भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 4

4.1

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयाख्ये तन्त्रे निर्मुखवासनामुखान्तर्भूतसमुखपत्त्राभ्रकचरणात्मकस् तृतीयो ऽवबोधः ॥
*चोम्म्. मुग्धावबोधिनी:
प्रकारान्तरं दर्शयन्नाह अग्राह्य इत्यादि ॥ ग्र्ह्त्च्म्_3.28:1 ॥
एवंविधो हरजो यावद्योनौ अभ्रके न विशति न मिलति यावद्बन्धं बन्धनं कुतो भजते प्राप्नोति न कुतोऽपि योनाव् अप्रविशति सति न बन्धनमाप्नोतीत्यर्थः ॥ ग्र्ह्त्च्म्_3.28:2 ॥
किंविशिष्टो हरजः अग्राह्यः हरः कथमपि न गृह्यते ऽनवयवत्वात् हरजस्तद्गुण एव कारणानुरूपं कार्यमिति न्यायात् ।
पुनः किंविशिष्टो निर्लेपः वैकारिकैर् दोषगुणैर्न लिप्यत इति दोषगुणनिवृत्तेः ॥ ग्र्ह्त्च्म्_3.28:3 ॥
पुनः सूक्ष्मगतिः सूक्ष्मा गतिर् गमनं प्रवर्तनं वा यस्य सः धूमरूपावलोकनत्वात् ॥ ग्र्ह्त्च्म्_3.28:4 ॥
पुनर्व्यापकः देहलोहादेर्व्यापकत्वात् ॥ ग्र्ह्त्च्म्_3.28:5 ॥
पुनरक्षयः न क्षयो यस्येत्यक्षयः सर्वदा भावरूपत्वात् ॥ ग्र्ह्त्च्म्_3.28:6 ॥
पुनर्जीवः अजीवे प्रकाशत्वाभावः स्वत्वं विहाय मलिनोपाधिकत्वान्निरुपाधाव् उपाधिसम्पत्तिरिति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_3.28:7 ॥
तदाश्रया तद्विषया अनाद्यविद्येति वेदान्तवचनात् ॥ ग्र्ह्त्च्म्_3.28:8 ॥
इति श्रीमत्कुरलवंशपयोधिसुधारमिश्रमहेशात्मजचतुर्भुजविरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां निर्मुखवासनामुखान्तर्भूतसमुखपत्त्राध्रकचारणात्मकस् तृतीयो ऽवबोधः ॥ ग्र्ह्त्च्म्_3.28:9 ॥
स्तर्त् ग्र्ह्त् 4.1
कृष्णो रक्तः पीतो यो ऽभ्रः स्यात् स्थूलतारकारहितः ।
वज्री स पीतकर्मणि पातितसत्त्वो घनो योज्यः

4.2

*चोम्म्. मुग्धावबोधिनी:
अधुनाभ्रसत्त्वचारणं तत्र पीतकर्मणि गगनवर्णभेदानाह कृष्ण इत्यादि ॥ ग्र्ह्त्च्म्_4.1:1 ॥
कृष्णो घनो रक्तो घनः पीतो घनश्चेति त्रिविधः पातितसत्त्वः पातितं सत्त्वं यस्येति समासः ॥ ग्र्ह्त्च्म्_4.1:2 ॥
एवंविधो वज्री पीतकर्मणि सुवर्णकार्ये योज्यः ॥ ग्र्ह्त्च्म्_4.1:3 ॥
वज्रिणो लक्षणं ध्मातोऽपि हठाग्नौ संयोजितो ऽपि यः स्थूलतारकारहितो भवति स्थूलाश्च तास्तारकाश्च ताभी रहितः दलसमुच्चयरूपाः स्थूलतारकाः ॥ ग्र्ह्त्च्म्_4.1:4 ॥
अनुक्तोऽपि श्वेतवर्णो घनः श्वेतकर्मणि योज्यः ग्रन्थान्तरसाम्याद् अयम् अभिप्रायः ॥ ग्र्ह्त्च्म्_4.1:5 ॥
यथा ग्रन्थान्तरे रक्तं पीतं कृष्णं शस्तं हेमक्रियासु गगनं हि ॥ ग्र्ह्त्च्म्_4.1:6 ॥
तारक्रियासु शुक्लं रसायने सर्वमेव तु श्रेष्ठम् इति ॥ ग्र्ह्त्च्म्_4.1:7 ॥
अभ्रे ऽपि वृत्तिकृद्विशेषमाह कदाचिद् गिरिजा देवी हरं दृष्ट्वा मनोहरम् ॥ ग्र्ह्त्च्म्_4.1:8 ॥
अमोचयत् तदा वीर्यं तज्जातं श्वेतमभ्रकम् ॥ ग्र्ह्त्च्म्_4.1:9 ॥
श्वेतं रक्तं तथा पीतं कृष्णं तद्भूमिसंगमात् ।
पिनाकं दर्दुरं नागं वज्राभ्रं च चतुर्विधम् ॥ ग्र्ह्त्च्म्_4.1:10 ॥
ध्मातं वह्नौ दलचयं पिनाकं विसृजत्यलम् ।
फूत्कारं भुजगः कुर्याद् दर्दुरं भेकशब्दवत् ॥ ग्र्ह्त्च्म्_4.1:11 ॥
चतुर्थं खेचरं वज्रं नैवाग्नौ विकृतिं भजेत् ।
तस्माद् वज्राभ्रकं श्रेष्ठं व्याधिवार्धक्यमृत्युजित् इति ॥ ग्र्ह्त्च्म्_4.1:12 ॥
स्तर्त् ग्र्ह्त् 4.2
निश्चन्द्रिकं हि गगनं वासितमपि वासनाभिर् इह शतधा ।
तदपि न चरति रसेन्द्रः सत्त्वं कथमत्र यत्नतः प्रभवेत्

4.3

*चोम्म्. मुग्धावबोधिनी:
चारणायाम् अभ्रपत्त्रे वैषम्यं सत्त्वे च सुगमत्वं सूचयन्नाह निश्चन्द्रिकम् इत्यादि ॥ ग्र्ह्त्च्म्_4.2:1 ॥
इहास्मिन् चारणासंस्कारे निश्चन्द्रिकं गगनं तारकारहितम् अभ्रं वासनाभिः पूर्वोक्ताभिर् वासनौषधिभिः शतधा शतप्रकारं वासितं मथितम् अपि रसेन्द्रः पारदस् तदपि बहुश्रमैः संस्कृतमप्यभ्रं न चरति ग्रासीकरोति ॥ ग्र्ह्त्च्म्_4.2:2 ॥
अत्र चारणे सत्त्वं यत्नतः प्रयत्नात् कथं प्रभवेत् कथमपि समर्थीभवेत् सत्त्वं यत्नतः समर्थीभवेदित्यर्थः ॥ ग्र्ह्त्च्म्_4.2:3 ॥
स्तर्त् ग्र्ह्त् 4.3
मुक्त्वैकमभ्रसत्त्वं नान्यः पक्षापकर्तनसमर्थः ।
तेन निरुद्धप्रसरो नियम्यते बध्यते च सुखम्

4.4

*चोम्म्. मुग्धावबोधिनी:
सुगमत्वाद्गुणाधिकत्वाच्च सत्त्वं प्रशंसति मुक्त्वेत्यादि ॥ ग्र्ह्त्च्म्_4.3:1 ॥
अभ्रसत्त्वमेकं मुक्त्वा त्यक्त्वा अन्यो ऽपरो रसपक्षापकर्तनसमर्थो न पारदपक्षच्छेत्ता न तेन सत्त्वेन सुखं यथा स्यात्तथा रसः पारदो नियम्यते पारदस्य नियमनं भवेदित्यर्थः बध्यते च बन्धनं प्राप्यते रसो बद्धो भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_4.3:2 ॥
किम्भूतः सन् नियमनं बन्धनं च प्नोति निरुद्धप्रसरः सन् निरुद्ध आरुन्धित्तः प्रसरः प्रसरणं प्रकृष्टेन गमनं यस्य तादृशः सन् ॥ ग्र्ह्त्च्म्_4.3:3 ॥
स्तर्त् ग्र्ह्त् 4.4
<पक्षच्छेद>
पक्षच्छेदमकृत्वा रसबन्धं कर्तुम् ईहते यस्तु ।
बीजैरेव हि स जडो वाञ्छत्यजितेन्द्रियो मोक्षम्

4.5

*चोम्म्. मुग्धावबोधिनी:
रसबन्धने ऽधिकारित्वं दर्शयन्नाह पक्षच्छेदम् इत्यादि ॥ ग्र्ह्त्च्म्_4.4:1 ॥
यो वादी अभ्रसत्त्वग्रसनेन विना पक्षच्छेदम् कृत्वा पक्षापकर्तनमविधाय रसबन्धं कर्तुं पारदबन्धनं विधातुम् ईहते चेष्टते स वादी न किंतु जड एवम् अपण्डित इति भावः ॥ ग्र्ह्त्च्म्_4.4:2 ॥
कः कृत्वा रसबन्धनं कर्तुमीहते बीजैः रक्ताभ्रहेमरसकैर् इत्यादिभिः ॥ ग्र्ह्त्च्म्_4.4:3 ॥
एवाव्ययम् अन्यद्रव्यव्यवच्छेदी ॥ ग्र्ह्त्च्म्_4.4:4 ॥
पक्षच्छेदनं कृत्वा बन्धनं कार्यमयं विधिः अन्यथा त्व् अविधिः ॥ ग्र्ह्त्च्म्_4.4:5 ॥
अविधेर् दृष्टान्तमाह यथा अजितेन्द्रियो लम्पटः पुमान् मोक्षं वाञ्छति ॥ ग्र्ह्त्च्म्_4.4:6 ॥
अजितेन्द्रियजडयोः साम्यमिति ॥ ग्र्ह्त्च्म्_4.4:7 ॥
स्तर्त् ग्र्ह्त् 4.5
नाधः पतति न चोर्ध्वं तिष्ठति यन्त्रे भवेद् अनुद्गारी ।
अभ्रकजीर्णः सूतः पक्षच्छिन्नः स विज्ञेयः

4.6

*चोम्म्. मुग्धावबोधिनी:
पक्षच्छिन्नपारदस्य लक्षणमाह नेत्यादि ॥ ग्र्ह्त्च्म्_4.5:1 ॥
एवंविधः पारदः सूतो यः स पक्षच्छिन्नः पक्षौ छिन्नौ छेदितौ यस्येति समासः ॥ ग्र्ह्त्च्म्_4.5:2 ॥
स कः यो नाधः पतति अधःपातने कृते ऊर्ध्वतो ऽधोभागो न पतति पुनरधोभागत ऊर्ध्वपातने कृते ऊर्ध्वं न याति अनुद्गारी अचञ्चलो भवेत् यन्त्रे स्वस्थ एव तिष्ठतीत्यर्थः ॥ ग्र्ह्त्च्म्_4.5:3 ॥
पुनः किंविशिष्टः अभ्रजीर्णः अभ्रकं जीर्णं निःशेषताम् आप्तं यस्मिन् रस इति समासः ॥ ग्र्ह्त्च्म्_4.5:4 ॥
ग्रासमात्रेण पक्षच्छेदो न जायते यावन्न चारितमभ्रकं जरतीति ध्वन्यर्थः ॥ ग्र्ह्त्च्म्_4.5:5 ॥
स पक्षच्छिन्नः सूत इति ॥ ग्र्ह्त्च्म्_4.5:6 ॥
स्तर्त् ग्र्ह्त् 4.6
<अभ्र:: सुब्त्य्पेस्>
श्वेतादिचतुर्वर्णाः कथितास्ते स्थूलतारकारहिताः ।
<अभ्र:: सुब्त्य्पेस्:: रेअच्तिओन् तो हेअतिन्ग्>
वज्री सत्वं मुञ्चत्यपरे ध्माताश्च काचतां यान्ति

4.7

*चोम्म्. मुग्धावबोधिनी:
वज्राभ्रं विहाय पिनाकनागभेकाः सत्वमोचनेऽसमर्था इति दर्शयन्नाह श्वेतेत्यादि ॥ ग्र्ह्त्च्म्_4.6:1 ॥
ये ध्माताः स्थूलतारकारहिताः पत्त्रचयेन वर्जिता रक्तपीतकृष्णाः कथिताः पूर्वं वर्णितास्ते श्वेतादिचतुर्वर्णा भवन्ति ॥ ग्र्ह्त्च्म्_4.6:2 ॥
त्रयाणां रक्तपीतकृष्णवर्णाभ्राणां चेत् श्वेतवर्ण आदौ युज्यते तदा चतुर्वर्णा भवन्तीत्यर्थः ॥ ग्र्ह्त्च्म्_4.6:3 ॥
तेषां चतुर्वर्णानां मध्ये यो वज्री वज्रसंज्ञको घनः स सत्वं मुञ्चति ध्मातः सन् सत्वं त्यजति नान्ये ॥ ग्र्ह्त्च्म्_4.6:4 ॥
अपरे पिनाकनागभेकाह्वयाः ध्माताः सन्तः काचतां यान्ति काचाकारत्वम् आप्नुवन्ति न च सत्त्वनिर्गम इति ॥ ग्र्ह्त्च्म्_4.6:5 ॥
स्तर्त् ग्र्ह्त् 4.7
<अभ्र:: सुब्त्य्पेस्:: पोतेन्च्य्>
सितरक्तासितपीता ये केचिदुदाहृता घना लोके ।
अल्पबला निःसत्त्वा वज्री श्रेष्ठस्तु सर्वेषाम्

4.8

*चोम्म्. मुग्धावबोधिनी:
ससत्त्वबलवत्वाभ्याम् उत्कृष्टत्वाद् वज्राभ्रं पुनः प्रशंसति सितेत्यादि ॥ ग्र्ह्त्च्म्_4.7:1 ॥
लोके संसारे ये केचित् घना उदाहृताः कथितास्ते अल्पबलाः अल्पं बलं येषु ते तथोक्ताः ॥ ग्र्ह्त्च्म्_4.7:2 ॥
निःसत्त्वाः सत्ववर्जिताः ध्मातेषु तेषु सत्वाभाव इत्यर्थः ॥ ग्र्ह्त्च्म्_4.7:3 ॥
ते के घनाः सितरक्तासितपीताः श्वेतरक्तकृष्णपीतवर्णाः नान्ये वर्णाः सन्तीति भावः ॥ ग्र्ह्त्च्म्_4.7:4 ॥
सर्वेषां चतुर्वर्णानां मध्ये वज्री वज्रसंज्ञकः श्रेष्ठः प्रधानः ॥ ग्र्ह्त्च्म्_4.7:5 ॥
स्तर्त् ग्र्ह्त् 4.8
<अभ्र:: इनेदिब्ले वरिअन्त्स्>
सूतेऽपि रसायनिनां योज्यं परिकीर्तितं परं सत्वम् ।
त्रिविधं गगनमभक्ष्यं काचं किट्टं च पत्त्ररजः

4.9

*चोम्म्. मुग्धावबोधिनी:
देयमभ्रमाह सूतेऽपीत्यादि ॥ ग्र्ह्त्च्म्_4.8:1 ॥
रसायनिनां रसायनं जराव्याधिविध्वंसिभेषजं विद्यते येषां येषु वा ते रसायनिनः तेषां परं प्रधानं सत्वमभ्रसत्वं परिकीर्तितं संकथितं यथा ग्रन्थान्तरे ।
सत्वसेवी वयःस्तम्भं कृतशुद्धिर्लभेत्सुधीः ।
इति ॥ ग्र्ह्त्च्म्_4.8:2 ॥
अभ्रसत्वं सूतेऽपि पारदेऽपि परममुत्कृष्टं पक्षच्छेदनसमर्थं बलदं च ॥ ग्र्ह्त्च्म्_4.8:3 ॥
पुनस्त्रिविधं गगनम् अभक्ष्यम् अभोज्यं रसायनिनां सूतेऽपि ॥ ग्र्ह्त्च्म्_4.8:4 ॥
किं तत्त्रिविधम् एकं काचं वह्नौ धमनात्काचाकारतां नीतं द्वितीयं किट्टं यद्धमनात्किट्टस्वरूपं प्राप्तं तृतीयं पत्त्ररजः पत्राणां समाहितं यद्रजस् तदेवं त्रिविधम् अभक्ष्यं सदोषत्वात् ॥ ग्र्ह्त्च्म्_4.8:5 ॥
स्तर्त् ग्र्ह्त् 4.9
<अभ्र:: सत्त्व>
मुञ्चति सत्वं ध्मातस् तृणसारविकारकैर् घनः स्विन्नः ।
परिहृत्य काचकिट्टं ग्राह्यं सारं प्रयत्नेन

4.10

*चोम्म्. मुग्धावबोधिनी:
सत्वपातनविधानं दर्शयन्नाह मुञ्चतीत्यादि ॥ ग्र्ह्त्च्म्_4.9:1 ॥
घनस् तृणसारविकारकैः स्विन्नः तृणमेव सारो येषां ते तृणसाराः तेषां ये विकारका विशेषास् तैर् औषधैः सूर्यावर्तकादिभिः कृत्वा स्विन्नौ वह्नौ ध्मातो घनः सत्वं मुञ्चति सत्त्वपातं विदधाति ॥ ग्र्ह्त्च्म्_4.9:2 ॥
पुनः काचं किट्टं च परिहृत्य सत्त्वं पतितकाचकिट्टयुक्तं यदा भवति तदा प्रयत्नेन ग्राह्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_4.9:3 ॥
स्तर्त् ग्र्ह्त् 4.10
<अभ्र:: सत्त्व:: पातन>
स्वेद्य बद्ध्वा पिण्डं माहिषदधिदुग्धमूत्रशकृदाज्यैः ।
अथ पंचगव्ययुक्तः सत्वं पातयति लोहनिभम्

4.11

*चोम्म्. मुग्धावबोधिनी:
अधुना विशेषप्रकारान्तरम् आह स्वेद्य इत्यादि ।
स्वेद्यो घनः पूर्वोक्तैस्तृणसारविकारैः स्वेदितमभ्रं स्वेदविधिरुक्तः पुनर्घनस्य पिण्डं बद्ध्वा कैः सह माहिषदधिदुग्धमूत्रशकृदाज्यैः कृत्वा महिष्या इदं माहिषं एवंभूतं यद्दधि दुग्धं मूत्रं शकृद्विष्ठा आज्यं घृतं चैतैः पिण्डं बद्ध्वा ॥ ग्र्ह्त्च्म्_4.10:1 ॥
अथेति समुच्चये ॥ ग्र्ह्त्च्म्_4.10:2 ॥
पञ्चगव्यैः गवां दुग्धदधिमूत्रशकृदाज्यैः संयुक्तः कार्यः पिण्डं बद्ध्वेत्यर्थः ॥ ग्र्ह्त्च्म्_4.10:3 ॥
एतत्पिण्डं लोहनिभं मुण्डप्रभं सत्त्वं पातयति पूर्वसंबधात् घनस्य इत्यध्याहारः ॥ ग्र्ह्त्च्म्_4.10:4 ॥
स्तर्त् ग्र्ह्त् 4.11
<सत्त्व:: एxत्रच्त् fरोम् चोओल् मिनेरल्स्>
सूर्यातपपीतरसाः स्वल्पं मुञ्चन्ति धातवः सत्वम् ।
स्वस्थानस्थाः सन्तो मुञ्चन्ति त एव भूयिष्ठम्

4.12

*चोम्म्. मुग्धावबोधिनी:
सूर्यातपपीतरसा इति सूर्यातपे सवितृघर्मे पीताः शोषिता रसा द्रवा यैः एवंविधा धातवो ध्माताः सन्तः स्वल्पं ईषन्मात्रं सत्त्वं मुञ्चन्ति त्यजन्ति ॥ ग्र्ह्त्च्म्_4.11:1 ॥
पुनस्त एव सूर्यातपपीतरसा धातवः स्वस्थानस्थाः स्वकीयं यत्स्थानं द्रवेण स्थानपिण्डं रूपं तस्मिन् तिष्ठन्तीति एवंविधाः सन्तो बहलं भूयिष्ठं सत्वं मुञ्चन्ति द्रवन्तीत्यर्थः ॥ ग्र्ह्त्च्म्_4.11:2 ॥
सूर्यातपपीतरसा इति केषां सूर्यावर्तकदलीवन्ध्याकर्कोटक्यादीनां द्रावकौषधीनाम् ॥ ग्र्ह्त्च्म्_4.11:3 ॥
स्तर्त् ग्र्ह्त् 4.12
बहुगम्भीरं ध्मातो वर्षति मेघः सुवर्णधाराभिः ।
देवमुखतुल्यममलं पतितं सत्वं तथा विन्द्यात्

4.13

*चोम्म्. मुग्धावबोधिनी:
पतितसत्त्वलक्षणम् आह बहुगम्भीरम् इत्यादि ॥ ग्र्ह्त्च्म्_4.12:1 ॥
मेघो घनो बहुगम्भीरं यथा स्यात्तथा ध्मातः सन् सुवर्णधाराभिः शोभनवर्णधाराभिः वा सुवर्णवत् कनकवत् वर्णो यासां ताभिः निर्मलत्वात् प्रकाशकत्वाच्च वर्षति धारापातं विदधाति ॥ ग्र्ह्त्च्म्_4.12:2 ॥
कथंभूतं देवमुखतुल्यं वह्निना तुल्यं समं अमलं निर्मलं हरितपीतरक्तादिधूमरहितत्वात् पतितं सत्वं तथा विन्द्यात् घनस्येत्यर्थः ॥ ग्र्ह्त्च्म्_4.12:3 ॥
तथा ग्रन्थान्तरे ।
भस्त्रानलेन तीव्रेण महाज्वाले हुताशने ।
अतिदीप्ते भवेद्बुद्धा अङ्गाराः क्षयमागताः ॥ ग्र्ह्त्च्म्_4.12:4 ॥
पुनरन्या न चेन्मूर्ध्नि द्विस्त्रिर्वाराणि बुद्धिमान् ।
यदा दीप्तो भवेद्वह्निः शुद्धज्वालो महाबलः ॥ ग्र्ह्त्च्म्_4.12:5 ॥
पतितं तु तदा विन्द्यात् तत्सत्त्वं नात्र संशयः ।
पतितं तु पृथक्कार्यं किट्टाङ्गारविवर्जितम् ॥ ग्र्ह्त्च्म्_4.12:6 ॥
निर्गुणं लक्षयित्वा तु पुनर् धाम्यो यथावता ।
द्विस्त्रिरेवमशेषं तु ध्मातः सत्त्वं विमुञ्चति ॥ ग्र्ह्त्च्म्_4.12:7 ॥
स्तर्त् ग्र्ह्त् 4.13-14
<अभ्र:: सत्त्व:: "एअतेन्" wइथोउत् अ मुख>
यदि लोहनिभं पतितं जातं गगनस्य तद्रसश्चरति ।
मिलति च सर्वद्वन्द्वे ह्यौषधिभिश्चरति विनापि मुखैः

4.14

<अभ्र:: सत्त्व:: प्रोदुचेस् अ मुख>
माक्षिकसहितं गगनं ध्मातं सत्वं मुखप्रदं भवति ।
तदनु च नागैर्वङ्गैः सहितं च मुखप्रदं सत्वम्

4.15

*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वान्तरसंयोगात् सत्त्वस्य गुणाधिक्यं दर्शयन्नाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_4.13-14:1 ॥
गगने भवं गगनं अण्प्रत्ययान्तं णितो वा इति सूत्रेण न वृद्धिः गगनं अभ्रसत्वम् ॥ ग्र्ह्त्च्म्_4.13-14:2 ॥
माक्षिके भवं माक्षिकं माक्षिकसत्वं तेन सहितं पूर्वसत्वं चेत् ध्मातं तदुभयसत्वं मुखप्रदं भवति रसस्य इति शेषः ॥ ग्र्ह्त्च्म्_4.13-14:3 ॥
मुखं प्रकृष्टेन ददातीति समासः ॥ ग्र्ह्त्च्म्_4.13-14:4 ॥
तदनु च तत्पश्चाच्च नागैर् वङ्गैः सहितं पूर्वं यद्गगनं अभ्रसत्वं मुखप्रदमित्यर्थः ॥ ग्र्ह्त्च्म्_4.13-14:5 ॥
वा सुखप्रदं इति पाठः अस्मिन् योगे बहुक्लेशं विहाय सुखेन चारणं भवतीति विकल्पार्थः ॥ ग्र्ह्त्च्म्_4.13-14:6 ॥
स्तर्त् ग्र्ह्त् 4.15
<अभ्र:: सत्त्व:: इन्दुच्तिओन् ओf गर्भद्रुति, रञ्जन अन्द् बन्धन>
माक्षिकसत्वे योगाद्घनसत्वं चरति सूतको निखिलम् ।
नियतं गर्भद्रावी स रज्यते बध्यते चैवम्

4.16

*चोम्म्. मुग्धावबोधिनी:
माक्षिकसत्वं मुख्यत्वेनाह माक्षिकेत्यादि ॥ ग्र्ह्त्च्म्_4.15:1 ॥
सूतकः पारदो घनसत्वं अभ्रसत्वं निखिलं समस्तं चरति ॥ ग्र्ह्त्च्म्_4.15:2 ॥
कस्मात् माक्षिकसत्वे योगात् माक्षिकं स्वर्णमाक्षिकं तत्सत्वे यो योगस्तस्मात् ॥ ग्र्ह्त्च्म्_4.15:3 ॥
नियतं निश्चितम् ॥ ग्र्ह्त्च्म्_4.15:4 ॥
माक्षिकसत्त्वयोगाद् घनसत्त्वं चरति रसो गर्भद्रावी गर्भे द्रावयति सत्त्वं द्रवरूपं विधत्ते यः स तथोक्तः ॥ ग्र्ह्त्च्म्_4.15:5 ॥
सूतस्योदरे माक्षिकाभ्रसत्वं द्रुतिरूपं तिष्ठतीत्यर्थः ॥ ग्र्ह्त्च्म्_4.15:6 ॥
एवममुना विधानेन सह सूतकः पारदो रज्यते रागवान् भवति बध्यते बद्धश्च भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_4.15:7 ॥
स्तर्त् ग्र्ह्त् 4.16
<अभ्र:: सत्त्व:: fओर् बन्धन ओf मेर्चुर्य्>
सत्वं घनस्य कान्तं तालकयुक्तं सुरुन्धितं ध्मातम् ।
वारैस्त्रिभिरिह सत्वं भवति रसेन्द्रबन्धकारि परम्

4.17

*चोम्म्. मुग्धावबोधिनी:
माक्षिकयोगानन्तरम् अपरोऽभिधीयते सत्त्वम् इत्यादि ॥ ग्र्ह्त्च्म्_4.16:1 ॥
घनस्याभ्रस्य सत्वं तथा कान्तं लोहविशेषं तालकयुक्तं तालकेन हरितालेन युक्तं सुरुन्धितं ध्मातं सत् त्रयमपि सत्वरूपं भवति यदैकवारधमनेन सत्वं न मिलति तथा पुनर्द्विस्त्रिवेलाभिर् धमनं कार्यम् ॥ ग्र्ह्त्च्म्_4.16:2 ॥
समभागतालकयोजनं घनसत्वमाक्षिकसत्वयोगद्रावणाद्धमितादत्यर्थं तत्सत्वं रखे पारदे बन्धकारि भवति परममुत्कृष्टं बन्धनप्रदं भवति ॥ ग्र्ह्त्च्म्_4.16:3 ॥
तत्सत्त्वस्य चारणतो रसो बन्धनमवाप्नोतीति भावः ॥ ग्र्ह्त्च्म्_4.16:4 ॥
कान्तलक्षणं ।
पात्रे यस्मिन् प्रविशति जले तैलबिन्दुर्न सर्पेत् हिङ्गुर्गन्धं विसृजति निजं तिक्ततां निम्बकल्कः ।
पाके दुग्धं भवति शिखराकारतां नैव भूमौ कान्तं लोहं विदुरिति च तल्लक्षणोक्तं न चान्यत् ।
इति ॥ ग्र्ह्त्च्म्_4.16:5 ॥
स्तर्त् ग्र्ह्त् 4.17
<अभ्र:: सत्त्व:: इन्दुच्तिओन् ओf गर्भद्रुति>
लोहं चाभ्रकसत्वं तालकसमभागसारितं चरति ।
अभिषवयोगाच्चाङ्गुलिमृदितं गर्भे च तद्द्रवति

4.18

*चोम्म्. मुग्धावबोधिनी:
कान्ताभ्रसत्वालयोगकरणम् आह लोहमित्यादि ॥ ग्र्ह्त्च्म्_4.17:1 ॥
चेति समुच्चये ॥ ग्र्ह्त्च्म्_4.17:2 ॥
लोहं पूर्वोक्तलक्षणं मुण्डादिकं अभ्रसत्वं च तालकसमभागसारितं तालकस्य समभागेन पूर्वविधानेन मुखादिना यत्सारितं एकशरीरतां नीतं सृ गतावित्यस्य धातो रूपं सारितं प्रमिलितम् इत्यर्थः एवंविधं कान्ताभ्रसत्वालं रसश्चरति ॥ ग्र्ह्त्च्म्_4.17:3 ॥
च पुनः अङ्गुलिमृदितं अङ्गुलिना मर्दितं तत् कान्ताभ्रसत्वालं गर्भे रसोदरे द्रवति तत्स्वरूपत्वेन मिलति ॥ ग्र्ह्त्च्म्_4.17:4 ॥
कस्मात् अभिषवयोगात् अभिषवः संमर्दनं तद्योगात् ॥ ग्र्ह्त्च्म्_4.17:5 ॥
लोहस्य त्रयो दशभेदानां मध्यात् केनापि भेदेन सहयोगः कार्य इति लोहशब्देन ध्वनितम् ॥ ग्र्ह्त्च्म्_4.17:6 ॥
स्तर्त् ग्र्ह्त् 4.18
<अभ्र:: सत्त्व:: इन्दुच्तिओन् ओf चारण>
वंगमथो घनसत्वं तालकषड्भागसारितं चरति ।
अभिषवयोगाच्चरति व्रजति रसो नात्र सन्देहः

4.19

*चोम्म्. मुग्धावबोधिनी:
लोहयोगमुक्त्वा वङ्गयोगमाह वङ्गमित्यादि ॥ ग्र्ह्त्च्म्_4.18:1 ॥
अथ लोहकथनानन्तरं वङ्गं खुरसंज्ञकं अभ्रकं च एतद्द्वयं तालकषड्भागसारितं तालकस्य षडंशेन एकशरीरतां नीतं तत्स्वरूपं रसश्चरति ॥ ग्र्ह्त्च्म्_4.18:2 ॥
कस्मात् अभिषवयोगात् अभिषवः संमर्दनं तद्योगात् षुञ् अभिषवे इत्यस्य धातो रूपं अभिषवः ॥ ग्र्ह्त्च्म्_4.18:3 ॥
पुनः रसश्चरति मिलति ॥ ग्र्ह्त्च्म्_4.18:4 ॥
चारितं यत् तद्द्रवति तद्द्रुतं रसे व्रजति पृथक्त्वात् सं मिलति नात्रसन्देहः निः संदिग्धमिव ॥ ग्र्ह्त्च्म्_4.18:5 ॥
वङ्गस्य लघुद्रवित्वात् षडंशयोगस्तालकस्य युक्तः लोहजातेः काठिण्यात् समभागत्वं उदितम् ॥ ग्र्ह्त्च्म्_4.18:6 ॥
स्तर्त् ग्र्ह्त् 4.19-20
<अभ्र:: सत्त्व:: इन्दुच्तिओन् ओf चारण>
बहलं सुवर्णवर्णं निचुलपुटैः पतति पञ्चभिः सत्वम् ।
वटकीकृतमृतगगनं निरञ्जनं किट्टरहितं च

4.20

तच्चूर्णीकृत्य ततः क्षाराम्लैर्भावितं घनं बहुशः ।
सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं चरति

4.21

*चोम्म्. मुग्धावबोधिनी:
अभ्रसत्वविधानमाह बहलमित्यादि ॥ ग्र्ह्त्च्म्_4.19-20:1 ॥
वटकीकृतं च तन्मृतं च गगनं तथोक्तं न वटको वटकः क्रियत इति वटकीकृतं अत्र अभूततद्भावे च्विःप्रत्ययः ॥ ग्र्ह्त्च्म्_4.19-20:2 ॥
पञ्चभिर्निचुलपुटैः पञ्चसंख्याभिर्वेतसवृक्षद्रवभावनाभिर् भावितं यन्मृतगगनं मृताभ्रं वटकीकृतं सत्सत्वं पतति तद्द्रावकौषधयोगं विधाय वह्निना विधमनादिति शेषः ॥ ग्र्ह्त्च्म्_4.19-20:3 ॥
कियन्मानं सत्वं पतति बहलं बहु अन्यविधेरधिकम् ॥ ग्र्ह्त्च्म्_4.19-20:4 ॥
कीदृशं स्वर्णवर्णं पीतश्वेतं प्रकाशाख्यं पुनर्निरञ्जनं निर्मलं किट्टरहितं च ॥ ग्र्ह्त्च्म्_4.19-20:5 ॥
अस्मिन् सत्वे काचकिट्टाभावः ॥ ग्र्ह्त्च्म्_4.19-20:6 ॥
सर्वोत्कृष्टविधिरयं पूर्वमुदितात् बहलसत्वपातादित्यर्थः ॥ ग्र्ह्त्च्म्_4.19-20:7 ॥
केवलसत्वचारणविधानमाह तदित्यादि ॥ ग्र्ह्त्च्म्_4.19-20:8 ॥
ततस्तदभ्रसत्वपातनविधेरनन्तरं तदेवाभ्रसत्वं चूर्णीकृत्य कल्कं विधाय क्षाराम्लैर्भावितं कुर्यात् क्षाराः स्वर्जिकादयः अम्ला जम्बीरादयः तैर्बहुशो बहुवारं घर्मपुटितं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_4.19-20:9 ॥
पुनः सृष्टित्रयनीरकणातुम्बुरुरसमर्दितं सृष्टिः पूर्वोक्ता तत्त्रयं मूत्रशुक्रशोणितमिति नीरकणा जलपिप्पली तुम्बरु प्रतीतं एतेषां रसेन मर्दितं कुर्यात् ॥ ग्र्ह्त्च्म्_4.19-20:10 ॥
अभ्रसत्त्वमेवं कृतं सत् चरति ग्रसति रसः इत्यध्याहारः ॥ ग्र्ह्त्च्म्_4.19-20:11 ॥
स्तर्त् ग्र्ह्त् 4.21-22
<शुल्वाभ्र:: प्रोदुच्तिओन्>
घनसत्वशुल्बमाक्षिकसमभागनियोजितं तथा मिलितम् ।
तच्छुल्बाभ्रं कथितं चरति रसो जीर्यति क्षिप्रम्

4.22

इति ताप्यशुल्बसहितं घनसत्वं लोहखल्वके मृदितम् ।
चरति रसेन्द्रः काञ्जिकवेतसजम्बीरबीजपूराम्लैः

4.23

*चोम्म्. मुग्धावबोधिनी:
अथ शुल्बाभ्रमाह घनेत्यादि ॥ ग्र्ह्त्च्म्_4.21-22:1 ॥
घनसत्वशुल्बमाक्षिकसमभागनियोजितं घनसत्वम् अभ्रसत्वं शुल्बं ताम्रं माक्षिकं स्वर्णमाक्षिकं समभागेन तुल्यभागेन नियोजितं प्रयुक्तं तन्मिलितं सत् शुल्बाभ्रं कथितम् ॥ ग्र्ह्त्च्म्_4.21-22:2 ॥
अत्र शुल्बं कीदृशं प्रयोज्यं तदाह ।
द्वावर्कौ म्लेच्छनेपालौ रसे नेपाल उत्तमः ।
घनघातसहः स्निग्धो रक्तपत्रोऽमलो मृदुः ॥ ग्र्ह्त्च्म्_4.21-22:3 ॥
म्लेच्छस्तु क्षालितः कृष्णो रूक्षस्निग्धो घनासहः ।
मिश्रितो नागलोहाभ्यां न श्रेष्ठो रसकर्मणि ।
इति अतो नेपालकं ग्राह्यमित्यर्थः ॥ ग्र्ह्त्च्म्_4.21-22:4 ॥
तच्छुल्वाभ्रं रसः क्षिप्रं चरति पुनः क्षिप्रं शीघ्रं तच्छुल्बं जीर्यति जारणमाप्नोति ॥ ग्र्ह्त्च्म्_4.21-22:5 ॥
अत्र माक्षिकयोगः शुल्बाभ्रसत्वमेलनार्थं रसप्रीत्येति भावः ॥ ग्र्ह्त्च्म्_4.21-22:6 ॥
शुल्बाभ्रचारणविधानमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_4.21-22:7 ॥
इति पूर्वोक्तं ताप्यशुल्बसहितं ताप्यं स्वर्णमाक्षिकं शुल्बं ताम्रं नेपालसंज्ञकं ताभ्यां सहितं मिश्रितं घनसत्वं तप्तलोहखल्वके मृदितं कार्यं मर्दनीयं कैः कृत्वा काञ्जिकवेतसजम्बीरबीजपूराम्लैः काञ्जिकमुक्तविधानं सौवीरं वेतसं चुक्रं जम्बीरं प्रसिद्धं बीजपूरो मातुलुङ्गः एतेषामम्लैः द्रवरूपैः ॥ ग्र्ह्त्च्म्_4.21-22:8 ॥
ततः शुल्वाभ्रं रसेन्द्रः पारदश्चरति ग्रसति ॥ ग्र्ह्त्च्म्_4.21-22:9 ॥
लोहखल्वस्य कथनात् तप्तखल्वके मर्दनं कुर्यादिति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_4.21-22:10 ॥
स्तर्त् ग्र्ह्त् 4.23
<भस्मन् (ओf दिff. मेतल्स्):: रञ्जन>
इति तीक्ष्णशुल्बनागं माक्षिकयुक्तं च तत्कृतं खोटम् ।
तद्भस्म च पुटविधिना निर्व्यूढं सत्वरञ्जकं भवति

4.24

*चोम्म्. मुग्धावबोधिनी:
प्रकारान्तरमाह इतीत्यादि ॥ ग्र्ह्त्च्म्_4.23:1 ॥
इति पूर्वोक्तलक्षणं तीक्ष्णशुल्बनागं तीक्ष्णं ताम्रं नागं च एतत्त्रयं माक्षिकयुक्तं स्वर्णमाक्षिकयुतं समं तुल्यभागं कुर्यात् ॥ ग्र्ह्त्च्म्_4.23:2 ॥
तत्कृतं खोटं तैः सर्वैः पिष्टीस्तम्भेन खोटभस्म कार्यम् ॥ ग्र्ह्त्च्म्_4.23:3 ॥
पुटविधिना वह्निपुटविधानेन तत्कृतं खोटं भस्म कार्यं पुनः तद्भस्म सत्वे निर्व्यूढं निर्वाहितं सत् सत्वरञ्जकं भवति खसत्वे अभ्रसत्वे रागदायि भवति रञ्जितं तत्सत्वं रसरञ्जकं भवेदिति ॥ ग्र्ह्त्च्म्_4.23:4 ॥
स्तर्त् ग्र्ह्त् 4.24
चार्यं यत्नेन रसे घनसत्वं तद्विधं घनं तस्य ।
संयोज्य सर्वबीजं निर्वाह्य द्वन्द्वसंकरतः

4.25

*चोम्म्. मुग्धावबोधिनी:
रञ्जितघनसत्वस्य चारणमाह चार्यमित्यादि ॥ ग्र्ह्त्च्म्_4.24:1 ॥
तद्विधं पूर्वरञ्जितं घनसत्वम् अभ्रसत्वं च घनं केवलघनोद्भवं सत्वं अरञ्जितं रसे पारदे चार्यं ग्रासग्रसनमानेनैतद् अभ्रसत्वं रसे संयोज्यम् ॥ ग्र्ह्त्च्म्_4.24:2 ॥
वा सत्वे सर्वबीजं सर्वं रागदायि द्रव्यं संयोज्य निर्वाह्यं निर्वाहितं कुर्यात् ॥ ग्र्ह्त्च्म्_4.24:3 ॥
कुतः द्वन्द्वसंकरतः द्वन्द्वानां संकरो मेलापः सङ्करोऽवकर इत्यमरः ॥ ग्र्ह्त्च्म्_4.24:4 ॥
निर्वाह्यं इति वह प्रापणे इत्यस्य रूपं पूर्ववत् ॥ ग्र्ह्त्च्म्_4.24:5 ॥
निरव्ययं निश्चयार्थं निर्निश्चयनिषेधयोः इत्यमरः ॥ ग्र्ह्त्च्म्_4.24:6 ॥
स्तर्त् ग्र्ह्त् 4.25
अभ्रकचारणमादौ गर्भद्रुतिचारणं च हेम्नोऽन्ते ।
यो जानाति न वादी वृथैव सोऽर्थक्षयं कुरुते

4.26

*चोम्म्. मुग्धावबोधिनी:
अथ रसचारणे ज्ञेयमाह अभ्रकेत्यादि ॥ ग्र्ह्त्च्म्_4.25:1 ॥
यो वादी रसकर्ता आदौ प्रथमं अभ्रचारणं न जानाति यथा रसोऽभ्रकं चरति ग्रसति पुनः तत्पश्चात् गर्भद्रुतिचारणं यद्रसगर्भे द्रुतं द्रवरूपं तिष्ठत्यभ्रादिकं तस्य चारणं ग्रसनं पुनरन्ते हेम्नः स्वर्णस्य चारणं ग्रसनं न जानाति स वृथैव मिथ्यैव अर्थक्षयं धननाशं कुरुते कार्यसिद्धेरभावात् ॥ ग्र्ह्त्च्म्_4.25:2 ॥
सर्वज्ञ एव रसक्रियायां प्रवर्तेतेति भावः ॥ ग्र्ह्त्च्म्_4.25:3 ॥
स्तर्त् ग्र्ह्त् 4.26
<अभ्र:: सत्त्व:: ग्रास:: ओन्ल्य् अभ्र पर्त् इस् "एअतेन्">
गगनग्रासरहस्यं वक्ष्याम्येकं घनार्कसंयोगात् ।
केवलमभ्रकसत्वं ग्रसते यत्नान्न सर्वाङ्गम्

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc