भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 5

5.1

*चोम्म्. मुग्धावबोधिनी:
ग्रासरहस्यमाह गगनेत्यादि ॥ ग्र्ह्त्च्म्_4.26:1 ॥
अहं श्रीमद्गोविन्दभगवत्पूज्यपादाचार्यः एकमद्वितीयं गगनग्रासरहस्यं अभ्रककवलने ग्रासकौतुकं वक्ष्यामि कथयामि ॥ ग्र्ह्त्च्म्_4.26:2 ॥
कस्मात् घनार्कसंयोगात् घनं अभ्रकसत्वं अर्कस्ताम्रं एतयोः संयोगः तस्मात् उभयसत्वकृतखोटं चार्यम् ॥ ग्र्ह्त्च्म्_4.26:3 ॥
अथशब्दः पक्षान्तरसूचकः ॥ ग्र्ह्त्च्म्_4.26:4 ॥
अभ्रसत्वस्य यस्य धातो रूपं तेन सह यस्य धातोर्वा संयोगो भवति द्वन्द्वभावात् सङ्करतः तत्संयुक्तमभिधानं भवति यथा शुल्वाभ्रं नागाभ्रं वङ्गाभ्रं माक्षिकाभ्रं हेमाभ्रम् इति एवं सर्वत्र संयोगान्नामनिष्पत्तिः ॥ ग्र्ह्त्च्म्_4.26:5 ॥
ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता बहिरेव द्रवीकृत्य घनसत्वादिकं खलु ।
जारणाय रसेन्द्रस्य सा बाह्यद्रुतिरुच्यते ॥ ग्र्ह्त्च्म्_4.26:6 ॥
स्तर्त् ग्र्ह्त् 5.1
यदि घनसत्वं गर्भे न पतति नो वा द्रवन्ति बीजानि ।
न च बाह्यद्रुतियोगस्तत्कथमिह बध्यते सूतः

5.2

*चोम्म्. मुग्धावबोधिनी:
वाचो मरीचिभिस्तप्तं तोषय जनकैरवम् ।
कुमुदानि च कासारोद्वर्तीनि चिरभासया ॥ ग्र्ह्त्च्म्_5.1:1 ॥
अथ गर्भद्रुतिबाह्यद्रुतिप्रशंसनमाह यदीत्यादि ॥ ग्र्ह्त्च्म्_5.1:2 ॥
यदि चेद् घनसत्वम् अभ्रसत्वं गर्भे पारदस्यान्तर्न पतति द्रवत्वं नाप्नोति वा बीजानि शुल्बाभ्रादीनि पारदस्योदरे नो द्रवन्ति न रसरूपा भवन्ति च पुनः बाह्यद्रुतिर् न युज्यते चेदेवं न स्यात्तर्हि इह अस्यां क्रियायां प्राप्तायां सत्यां सूतो रसः कथं बध्यते अन्यथा न कोऽप्युपायः ॥ ग्र्ह्त्च्म्_5.1:3 ॥
स्तर्त् ग्र्ह्त् 5.2
गर्भद्रुत्या रहितो ग्रासश्चीर्णोऽपि नैकतां याति ।
एकीभावेन विना न जीर्यते तेन सा कार्या

5.3

*चोम्म्. मुग्धावबोधिनी:
गर्भद्रुतेराधिक्यं दर्शयन्नाह गर्भेत्यादि ॥ ग्र्ह्त्च्म्_5.2:1 ॥
चीर्णो ऽपि ग्रासः चारणतां प्राप्तो ऽपि कवलः यदि गर्भद्रुत्या रहितो भवेत् रसस्योदरे रसरूपकरणवर्जितो भवेत् तदा एकतां न याति रसरूपो न भवति ॥ ग्र्ह्त्च्म्_5.2:2 ॥
पुनरेकीभावेन विना ग्रासो न जीर्यते जारणत्वं नाप्नोति ॥ ग्र्ह्त्च्म्_5.2:3 ॥
तेन हेतुना गर्भद्रुतिपूर्विका जारणा कार्या रसबन्धे जारणं हेतुरिति भावः ॥ ग्र्ह्त्च्म्_5.2:4 ॥
स्तर्त् ग्र्ह्त् 5.3
बीजानां संस्कारः कर्तव्यः कोऽपि तादृशः प्रथमम् ।
येन द्रवन्ति गर्भे रसराजस्याम्लवर्गेण

5.4

*चोम्म्. मुग्धावबोधिनी:
जारणायां प्रथमं कर्तव्यमाह बीजानामित्यादि ॥ ग्र्ह्त्च्म्_5.3:1 ॥
बीजानां शुल्बाभ्रादीनां कोऽप्यनिर्वचनीयः संस्कारो गर्भे द्रुतिकारकः प्रथमं कर्तव्यः संस्क्रियत इति संस्कारः ॥ ग्र्ह्त्च्म्_5.3:2 ॥
किंविशिष्टः तादृशः तैः बीजैः सदृशः यथा बीजानि शक्तिमन्ति सन्ति तथा संस्कारो ऽपि शक्तिमान् कर्तव्य इत्यर्थः ॥ ग्र्ह्त्च्म्_5.3:3 ॥
संस्कारः केन कर्तव्यः अम्लवर्गेण जम्बीरादिना ॥ ग्र्ह्त्च्म्_5.3:4 ॥
येन संस्कारेण रसराजस्य गर्भे रसोदरे बीजानि धातूपधातुजातानि शुल्बाभ्रादीनि द्रवन्तीत्यर्थः ॥ ग्र्ह्त्च्म्_5.3:5 ॥
स्तर्त् ग्र्ह्त् 5.4
<गर्भद्रुतियोग्यबीज (1)>
सममाक्षिककृतवापं सममाक्षिकसत्वसंयुतं हेम ।
गर्भे द्रवति च जरति च जरितं बध्नाति नान्यथा सूतम्

5.5

*चोम्म्. मुग्धावबोधिनी:
हेमबीजप्रशंसनमाह समेत्यादि ॥ ग्र्ह्त्च्म्_5.4:1 ॥
सममाक्षिककृतवापं समभागं तुल्यांशं हेम्ना यन्माक्षिकं तस्य कृत्वा वापो वारं वारम् आक्षेपो ऽग्नियोगाद् यस्मिन् तथोक्तं पुनस्तद्धेम सममाक्षिकसत्वसंयुतं हेम्ना समं तुल्यं यन्माक्षिकसत्वं तेन संयुतं कृतखोटं कुर्यात् ॥ ग्र्ह्त्च्म्_5.4:2 ॥
तत्खोटरूपं हेम गर्भे पारदान्तर्द्रवति ॥ ग्र्ह्त्च्म्_5.4:3 ॥
पुनस्तद्द्रावितं हेम जरति जीर्णताम् आप्नोति ॥ ग्र्ह्त्च्म्_5.4:4 ॥
तद्धेम जरितं सत् सूतं रसेश्वरं बध्नाति ॥ ग्र्ह्त्च्म्_5.4:5 ॥
अन्यथा अन्यप्रकारेण सूतो बन्धनं नाप्नोति ॥ ग्र्ह्त्च्म्_5.4:6 ॥
माक्षिकस्य वापो हेम्नो वर्णोत्कर्षप्रद इति भावः ॥ ग्र्ह्त्च्म्_5.4:7 ॥
स्तर्त् ग्र्ह्त् 5.5
<तारारिष्ट>
माक्षिकसत्वं हेम्ना पादादिकजारितं द्रुतं सूते ।
तारारिष्टं कुरुते वरकनकं पत्त्रलेपेन

5.6

*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वचारणाद्रसे गुणोत्कर्षम् आह माक्षिकसत्वमित्यादि ॥ ग्र्ह्त्च्म्_5.5:1 ॥
माक्षिकसत्वं वह्न्यौषधयोगद्रुतं यद्धेममाक्षिकसारं हेम्ना कनकेन सह सूते पारदे पूर्वं यद्गुतं पुनः पादादिकजारितं पादादिकविभागेन पादार्धसत्वेन निःशेषतामाप्तं सत् अयं सूतः तारारिष्टं तारं रूप्यादि अरिष्टं शुभं वरकनकं कुरुते पूर्णवर्णमित्यर्थः ॥ ग्र्ह्त्च्म्_5.5:2 ॥
केन विधानेन पत्त्रलेपनेन पत्रं कण्टकभेदि तत्र योऽसौ लेपः वह्नियोगादिति शेषः तेन ॥ ग्र्ह्त्च्म्_5.5:3 ॥
हेममाक्षिकसत्वजारितस्य रूप्यपत्रलेपेन कनकं स्यादिति व्यक्तार्थः ॥ ग्र्ह्त्च्म्_5.5:4 ॥
स्तर्त् ग्र्ह्त् 5.6
<गर्भद्रुति:: तेस्त् fओर् ~>
समरसतां यदि यातो वस्त्राद्गलितोऽधिकश्च तुलनायाम् ।
ग्रासो द्रुतः स गर्भे द्रुत्वासौ जीर्यते क्षिप्रम्

5.7

*चोम्म्. मुग्धावबोधिनी:
गर्भद्रुतेर् लक्षणमाह समेत्यादि ॥ ग्र्ह्त्च्म्_5.6:1 ॥
यदि ग्रासः समरसतां यातो भवेद्रसतुल्यरूपतां प्राप्तो भवेत् पुनर्वस्त्राद्गलितो भवेत् चतुर्गुणश्वेतवस्त्रान्निःसृतो भवेत् पुनस्तुलनायां तुलाकर्मणि यदाधिकोऽपि स्यात्तदा गर्भे पारदस्यान्तर् द्रुतो ग्रासो ज्ञातव्यः गर्भद्रुतो रसो वेदितव्य इति व्यक्तार्थः ॥ ग्र्ह्त्च्म्_5.6:2 ॥
पुनरसौ रसो द्रुत्वा द्रवरूपं शीघ्रं प्राप्तो जीर्यति धातूनपि विधानेनेति शेषः ॥ ग्र्ह्त्च्म्_5.6:3 ॥
स्तर्त् ग्र्ह्त् 5.7
<रोल्ले वोन् ताप्यसत्त्व>
न बिडैर्नापि क्षारैर्न स्नेहैर्द्रवति हेमं तारं वा ।
माक्षिकसत्वेन विना त्रिदिनं निहितेन रक्तेन

5.8

*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वोत्कर्षमाह नेत्यादि ॥ ग्र्ह्त्च्म्_5.7:1 ॥
माक्षिकसत्वेन विना स्वर्णमाक्षिकसारम् अन्तरेण हेम कनकं वा तारं रूप्यं न द्रवति ॥ ग्र्ह्त्च्म्_5.7:2 ॥
कैः कृत्वा विडैः कृत्वा शङ्खचूर्णार्कक्षारादिकृतपिण्डैः कृत्वा ग्रन्थान्तरे च ।
लवणक्षारोपरसैर् एभिर् अम्लैर्बिडो मतः ।
समे गर्भे तु संस्थाप्यो ह्यनेनैव द्रवीभवेत् ।
इति ॥ ग्र्ह्त्च्म्_5.7:3 ॥
न केवलं बिडैः किंतु क्षारैरपि न क्षारैः स्वर्जिकायवक्षारटङ्कणाद्यैः ॥ ग्र्ह्त्च्म्_5.7:4 ॥
न केवलं क्षारैः किंतु स्नेहैरपि न स्नेहानि यथा ।
कङ्गुणिकं विनादोषाकरञ्जश्रीफलोद्भवम् ।
कटुवातारिसिद्धार्थसोमराजीविभीतजम् ।
अतसीजं महाकालनिम्बजं तिलजं तथा ।
अपामार्गदेवदालीदन्तीतुम्बरविग्रहा ।
अङ्कोलोन्मत्तभल्लातफलेभ्यस्तैलसंभवः ।
इति ॥ ग्र्ह्त्च्म्_5.7:5 ॥
तैलैरपि न द्रवति ।
पुनर्माक्षिकसत्वेन गर्भे द्रुतिर्जायते ॥ ग्र्ह्त्च्म्_5.7:6 ॥
किंविशेषेण माक्षिकसत्वेन रक्तेन रक्तवर्गेण ॥ ग्र्ह्त्च्म्_5.7:7 ॥
त्रिदिनं दिनत्रयं निहितेन रक्तवर्गान्तःस्थापितेन ॥ ग्र्ह्त्च्म्_5.7:8 ॥
रक्तवर्गो यथा ।
दाडिमं किंशुकं चैव बन्धूकं च कुसुम्भकम् ।
समाञ्जिष्ठो हरिद्राद्यो लाक्षारससमन्वितः ।
रक्तचन्दनसंयुक्तो रक्तवर्गः प्रकीर्तितः ।
इति ॥ ग्र्ह्त्च्म्_5.7:9 ॥
स्तर्त् ग्र्ह्त् 5.8-12
<मेर्चुर्य्:: चारण, गर्भद्रुति>
लवणं देवीस्वरसप्लुतम् अहिपत्रं विचूर्णितं शिलया ।
एतत् पुटनत्रितयात् सुमृतं संस्थापयेदयःपात्रे

5.9

विहितार्धांगुलनिम्ना स्फुटविकटकटोरिका मुखाधारा ।
तस्योपर्यादेया कटोरिका चाङ्गुलोत्सेधा

5.10

विहितच्छिद्रत्रितया शस्ता चतुरंगुलोर्ध्वछिद्रेषु ।
लोहशलाका योज्यास्तत्रापि च हेमपत्राणि

5.11

संस्थाप्य विधूप्यन्ते यन्त्राधस्तात् प्रदीपयेदग्निम् ।
धूमोपलेपमात्राद्भवन्ति कृष्णानि हेमपत्राणि

5.12

तान्यग्नितापितानि च पश्चाद्यन्त्रे मृतानि धूमेन ।
पाचितहेमविधानाच्चरति रसेन्द्रो द्रवति गर्भे च

5.13

*चोम्म्. मुग्धावबोधिनी:
स्वर्णजारणयन्त्रविधानमाह लवणमित्यादि ॥ ग्र्ह्त्च्म्_5.8-12:1 ॥
प्रथमं लवणं सैन्धवं देवीस्वरसप्लुतं कुर्यात् ब्राह्मीस्वकीयरसेन संमिश्रं कुर्यात् ॥ ग्र्ह्त्च्म्_5.8-12:2 ॥
पुनर् ब्राह्मीरसप्लुतं लवणं च अहिपत्रं ताम्बूलिदलं तच्च द्वयं शिलया विततग्रावेण चूर्णितं पेषितं कुर्यात् ॥ ग्र्ह्त्च्म्_5.8-12:3 ॥
पुनरेतद् अयःपात्रे लोहभाजने संस्थापयेत् ॥ ग्र्ह्त्च्म्_5.8-12:4 ॥
एतत् स्थापितं द्रव्यं पुटत्रितयात् त्रिपुटकरणादग्निसंयोगेन सुमृतं स्यात् ॥ ग्र्ह्त्च्म्_5.8-12:5 ॥
तस्य देवीस्वरसप्लुतस्य सुमृतसैन्धवस्य मुखाधारा स्फुटविकटकटोरिका पात्री कार्या मुखमेव आधारो यस्याः सा एवंविधा स्फुटा प्रकटा विकटा विपरीता अधोमुखेत्यर्थः सा कटोरिका विहिता कार्या अयःपात्रस्य ॥ ग्र्ह्त्च्म्_5.8-12:6 ॥
तस्याः कटोरिकाया उपरि ऊर्ध्वभागे एषा कटोरिका आदेया स्थाप्या ॥ ग्र्ह्त्च्म्_5.8-12:7 ॥
किंविशिष्टा अङ्गुलोत्सेधा अङ्गुल उत्सेधः परिमाणं यस्याः सा तथोक्ता ॥ ग्र्ह्त्च्म्_5.8-12:8 ॥
पुनः किंविशिष्टा अर्धाङ्गुलनिम्ना अर्धाङ्गुलपरिमाणनिम्ना मध्यगा ॥ ग्र्ह्त्च्म्_5.8-12:9 ॥
पुनः किंविशिष्टा विहितछिद्रत्रितया विहितानि कृतानि छिद्रत्रितयानि यस्यां सा एवंविधा शस्ता च संतुलविहितछिद्रत्रितया ॥ ग्र्ह्त्च्म्_5.8-12:10 ॥
चतुरङ्गुलोर्ध्वा तदुपरिभागे कटोरिका चतुरङ्गुलिप्रमाणोन्नतेति भावः ॥ ग्र्ह्त्च्म्_5.8-12:11 ॥
पुनश्छिद्रेषु त्रिषु शलाका योज्या लोहशलाकाः क्षेप्याः पुनस्तत्रापि छिद्रेषु हेमपत्राणि कण्टकवेधीनि कनकपत्राणि योज्यानीति ॥ ग्र्ह्त्च्म्_5.8-12:12 ॥
एवंविधे पूर्वं निर्मिते यन्त्रे हेमपत्राणि स्थाप्य विधूप्यन्ते ॥ ग्र्ह्त्च्म्_5.8-12:13 ॥
ततोऽग्निं प्रदीपयेत् यन्त्राधस्ताद् यन्त्राधोभागे वह्निं प्रज्वालयेत् तदा तानि हेमपत्राणि कृष्णानि श्यामवर्णानि भवन्ति ॥ ग्र्ह्त्च्म्_5.8-12:14 ॥
कस्मात् धूमोपलेपमात्रात् धूमश्चासावुपलेपश्च धूमोपलेपस् तन्मात्रात् तत्प्रमाणात् ॥ ग्र्ह्त्च्म्_5.8-12:15 ॥
येनौषधेन धूपो निरुक्तस्तेनौषधेनोपलेपः कार्यः पत्रेष्विति ॥ ग्र्ह्त्च्म्_5.8-12:16 ॥
पुनः किंभूतानि हेमपत्राणि रसेन्द्रो जरति अग्नितापितानि सन्ति वह्नियोगात्तप्तानि कृतानि ॥ ग्र्ह्त्च्म्_5.8-12:17 ॥
स्वर्णजारणमिदं गदितम् ॥ ग्र्ह्त्च्म्_5.8-12:18 ॥
इति पञ्चभिः श्लोकैः कुलकम् ॥ ग्र्ह्त्च्म्_5.8-12:19 ॥
स्तर्त् ग्र्ह्त् 5.13
<सिल्वेर्:: गर्भद्रुति (इन् मेर्चुर्य्)>
तेनैव तारपत्रं विधिना संस्वेद्य यन्त्रयोगेन ।
जायेत कृष्णवर्णं तत्तारं द्रवति गर्भे च

5.14

*चोम्म्. मुग्धावबोधिनी:
अथ रूप्यजारणमाह तेनेत्यादि ॥ ग्र्ह्त्च्म्_5.13:1 ॥
तेनैव विधिना पूर्वपिधानेन तारपत्रं रूप्यदलं कृष्णवर्णं श्यामलप्रभं जायते ॥ ग्र्ह्त्च्म्_5.13:2 ॥
केन संस्वेद्य यन्त्रयोगेन संस्वेदः प्रबलाग्निस् तस्येदं सम्बन्धि यद्यन्त्रं यस्य यो योगस्तेन ॥ ग्र्ह्त्च्म्_5.13:3 ॥
तत्तारपत्रं पुनः गर्भे रसोदरे द्रवति जलत्वमाप्नोति ॥ ग्र्ह्त्च्म्_5.13:4 ॥
पुनस्तस्मिन् यन्त्रे द्रवति चशब्दात् रसेन्द्रस्तत्पत्रं जरति तारकृष्णीति ॥ ग्र्ह्त्च्म्_5.13:5 ॥
स्तर्त् ग्र्ह्त् 5.14
<गोल्द्, सिल्वेर्:: गर्भद्रुति (~)>
अथवा बलिना वङ्गं नागाभिधानेन यन्त्रयोगेन ।
हेमाह्वं तारं वा द्रवति च गर्भे न सन्देहः

5.15

*चोम्म्. मुग्धावबोधिनी:
अथ योगान्तरं आह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.14:1 ॥
अथवेति समुच्चये एकार्थनिष्ठत्वात् ॥ ग्र्ह्त्च्म्_5.14:2 ॥
बलिना गन्धेन सह वङ्गं यन्त्रयोगेन कृष्णं जायेत ॥ ग्र्ह्त्च्म्_5.14:3 ॥
केवलं वङ्गं पुनर्नागाभिधानेन सह नागविधानमप्येवं स्यादिति व्यक्तिः ॥ ग्र्ह्त्च्म्_5.14:4 ॥
नागाभिधानेनेति नागनाम्ना आख्याह्वे अभिधानं च नामधेयं च नाम च इत्यमरः ॥ ग्र्ह्त्च्म्_5.14:5 ॥
एवंविधं वङ्गं वा नागं वा हेमाह्वं हेमपत्रं वा तारं तारपत्रं वा एतत्सर्वं बलिना कृष्णं जायेत मृतं च सर्वं गर्भे रसान्तरे द्रवति नात्र संदेहः असंदिग्धमिदमुक्तम् ॥ ग्र्ह्त्च्म्_5.14:6 ॥
चशब्दाज्जरति निःशेषत्वमाप्नोति ॥ ग्र्ह्त्च्म्_5.14:7 ॥
स्तर्त् ग्र्ह्त् 5.15
<रसक:: गर्भद्रुति (~)>
रसकं बलिना युक्तं पूर्वोक्तविधानयोगेन ।
पक्वं चूर्णं यावद्भवति भृशं द्रवति गर्भे च

5.16

*चोम्म्. मुग्धावबोधिनी:
प्रयोगान्तरमाह रसकमित्यादि ॥ ग्र्ह्त्च्म्_5.15:1 ॥
रसकं खर्परिकं बलिना गन्धेन सह युक्तं सत् मिलितं सत् समभागेन इति शेषः केन कृत्वा पूर्वोक्तविधानयोगेन पूर्वोक्तं यद्विधानं यन्त्रादिकं तस्य योऽसौ योगस्तेन कृत्वा तावद्भृशमत्यर्थं पक्वं कार्यं यावदशरीरतां याति तच्चूर्णं गर्भे रसोदरे द्रवति गर्भद्रुतिर्भवति चशब्दाज्जरति च ॥ ग्र्ह्त्च्म्_5.15:2 ॥
स्तर्त् ग्र्ह्त् 5.16
<गोल्द्:: गर्भद्रुति>
व्यूढोऽथ गन्धकाश्मा शतगुणसंख्यं तथोत्तमे हेम्नि ।
सूते च भवति पिष्टिर्द्रवति हि गर्भे न विस्मयः कार्यः

5.17

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह व्यूढ इत्यादि ॥ ग्र्ह्त्च्म्_5.16:1 ॥
अथेत्यनन्तरम् ॥ ग्र्ह्त्च्म्_5.16:2 ॥
गन्धकाश्मा गन्धपाषाणः शतगुणसंख्यं यथा स्यात्तथा उत्तमे हेम्नि पूर्णवर्णे व्यूढो निर्वाह्यः तद्गन्धव्यूढं हेम सूते पारदे पिष्टिर्भवति हि निश्चितं गर्भे रसान्तर्द्रवति गर्भद्रुतिर् भवतीत्यत्रविस्मयो ॥ ग्र्ह्त्च्म्_5.16:3 ॥
स्तर्त् ग्र्ह्त् 5.17
<गोल्द्:: बीज fओर् गर्भद्रुति>
अथवा शतनिर्व्यूढं रसकवरं शुद्धहेम्नि वरबीजम् ।
बीजं जरति रसेन्द्रे द्रवति च गर्भे न सन्देहः

5.18

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.17:1 ॥
अथवेति समुच्चये रसकवरं श्रेष्ठं खर्परिकं शुद्धहेम्नि पूर्णवर्णे शतनिर्व्यूढं कुर्यात् शतगुणनिर्वाहः कार्यः एकगुणस्वर्णे शतगुणनिर्वाह इति युक्तं एवं कृते सति वरबीजं श्रेष्ठबीजं भवति तद्बीजं गर्भे रसोदरे द्रवति गर्भे द्रुतिर्भवति रसेन्द्रे पारदे शीघ्रं अविलम्बितं जरति च निःशेषताम् आप्नोति विधानेन इति शेषः अत्र द्रवणे जरणे च न सन्देहः ॥ ग्र्ह्त्च्म्_5.17:2 ॥
स्तर्त् ग्र्ह्त् 5.18
<गोल्द्:: बीज fओर् गर्भद्रुति>
अथवा तालकसत्वं शिलया वा तच्च हेम्नि निर्व्यूढम् ।
शतगुणमथ मूषायां जरति रसेन्द्रो द्रवति गर्भे च

5.19

*चोम्म्. मुग्धावबोधिनी:
पूर्वार्थे विध्यन्तरमाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.18:1 ॥
तालकसत्वं हरितालसारं शतगुणं शतगुणितं हेम्नि कनके निर्व्यूढं अन्धमूषायां वा प्रकाशमूषायां वह्नियोगेन इति शेषः तालकसत्वस्य हेम्नि निर्वाहः कार्य इति व्यक्तिः तच्च तत् सत्त्वं केवलं वा शिलया मनःशिलया सार्धं निर्व्यूढं कार्यं तद्धेम गर्भे रसोदरे द्रवति अथ रसेन्द्रो रसराजः द्रुतं जरति विधानेनेति ॥ ग्र्ह्त्च्म्_5.18:2 ॥
स्तर्त् ग्र्ह्त् 5.19-21
<लेअद्, तिन्:: चोम्बिनेद् मारण>
रसदरदाभ्रकताप्यविमलामृतशुल्बलोहपर्पटिका ।
स्नुह्यर्कदुग्धपिष्टं कंकुष्ठशिलायुतं नागम्

5.20

अभ्रकतालकशङ्खरससहितं तत्पुनः पुनः पुटितम् ।
चिञ्चाक्षारविमिश्रं वङ्गं निर्जीवतां याति

5.21

विधिनानेन च पुटितं म्रियते नागं निरुत्थतां च गतम् ।
वङ्गं च सर्वकर्मसु नियुज्यते तदपि गतजीवम्

5.22

*चोम्म्. मुग्धावबोधिनी:
अथ विध्यन्तरमाह रसेत्यादि ॥ ग्र्ह्त्च्म्_5.19-21:1 ॥
रसदरदाभ्रकताप्यमिति रसः पारदः दरदो हिङ्गुलः अभ्रकं प्रतीतं ताप्यं स्वर्णमाक्षिकं विमला रुक्ममाक्षिकं मृतं यच्छुल्बं ताम्रं लोहो मुण्डादिश्च एतेषां रसादीनां रसपर्पटीवत् पर्पटिका कार्या ॥ ग्र्ह्त्च्म्_5.19-21:2 ॥
तया युतं नागं पुनः कङ्कुष्ठशिलायुतं कङ्कुष्ठं हरितपीतवर्णो विषहरपाषाणजातिः शिला मनोह्वा ताभ्यां युतं मिश्रितं यन्नागं सीसकः स्नुह्यर्कदुग्धपिष्टं कार्यं स्नुही सेहुण्डः अर्कः प्रसिद्धो विटपी तयोर्दुग्धेन पिष्टं पांशुभूतं मृतं यन्नागं कुक्कुटपुटविधानेनेति शेषः एतदपि बीजं सिद्धं गर्भे द्रवति च पूर्वसंबन्धात् ॥ ग्र्ह्त्च्म्_5.19-21:3 ॥
अथ वङ्गबीजविधानमाह अभ्रकेत्यादि ॥ ग्र्ह्त्च्म्_5.19-21:4 ॥
चिञ्चाक्षारविमिश्रं यद्वङ्गं अम्लिकाक्षारयुक्तं वङ्गं अभ्रकतालकशङ्खरससहितं अभ्रकं प्रतीतं तालकं हरितालं शङ्खं कम्बुग्रीवं रसः पारदः एतैश्चतुर्भिः सहितं यथा स्यात्तथा पुनः पुनः वारं वारं निरुत्थं यावत् तावत्पुटितं कुर्यात् ॥ ग्र्ह्त्च्म्_5.19-21:5 ॥
एतदौषधस्यांशभागेन सह पुटनाद्वङ्गं निर्जीवतां याति पञ्चत्वमाप्नोति एतदपि बीजं सिद्धं गर्भद्रावणे जारणार्थे च पूर्वसंबन्धात् ॥ ग्र्ह्त्च्म्_5.19-21:6 ॥
नागवङ्गयोर् एतद् औषधं कारणमित्याह विधिनेत्यादि ॥ ग्र्ह्त्च्म्_5.19-21:7 ॥
अनेन विधिना उक्तविधानेन नागं सीसकं पुटितं सत् म्रियते मृतं भवतीति वामुना विधानेनैव निरुत्थतां गतं अशरीरतां प्राप्तं वङ्गं सर्वकर्मसु चारणजारणभक्षणादिकार्येषु नियुज्यते रसज्ञैरिति शेषः ॥ ग्र्ह्त्च्म्_5.19-21:8 ॥
नागवङ्गमारणम् एकविधम् एवोक्तम् अतस् तद्भक्षणादिषु परस्परं गुणाधिकयोग्यं नतु जारणादिषु ॥ ग्र्ह्त्च्म्_5.19-21:9 ॥
स्तर्त् ग्र्ह्त् 5.22
<गोल्द्:: बीज fओर् गर्भद्रुति>
मृतनागं मृतवङ्गं मृतवरशुल्वं मृतं तथा तीक्ष्णम् ।
एकैकं हेमवरे शतनिर्व्यूढं द्रवति गर्भे च

5.23

*चोम्म्. मुग्धावबोधिनी:
नागवङ्गशुल्वतीक्ष्णानां जारणविधानमाह मृतनागमित्यादि ॥ ग्र्ह्त्च्म्_5.22:1 ॥
मृतनागमिति मृतं निर्जीवतां गतं यन्नागं सीसकं तथानेन विधानेन मृतं वङ्गं तथा मृतं निरुत्थतां गतं वरशुल्बं ताम्रं तथा च मृतं तीक्ष्णम् अरिवर्गेणेति शेषः एषां मध्ये एकैकं नागं वा वङ्गं वा शुल्बं वा तीक्ष्णं वा पृथक्त्वेन हेमवरे पूर्णवर्णे स्वर्णे शतनिर्व्यूढं हेम्नः शतगुणनिर्वाहितं कुर्यात् तत्सिद्धं गर्भे रसोदरे द्रवति चशब्दाज्जरति च ॥ ग्र्ह्त्च्म्_5.22:2 ॥
स्तर्त् ग्र्ह्त् 5.23
<गोल्द्:: महाबीज>
समगर्भे द्रुतिकरणं हेम्नो वक्ष्याम्यहं परं योगम् ।
भ्रामकसस्यकचूर्णं शतनिर्व्यूढं महाबीजम्

5.24

*चोम्म्. मुग्धावबोधिनी:
महाबीजप्रभावं दर्शयन्नाह समगर्भ इत्यादि ॥ ग्र्ह्त्च्म्_5.23:1 ॥
इहास्मिञ्शास्त्रे विधिना शास्त्रोक्तरीत्या यानि बीजान्युक्तानि तानि कर्तव्यानि सामान्येनेति भावः परं गर्भद्रुत्यर्थं अयं वार्त्तिकेन्द्रो योगः वार्त्तासु कुशला वार्तिकाः शास्त्रोपदेशरहिता इत्यर्थः अत्र भावाद्यर्थे इक्प्रत्ययः तेषु वार्तिकेषु इन्द्रः प्रवरो योगः तथानेनैव प्रकारेण एकमतश्चायं शास्त्रोपदेशिकानां शास्त्रोपदेशरहितानां च अभिमत इत्यर्थः ॥ ग्र्ह्त्च्म्_5.23:2 ॥
स्तर्त् ग्र्ह्त् 5.24-26
<गर्भद्रुति>
अथवा गन्धकधूमं तालकधूमं शिलाह्वरसकस्य ।
दत्त्वाधोमुखमूषां दीर्घतमां खर्परस्यार्धे

5.25

ऊर्ध्वं लग्ना पिष्टी सुदृढा च यथा तथा च कर्तव्या ।
दत्त्वा खर्परपृष्ठे दैत्येन्द्रं दाहयेत्तदनु

5.26

स्तोकं स्तोकं दत्त्वा कर्षाग्नौ ध्मापयेन्मृदा लिप्ताम् ।
गर्भे द्रवति हि बीजं म्रियते तथाधिके दाहे

5.27

*चोम्म्. मुग्धावबोधिनी:
रसोदरे बीजद्रावणविधानमाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.24-26:1 ॥
अथवेति समुच्चये ॥ ग्र्ह्त्च्म्_5.24-26:2 ॥
ऊर्ध्वं दीर्घतममूषायन्त्रस्य तलभागे पिष्टी रसेन्द्रबीजयोर् निर्मिता पिष्टिका च पुनः सुदृढा यथा स्यात्तथा लग्ना कर्तव्या ॥ ग्र्ह्त्च्म्_5.24-26:3 ॥
किं कृत्वा खर्परस्यार्धे मृन्मयपात्रस्य खण्डार्धे खण्डैकदेश इत्यर्थः दीर्घतमां अधोभागमुखीं अधोभागे मुखं यस्याः सा तथोक्ता तां दत्त्वा ॥ ग्र्ह्त्च्म्_5.24-26:4 ॥
पुनः किं कृत्वा गन्धकधूमं दत्त्वा वा स्तोकं स्तोकं अल्पमल्पं तालकधूमं दत्त्वा वा शिलाह्वरसकस्य शिलाह्वा मनःशिला रसकः खर्परः चकवद् भावसमासः तस्य धूमं दत्त्वा ॥ ग्र्ह्त्च्म्_5.24-26:5 ॥
पुनस्तत्खर्परं अधोमुखमुखां च मृदा लिप्तां मृद्वेष्टितां करीषाग्नौ ध्मापयेत् करीषवह्नावित्यर्थः ॥ ग्र्ह्त्च्म्_5.24-26:6 ॥
एवं अधोमुखां खर्परं च दत्त्वा दैत्येन्द्रं बलिनामानं प्रस्तावाद्गन्धकं तदनु तत्करणपश्चाद् दाहयेत् ॥ ग्र्ह्त्च्म्_5.24-26:7 ॥
एवं कृते सति रसेन्द्रमिलितं यद्बीजं तद्गर्भे रसेन्द्रान्तर्द्रवति ॥ ग्र्ह्त्च्म्_5.24-26:8 ॥
पुनर्बीजसहितो रसेन्द्रो ऽधिके दाहे सति म्रियत इत्यर्थः ॥ ग्र्ह्त्च्म्_5.24-26:9 ॥
श्लोकत्रयसंबन्धाद्विशेषकम् ॥ ग्र्ह्त्च्म्_5.24-26:10 ॥
स्तर्त् ग्र्ह्त् 5.27
<विड:: प्रोदुच्तिओन्>
गन्धकतालकशैलाः सौवीरकरसकगैरिकं दरदम् ।
क्षाराम्ललवणानि विडो माक्षिकवैक्रान्तविमलसमभागैः

5.28

*चोम्म्. मुग्धावबोधिनी:
अथ सुवर्णजारणार्थं बिडमाह गन्धकेत्यादि ॥ ग्र्ह्त्च्म्_5.27:1 ॥
गन्धकतालकशैला इति गन्धकं प्रतीतं तालकं हरितालं शैलः शिलाजतुः द्वंद्वः समासः तेन तथोक्ताः समभागाः कार्याः ॥ ग्र्ह्त्च्म्_5.27:2 ॥
पुनः सौवीरकं शुक्लाञ्जनं रसकं खर्परिकं गैरिकं धातुगैरिकं दरदं हिङ्गुलं अत्रैकवद्भावसमासः तत्तथोक्तं समभागं कार्यम् ॥ ग्र्ह्त्च्म्_5.27:3 ॥
पुनः क्षाराम्ललवणानि क्षारा यवक्षारादयः अम्लं जम्बीरादि लवणानि सैन्धवादीनि एतान्यपि समभागानि ॥ ग्र्ह्त्च्म्_5.27:4 ॥
कैः सह माक्षिकवैक्रान्तविमलसमभागैः सह माक्षिकं स्वर्णमाक्षिकं वैक्रान्तं वज्रभूमिजं रजः विमलं रुक्ममाक्षिकं एतानि समभागानि तैर्बिड उच्यते सर्वैः समभागैः सुमर्दितैर् बिडः कार्य इत्यर्थः ॥ ग्र्ह्त्च्म्_5.27:5 ॥
स्तर्त् ग्र्ह्त् 5.28
<विड:: fओर् गर्भद्रुति>
कृत्वा सुवर्णपिष्टीं मृदितां च सुवेष्टितामनेनैव ।
त्रिपुटैस्तप्ते खल्वे मृदिता गर्भे तथा द्रवति

5.29

*चोम्म्. मुग्धावबोधिनी:
बिडयोगाद्यथा बीजं गर्भे द्रवति तथाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_5.28:1 ॥
पूर्वोक्ता या पिष्टी तामनेनैवोक्तबिडयोगेन तप्ते खल्वे तप्तसंबन्धाल्लोहमये त्रिपुटैः करीषाग्न्यात्मकैर् मृदिता घर्षिता सति अनेनैव च वेष्टिता कार्या ॥ ग्र्ह्त्च्म्_5.28:2 ॥
किं कृत्वा सुवर्णपिष्टीं कनकपिष्टीं वा अन्यस्यापि धातोः सुवर्णपिष्टीं शोभनवर्णां पिष्टीं कृत्वा ॥ ग्र्ह्त्च्म्_5.28:3 ॥
खल्वे मृदिता सती तथा तेनैव प्रकारेण नत्वन्यप्रकारेण गर्भे रसोदरे द्रवति सलिलरूपा तिष्ठति ॥ ग्र्ह्त्च्म्_5.28:4 ॥
स्तर्त् ग्र्ह्त् 5.29
<विड:: fओर् गर्भद्रुति>
रक्ते शतनिर्व्यूढं नेत्रहितं भस्म वैक्रान्तकं चाथ ।
विमलं शतनिर्व्यूढं ग्रसति समं द्रवति गर्भे च

5.30

*चोम्म्. मुग्धावबोधिनी:
अथ वैक्रान्तगर्भद्रुतिमाह रक्त इत्यादि ॥ ग्र्ह्त्च्म्_5.29:1 ॥
वैक्रान्तभस्म वज्रभूमिजं रजस् तदुद्भवं भस्म रक्ते रक्तगणे शतनिर्व्यूढं शतवारं निर्वाहितं कुर्यात् ॥ ग्र्ह्त्च्म्_5.29:2 ॥
किंविशिष्टं नेत्रहितं नेत्रहितशब्देन मणित्वं दर्शितं मणयो नेत्रहिता इति ॥ ग्र्ह्त्च्म्_5.29:3 ॥
विमलं रूप्यमाक्षिकं श्वेतवर्णं यन्माक्षिकं रक्तगणे शतनिर्व्यूढं कुर्यात् ॥ ग्र्ह्त्च्म्_5.29:4 ॥
तदुभयं वैक्रान्तं विमलं च रक्तशतनिर्व्यूढं सत् रसो ग्रासविधानं विहाय समं ग्रसति कवलयति स्तद्ग्रसितं गर्भे रसान्तर्द्रवति जरति च इति चशब्दार्थः ॥ ग्र्ह्त्च्म्_5.29:5 ॥
स्तर्त् ग्र्ह्त् 5.30
<विड:: fओर् गर्भद्रुति:: इम्मेर् मित् शतनिर्वाहण>
ये केचिद्विडयोगाः क्षाराम्ललवणानि दीप्तवर्गाश्च ।
सर्वे शतनिर्व्यूढा गर्भद्रुतिकारकाः कथिताः

5.31

*चोम्म्. मुग्धावबोधिनी:
रक्तगणाधिक्यं दर्शयन्नाह य इत्यादि ॥ ग्र्ह्त्च्म्_5.30:1 ॥
ये केचिद्विडयोगा अत्र ग्रन्थान्तरेष्वपि च कथिताः तथा क्षाराम्ललवणानि कथितानि क्षारा यवक्षारादयः अथ च वृक्षौषधिसमुद्भवाः अम्ला जम्बीरादयः अम्लवृक्षशाकसमुद्भवाश्च यान्येतानि कथितानि च पुनर्ये दीप्तवर्गाः कथिता दीप्तिकरा योगा अभिहिताः ते सर्वे बिडक्षाराम्ललवणदीप्तवर्गाः शतनिर्व्यूढा गर्भद्रुतिकारकाः गर्भे रसोदरे द्रुतं द्रवरूपं कुर्वन्ति धातुमणिरत्नादीनीति शेषः ॥ ग्र्ह्त्च्म्_5.30:2 ॥
स्तर्त् ग्र्ह्त् 5.31-32
<मेन्गे निर्वाहण => ग्रास, देर् अस्सिमिलिएर्त् wइर्द्>
शतनिर्व्यूढे च समं पादोनं पञ्चसप्ततिव्यूढे ।
पञ्चाशति तदर्धं पादः स्यात्पञ्चविंशतिके

5.32

अष्टांशं तु तदर्धे षोडशांशं तदर्धनिर्व्यूढे ।
तस्यार्धे द्वात्रिंशच्चतुःषष्ट्यंशं तदर्धनिर्व्यूढे

5.33

*चोम्म्. मुग्धावबोधिनी:
शतनिर्वाहितादौ समादिविधानमाह शतेत्यादि ॥ ग्र्ह्त्च्म्_5.31-32:1 ॥
शतनिर्व्यूढ इति शतवारं निर्वाहिते रक्तगणे इति शेषः समं तुल्यं ग्रसति रस इति शेषः ॥ ग्र्ह्त्च्म्_5.31-32:2 ॥
पुनः पञ्चसप्ततिव्यूढे सति पादोनं चतुर्थांशवर्जितं समग्रं ग्रसतीति ॥ ग्र्ह्त्च्म्_5.31-32:3 ॥
पुनः पञ्चाशन्निर्व्यूढे सति तदर्धं समस्यार्धमिति ॥ ग्र्ह्त्च्म्_5.31-32:4 ॥
पुनः पञ्चविंशतिके सति पादश्चतुर्थांशम् ॥ ग्र्ह्त्च्म्_5.31-32:5 ॥
न्यूनाधिके निर्व्यूढे सति न्यूनाधिकांशो ज्ञेय इति विशेषार्थः ॥ ग्र्ह्त्च्म्_5.31-32:6 ॥
अल्पनिर्व्यूढक्रममाह अष्टांशमित्यादि ॥ ग्र्ह्त्च्म्_5.31-32:7 ॥
तु पुनस्तदर्धे सार्धद्वादशके निर्व्यूढे सति अष्टांशं तदर्धे षड्वारनिर्व्यूढे सति षोडशांशमिति पुनस्तस्यार्धे त्रिवारनिर्व्यूढे सति द्वात्रिंशदंशं तदर्धनिर्व्यूढे एकद्विवारनिर्व्यूढे सति चतुःषष्ट्यंशं रसो ग्रसतीत्यर्थः ॥ ग्र्ह्त्च्म्_5.31-32:8 ॥
स्तर्त् ग्र्ह्त् 5.33
<गर्भद्रुति>
इति गदितां गर्भद्रुतिमभिषवयोगेन चाम्लवर्गेण ।
स्वेदनविधिना ज्ञात्वा मृदितां तप्ते तु खल्वतले

5.34

*चोम्म्. मुग्धावबोधिनी:
गर्भद्रुतौ सत्यां कर्तव्यमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_5.33:1 ॥
इत्युक्तविधानेन गदितां कथितां गर्भद्रुतिं ज्ञात्वा तप्ते खल्वतले लोहमये करीषाग्निना उष्णतां नीते मृदितां कुर्यात् ॥ ग्र्ह्त्च्म्_5.33:2 ॥
केन अभिषवयोगेन अभिषवः संमर्दनं तस्य योगेन न केवलमनेन अम्लवर्गेण च जम्बीरादिना न केवलमनेनापि स्वेदनविधिना च स्वेदनविधिः स्वेदनसंस्कारोक्तत्वान्नात्राभिहितः जारणहेतोरिति शेषः ॥ ग्र्ह्त्च्म्_5.33:3 ॥
स्तर्त् ग्र्ह्त् 5.34
<दुर्छ्fंह्रुन्ग् वोन् संस्कार गेमी“ देन् वेर्wएन्देतेन् बीजस् उस्w.>
ज्ञात्वा बीजबलाबलमर्दनयोगं कृतं च रसराजे ।
स्वेदविधानं च पुटं यन्त्रं वा विहितरसकर्म

5.35

*चोम्म्. मुग्धावबोधिनी:
मर्दनस्वेदनयोः पूर्वोपकरणं दर्शयन्नाह ज्ञात्वेत्यादि ॥ ग्र्ह्त्च्म्_5.34:1 ॥
बीजबलाबलमर्दनयोगं कृतं ज्ञात्वा बीजानां धातूपधातुयोगजनितानां बलाबले न्यूनाधिके योऽसौ मर्दनयोगस्तमेव कृतं ज्ञात्वा विदित्वा रसराजे स्वेदविधानं कुर्यात् वा पुटं वह्नियोगं कुर्यात् वा यन्त्रं विहितरसकर्म कुर्यात् विहितं कृतं रसस्य कर्म संस्काररूपं यत्र तथोक्तं गर्भयन्त्रादिकमित्यर्थः ॥ ग्र्ह्त्च्म्_5.34:2 ॥
स्तर्त् ग्र्ह्त् 5.35
सूतवरं लक्षयते बीजं नोपेक्षतां यथा याति ।
तद्वत्कार्यं विधिना सुकर्म गुरुपादनिर्दिष्टम्

5.36

*चोम्म्. मुग्धावबोधिनी:
सूतकर्मणो दुर्बोधत्वाद्गुरुपादं स्तुवन्नाह सूतेत्यादि ॥ ग्र्ह्त्च्म्_5.35:1 ॥
यथा येन प्रकारेण सूतवरं पारदः लक्षयते ज्ञायते कर्मकृतेति शेषः पुनर्यथा बीजं उपेक्षतां न याति सम्यक् मिलति तद्वत्तेनैव प्रकारेण गुरुपादनिर्दिष्टं कर्म आचार्यवर्यदर्शितं पूज्यं संस्काररूपं विधिना आचार्योक्तविधानेन कुर्यात् ॥ ग्र्ह्त्च्म्_5.35:2 ॥
गुरुपादलक्षणम् ।
सर्वशास्त्रविशेषज्ञः कुशलो रसकर्मणि ।
एवंलक्षणसंयुक्तो रसविद्यागुरुर्भवेत् ।
इति ॥ ग्र्ह्त्च्म्_5.35:3 ॥
इति गर्भद्रुतिजारणप्रकरणम् ॥ ग्र्ह्त्च्म्_5.35:4 ॥
स्तर्त् ग्र्ह्त् 5.36
<बाह्यद्रुति>
बाह्यद्रुतिरति विमला स्फुरति हि केषांचिदेव सिद्धानाम् ।
तेभ्यः सम्यक् ज्ञात्वा कलनाः कार्यास्तथा द्रुतयः

5.37

*चोम्म्. मुग्धावबोधिनी:
बाह्यद्रुतिं प्रशंसन्नाह बाह्यद्रुतिर् इत्यादि ॥ ग्र्ह्त्च्म्_5.36:1 ॥
द्रुतिर्द्विधोक्ता गर्भद्रुतिर्बाह्यद्रुतिश्चेति ॥ ग्र्ह्त्च्म्_5.36:2 ॥
गर्भद्रुतिः पूर्वमुक्ता बाह्यद्रुतिर् अधुनाभिधीयते ॥ ग्र्ह्त्च्म्_5.36:3 ॥
किंविशिष्टा अतिविमला निर्मलतरा ॥ ग्र्ह्त्च्म्_5.36:4 ॥
एषा च पुनः केषांचिदेव सिद्धानां स्फुरति सिद्धा रसविद्यापारगा नित्यनाथादयः तेषां ते जानन्तीति ॥ ग्र्ह्त्च्म्_5.36:5 ॥
दुष्प्राप्यत्वात् बाह्यद्रुतिरिह विरला ॥ ग्र्ह्त्च्म्_5.36:6 ॥
तेभ्यः सम्यक् ज्ञात्वा तथा तेनैव सिद्धोदेशविधानेन द्रुतयो बाह्यद्रुतयः ॥ ग्र्ह्त्च्म्_5.36:7 ॥
स्तर्त् ग्र्ह्त् 5.37-38
<जारण ओf लेअद्>
वरनागं रसराजं बीजवरं सारितं तथा त्रितयम् ।
गन्धकशिलालसहितं निर्नागं दीपवर्तितो भवति

5.38

बद्ध्वा सुदृढे वस्त्रे पोटलिकायां शिखीकृतो दीपः ।
तैले मग्नं कृत्वा निर्नागं जायते क्षिप्रम्

5.39

*चोम्म्. मुग्धावबोधिनी:
अथ नागजारणमाह वरनागमित्यादि ॥ ग्र्ह्त्च्म्_5.37-38:1 ॥
वरनागं श्रेष्ठजाति सीसकं जारणयोग्यं रसराजं उक्तसंस्कारैः संस्कृतं पारदं बीजवरं हेमबीजं एतत्त्रयं सारितं मिलितं कार्यं पुनर्गन्धकशिलालसहितं गन्धकं प्रतीतं शिला मनःशिला आलं हरितालं द्वन्द्वस्तानि तैः सहितं च कार्यं एतत् सर्वषट्कं दीपवर्तितः प्रज्वालितदीपवर्तियोगात् निर्नागं नागवर्जितं भवति नागं जरतीत्यर्थः ॥ ग्र्ह्त्च्म्_5.37-38:2 ॥
यथा निर्णागं स्यात्तथा विधानम् आह बद्ध्वेत्यादि ॥ ग्र्ह्त्च्म्_5.37-38:3 ॥
तत्पूर्वोक्तं षट्कं सुदृढे वस्त्रे नूतने वस्त्रे अत्रोपश्लेषिके ऽधिकरणे सप्तमी पोटलिकायां बद्ध्वा पुनस्तैले तिलोद्भवे तत्षट्कं मग्नं निमज्जितं कृत्वा तदधः शिखीकृतो दीपोऽवधार्यः न शिखी शिखायुक्तः कृतः शिखीकृतः शिखावानित्यर्थः ॥ ग्र्ह्त्च्म्_5.37-38:4 ॥
अनेन विधिना क्षिप्रं शीघ्रं निर्नागं स्यादिति ॥ ग्र्ह्त्च्म्_5.37-38:5 ॥
स्तर्त् ग्र्ह्त् 5.39-40
<जारण ओf लेअद्>
कृत्वात्र दीर्घमूषां सुदृढां ध्मातं तु भस्मगर्तायाम् ।
क्षिप्त्वा शिलालचूर्णं पश्चात्सूतं ततः शिलाचूर्णं

5.40

संस्थाप्य भस्मनातो ध्मातं स्यात्स्वांगशीतलं यावत् ।
आकृष्य तत्र सूतं ज्ञात्वा नागं सुभक्षितं सकलम्

5.41

*चोम्म्. मुग्धावबोधिनी:
निर्नागकरणे विधानमाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_5.39-40:1 ॥
तु पुनः दीर्घां गोस्तनाकारां सुदृढां निर्व्रणवज्रोपमां मूषां कृत्वा तां मूषां प्रति शिलालचूर्णं क्षिप्त्वा शिला मनोह्वा आलं हरितालं एतयोश्चूर्णं पश्चात्सूतं पूर्वोक्तं पारदं क्षिप्त्वा ततोऽनन्तरं शिलाचूर्णं क्षिप्त्वा तामेव रससंयुक्तां मूषां भस्मगर्तायां भस्मना युक्ता या गर्ता तस्यां ध्मातं कुर्यात् पुनस्तावद्भस्मना आच्छाद्य यावत्स्वाङ्गशीतलं स्वयमेव शीतलं स्यात् ॥ ग्र्ह्त्च्म्_5.39-40:2 ॥
तत्र तस्यां मूषायां सकलं समस्तं नागं सुभक्षितं जीर्णतां गतं ज्ञात्वा सूतं आकृष्य उद्धार्य निर्नागकरणविधानम् एतत् ॥ ग्र्ह्त्च्म्_5.39-40:3 ॥
स्तर्त् ग्र्ह्त् 5.41
<बीज ओf नागजीर्णपारद>
ज्ञात्वा नागं त्रुटितं पुनरपि दद्याद्यथा भवेत्त्रिगुणम् ।
पश्चाच्छुद्धं कृत्वा बीजवरं योजयेत्तदनु

5.42

*चोम्म्. मुग्धावबोधिनी:
निर्नागानन्तरं यत्कर्तव्यं तदाह ज्ञात्वेत्यादि ॥ ग्र्ह्त्च्म्_5.41:1 ॥
नागं सीसकं त्रुटितं बुद्ध्वा पुनरपि नागं दह्यात् पूर्वोक्तविधानेन पारदे इति शेषः ॥ ग्र्ह्त्च्म्_5.41:2 ॥
यथा नागं त्रिगुणितं भवेत्तथैव कुर्यात् ॥ ग्र्ह्त्च्म्_5.41:3 ॥
पश्चात्सूतं शुद्धं कृत्वा पारदं निर्नागं विधाय तदनु नागजारणानन्तरं बीजवरं पूर्वोक्तं योजयेत् ॥ ग्र्ह्त्च्म्_5.41:4 ॥
स्तर्त् ग्र्ह्त् 5.42
<मेर्चुर्य्:: जारण ओf तिन्>
अथवा तारं वङ्गं सूतं संसार्य वङ्गपरिहीनम् ।
तालकयोगेन तथा निर्वङ्गं यन्त्रयोगेन

5.43

*चोम्म्. मुग्धावबोधिनी:
अथ तारयोगम् आह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.42:1 ॥
अथवेति विधानान्तरम् ॥ ग्र्ह्त्च्म्_5.42:2 ॥
तारं वङ्गं सूतम् इति तारं रूप्यं वङ्गं खुरकं सूतं संस्कृतपारदं एतत्त्रितयं संसार्य मेलनं विधाय वङ्गपरिहीनं कुर्यात् तथा तेनैव विधानेन तालस्य योऽसौ योगस्तेन यन्त्रयोगेन च दीर्घमूषायोगेन च निर्वङ्गं वङ्गविवर्जितं कुर्यात् ॥ ग्र्ह्त्च्म्_5.42:3 ॥
स्तर्त् ग्र्ह्त् 5.43
<मेर्चुर्य्:: जारण ओf तिन्>
अथवा वस्त्रनिबद्धं गिरिजतुसहितं सुवेष्टितं माषैः ।
पक्वं तैले वटकं निर्वङ्गं जायते नूनम्

5.44

*चोम्म्. मुग्धावबोधिनी:
विध्यन्तरमाह अथवेत्यादि ॥ ग्र्ह्त्च्म्_5.43:1 ॥
अथवा तारं वङ्गं वटकाकारं तैले तिलोद्भवे पक्वं कुर्यात् नूनं निश्चितं तद्वटकं तथा पक्वं कुर्याद्यथा निर्वङ्गं जायते वह्नियोगेन इति शेषः ॥ ग्र्ह्त्च्म्_5.43:2 ॥
स्तर्त् ग्र्ह्त् 5.44-46
<बीज:: fओर् गर्भद्रुति>
पिष्टीस्तम्भं कृत्वा बीजवरेणैव सारितं तदनु ।
<बीज:: fओर् गर्भद्रुति>
अथवा बद्धरसेन तु सहितं बीजं सुरञ्जितं कृत्वा

5.45

गन्धकनिहितं सूतं निहितानिहितं च शृङ्खलायां तत् ।
योजितनिर्व्यूढरसे गर्भद्रुतिकारकं नूनम्

5.46

सूतकभस्मवरेण तु बीजं कृत्वा रसेन्द्रके गर्भे ।
मृदिता पिष्टी विधिना ह्यभिषवयोगाद्द्रवति गर्भे च

5.47

*चोम्म्. मुग्धावबोधिनी:
विधानान्तरमाह पिष्टीत्यादि ॥ ग्र्ह्त्च्म्_5.44-46:1 ॥
बीजवरेणैव पूर्वकनकबीजेनैव सारितं मिलितं सत् पिष्टीस्तम्भं खोटस्तम्भं कृत्वा तदनु तत्पश्चात् अथवेति प्रकारान्तरं दर्शयति तु पुनः बद्धरसेन खोटबद्धरसेन सहितं सुरञ्जितं शोभनविधानेन वर्णवृद्धीकृतं बीजं स्वर्णबीजं संयुतं कुर्यात् योग एव कार्य इति द्विविधानम् उक्तम् ॥ ग्र्ह्त्च्म्_5.44-46:2 ॥
अन्यच्चाह गन्धकेत्यादि ॥ ग्र्ह्त्च्म्_5.44-46:3 ॥
गन्धकनिहितं गन्धके निहितं स्थापितं सूतं ऊर्ध्वाधो गन्धकं दत्त्वा सूतं मध्यस्थं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_5.44-46:4 ॥
च पुनरेवंविधं सूतं शृङ्खलायां शृङ्खलीकरणयोगे निहितानिहितं यन्निहितं तदनिहितम् अजारितं कार्यं निहितानिहितसंयोगात् शृङ्खलेयं नूनं निश्चितं योजितनिर्व्यूढरसे पूर्वं योजितं पश्चान्निर्वाहितं निर्व्यूढं यत्र तत्तस्मिन्नेवंविधरसे गर्भद्रुतिः पारदस्योदरे बीजानि द्रवन्ति ॥ ग्र्ह्त्च्म्_5.44-46:5 ॥
पिष्टीविधिना जारणमाह सूतकेत्यादि ॥ ग्र्ह्त्च्म्_5.44-46:6 ॥
तु पुनः रसेन्द्रके गर्भे रसेन्द्रकृतो योऽसौ गर्भस्तस्मिन् बीजं कृत्वा विधिना पिष्टीर्विधेया सा पिष्टी मृदिता कार्या कस्मात् अभिषवयोगात् संमर्दनयोगात् केन सह सूतकभस्मवरेण सह सूतकस्य यद्भस्मवरं तेन सा पिष्टी गर्भे द्रवति चशब्दाज्जरति च ॥ ग्र्ह्त्च्म्_5.44-46:7 ॥
स्तर्त् ग्र्ह्त् 5.47-49
<बीज:: fओर् गर्भद्रुति>
पत्राभ्रकं च सत्वं कांक्षी वा कान्तमाक्षिकं पुटितम् ।
निर्गुण्डी गृहकन्या चाङ्गेरी पलाशशाकैश्च

5.48

तावत्पुटितं कृत्वा यावत्सिन्दूरसप्रभं भवति ।
तत्पादशेषलवणं हण्डिकपाकेन पाचितं सुदृढम्

5.49

एकैकं शतव्यूढं बीजवरं जारयेद्रसेन्द्रस्य ।
गर्भे द्रवति च क्षिप्रं ह्यभिषवयोगेन मृदितमङ्गुल्या

5.50

*चोम्म्. मुग्धावबोधिनी:
बीजवरविधानमाह पत्राभ्रकम् इत्यादि ॥ ग्र्ह्त्च्म्_5.47-49:1 ॥
पत्राभ्रकमिति अभ्रकस्य पत्राणि वाभ्रकस्य सत्वं पुनः कांक्षी सौराष्ट्री कान्तमाक्षिकं कान्तश्चुम्बकः माक्षिकं स्वर्णमाक्षिकं एतेषां द्वन्द्व एकत्वं पुनरेतत् निर्गुण्डीगृहकन्याचाङ्गेरीपलाशशाकैः पुटितं निर्गुण्डी सेफालिका गृहकन्या कुमारी चाङ्गेरी अम्लशाकः पलाशो ब्रह्मवृक्षः शाको वृक्षविशेषः एतेषां द्वन्द्वसमासः एतेषां रसं गृहीत्वा पूर्वौषधपुटितं कुर्यात् घर्मे इति शेषः ॥ ग्र्ह्त्च्म्_5.47-49:2 ॥
तदौषधं पुटितं कृत्वा पुनस्तत्पुटितमौषधं तत्पादशेषं चतुर्थांशं लवणं सैन्धवं दत्त्वा हण्डिकापाकेन हण्डिकायां मृद्भाजने यः पाकस्तेन पाचितं वह्नौ पुटितं तावत्कुर्याद् यावत् सिन्दूरसंप्रभं सिन्दूरतुल्यवर्णं भवति ॥ ग्र्ह्त्च्म्_5.47-49:3 ॥
कथं पाचितं कुर्यात् सुदृढं यथा स्यात्तथा एकैकं शतव्यूढमिति ॥ ग्र्ह्त्च्म्_5.47-49:4 ॥
पूर्वोक्तानां सिन्दूरीकृतानाम् उपरसानाम् अधरात् एकैकं एकं एकं पृथक्त्वेन शतव्यूढं शतवारं वाहितं बीजवरं जायते कनके इति शेषः तद्बीजं रसेन्द्रस्य गर्भे द्रवति चशब्दात् क्षिप्रं शीघ्रं जरति च ॥ ग्र्ह्त्च्म्_5.47-49:5 ॥
कथं अङ्गुल्या अनामिकया यो ऽभिषवयोगः संमर्दनयोगस्तेनेति विशेषकम् ॥ ग्र्ह्त्च्म्_5.47-49:6 ॥
स्तर्त् ग्र्ह्त् 5.50
<गोल्द्:: बीज wइथ् लेअद्>
आवृत्तेऽप्यावर्त्यं हेमवरे क्षेप्यमुज्ज्वले नागम् ।
त्रिगुणशिलाप्रतिवापं ह्यहिबीजं तत्समुद्दिष्टम्

5.51

*चोम्म्. मुग्धावबोधिनी:
नागेन बीजकरणमाह उज्ज्वलहेमवरे स्वर्णश्रेष्ठे आवर्त्ये सम्यग्द्रुते नागं शुद्धसीसकं आवर्त्यं प्रद्राव्यं किं कृत्वा समं स्वर्णसमभागक्षेपं क्षिप्त्वा पुनर्नागोपरि त्रिगुणशिलाप्रतिवापं त्रिगुणा या शिला तस्या निर्वापं कुर्यात् ॥ ग्र्ह्त्च्म्_5.50:1 ॥
शिला मनःशिला ॥ ग्र्ह्त्च्म्_5.50:2 ॥
तत्सिद्धं अहिबीजं नागयोगेन बीजं समुद्दिष्टं रसविद्भिः इति शेषः ॥ ग्र्ह्त्च्म्_5.50:3 ॥
स्तर्त् ग्र्ह्त् 5.51
<गोल्द्, सिल्वेर्:: बीज wइथ् तिन्>
वङ्गं तु तेन विधिना हेमवरे क्षेप्य तालवापेन ।
तारे वा निर्व्यूढं बीजवरं त्रुटितसंयोगात्

5.52

*चोम्म्. मुग्धावबोधिनी:
अथ वङ्गयोगेन बीजमाह वङ्गमित्यादि ॥ ग्र्ह्त्च्म्_5.51:1 ॥
तेन पूर्वोक्तेन विधिना विधानेन तु पुनः हेमवरे पूर्ववर्णिते वङ्गं क्षेप्य तालवापेन हरितालनिक्षेपेण निर्व्यूढं कुर्यात् वा तारे आवर्त्ये वङ्गं निक्षिप्य निर्व्यूढं निर्वाहितं सद्बीजवरं भवेत् ॥ ग्र्ह्त्च्म्_5.51:2 ॥
कस्मात् त्रुटितसंयोगात् त्रुटितं भवति तथा बीजवरमिति वङ्गबीजं तत् पूर्ववत् द्रवति जरति च ॥ ग्र्ह्त्च्म्_5.51:3 ॥
स्तर्त् ग्र्ह्त् 5.52
<रसाङ्कुश>
यो निःसृतो भुजङ्गाद् रसकेशरीवज्रपञ्जरः स पुनः ।
फणिहेमगुणात्कुटिलो रसाङ्कुशो नाम विख्यातः

5.53

*चोम्म्. मुग्धावबोधिनी:
सुवर्णाभिधानबीजप्रशंसनमाह य इत्यादि ॥ ग्र्ह्त्च्म्_5.52:1 ॥
भुजङ्गात् सीसकात् निःसृतः भुजङ्गशिलावापेन क्षयं नीत्वा यः पृथग्भूतः स रसकेसरीवज्रपञ्जरः कथितः रस एव केसरी सिंहः तदर्थं वज्रपञ्जरः वज्रेण व्यधितः पञ्जरोऽतिदृढत्वात् सिंहरक्षणसमर्थ इत्यर्थः ॥ ग्र्ह्त्च्म्_5.52:2 ॥
पुनर्विशेषेणोच्यते अयं वज्रपञ्जरो न किंतु अयं रसाङ्कुशः रसो गजरूपः तस्याङ्कुशः वशीकरणसमर्थः ॥ ग्र्ह्त्च्म्_5.52:3 ॥
नाम संभावनायाम् ॥ ग्र्ह्त्च्म्_5.52:4 ॥
विख्यातः प्रकथितः ॥ ग्र्ह्त्च्म्_5.52:5 ॥
कस्मात् कुटिलात् किमपि वस्तुहरणात् कुटिलो वक्रो भवति दुष्टस्वभाव एव अनेन हेम्ना नागहरणं कृतम् ॥ ग्र्ह्त्च्म्_5.52:6 ॥
कथंभूतात् कुटिलात् फणी भुजङ्गः हेम स्वर्णं तयोर्गुणा विद्यन्ते यस्मिन् एवंविधात् कुटिलादेशो युक्तः अङ्कुशोऽपि वक्रो भवतीति ॥ ग्र्ह्त्च्म्_5.52:7 ॥
अत्र भ्रान्तिमानलङ्कारः हेमबीजे वज्रपञ्जरगजाङ्कुशदर्शनाद् भ्रान्तिर्जातेति ॥ ग्र्ह्त्च्म्_5.52:8 ॥
स्तर्त् ग्र्ह्त् 5.53-58
<जारण wइथोउत् प्रेचेदिन्ग् गर्भद्रुति; बाह्यद्रुति??>
एवं पक्वं विधिना बीजवरं सूतराट् तथाम्लेन ।
कर्तव्यः संस्वेद्यो यावत्पिष्टी भवेच्छ्लक्ष्णा

5.54

तैलेन तेन विधिना स्विन्ना पिष्टी भवेदखिलम् ।
अथवा श्लक्ष्णं शिलया निघृष्टबीजं भवेत्पिण्डी

5.55

पाको वटकविधिना कर्तव्यस्तैलयोगेन ।
क्रामणपिण्डे क्षिप्त्वा माषैश्च स्यात् सुदृढपिण्डत्वम्

5.56

मृद्वग्निना सुपक्वं दग्धं यावन्न भवेत्पिण्डम् ।
आकृष्य चाथ सूतं पिण्डे शेषं तथा पुनः पाच्यम्

5.57

अथवाप्यौषधपिण्डे दोलातप्ते खर्परे विधिना ।
पुनरपि पिण्डे क्षेप्यं गर्भे यावद्द्रुतिर्भवति

5.58

एवं द्रुतं हि गर्भे बीजवरं जरति रसराजे ।
गर्भद्रुत्या रहितं बिडयोगैर्जरति गर्भे च

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc