भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 3

3.1

इति परमहंसपरिव्राजकाचार्यश्रीमद्गोविन्दभगवत्पादविरचिते रसहृदयतन्त्रे रसशोधनात्मको द्वितीयोऽवबोधः ॥
*चोम्म्. मुग्धावबोधिनी:
किं द्वितीयमित्याशङ्क्य तं स्पष्टयन्नाह पीतेत्यादि ॥ ग्र्ह्त्च्म्_2.20:1 ॥
आदौ प्रथमं मुखं विधेयम् इत्यध्याहारः पारदस्य मुखं कार्यमित्यर्थः ॥ ग्र्ह्त्च्म्_2.20:2 ॥
ततश्चेत्पीतक्रिया भवन्ति स्वर्णसम्बन्धीनि कार्याणि भवन्ति तदा पीतं स्वर्णं देयम् ॥ ग्र्ह्त्च्म्_2.20:3 ॥
श्वेतक्रियासु श्वेतं देयं श्वेतं तारम् इत्यर्थः ॥ ग्र्ह्त्च्म्_2.20:4 ॥
स्वर्णतारादिकं खल्वे दत्तं कृतमुखो रसश्चरति ॥ ग्र्ह्त्च्म्_2.20:5 ॥
पुनर्निर्मुखो रसः अकृतमुखो रसः खल्वे घृष्टो घर्षितः सन् पूर्वोक्तं चरति भक्षयति ॥ ग्र्ह्त्च्म्_2.20:6 ॥
काभिः सह दिव्यौषधीभिर् वक्ष्यमाणाभिः सह ॥ ग्र्ह्त्च्म्_2.20:7 ॥
यथा पद्यम् ।
सास्यो रसः स्यात्पटुशिग्रुतुत्थैः सराजिकैर् व्योषणकैस् त्रिरात्रम् ।
पिष्टस्ततः स्विन्नतनुः सुवर्णमुखानयं खादति सर्वधातून् ॥ ग्र्ह्त्च्म्_2.20:8 ॥
इति ॥ ग्र्ह्त्च्म्_2.20:9 ॥
निर्मुखश्च अम्लवर्गेण संयुक्तं यथालाभेन मर्दयेत् ।
अभ्रकादींश्च चरते सूतको वासनामुखः ॥ ग्र्ह्त्च्म्_2.20:10 ॥
इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ।
इयतीत्युच्यते यासौ ग्रासमानमितीरितम् ॥ ग्र्ह्त्च्म्_2.20:11 ॥
इति परिभाषा ॥ ग्र्ह्त्च्म्_2.20:12 ॥
इति श्रीमत्कुरलकुलपयोधिसुधाकरमिश्रमहेशात्मजचतुर्भुजमिश्रविरचितायां मुग्धावबोधिन्यां रसहृदयटीकायां रसशोधनात्मको द्वितीयोऽवबोधः ॥ ग्र्ह्त्च्म्_2.20:13 ॥
स्तर्त् ग्र्ह्त् 3.1
घनरहितबीजचारणसम्प्राप्तदलादिलाभकृतकृत्याः ।
कृपणाः प्राप्य समुद्रं वराटिकालाभसंतुष्टाः

3.2

*चोम्म्. मुग्धावबोधिनी:
सुधाकरग्राससत्त्वं पद्माकरसुखावहम् ।
तथा विभूतयश्चास्य सज्जनानन्दकारकाः ॥ ग्र्ह्त्च्म्_3.1:1 ॥
अनेन पद्येन ग्रन्थस्य गुणाधिक्यं संमतत्वं च वर्णयन्नाह घनेत्यादि ॥ ग्र्ह्त्च्म्_3.1:2 ॥
ये एवंविधाः पुरुषास्ते कृपणा एव ॥ ग्र्ह्त्च्म्_3.1:3 ॥
किंविशिष्टाः घनरहितबीजचारणसम्प्राप्तदलादिद्रव्यकृतकृत्याः घनेनाभ्रकेण रहितं वर्जितं यद् बीजचारणम् अन्यधात्वादीनां बीजकवलनं तेन यत्प्राप्तं दलादिद्रव्यं पत्त्ररञ्जनवर्णवृद्धितारकृष्टी मेलापकादिकं वस्तु तेन ये कृतकृत्याः पूर्णाः आत्मानं मन्यन्ते इत्यध्याहारः ॥ ग्र्ह्त्च्म्_3.1:4 ॥
किंविशिष्टाः कृपणाः समुद्रं प्राप्य रत्नाकरं लब्ध्वा वराटिकालाभसंतुष्टाः कपर्दिकालाभेन संतुष्टिं प्राप्तः दरिद्रभावादिति भावः ॥ ग्र्ह्त्च्म्_3.1:5 ॥
तथा एवंविधाः कृपणा इदं शास्त्रं रत्नाकररूपं बहुरत्नं प्राप्य दलादिद्रव्येण कृतकृत्याः ॥ ग्र्ह्त्च्म्_3.1:6 ॥
शास्त्रसमुद्रयोर् गुणरत्नैः साम्यं वराटिकादलादिर्द्रव्ययोः साम्यं तुच्छतया यत उभाव् अपि निकृष्टाव् एव ॥ ग्र्ह्त्च्म्_3.1:7 ॥
यत एतच्छास्त्रं बहुप्रदं मुद्रिकावेधस्पर्शवेधधूमवेधशब्दवेधधाम्यवेधाधाम्यधातुवेधप्रदत्वात् ॥ ग्र्ह्त्च्म्_3.1:8 ॥
स्तर्त् ग्र्ह्त् 3.2
अन्ये पुनर्महान्तो लक्ष्मीकरिराजकौस्तुभादीनि ।
अवधीर्य लब्धवन्तः परामृतं चामरा जाताः

3.3

*चोम्म्. मुग्धावबोधिनी:
पुनरत्र ग्रन्थे गुणाधिक्यशतं च वर्णयन्नाहान्ये इत्यादि ॥ ग्र्ह्त्च्म्_3.2:1 ॥
पुनर् इत्य् अप्रथमविशेषणयोर् इति प्रसादः ॥ ग्र्ह्त्च्म्_3.2:2 ॥
अत्र पुनर्विशेषणे ॥ ग्र्ह्त्च्म्_3.2:3 ॥
अन्ये पूर्वेभ्यो महान्तो वर्तन्ते ॥ ग्र्ह्त्च्म्_3.2:4 ॥
किं कुर्वन्तः परामृतं लब्धवन्तः सन्त अमरा जाता मरणरहिता जीवन्मुक्ता जाता इत्यर्थः ॥ ग्र्ह्त्च्म्_3.2:5 ॥
परं च तदमृतं चेति समासः मोक्षम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.2:6 ॥
किं कृत्वा लक्ष्मीकरिराजकौस्तुभादीनि अवधीर्य अवहेलनं विधाय लक्ष्मीर्हरिप्रिया करिराज ऐरावत इन्द्रवारणः कौस्तुभो हरेर्मणिः इत्यादीनि चतुर्दशरत्नानि ॥ ग्र्ह्त्च्म्_3.2:7 ॥
सताम् अयमेव स्वभावः दरिद्राणां कृपणानां पूर्ववत् ॥ ग्र्ह्त्च्म्_3.2:8 ॥
अत एवैतच्छास्त्रं कृपणमहतां निकषरूपम् ॥ ग्र्ह्त्च्म्_3.2:9 ॥
स्तर्त् ग्र्ह्त् 3.3
क्षारौषधिपट्वम्लैः क्षुद्बोधो रागबन्धने स्वेदात् ।
न पुनः पक्षच्छेदो द्रवत्वं वा विना गगनम्

3.4

*चोम्म्. मुग्धावबोधिनी:
सर्वोत्कृष्टत्वेन गगनग्राससाधनम् आह क्षारेत्यादि ॥ ग्र्ह्त्च्म्_3.3:1 ॥
क्षुद्बोधो रसराजस्य जायते इति शेषः ॥ ग्र्ह्त्च्म्_3.3:2 ॥
कैः कृत्वा क्षारौषधिपट्वम्लैः क्षारौषधयो ऽहिमारादयः पटु सैन्धवम् अम्लम् अम्लवेतसादि एतैः क्षुदुत्पत्तिर् भवेद् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.3:3 ॥
क्षारौषधयो यथा ।
अहिमारमपामार्गे तण्डुलीयकसंयुतम् ।
स्नुह्यर्ककरवीरं च लाङ्गलीक्षीरकन्दौ ॥ ग्र्ह्त्च्म्_3.3:4 ॥
कर्कोटीं कञ्चुकीं तुम्बां पलाशं चाग्निमन्थकम् ।
करीरं चित्रकं शिग्रुं वरुणं वेतसं वटम् ॥ ग्र्ह्त्च्म्_3.3:5 ॥
पटोल्यर्जुनकूष्माण्डकदलीवज्रकन्दकम् ।
अश्वत्थं सूरणं जालीं दहेत् कन्दान् अनेकशः ॥ ग्र्ह्त्च्म्_3.3:6 ॥
अन्तर्धूमेन सर्वांश्च देवदालीं दहेत्तथा ।
औषधिक्षारनामासौ गणस्तु परिकीर्तितः ॥ ग्र्ह्त्च्म्_3.3:7 ॥
इति ॥ ग्र्ह्त्च्म्_3.3:8 ॥
अम्लं यथा ।
अम्लवेतसजम्बीरं लकुचं बीजपूरकम् ।
चाङ्गेरी चणकाम्लं च नारङ्गं तित्तिडी तथा ॥ ग्र्ह्त्च्म्_3.3:9 ॥
अम्बष्ठा करमर्दश्च कपित्थः करणादिकः ।
पञ्चाम्लसंयुतो वा स्यादम्लवर्गः प्रकीर्तितः ॥ ग्र्ह्त्च्म्_3.3:10 ॥
चणकाम्लं च सर्वेषाम् एकमेव प्रशस्यते ।
अम्लवेतसमेकं वा सर्वेषामुत्तमोत्तमम् ॥ ग्र्ह्त्च्म्_3.3:11 ॥
इति ॥ ग्र्ह्त्च्म्_3.3:12 ॥
इत्येतैः क्षारौषधिपट्वम्लैः क्षुद्बोधो भवेत् रागबन्धने च भवेतां रागो रञ्जनं बन्धनं पूर्वम् उपवर्णितम् ॥ ग्र्ह्त्च्म्_3.3:13 ॥
कुतो हेतोः एतैः पूर्वोक्तैः करणरूपैः स्वेदात् ॥ ग्र्ह्त्च्म्_3.3:14 ॥
पुनरिति विशेषणे ॥ ग्र्ह्त्च्म्_3.3:15 ॥
पक्षच्छेदः रसपक्षापकर्तनं यथा स्थिरो भवति द्रव्यत्वं गुणवत्त्वं वा गगनमभ्रकं विना न भवतीत्यर्थः ॥ ग्र्ह्त्च्म्_3.3:16 ॥
स्तर्त् ग्र्ह्त् 3.4
अभ्रकजीर्णो बलवान् भवति रसस्तस्य चारणे प्रोक्ताः ।
संधानवासनौषधिनिर्मुखसमुखा महायोगाः

3.5

*चोम्म्. मुग्धावबोधिनी:
द्रव्यत्वम् अभ्रकेणाहाभ्रकजीर्ण इत्यादि ॥ ग्र्ह्त्च्म्_3.4:1 ॥
बलरहिते अतिक्षुद्बोधे षण्ढता भवेत् ॥ ग्र्ह्त्च्म्_3.4:2 ॥
यथा ।
शीतत्वान्मर्दनाभावाल् लोहाशुद्धस्य जारणात् ।
विडप्रभूतदानाद् वा भुङ्क्ते जीर्णादजीर्णगः ॥ ग्र्ह्त्च्म्_3.4:3 ॥
अत्यग्नितो निराहारात् क्रामणारहितस्य च ।
इत्येता विक्रिया ज्ञेया अष्टभिः षण्ढतां व्रजेत् ॥ ग्र्ह्त्च्म्_3.4:4 ॥
इति ॥ ग्र्ह्त्च्म्_3.4:5 ॥
अतो रसोऽष्टसंस्कारानन्तरम् अभ्रकजीर्णः कर्तव्यः यतोऽभ्रकजीर्णं बलवान् भवति ॥ ग्र्ह्त्च्म्_3.4:6 ॥
अभ्रकजीर्णे ग्रासन्याये न जारितं यस्मिन् स तथोक्तः ॥ ग्र्ह्त्च्म्_3.4:7 ॥
तस्याभ्रजारणायोग्यस्य रसस्य चारणे केवलकवलने एते प्रोक्ताः ॥ ग्र्ह्त्च्म्_3.4:8 ॥
एते के संधानवासनौषधिनिर्मुखसमुखा एव महायोगाः महद्द्रव्यत्वकारकाः संधानं सर्वधान्यानाम् अष्टौषध्यादीनां च संधानं यथा सर्वधान्यानि निक्षिप्य आरनालं तु कारयेत् ॥ ग्र्ह्त्च्म्_3.4:9 ॥
सपत्त्रमूलसंयुक्ता औषधीस्तत्र निःक्षिपेत् ॥ ग्र्ह्त्च्म्_3.4:10 ॥
क्षितिकासीससामुद्रसिन्धुत्र्युषणराजिकैः ।
संयुक्तं कारयेत्तत्तु सोष्मे सप्ताहसंस्थितम् ॥ ग्र्ह्त्च्म्_3.4:11 ॥
तच्चारनालसंयुक्तं ताम्रभाण्डे तु संधयेत् ।
इत्यभ्रकचारणार्थं संधानम् ॥ ग्र्ह्त्च्म्_3.4:12 ॥
वासनौषध्यो यथा ।
विज्ञेयमौषधीवर्गं यथा शास्त्रैरुदाहृतम् ।
जलजं स्थलजं चैव सम्यक् ज्ञात्वा तु कारयेत् ॥ ग्र्ह्त्च्म्_3.4:13 ॥
जलजा उत्पली पद्मा स्थलजा च प्रसारिणी ।
जालिनी अभ्रचन्द्रा च चित्रपर्णी त्रिपर्णिका ।
रसचन्द्रौकसश् चैव तथा च जलमूलकः ।
समङ्गा वारिभूता च अपामार्गो जलोद्भवा ॥ ग्र्ह्त्च्म्_3.4:14 ॥
अजमारी उपाम्बुश्च कुम्भिका जलपिप्पली ।
जलपूर्वाम्बुसीता च कुमारी नागिनी तथा ॥ ग्र्ह्त्च्म्_3.4:15 ॥
सितजङ्घा स्वरश्चैव तथा सर्पः सुगन्धिका ।
वृद्धा च बृहती तद्वन्मूर्तिर् मार्जारपादिका ॥ ग्र्ह्त्च्म्_3.4:16 ॥
तथा जलचकोरी च मीनाक्षी अहिलोचना ।
जयांविच वराही च अपत्त्रा ईश्वरी तथा ॥ ग्र्ह्त्च्म्_3.4:17 ॥
कुर्कुरी हलिनी चैव बृहती वज्रकन्दकम् ।
मुसली वनमाला च विदारी मोहिनी तथा ॥ ग्र्ह्त्च्म्_3.4:18 ॥
माण्डूकी लवणा चैव उग्रा च उत्तमा तथा ।
शिखिपादी कपोती च नन्दिनी वृश्चिकालिका ।
हंसपादी शिखा चैव सारिवा वायसी तथा ।
दन्ती गोजिह्विका चैव गरुडी हेमपुष्पिका ॥ ग्र्ह्त्च्म्_3.4:19 ॥
समङ्गा जलजा चैव मांसी पाषाणभेदिका ।
अलम्बुषा मेघनादा शुकनादा कपोतिकी ॥ ग्र्ह्त्च्म्_3.4:20 ॥
क्षीरिका तुलसी धान्या मेषिका च वनार्जका ।
वाराही चणकायासी तथा च अपराजिता ॥ ग्र्ह्त्च्म्_3.4:21 ॥
चतुःषष्टिगणो ह्य् एष औषधीनां प्रकीर्तितः ।
षष्ठाष्टकप्रयोगेन अवस्थां नैव कारयेत् ॥ ग्र्ह्त्च्म्_3.4:22 ॥
इति ॥ ग्र्ह्त्च्म्_3.4:23 ॥
अयमोषधीगणः संधाने ऽपि योज्यः ॥ ग्र्ह्त्च्म्_3.4:24 ॥
संधानं च वासनौषधयश्च ताभिः कृत्वा ये निर्मुखसमुखा एव योगाः अकृतमुखकृतमुखा इत्यर्थः ॥ ग्र्ह्त्च्म्_3.4:25 ॥
स्तर्त् ग्र्ह्त् 3.5
<अभ्र:: प्रेपरतिओन् fओर् चारण>
निश्चन्द्रिकं हि गगनं क्षाराम्लैर्भावितं तथा रुधिरैः ।
सृष्टित्रयनीरकणातुम्बरुरसमर्दितं चरति

3.6

*चोम्म्. मुग्धावबोधिनी:
निर्मुखत्वेनाभ्रकचारणोपायमाह निश्चन्द्रिकम् इत्यादि ॥ ग्र्ह्त्च्म्_3.5:1 ॥
हि निश्चितं यद्गगनमभ्रकं निश्चन्द्रिकं चन्द्ररहितं भवति वज्रसंज्ञकम् इत्यर्थः तद्गगनं रुचिरैर् निर्दोषैर् मनोरमैर् विविधैः क्षाराम्लैर् भावितं प्लावितं कार्यं क्षारा यवक्षारस्वर्जिक्षारटङ्कणक्षारादयो ऽम्ला अम्लवेतसजम्बीराद्याः पूर्वोक्ताः ॥ ग्र्ह्त्च्म्_3.5:2 ॥
ननु क्षारा रुचिराः कथं भवन्ति उच्यते यथा सर्जिकाचूर्णभागैकं विंशद्भागं जलस्य च ॥ ग्र्ह्त्च्म्_3.5:3 ॥
तावत्क्वाथ्यं क्षिपेद् भाण्डे यावत्फेनं सितं भवेत् ॥ ग्र्ह्त्च्म्_3.5:4 ॥
क्षीणे क्षीणे जलं दत्त्वा श्वेतफेनं च गृह्यते ॥ ग्र्ह्त्च्म्_3.5:5 ॥
तदा तु डेकयन्त्रेण द्रावयेदग्नियोगतः ॥ ग्र्ह्त्च्म्_3.5:6 ॥
त्रिःसप्तवारं कर्तव्यं द्रावणं मूत्रसंयुतम् ॥ ग्र्ह्त्च्म्_3.5:7 ॥
स्वर्जिकाक्षारनामायं द्रावणे परमो मतः ॥ ग्र्ह्त्च्म्_3.5:8 ॥
इति विशेषविधिः ॥ ग्र्ह्त्च्म्_3.5:9 ॥
एवमत्युत्तमाः क्षाराः स्युः सम्पक्वाः हिमाः ॥ ग्र्ह्त्च्म्_3.5:10 ॥
पुनः सृष्टित्रयनीरकणातुम्बरुरसमर्दितं गोऽजाविनारीणां मूत्रं शुक्रं च शोणितं सृष्टित्रयं नीरकणा जलपिप्पली पटुरिति लोके तुम्बुरु प्रतीतं जलकणा च तुम्बरुश्च अनयो रसः सृष्टित्रयं च जलकणातुम्बरुरसश्च ताभ्यां मर्दनं कार्यम् ॥ ग्र्ह्त्च्म्_3.5:11 ॥
रसः पारदः निर्मुखोऽपि एवंविधं गगनं चरति ग्रासीकरोति ॥ ग्र्ह्त्च्म्_3.5:12 ॥
करणं ग्रन्थान्तरेऽस्ति ।
दुग्धत्रयं कुमार्यम्बु गङ्गापुत्रं त्रिमूत्रकम् ।
वटशुङ्गमजारक्तम् एभिर् अभ्रं सुमर्दितम् ॥ ग्र्ह्त्च्म्_3.5:13 ॥
शतधा पुटितं चापि जायते पद्मरागवत् ।
निश्चन्द्रिकं मृतं त्व् अभ्रं वृद्धदेहे रसायनम् ॥ ग्र्ह्त्च्म्_3.5:14 ॥
कामिनीमददर्पघ्नं शस्तं पुंस्त्वोपघातिनाम् ।
इति ॥ ग्र्ह्त्च्म्_3.5:15 ॥
स्तर्त् ग्र्ह्त् 3.6
<मेर्चुर्य्:: अभ्रचारण>
यवचिञ्चिकाम्बुपुटितं तन्मूलशतावरीगदाकुलितम् ।
घनरवशिग्रुपुनर्नवरसभावितमभ्रकं चरति

3.7

*चोम्म्. मुग्धावबोधिनी:
विधानान्तरमाह यवेत्यादि ॥ ग्र्ह्त्च्म्_3.6:1 ॥
पुनरभ्रकं यवचिञ्चिकाम्बुपुटितं कार्यं यवचिञ्चिका प्रतीता यवचिञ्चिकेति लोके तस्या अम्बुद्रवः तेन पुटितम् आतपयोगेन भावितम् ॥ ग्र्ह्त्च्म्_3.6:2 ॥
पुनस्तन्मूलशतावरीगदाकुलितं कार्यं तस्या यवचिञ्चिकाया मूलं तन्मूलं शतावरी शतपाद् गदः कुष्ठः एतैर् आकुलं व्याप्तं परिप्लुतम् ॥ ग्र्ह्त्च्म्_3.6:3 ॥
यदा सरसौषधाभावस् तदायं विधिः यथा ।
शुष्कद्रव्यम् उपादाय स्वरसानाम् असंभवे ।
वारिण्यष्टगुणे साध्यं ग्राह्यं पादावशेषितम् ॥ ग्र्ह्त्च्म्_3.6:4 ॥
इति ॥ ग्र्ह्त्च्म्_3.6:5 ॥
पुनर् घनरवशिग्रुपुनर्नवरसभावितं कार्यं घनरवस् तण्डुलीयकः शिग्रु सौभाञ्जनं सुहिजना इति लोके पुनर्नवा वर्षाभूः प्रतीता एतेषां रसेन भावितं परिप्लुतम् आतपयोगेन शोष्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.6:6 ॥
एवंविधम् अभ्रं रसश् चरति ॥ ग्र्ह्त्च्म्_3.6:7 ॥
निर्मुखेन भावनाशब्देन शतवारं ज्ञातव्यं ग्रन्थान्तरसाम्यात् ॥ ग्र्ह्त्च्म्_3.6:8 ॥
अत्र विशेषः ॥ ग्र्ह्त्च्म्_3.6:9 ॥
सोमवल्लीरसे पिष्ट्वा दापयेच्च पुटत्रयम् ।
सोमवल्लीरसेनैव सप्त वारांश्च भावयेत् ॥ ग्र्ह्त्च्म्_3.6:10 ॥
दापयेन्मृन्मये भाण्डे रसेन संयुतम् ।
मूलं तु शरपुङ्खाया गव्यक्षीरेण घर्षयेत् ।
कल्केन मेलयेत् सूतं गगनं तदधऊर्ध्वगम् ॥ ग्र्ह्त्च्म्_3.6:11 ॥
स्थापयेद्रवितापे तु निर्मुखो ग्रसते क्षणात् ।
जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ग्र्ह्त्च्म्_3.6:12 ॥
इति ॥ ग्र्ह्त्च्म्_3.6:13 ॥
अन्यच्च ।
तिलपर्णीरसं नीत्वा गगनं तेन भावयेत् ।
मर्दनाज्जायते पिष्टी नात्र कार्या विचारणा ॥ ग्र्ह्त्च्म्_3.6:14 ॥
इति ॥ ग्र्ह्त्च्म्_3.6:15 ॥
अन्यच्च ।
मुण्डीनिर्यासके नागं बहुशस्तु निषेचयेत् ।
तेनाभ्रकं तु संयोज्य भूयो भूयः पटे दहेत् ॥ ग्र्ह्त्च्म्_3.6:16 ॥
चित्रकार्द्रकमूलानाम् एकैकेन तु सप्तधा ।
प्लावितव्यं प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ग्र्ह्त्च्म्_3.6:17 ॥
नागमुण्डीरसाक्षिप्तं रसलुङ्गाम्लभावितम् ।
षोडशांशेन दातव्यं दोलायन्त्रे चरेद्रसः ॥ ग्र्ह्त्च्म्_3.6:18 ॥
इति निर्मुखचारणम् ॥ ग्र्ह्त्च्म्_3.6:19 ॥
स्तर्त् ग्र्ह्त् 3.7-9
<आरनाल fओर् जारण>
सर्जीक्षितिखगटङ्कणलवणान्वितम् अर्कभाजने त्रिदिनम् ।
पर्युषितमारनालं गगनादिषु भावने शस्तम्

3.8

तस्मिन्नागं शुद्धं प्रद्राव्य निषेचयेच्छतं वारान् ।
वङ्गं वा तारविधौ रसायने नैव तद्योज्यम्

3.9

गगनरसोपरसामृतलोहरसायसादिचूर्णानि ।
सर्वमनेन ह भाव्यं यत्किंचित् चारणावस्तु

3.10

*चोम्म्. मुग्धावबोधिनी:
समुखचारणमाह सर्जीत्यादि ॥ ग्र्ह्त्च्म्_3.7-9:1 ॥
आरनालं स्वेदनसंस्कारे यदुक्तं काञ्जिकं तत् ॥ ग्र्ह्त्च्म्_3.7-9:2 ॥
अर्कभाजने ताम्रपात्रे ॥ ग्र्ह्त्च्म्_3.7-9:3 ॥
त्रिदिनं यावत्तावत्पर्युषितं संधानीकरणं कुर्यात् ॥ ग्र्ह्त्च्म्_3.7-9:4 ॥
कीदृग्विधम् आरनालं सर्जीक्षितिखगटङ्कणलवणान्वितं सर्जी प्रतीता साजीति लोके क्षितिः स्फटिका खगः कासीसं टङ्कणं सौभाग्यं सोहागा इति लोके लवणं सैन्धवं तदभावे लवणाष्टकेषु यत्र यल्लभ्यं तदेव योज्यं लवणोद्देशः ।
सैन्धवं रुचकं कृष्णं विडं सामुद्रम् औद्भिदम् ।
रोमकं पांशुजं चेति लवणाष्टकम् उच्यते ॥ ग्र्ह्त्च्म्_3.7-9:5 ॥
इति एतैर् अन्वितं मिलितं कुर्यात् ॥ ग्र्ह्त्च्म्_3.7-9:6 ॥
तदारनालं गगनादिकभावने अभ्रकादिप्लावने शस्तं प्रधानम् अभ्रकादिका अग्रे वक्ष्यमाणाः ॥ ग्र्ह्त्च्म्_3.7-9:7 ॥
निर्मुखा समुखा चेति द्विविधा चारणा मता निर्मुखा चारणा प्रोक्ता बीजाधानेन भागतः ॥ ग्र्ह्त्च्म्_3.7-9:8 ॥
शुद्धं स्वर्णं च रूप्यं च बीजम् इत्यभिधीयते ॥ ग्र्ह्त्च्म्_3.7-9:9 ॥
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखम् उच्यते ॥ ग्र्ह्त्च्म्_3.7-9:10 ॥
एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षणे ॥ ग्र्ह्त्च्म्_3.7-9:11 ॥
इयं हि समुखा प्रोक्ता चारणा वरवार्त्तिकैः ।
इति ॥ ग्र्ह्त्च्म्_3.7-9:12 ॥
अभ्रकाद्यपधातूनां निर्मुखचारणं हेमादिधातूनां समुखचारणम् इति विवेको ज्ञेयः ॥ ग्र्ह्त्च्म्_3.7-9:13 ॥
रसायने शरीरकार्ये नागवङ्गौ न चारणीयौ किंतु स्वर्णादिकं बीजं चारणीयम् इति भावः ॥ ग्र्ह्त्च्म्_3.7-9:14 ॥
आदिशब्देन नागवङ्गयोर् अधिकारविशेषम् आह तस्मिन्नित्यादि ॥ ग्र्ह्त्च्म्_3.7-9:15 ॥
तस्मिन् पूर्वोक्तसंधाने शुद्धं निर्मलीकृतं नागं सीसकं प्रद्राव्य जलरूपं विधाय वह्नियोगात् इति शेषः निषेचयेत् निषेकः कर्तव्यः वा तत्रैव संधाने वङ्गं रङ्गं प्रद्राव्य निषेचयेत् ॥ ग्र्ह्त्च्म्_3.7-9:16 ॥
कतिवारान् शतं वारान् प्रतिशतम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.7-9:17 ॥
तद्वङ्गं तारविधौ रूप्यविधाने योज्यं रसेन सह मिलितं कार्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.7-9:18 ॥
आस्याम् आर्यायां स्वर्णाधिकारेऽनुक्तमपि नागं ग्रन्थान्तरात् समायोज्यम् इति विशेषार्थः ॥ ग्र्ह्त्च्म्_3.7-9:19 ॥
तन्नागं वङ्गं च रसायने शरीरसिद्धिनिमित्तं न योज्यमिति यतो नागवङ्गप्रभवाव् औपाधिकौ दोषौ गलबन्धगुल्मदौ कथितौ एतन्नागं वङ्गं च ग्रासार्थे योज्यमिति युक्तं यत एतेनान्तर्गतेनान्यदपि ग्राह्यं द्रव्यं ग्रसतीति भावः ॥ ग्र्ह्त्च्म्_3.7-9:20 ॥
वङ्गे विशेषः ।
खुरकं मिश्रकं चेति द्विविधं वङ्गम् उच्यते ।
खुरकं गुणतः श्रेष्ठं मिश्रकं न रसे हितम् ॥ ग्र्ह्त्च्म्_3.7-9:21 ॥
इति रजतकर्मणि योग्यं ग्राह्यम् ॥ ग्र्ह्त्च्म्_3.7-9:22 ॥
गगनादिक्रमं स्पष्टयन्न् आह गगनेत्यादि ॥ ग्र्ह्त्च्म्_3.7-9:23 ॥
अनेन पूर्वोक्तसंधानेन सर्वं सकलं भाव्यं भावितं कुर्यात् ॥ ग्र्ह्त्च्म्_3.7-9:24 ॥
सर्वमिति किं गगनरसोपरसामृतलोहरसायसादिचूर्णानि ॥ ग्र्ह्त्च्म्_3.7-9:25 ॥
गगनमभ्रकं वज्रसंज्ञिकं रसा महारसा हिङ्गुलस्वर्णमाक्षिकरूप्यमाक्षिकशिलाजतुचपलचुम्बकवैक्रान्तखर्परगैरिकस्फटिककासीससंज्ञका अमृतं विषं वा अमृतलोहा न मृता अमृता अमृताश्च ते लोहाश् च धावत इति रसाः पूर्वोक्ताः आयसा लोहास् तेषां संयोगजानि यानि चूर्णानि कल्कानि शुल्बाभ्रादीनि ॥ ग्र्ह्त्च्म्_3.7-9:26 ॥
आदिशब्दाद् उपरसानाम् अपि ग्रहणम् ॥ ग्र्ह्त्च्म्_3.7-9:27 ॥
न केवलमेतान्येव संधानेन भाव्यानि किंत्वन्यद् अपि यत् किंचिच् चारणावस्तु चारणयोग्यं द्रव्यरत्नादिकं तदप्येतेन संधानेन भाव्यं चारणार्थम् ॥ ग्र्ह्त्च्म्_3.7-9:28 ॥
स्तर्त् ग्र्ह्त् 3.10
आदौ खल्वे मृदितां पिष्टीं हेम्नश्च तां रसश्चरति ।
तारस्य तारकर्मणि दत्त्वा सूते ततो गगनम्

3.11

*चोम्म्. मुग्धावबोधिनी:
स्वर्णरूप्ययोरधिकारविशेषम् आहादाव् इत्यादि ॥ ग्र्ह्त्च्म्_3.10:1 ॥
ततोऽनन्तरं हेम्नः स्वर्णस्य पिष्टीं खल्वे मृदितां वक्ष्यमाणेन इति शेषः ॥ ग्र्ह्त्च्म्_3.10:2 ॥
तां पिष्टीं रसश्चरति ॥ ग्र्ह्त्च्म्_3.10:3 ॥
किं कृत्वा पिष्टीं दद्यात् आदौ प्रथमतः सूतेश्वरे गगनमभ्रकं दत्त्वा ॥ ग्र्ह्त्च्म्_3.10:4 ॥
हेम्नोऽधिकारो दर्शितः ॥ ग्र्ह्त्च्म्_3.10:5 ॥
हेमकर्मणि हेमैव तारकर्मणि तारमेव दद्यात् ॥ ग्र्ह्त्च्म्_3.10:6 ॥
हेम्नि विशेषः ।
स्वर्णं पञ्चविधं प्रोक्तं प्राकृतं सहजाग्निजम् ।
एतत्स्वर्णत्रयं चैव योज्यं षोडशवर्णकम् ॥ ग्र्ह्त्च्म्_3.10:7 ॥
खनिजं रसवादोत्थं सुपत्त्रीकृतशोधितम् ।
तच्चतुर्दशवर्णाढ्यं मनुजानां रुजापहम् ॥ ग्र्ह्त्च्म्_3.10:8 ॥
इति ॥ ग्र्ह्त्च्म्_3.10:9 ॥
तारेऽपि विशेषः ।
कैलासे सहजं रूप्यं खनिजं कृत्रिमं तथा ।
व्युत्क्रमेण गुणैः श्रेष्ठं नागोत्तीर्णे रसे हितम् ॥ ग्र्ह्त्च्म्_3.10:10 ॥
इति ॥ ग्र्ह्त्च्म्_3.10:11 ॥
तारमपि पूर्ववर्णं चार्यम् ॥ ग्र्ह्त्च्म्_3.10:12 ॥
स्तर्त् ग्र्ह्त् 3.11
त्रुटिशो दत्त्वा मृदितं सारे खल्वे ऽभ्रहेमलोहादि ।
चरति रसेन्द्रः क्षितिखगवेतसबीजपूराम्लैः

3.12

*चोम्म्. मुग्धावबोधिनी:
पिष्टीमर्दने पात्रौषधान्याह त्रुटिश इत्यादि ॥ ग्र्ह्त्च्म्_3.11:1 ॥
अभ्रहेमलोहादीनि अभ्रमभ्रकं प्रतीतं हेम कनकं तदेव लोहः अभ्रकं च हेमलोहश्च ताव् आदी यस्य तत् ॥ ग्र्ह्त्च्म्_3.11:2 ॥
एवंविधं द्रव्यं क्षितिखगवेतसबीजपूराम्लैः क्षितिश्च खगश् च वेतसं च बीजपूरश् च क्षितिखगबीजपूराः बीजपूरो मातुलुङ्गः तेषां त्रयाणामम्लाः तैर् मृदितं घर्षितं सत् रसेन्द्रश् चरति ॥ ग्र्ह्त्च्म्_3.11:3 ॥
किं कृत्वा मृदितं त्रुटिशो ऽल्पमात्रं दत्त्वा ॥ ग्र्ह्त्च्म्_3.11:4 ॥
कस्मिन् सारे खल्वे ॥ ग्र्ह्त्च्म्_3.11:5 ॥
सारस्य तीक्ष्णजातस्यायं सारस्तस्मिन्नेवंविधे ॥ ग्र्ह्त्च्म्_3.11:6 ॥
सारे विशेषः ।
मुण्डं तीक्ष्णं तथा कान्तं भेदास्तस्य त्रयोदश ।
मृदु कुण्ठं च कडारं त्रिविधं मुण्डमुच्यते ॥ ग्र्ह्त्च्म्_3.11:7 ॥
खरसारं च हन्नालं तारावर्तं विडं तथा ।
काललोहं गजाख्यं च षड्विधं तीक्ष्णमुच्यते ॥ ग्र्ह्त्च्म्_3.11:8 ॥
कान्तं लोहं चतुर्धोक्तं रोमकं भ्रामकं तथा ।
चुम्बकं द्रावकं चेति गुणास् तस्योत्तरोत्तराः ॥ ग्र्ह्त्च्म्_3.11:9 ॥
इति ॥ ग्र्ह्त्च्म्_3.11:10 ॥
खल्वो यथा ।
खल्वोऽश्माद्यो निरुद्गारो द्विर् अङ्गुलकटाहकः ।
अष्टाङ्गुलावटी कार्या दीर्घा वा वर्तुला तथा ॥ ग्र्ह्त्च्म्_3.11:11 ॥
द्वादशाङ्गुलदीर्घेण मर्दकश् चतुरङ्गुलः ।
मुखं वृत्तं तु कर्तव्यं दर्पणोदरसंनिभम् ॥ ग्र्ह्त्च्म्_3.11:12 ॥
इति ॥ ग्र्ह्त्च्म्_3.11:13 ॥
अश्माद्य इति अश्मलोहार्काणां ज्ञातव्यः ॥ ग्र्ह्त्च्म्_3.11:14 ॥
स्तर्त् ग्र्ह्त् 3.12-13
समुखं निर्मुखमथवा तुल्यं द्विगुणं चतुर्गुणं वापि ।
अष्टगुणं षोडशगुणमथवा द्वात्रिंशतागुणितम्

3.13

इति पत्त्राभ्रकम् उक्तं तेन विधानेन चारयेत्सूतम् ।
<चारण>
ग्रासः पिष्टी गर्भस्त्रिलक्षणा चारणा भवति

3.14

*चोम्म्. मुग्धावबोधिनी:
धात्वादीनां चारणायां परिमाणमाह समुखम् इत्यादि ॥ ग्र्ह्त्च्म्_3.12-13:1 ॥
इति पूर्वोक्तं पत्त्राभ्रकम् उक्तं पत्त्राभ्रकचारणम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.12-13:2 ॥
समुखं मुखसहितं चारणं भवतु वाथ निर्मुखं मुखवर्जितं चारणं भवतु उभयत्रापि तुल्यं समानं सूतं चारयेत् धात्वादीनिति शेषः ॥ ग्र्ह्त्च्म्_3.12-13:3 ॥
अत्र विकल्पो द्विगुणं सूताद् द्विगुणितं चारयेद् वा चतुर्गुणितं सूताच्चतुर्गुणितं वा अष्टगुणं सूतादष्टगुणितं वा षोडशगुणं सूतात् षोडशगुणितं वा द्वात्रिंशतागुणितं सूताद् द्वात्रिंशद्गुणितं चारयेत् ॥ ग्र्ह्त्च्म्_3.12-13:4 ॥
तेन विधानेन पूर्वोक्तेन विधानेन त्रुटिशो दत्त्वेत्यादिना ॥ ग्र्ह्त्च्म्_3.12-13:5 ॥
चारणा त्रिलक्षणा भवति त्रीणि लक्षणानि चिह्नानि यस्यां सा तथोक्ता ॥ ग्र्ह्त्च्म्_3.12-13:6 ॥
कथं ग्रासः अभ्रकस्य ग्रासनं निर्मुखत्वेन समुखत्वेन वापरा पिष्टी रसेनाभ्रादेर् मेलनं पुनर्गर्भो रसस्य गर्भे रसरूपं गगनं तिष्ठतीति ॥ ग्र्ह्त्च्म्_3.12-13:7 ॥
श्लोकद्वयान्वयसम्बन्धाद् युग्मम् ॥ ग्र्ह्त्च्म्_3.12-13:8 ॥
स्तर्त् ग्र्ह्त् 3.14-15
<wरोन्ग् इदेअस् अबोउत् जारण>
दोलनविधिना यैर् अपि नानाविधभङ्गसंस्कृतं गगनम् ।
चारणविधौ प्रदिष्टं दृष्टं नोद्धूयमानं तैः

3.15

अन्ये ऽपि तुच्छमतयो गन्धकनिष्पिष्टिशुल्बपिष्टिरजः ।
दोलनविधिनोद्धूतं रसजीर्णं तदिति मन्यन्ते

3.16

*चोम्म्. मुग्धावबोधिनी:
इति गगनादिग्रासप्रमाणं कथितम् अथ चारणाविधानमाह दोलनविधिनेत्यादि ॥ ग्र्ह्त्च्म्_3.14-15:1 ॥
गगनमभ्रकं यैर् औषधैः पिष्टं पेषितं भवति तैर् एवौषधैर् नाल्पमानैर् बहुमानैर् नानाविधभङ्गसंस्कृतं कुर्यादिति शेषः ॥ ग्र्ह्त्च्म्_3.14-15:2 ॥
नानाविधा अनेकप्रकारा ये भङ्गास् तरंगा आगमाब्धिजातास् तैः संस्कृतम् उपस्कृतम् ॥ ग्र्ह्त्च्म्_3.14-15:3 ॥
किंविशिष्टं गगनं मारणविधिना पञ्चत्वविधानेन उद्दिष्टम् उद्देशितम् ।
एवंविधम् अपि गगनं दोलनविधिना चारणायां योज्यमिति भावः ॥ ग्र्ह्त्च्म्_3.14-15:4 ॥
अधुनाल्पमतीनां मतम् आहान्य इत्यादि ।
अन्ये महद्भ्यो ऽपरे तुच्छमतयस् तुच्छा स्तोका मतिर्बुद्धिर्येषां ते तथोक्ताः अल्पबुद्धय इति यावत् ॥ ग्र्ह्त्च्म्_3.14-15:5 ॥
रसं जीर्णं जारणसंस्कारोपपन्नं रसं मन्यन्ते इति ॥ ग्र्ह्त्च्म्_3.14-15:6 ॥
किं गन्धकनिष्पिष्टिशुल्बपिष्टिरजो गन्धकेन या निष्पिष्टिः पिष्टीभूता शुल्बेन या पिष्टिः पिष्टीभूता ताम्रपिष्टीत्यर्थः गन्धकनिष्पिष्टिश्च शुल्बपिष्टिश्च तयोर्यद्रजः पांशुः गन्धकपिष्टी यथा ।
गन्धपाषाणचूर्णं च चणकस्य रसेन तु ।
भावयेत्सप्तवारं तु स्त्रीरक्तेन च सप्तधा ॥ ग्र्ह्त्च्म्_3.14-15:7 ॥
शुद्धसूतं पलैकं तु खर्परे दापयेत्ततः ।
भावितं गन्धकं दद्यान्नरपिण्डेन संयुतम् ॥ ग्र्ह्त्च्म्_3.14-15:8 ॥
दोलायन्त्रेऽपि तापेन पिष्टिका भवति क्षणात् ॥ ग्र्ह्त्च्म्_3.14-15:9 ॥
इति ॥ ग्र्ह्त्च्म्_3.14-15:10 ॥
एव शुल्बपिष्ट्यपि जायते ॥ ग्र्ह्त्च्म्_3.14-15:11 ॥
किम्भूतं गन्धकनिष्पिष्टिशुल्बपिष्टिरजः दोलनविधिनोद्भूतं दोलिकायन्त्रविधानेनोत्पन्नम् ॥ ग्र्ह्त्च्म्_3.14-15:12 ॥
इति यदुक्तं तदसमञ्जसमिति भावः ॥ ग्र्ह्त्च्म्_3.14-15:13 ॥
स्तर्त् ग्र्ह्त् 3.16
<गोलकमुख>
तैलादिकतप्तरसे हाटकतारादिगोलकमुखेन ।
चरति घनं रसराजो हेमादिभिर् एति पिण्डत्वम्

3.17

*चोम्म्. मुग्धावबोधिनी:
समुखचारणान्तर्भूतं वासनामुखचारणं दर्शयन्नाह तैलेत्यादि ॥ ग्र्ह्त्च्म्_3.16:1 ॥
रसराजः पारदो हाटकतारादि स्वर्णरूप्यादि धातुद्रव्यं कृत्रिमाकृत्रिमात्मकनवसंख्याकं पूर्वमुक्तं चरति भक्षति ॥ ग्र्ह्त्च्म्_3.16:2 ॥
केन गोलकमुखेन ॥ ग्र्ह्त्च्म्_3.16:3 ॥
गोलकश्च मुखविशेषः तेन विडस्य गोलकेनेत्यर्थः ॥ ग्र्ह्त्च्म्_3.16:4 ॥
क्व सति तैलादिकतप्तरसे सति ॥ ग्र्ह्त्च्म्_3.16:5 ॥
तैलम् आदिः येषां ते तैलादिकास् तैलवसामूत्रशुक्रपुष्पाः एतैस्तप्तो यो रस उष्णत्वं नीतो यो ऽसौ पारदस्तस्मिन् सत्येवं घनमभ्रकं चरति रसेन्द्रः ॥ ग्र्ह्त्च्म्_3.16:6 ॥
पुनर्हेमादिभिर्नवकैर्ग्रासीकृतैः पिण्डत्वमेति निबिडत्वं प्राप्नोति ॥ ग्र्ह्त्च्म्_3.16:7 ॥
तैलानि यथा ।
कङ्गुणीतुम्बिनीघोषाकरञ्जश्रीफलोद्भवम् ।
कटुवातारिसिद्धार्थसोमराजीविभीतजम् ॥ ग्र्ह्त्च्म्_3.16:8 ॥
अतसीजं महाकालीनिम्बजं तिलजं तथा ।
अपामार्गो देवदाली दन्तीतुम्बरुविग्रहाः ॥ ग्र्ह्त्च्म्_3.16:9 ॥
अङ्कोलोन्मत्तभल्लातफलेभ्यस् तैलसम्भवः ।
इति ॥ ग्र्ह्त्च्म्_3.16:10 ॥
वसा यथा ।
अजोष्ट्रखरमेषाणां महिषस्य वसा तथा ।
इति ॥ ग्र्ह्त्च्म्_3.16:11 ॥
मूत्रपुष्पशुक्राणि यथा ।
मूत्राणि हस्तिकरभमहिषीखरवाजिनाम् ।
स्त्रियः पुंसस् तथा मूत्रं पुष्पं वीर्यं च योजयेत् ।
इति ॥ ग्र्ह्त्च्म्_3.16:12 ॥
स्तर्त् ग्र्ह्त् 3.17
<मुख:: शुकपिच्छमुख>
अन्ये स्वच्छं कृत्वा शुकपिच्छमुखेन चारयन्ति घनम् ।
सिद्धोपदेशविधिना आशितग्रासे न शुष्केण

3.18

*चोम्म्. मुग्धावबोधिनी:
तस्मिन्नभिप्राये ऽन्यमतम् आहान्य इत्यादि ॥ ग्र्ह्त्च्म्_3.17:1 ॥
एके उक्तविधानेन चारणां कुर्वन्ति अन्ये अपरे रसं पारदं स्वच्छं कृत्वा स्वेदनाद्यष्टसंस्कारोपसंस्कृतं विधाय वा हिङ्गुलोत्थं घनम् अभ्रकं चारयन्ति अभ्रकस्य चारणां कुर्वन्ति ॥ ग्र्ह्त्च्म्_3.17:2 ॥
केन शुकपिच्छमुखेन शुकपिच्छं संधानविशेषः मुखं विशेषो येषां संधानानां तेन ॥ ग्र्ह्त्च्म्_3.17:3 ॥
क्व सति चारयन्ति आशितग्रासे सति भुक्तकवले सति पुनश् चार्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.17:4 ॥
केन सिद्धोपदेशविधिना सिद्धा रससिद्धा नित्यनाथवीरनाथादयः पूर्वोक्ताः तेषां य उपदेशविधिस् तेन ॥ ग्र्ह्त्च्म्_3.17:5 ॥
न शुष्केण संधानेनार्द्रीभावात् नीरसतां प्राप्तेन पुनश्चारणा न स्यात् ॥ ग्र्ह्त्च्म्_3.17:6 ॥
शुकपिच्छं यथा ।
भस्मक्षारान् सुशुष्कांस्तु क्षारांश्च लवणानि च ।
आलोड्य ह्य् अम्लवर्गेण शुल्बभाण्डे निधापयेत् ॥ ग्र्ह्त्च्म्_3.17:7 ॥
यावच्च शुकपिच्छाभमभ्रकं तेन भावयेत् ।
ग्रसते तत्क्षणात्सूतो गोलकस्तु विधीयते ॥ ग्र्ह्त्च्म्_3.17:8 ॥
इति ॥ ग्र्ह्त्च्म्_3.17:9 ॥
स्तर्त् ग्र्ह्त् 3.18
<मेर्चुर्य्:: चारण>
अथवा माक्षिकगगनं समभागं पटुयुतं पक्वम् ।
प्रक्षिप्य लोहपात्रे स्वेदान्तश्चरति कृष्णाभ्रम्

3.19

*चोम्म्. मुग्धावबोधिनी:
अन्यमताभिप्राये प्रकारान्तरम् आहाथवेत्यादि ॥ ग्र्ह्त्च्म्_3.18:1 ॥
पूर्वोक्तं विधानं कुर्यात् अथवा पक्षान्तरे इदं वक्ष्यमाणं कुर्यात् ॥ ग्र्ह्त्च्म्_3.18:2 ॥
माक्षिकगगनमिति माक्षिकेन युक्तं गगनम् अभ्रकं समभागं द्वयं तुल्यभागं पुटितं भावितं यत् पटु सैन्धवं लवणं शास्त्रान्तरसाम्याद् अम्लवर्गेण पुटितं तेन युतं मिलितं सत् पक्वं वह्निपुटितं कुर्यात् इति शेषः ॥ ग्र्ह्त्च्म्_3.18:3 ॥
किं कृत्वा लोहपात्रे मुण्डादिभाजने प्रक्षिप्य मध्ये स्थाप्य ॥ ग्र्ह्त्च्म्_3.18:4 ॥
एवंविधं कृष्णाभ्रं स्वेदान्तर्वह्नितापमध्ये रसः पारदश् चरति ग्रसति माक्षिकसंयोगात् क्षिप्रम् इति भावः ॥ ग्र्ह्त्च्म्_3.18:5 ॥
स्तर्त् ग्र्ह्त् 3.19
तं प्रवक्ष्याम्युपदेशं गन्धाभ्रकसंप्रवेशनं येन ।
पक्षछिन्नश् च रसो योग्यः स्याद् रसरसायनयोः

3.20

*चोम्म्. मुग्धावबोधिनी:
उपदेशविधानमाह तम् इत्यादि ।
येनोपदेशेन गन्धाभ्रकप्रवेशनं गन्धपाषाणसंयोगाद् यदभ्रप्रवेशेन भवति अभ्रस्य पारदान्तःप्रवेशो भवति तमुपदेशमहं कविर् वक्ष्यामि कथयिष्ये ॥ ग्र्ह्त्च्म्_3.19:1 ॥
अतिसामीप्याद् वर्तमान एव ऌट् ॥ ग्र्ह्त्च्म्_3.19:2 ॥
तु पुनः ॥ ग्र्ह्त्च्म्_3.19:3 ॥
पक्षछिन्नश्च रसो रसरसायनयोर् योग्यः रसे ज्वरादिरोगनाशके ज्वराङ्कुशादौ रसायने च जराव्याधिनाशने प्रयोगे योग्यः समर्थः ॥ ग्र्ह्त्च्म्_3.19:4 ॥
यथा मञ्जर्याम् ।
मारितो देहशुद्ध्यर्थं मूर्छितो व्याधिनाशनः ।
रसभस्म क्वचिद्रोगे देहार्थे मूर्छितं क्वचित् ॥ ग्र्ह्त्च्म्_3.19:5 ॥
बद्धं द्वाभ्यां प्रयुञ्जीत शास्त्रदृष्टेन कर्मणा ॥ ग्र्ह्त्च्म्_3.19:6 ॥
इति ॥ ग्र्ह्त्च्म्_3.19:7 ॥
गन्धाभ्रकप्रवेशेन पक्षछिन्नो ऽचलो भवेद् इति भावः ॥ ग्र्ह्त्च्म्_3.19:8 ॥
स्तर्त् ग्र्ह्त् 3.20
<सुल्fउर्:: स्पेचिअल् रोले इन् अल्छेम्य्>
रसराजरागदायी बीजानां पाकजारणसमर्थः ।
सूतकपक्षच्छेदी रसबन्धे गन्धको ऽभिहितः

3.21

*चोम्म्. मुग्धावबोधिनी:
गन्धकं विशेषयन्नाह रसराजेत्यादि ॥ ग्र्ह्त्च्म्_3.20:1 ॥
रसबन्धने पारदबन्धने गन्धको ऽभितः लेलिनकः सर्वोत्कृष्टः ॥ ग्र्ह्त्च्म्_3.20:2 ॥
कुतो यतः सूतकपक्षच्छेदी गन्धकः सूतस्य पारदस्य पक्षौ छिनत्ति ॥ ग्र्ह्त्च्म्_3.20:3 ॥
पुनः कुतो रसराजरागदायी रसराजः पारदः तस्य रागं रञ्जनं ददातीति ॥ ग्र्ह्त्च्म्_3.20:4 ॥
पुनः कुतो बीजानां पाकजारणसमर्थः पाकश्च जारणं च पाकजारणे ॥ ग्र्ह्त्च्म्_3.20:5 ॥
स्तर्त् ग्र्ह्त् 3.21-25
<मेर्चुर्य्:: मारण, पक्षछेद>
दत्त्वा खल्वे त्रुटिशो गन्धकम् आदौ रसं च त्रुटिशोऽपि ।
तावच्च मर्दनीयं यावत्सा पिष्टिका भवति

3.22

तदनु च द्रुतबलिवसया समभागनियोजितं तथा गगनम् ।
त्रुटिशो रसं च दत्त्वा कुर्वीत यथेप्सितां पिष्टिम्

3.23

सापि च दीप्तैरुपलैर्निपात्यते ऽधो ऽथ दीपिकायन्त्रे ।
तदनु च निर्मुक्तमलो निकृन्तपक्षो ऽभ्रगन्धाभ्याम्

3.24

भस्माकारश् च रसो हेम्ना सह युज्यते स च द्वंद्वे ।
गन्धकाभ्रकाभ्यां रसपक्षापकर्तनं यथा स्यात्तथाह दत्त्वेत्यादि ॥ ग्र्ह्त्च्म्_3.21-23:1 ॥
आदौ प्रथमं खल्वे लोहार्काश्ममये गन्धकं त्रुटिशो दत्त्वा अल्पमात्रं वारं वारं गन्धरसौ दत्त्वा तावन्मर्दनीयं यावत् सा पिष्टिका एकशरीरता भवति कज्जलिकेति व्यक्तार्थः ॥ ग्र्ह्त्च्म्_3.21-23:2 ॥
तदनु तत्पश्चात् रसगन्धकपिष्टीकरणानन्तरं तत्र रसगन्धकपिष्ट्या गगनम् अभ्रकं समभागनियोजितं गन्धरसाभ्यां तुल्यांशं मिलितं कार्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_3.21-23:3 ॥
कया कृत्वा द्रुतबलिवसया द्रुता द्रवीभूता या बलिवसा भेकमत्स्यकर्कटशिशुमाराणां तैलरूपा शरीरजाता तया ॥ ग्र्ह्त्च्म्_3.21-23:4 ॥
समभागाभ्रकनियोजनानन्तरं बलिवसया मर्दनं कार्यमिति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_3.21-23:5 ॥
बलिवसा यथा ।
भेकमत्स्यभवा या तु कर्कटस्य वसाथवा ।
भाव्यम् एभिः क्रमाद्गन्धं शिशुमारवसापि वा ॥ ग्र्ह्त्च्म्_3.21-23:6 ॥
एतास्वेका बलिवसा सम्यक् सूतस्य बन्धिनी ।
रञ्जनं चैव कुरुते मणिमूषविधिक्रमात् ॥ ग्र्ह्त्च्म्_3.21-23:7 ॥
एषा बलिवसा नाम क्षणाद्बध्नाति सूतकम् ।
इति ॥ ग्र्ह्त्च्म्_3.21-23:8 ॥
रसगन्धाभ्रपिष्टिं कुर्वीतेत्यर्थः ॥ ग्र्ह्त्च्म्_3.21-23:9 ॥
सा पूर्वोक्ता रसगन्धाभ्रपिष्टिर् अथेत्यनन्तरं दीपिकायन्त्रे ऽधःपातने रसो निर्मुक्तमलस् त्यक्तदोषो भवति ॥ ग्र्ह्त्च्म्_3.21-23:10 ॥
तस्मिन्निर्मुक्तमले सति निकृन्तपक्षः छिन्नपक्षो भवति ॥ ग्र्ह्त्च्म्_3.21-23:11 ॥
काभ्याम् अभ्रगन्धाभ्याम् अभ्रं च गन्धश्च अभ्रगन्धौ ताभ्यां गन्धकान्तः संयोगात् सुखं रसाभ्रपिष्टिर्भवेत् यतो गन्धको द्वंद्वमेलनसमर्थः किं पुनर्बलिवसयेति तृतीयश्लोकार्थः ॥ ग्र्ह्त्च्म्_3.21-23:12 ॥
कुलकम् इति ॥ ग्र्ह्त्च्म्_3.21-23:13 ॥
पूर्वसंस्कृतरसस्याकारं कार्यान्तरसम्पत्तिं चाह भस्मेत्यादि ॥ ग्र्ह्त्च्म्_3.21-23:14 ॥
च पुनः ॥ ग्र्ह्त्च्म्_3.21-23:15 ॥
ततोऽधःपातनाद् रसो भस्माकारो भस्मसदृशो भवेत् ॥ ग्र्ह्त्च्म्_3.21-23:16 ॥
स च भस्माकारो रसः हेम्ना स्वर्णेन सार्धम् उभयमेलने युज्यते कर्मविदा इति शेषः ॥ ग्र्ह्त्च्म्_3.21-23:17 ॥
अथवा समुच्चये अव्ययो रेकार्थसम्बन्धात् पक्षान्तरे च ॥ ग्र्ह्त्च्म्_3.21-23:18 ॥
स्तर्त् ग्र्ह्त् 3.24-25
<मेर्चुर्य्:: मारण, चोम्पोउन्द् wइथ् गोल्द्>
अथवा गन्धकपिष्टिं पक्त्वा द्रुतगन्धकस्य मध्ये तु

3.25

सा चापि हेमपिष्टिर्विपच्यते गन्धके भूयः ।
इत्थं हेम्ना सूतो मिलति द्वंद्वे तथा क्षणान्म्रियते

3.26

*चोम्म्. मुग्धावबोधिनी:
अथवा हेम्ना सह पूर्वरसविधानेन गन्धपिष्टिं कुर्यात् अथवा द्रुतगन्धकस्य द्रवीभूतगन्धकस्य मध्ये पक्त्वा वह्नियोगेन सुपक्वं कृत्वा रसं पिष्टिवत् रसहेमगन्धपिष्टिं कुर्यादित्यर्थः ॥ ग्र्ह्त्च्म्_3.24-25:1 ॥
पूर्वोद्दिष्टस्य द्वंद्वमेलनस्य विधानमाह सेत्यादि ॥ ग्र्ह्त्च्म्_3.24-25:2 ॥
च पुनः ॥ ग्र्ह्त्च्म्_3.24-25:3 ॥
सा पूर्वोक्ता हेमपिष्टिः रसहेमगन्धकृतरेतसोः सम्बन्धः सदातनः ॥ ग्र्ह्त्च्म्_3.24-25:4 ॥
हेम्ना मिलिता या पिष्टिमेलनविशेत् सा हेमपिष्टी भूयः पुनः गन्धके विपच्यते युक्त्या पाकः कार्यः पूर्ववद् गन्धके ॥ ग्र्ह्त्च्म्_3.24-25:5 ॥
इत्थम् उक्तविधानेन हेम्ना सह सूतः पारदो मिलति ग्रन्थिमेति क्व सति द्वंद्वे सति उभयसंयोगे सति ॥ ग्र्ह्त्च्म्_3.24-25:6 ॥
तथोक्तविधानेन द्वंद्वे मिलति सति तत्कालाद् अल्पकालतो म्रियते पञ्चत्वमुपयाति ॥ ग्र्ह्त्च्म्_3.24-25:7 ॥
अल्पक्रियान्तरकरणान्मृतो भवतीति भावः ॥ ग्र्ह्त्च्म्_3.24-25:8 ॥
इति पक्षच्छेदविधिः ॥ ग्र्ह्त्च्म्_3.24-25:9 ॥
स्तर्त् ग्र्ह्त् 3.26
इतरे पक्षच्छेदं द्वंद्वे रसमारणं न वाञ्छन्ति ।
बीजानामपि पाकं हृष्यन्ति च तदनु तप्यन्ति

3.27

*चोम्म्. मुग्धावबोधिनी:
एतावता रसपक्षकर्तनेन नालं भवितव्यमित्याह इतरे इत्यादि ॥ ग्र्ह्त्च्म्_3.26:1 ॥
ये पुरुषा इति उक्तविधानेन पक्षच्छेदं रसपक्षापकर्तनं वाञ्छन्ति पुनः द्वंद्वे रसमारणं द्वंद्वेन पूर्वोक्तेन रसहेमगन्धकेन कृत्वा यद्रसमारणं तन्न वाञ्छन्ति पुनर्बीजानामपि रक्ताभ्रहेमरसकादीनामपि पाकं वह्नियोगेन सुपक्वकरणं न वाञ्छन्ति ते पुरुषाः पूर्वं पक्षच्छेदं ज्ञात्वा हृष्यन्ति हर्षयुक्ता भवन्ति पक्षच्छेदं विनान्यकार्यसिद्धिं ज्ञात्वेत्यर्थस् तदनु च कार्यासिद्धौ तप्यन्ति परितापयुक्ता भवन्ति ॥ ग्र्ह्त्च्म्_3.26:2 ॥
स्तर्त् ग्र्ह्त् 3.27
इत्थमनेकदोषैर्बहुश्रमैर्गगनचारणं मत्वा ।
निर्दिश्यते प्रकारः कर्मणि शास्त्रेऽपि संवादी

3.28

*चोम्म्. मुग्धावबोधिनी:
गगनचारणं निर्दिश्यान्यसंस्कारं स्तुवन्नाह इत्थमित्यादि ॥ ग्र्ह्त्च्म्_3.27:1 ॥
मया ग्रन्थकर्त्रा अस्मिन् शास्त्रे कर्मण्यति संवादी प्रकारः अग्रिमप्रकरणे सत्त्वनिष्कासनरूपः निर्दिश्यते निर्देशः क्रियते ॥ ग्र्ह्त्च्म्_3.27:2 ॥
संवेद्यते संस्क्रियते संस्कारविद्भिरिति संवादी ॥ ग्र्ह्त्च्म्_3.27:3 ॥
किं कृत्वा इत्थमुक्तप्रकारेण अनेकैर्दोषैः अनेककष्टैः बहुश्रमैर्बह्वायासैर्गगनचारणं मत्वा अभ्रकचारणं ज्ञात्वा ॥ ग्र्ह्त्च्म्_3.27:4 ॥
गगनचारणानन्तरमन्योत्कृष्टप्रकारो निर्दिश्यते इति भावः ॥ ग्र्ह्त्च्म्_3.27:5 ॥
स्तर्त् ग्र्ह्त् 3.28
अग्राह्यो निर्लेपः सूक्ष्मगतिर्व्यापकोऽक्षयो जीवः ।
यावद्विशति न योनौ तावद्बन्धं कुतो भजते

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc