्यंशान् ग्रसति रसस्तदा धरेद्दण्डम् ।
चत्वारिंशद्भागप्रवेशतः पायसाकारः

6.12

भवति जलौकाकारस् त्रिंशद्भागाद् अविप्लुषश्च विंशत्या ।
छेदीव षोडशांशादत ऊर्ध्वं दुर्जरो ग्रासः

6.13

*चोम्म्. मुग्धावबोधिनी:
ग्रासेऽनिर्दिष्टसंख्यत्वं दर्शयन्नाह नेत्यादि ॥ ग्र्ह्त्च्म्_6.10-12:1 ॥
अत्रास्मिन् शास्त्रे आदौ प्रथमं ग्रासप्रमाणनियमः कर्तुं न शक्यः ॥ ग्र्ह्त्च्म्_6.10-12:2 ॥
यतः कारणात् गगनमभ्रं सर्वाङ्गं न ग्रसते रस इति शेषः ॥ ग्र्ह्त्च्म्_6.10-12:3 ॥
तत्सर्वाङ्गग्रस्तं गगनमभ्रं लक्षणैरेव ज्ञातव्यमित्यर्थः ॥ ग्र्ह्त्च्म्_6.10-12:4 ॥
चतुःषष्ट्यंशादिग्रासे रसाकारम् आह यदीत्यादि ॥ ग्र्ह्त्च्म्_6.10-12:5 ॥
यदि चेद्रसः चतुःषष्ट्यंशान् प्रमाणतो ग्रासं ग्रसति हि निश्चितं तदा दण्डं धारयेत् वस्त्रान्न क्षरतीत्यर्थः ॥ ग्र्ह्त्च्म्_6.10-12:6 ॥
पुनश्चत्वारिंशद्भागप्रवेशतो रसोदरे इति शेषः तदा पायसाकारः क्वथितदुग्धाकारो भवेत् निबिडत्वात् ॥ ग्र्ह्त्च्म्_6.10-12:7 ॥
तदेवाह भवतीत्यादि ॥ ग्र्ह्त्च्म्_6.10-12:8 ॥
विंशद्भागात् त्रिंशद्भागस्य जारणतो जलौकाकारो भवेत् रस इत्यध्याहारः ॥ ग्र्ह्त्च्म्_6.10-12:9 ॥
पुनः विंशत्या विंशद्भागजारणेन अविप्लुषो भवेद् आसनान्न चलति ॥ ग्र्ह्त्च्म्_6.10-12:10 ॥
पुनः षोडशांशात् षोडशांशभागजारणतः छेदी भवेत् क्षुरिकादिभिः छेदे कृते पृथक्त्वमाप्नोति ॥ ग्र्ह्त्च्म्_6.10-12:11 ॥
अतः षोडशभागादूर्ध्वं ग्रासो दुर्जरो भवेत् ॥ ग्र्ह्त्च्म्_6.10-12:12 ॥
स्तर्त् ग्र्ह्त् 6.13
पञ्चभिरेभिर्ग्रासैर्घनसत्वं जारयित्वादौ ।
गर्भद्रावे निपुणो जारयति बीजं कलांशेन

6.14

*चोम्म्. मुग्धावबोधिनी:
तच्चाह पञ्चभिरित्यादि ॥ ग्र्ह्त्च्म्_6.13:1 ॥
एवं उक्तप्रकारेण पुनर्गर्भद्रावे निपुणः रसोदरे अभ्रधात्वादीनां द्रुतिकरणे प्रवीणः पुमान् कलांशेन ग्रासं योजयेत् ॥ ग्र्ह्त्च्म्_6.13:2 ॥
किं कृत्वा पञ्चभिः पूर्वोक्तैः ग्रासैश्चारु यथा स्यात्तथा घनसत्वमादौ जारयित्वा पञ्चभिर्ग्रासैर् घनसत्वजारणानन्तरं षोडशभागेन बीजं जारयेदित्यर्थः ॥ ग्र्ह्त्च्म्_6.13:3 ॥
स्तर्त् ग्र्ह्त् 6.14-15
<ōन्देरुन्ग् वोन् फ्य्स्. एइग्. वोन् ह्ग् नछ् जारण>
धूम्रश्चिटिचिटिशब्दो मण्डूकगतिस्तथा सकम्पश्च ।
निष्कम्पो भवति रसो विज्ञातव्योऽभ्रजीर्णस्तु

6.15

कपिलोऽथ निरुद्गारी विप्लुषभावं च मुञ्चते सूतः ।
निष्कम्पो गतिरहितो विज्ञातव्योऽभ्रजीर्णस्तु

6.16

*चोम्म्. मुग्धावबोधिनी:
अभ्रकजीर्णरसलक्षणम् आह धूम्र इत्यादि ॥ ग्र्ह्त्च्म्_6.14-15:1 ॥
अभ्रजीर्णरस एवंविधो भवति अभ्रं जीर्णं यस्मिन् स तथोक्तः ॥ ग्र्ह्त्च्म्_6.14-15:2 ॥
वह्नियोगात् प्रथमं धूम्रो धूम्राभो भवति पुनश्चिटिचिटिशब्दो भवति ततो मण्डूकगतिर्भवति पुनस्तथा तेन प्रकारेण धृते सति सकम्पो भवति पुनर्वह्नौ निष्कम्पः स्वस्थो भवति अभ्रसत्वद्रुतस्य लक्षणमिति ॥ ग्र्ह्त्च्म्_6.14-15:3 ॥
तदेवाह कपिल इत्यादि ॥ ग्र्ह्त्च्म्_6.14-15:4 ॥
पुनरेवंविधो रसोऽभ्रजीर्णो विज्ञातव्यः ॥ ग्र्ह्त्च्म्_6.14-15:5 ॥
कीदृशः कपिलः वर्णतः निरुद्गारी स्थिरभावः पुनः स रसो विप्लुषभावं चञ्चलत्वं मुञ्चते ॥ ग्र्ह्त्च्म्_6.14-15:6 ॥
पुनर्निष्कम्पः स्वस्थः पुनर्गतिरहितः पक्षच्छिन्नः इति लक्षणान्यभ्रजीर्णस्य भवन्ति ॥ ग्र्ह्त्च्म्_6.14-15:7 ॥
स्तर्त् ग्र्ह्त् 6.16-18
<कच्छपयन्त्र>
जलपूर्णपात्रमध्ये दत्त्वा घटखर्परं सुविस्तीर्णम् ।
तदुपरि मध्यगतः सूतः स्थाप्यस्ततः कुड्ये

6.17

लघुलोहकटोरिकया कृतपटमृत्सन्धिलेपयाच्छाद्य ।
पूर्णं तद्घटखर्परम् अङ्गारैः करीषतुषमिश्रैः

6.18

स्वेदनतो मर्दनतः कच्छपयन्त्रस्थितो रसो जरति ।
अग्निबलेनैव ततो गर्भद्रुतिः सर्वलोहानाम्

6.19

*चोम्म्. मुग्धावबोधिनी:
कच्छपयन्त्रमाह जलेत्यादि ॥ ग्र्ह्त्च्म्_6.16-18:1 ॥
जलपूर्णपात्रमध्ये इति जलपूर्णं यत्पात्रं तस्य मध्ये सुविस्तीर्णं सुन्दरायतं घटखर्परं कुम्भखण्डं दत्त्वा तदुपरि खर्परोपरि बिडमध्यगतः सूतः स्थाप्यः ॥ ग्र्ह्त्च्म्_6.16-18:2 ॥
कुत्र कुड्ये मृदा विनिर्मिते विशालमुखे लघुलोहकटोरिकया अतिलघ्वी या लोहस्य मुण्डादेः कटोरिका पात्रविशेषः तया विडावृतं सूतं आच्छाद्य आ समन्तात् संरुध्य ॥ ग्र्ह्त्च्म्_6.16-18:3 ॥
किंविशिष्टया कृतपटमृत्सन्धिलेपया कृतः पटमृद्भ्यां सन्धेर्लेपो रोधो यस्याः सा तया ॥ ग्र्ह्त्च्म्_6.16-18:4 ॥
पुनस्तत्कुड्यान्तर्गतघटखर्परं अङ्गारैः पूर्णं किंविशिष्टैः करीषतुषमिश्रैः करीषो गोमयस्य चूर्णं तुषाः शाल्यादेर्धान्यस्य तैर् मिश्रितैरिति ॥ ग्र्ह्त्च्म्_6.16-18:5 ॥
कच्छपयन्त्रे यद्विहितं तदाह स्वेदनत इत्यादि ॥ ग्र्ह्त्च्म्_6.16-18:6 ॥
कच्छपयन्त्रस्थो रसो जरति ग्रासं इति शेषः ॥ ग्र्ह्त्च्म्_6.16-18:7 ॥
कुतः स्वेदनतः वह्नौ परितापतः ॥ ग्र्ह्त्च्म्_6.16-18:8 ॥
न केवलं स्वेदनतो मर्दनतश्च विडादिना इत्यध्याहारः ॥ ग्र्ह्त्च्म्_6.16-18:9 ॥
ततो ऽग्निबलेनैव सर्वलोहानां स्वर्णादीनां अस्मिन्नन्तराले गर्भद्रुतिर्भवति अत्राग्निबलमेव मुख्यं ॥ ग्र्ह्त्च्म्_6.16-18:10 ॥
स्तर्त् ग्र्ह्त् 6.19
एवं दत्त्वा जीर्यति न क्षयति रसो यथा तथा कार्यः ।
क्षयमेति क्षारविडैः स तूपरसैर्ग्रासमुद्गिरति

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc