रसहृदयतन्त्र (टीका सहित) · अध्याय 2
*चोम्म्. मुग्धावबोधिनी:
दिव्यतनोर्हेतुत्वाद् रसेन्द्रस्य साधनविधौ साधनोपदेशे सुधिया पूज्यमतिना पुंसा प्रथमम् अष्टादशसंस्काराः प्रयत्नेन ज्ञातव्याः ॥ ग्र्ह्त्च्म्_1.34:1 ॥
संस्क्रियन्त इति संस्काराः ॥ ग्र्ह्त्च्म्_1.34:2 ॥
पुंस्यपि गर्भाधानादयः षोडश संस्कारा वर्तन्ते अत एव संस्कारैर् उभयोः साम्यं दोषाभावत्वं गुणवत्त्वं च स्यात् ॥ ग्र्ह्त्च्म्_1.34:3 ॥
अतो ब्राह्मणक्षत्रियवैश्यशूद्राः स्युः ॥ ग्र्ह्त्च्म्_1.34:4 ॥
किंविशिष्टाः संस्काराः प्रतिकर्मनिर्मलाः कर्म कर्म प्रति निर्दोषाः ॥ ग्र्ह्त्च्म्_1.34:5 ॥
स्तर्त् ग्र्ह्त् 2.1-2
<18 संस्कारस्>
स्वेदनमर्दनमूर्छोत्थापनपातननिरोधनियमाश्च ।
दीपनगगनग्रासप्रमाणमथ चारणविधानं च
गर्भद्रुतिबाह्यद्रुतिजारणरसरागसारणं चैव ।
क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म
*चोम्म्. मुग्धावबोधिनी:
यस्योपजीव्यते कीर्तिः सङ्गमेव सुधाभुजाम् ।
स श्रीमान् कारयामास वृत्तिं मुग्धावबोधिनीम् ॥ ग्र्ह्त्च्म्_2.1-2:1 ॥
आर्याद्वयेन रसाष्टादशसंस्कारोद्देशः कृतः ॥ ग्र्ह्त्च्म्_2.1-2:2 ॥
स्तर्त् ग्र्ह्त् 2.3
<1. स्वेदन>
आसुरीपटुकटुकत्रयचित्रार्द्रकमूलकैः कलांशैस्तु ।
सूतस्य काञ्जिकेन त्रिदिनं मृदुवह्निना स्वेदः
*चोम्म्. मुग्धावबोधिनी:
अधुना संस्काराणां साधने लक्षणम् आह ॥ ग्र्ह्त्च्म्_2.3:1 ॥
तत्र प्रथमोद्दिष्टस्य स्वेदनसंस्कारस्य साधनं स्पष्टयन्नाह आसुरीत्यादि ॥ ग्र्ह्त्च्म्_2.3:2 ॥
सूतस्य पारदस्य त्रिदिनं दिनत्रयपरिमाणं यथा स्यात्तथा मृदुवह्निना स्वल्पाग्निना स्वेदः स्वेदनं कार्यम् ॥ ग्र्ह्त्च्म्_2.3:3 ॥
केन काञ्जिकेन सौवीरेण ॥ ग्र्ह्त्च्म्_2.3:4 ॥
कैः सह आसुरीपटुकटुकत्रयचित्रार्द्रकमूलकैः सह ॥ ग्र्ह्त्च्म्_2.3:5 ॥
आसुरी राजिका पटु सैन्धवं लवणविशेषः केचित्पटुशब्देन क्षारमपि व्याचक्षते कटुकत्रयं शुण्ठीमरिचपिप्पल्यः चित्रकं प्रतीतम् आर्द्रकं कन्दविशेषो नागरहेतुः मूलकं कन्दविशेषः प्रसिद्धः ॥ ग्र्ह्त्च्म्_2.3:6 ॥
किंविशिष्टैरेतैः कलांशैः षोडशांशैः षोडशांशः प्रत्येकं संयुज्यते ॥ ग्र्ह्त्च्म्_2.3:7 ॥
सर्वसंमतमिदं व्याख्यानाम् ॥ ग्र्ह्त्च्म्_2.3:8 ॥
अत्र विशेषः काञ्जिके सर्वधान्याम्लसंधानं तुषवर्ज्ये तु कारयेत् ॥ ग्र्ह्त्च्म्_2.3:9 ॥
उरगा त्रिफला क्रान्ता लघुपर्णी शतावरी ॥ ग्र्ह्त्च्म्_2.3:10 ॥
तेन युक्तं रसस्विन्नं त्रिदिनं मृदुवह्निना ॥ ग्र्ह्त्च्म्_2.3:11 ॥
दोलायन्त्रेण तीव्रेण मर्दयित्वा पुनः पुनः ।
इति रसेन्द्रमङ्गलात् ॥ ग्र्ह्त्च्म्_2.3:12 ॥
क्षाराम्लैर् ओषधैर् वापि दोलायन्त्रे स्थितस्य हि ।
पाचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।
इति परिभाषा ॥ ग्र्ह्त्च्म्_2.3:13 ॥
द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखस्योभयतो द्वारद्वयं कृत्वा प्रयत्नतः ॥ ग्र्ह्त्च्म्_2.3:14 ॥
तस्योपरि क्षिपेद्दण्डं तन्मध्ये रसपोटलीम् ।
बद्ध्वा तु स्वेदयेदेतद्दोलायन्त्रमिति स्मृतम् ।
इति दोलायन्त्रलक्षणम् ॥ ग्र्ह्त्च्म्_2.3:15 ॥
स्तर्त् ग्र्ह्त् 2.4
<2. मर्दन>
गुडदग्धोर्णालवणैर् मन्दिरधूमेष्टकासुरीसहितैः ।
रसषोडशांशमानैः सकाञ्जिकैर्मर्दनं त्रिदिनम्
*चोम्म्. मुग्धावबोधिनी:
द्वितीयोद्दिष्टस्य मर्दनस्य साधनं स्पष्टयन्नाह गुडेत्यादि ॥ ग्र्ह्त्च्म्_2.4:1 ॥
एतैर् औषधैर् दिनत्रयं परिमाणं रसस्य मर्दनं कार्यम् ॥ ग्र्ह्त्च्म्_2.4:2 ॥
एतैः कैः गुडदग्धोर्णालवणैः गुड इक्षुविकारः प्रसिद्धः दग्धोर्णा दग्धा चासौ ऊर्णा चेति समासः ऊर्णा प्रतीता मेषरोमनिचयम् इत्यर्थः लवणं सैन्धवमेकं गुडदग्धोर्णारजनी इति वा पाठः तत्र हरिद्रा ग्राह्या न सैन्धवम् ॥ ग्र्ह्त्च्म्_2.4:3 ॥
रसषोडशांशमानैः रसात्षोडशांशप्रमाणैः ॥ ग्र्ह्त्च्म्_2.4:4 ॥
अंश इत्यस्य प्रत्येकं सम्बन्धः ॥ ग्र्ह्त्च्म्_2.4:5 ॥
विशेषश्चात्र वस्त्रैश्चतुर्गुणैर् बद्धः सूतः स्थाप्यः शुभे ऽहनि ॥ ग्र्ह्त्च्म्_2.4:6 ॥
लोहार्काश्मजखल्वे तु तप्तेष्वेव तु मर्दयेत् ॥ ग्र्ह्त्च्म्_2.4:7 ॥
उद्दिष्टैर् ओषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ।
पेषणं मर्दनाख्यं स्यात्तद्बहिर्मलनाशनम् इति परिभाषा ॥ ग्र्ह्त्च्म्_2.4:8 ॥
अत्र यन्त्रं तु खल्वाख्यं ज्ञेयम् ॥ ग्र्ह्त्च्म्_2.4:9 ॥
तल्लक्षणं तु खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥ ग्र्ह्त्च्म्_2.4:10 ॥
षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिकविस्तरा इति ॥ ग्र्ह्त्च्म्_2.4:11 ॥
खल्वयोग्यशिलालक्षणं प्रसङ्गाद् उक्तम् ॥ ग्र्ह्त्च्म्_2.4:12 ॥
उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण दशाङ्गुलो ऽथ मुनिभिर् निम्नस् तथैवाङ्गुलैः ॥ ग्र्ह्त्च्म्_2.4:13 ॥
पाल्यां ह्य् अङ्गुलविस्तरश्च मसृणो ऽतीवार्धचन्द्रोपमो घर्षो द्वादशकाङ्गुलश्च तदयं खल्वो मतो मर्दने इति ॥ ग्र्ह्त्च्म्_2.4:14 ॥
स्तर्त् ग्र्ह्त् 2.5-6
<3. मूर्छन>
मलशिखिविषाभिधाना रसस्य नैसर्गिकास् त्रयो दोषाः ।
मूर्छां मलेन कुरुते शिखिना दाहं विषेण मृत्युं च
गृहकन्या हरति मलं त्रिफलाग्निं चित्रकश्च विषम् ।
तस्माद् एभिर् मिश्रैर् वारान् संमूर्छयेत्सप्त
*चोम्म्. मुग्धावबोधिनी:
रसस्य पारदस्य दोषास् त्रयो वर्तन्ते ॥ ग्र्ह्त्च्म्_2.5-6:1 ॥
किंविशिष्टाः मलशिखिविषाभिधानाः मलश्च शिखी च विषं च तान्येवाभिधानं नाम येषां ते तथोक्ताः ॥ ग्र्ह्त्च्म्_2.5-6:2 ॥
पुनः किंविशिष्टाः नैसर्गिकाः निसर्ग उत्पत्तिस् तत्सम्बन्धिनः सहजा इत्यर्थः ॥ ग्र्ह्त्च्म्_2.5-6:3 ॥
विशेषश्चात्र मलाद्याः पञ्चदोषाः स्युर् भूजाद्याः सप्तकञ्चुकाः ॥ ग्र्ह्त्च्म्_2.5-6:4 ॥
कुष्टानष्टौ रसान्तःस्था रसे ते ऽनन्तदोषदाः इति रससंकेतकलिकायाम् ॥ ग्र्ह्त्च्म्_2.5-6:5 ॥
यद्यपि रसेन्द्रमङ्गले पञ्च मलादयो नैसर्गिका दोषाः कथितास् तथाप्यत्र त्रय एव अन्ये द्वे गुरुत्वचपलत्वे नैसर्गिकदोषरूपे कुतो न स्तः त्रिभिः स्वेदनमर्दनमूर्छनात्मकैः संस्कारैर् अनिवृत्तेः ॥ ग्र्ह्त्च्म्_2.5-6:6 ॥
नैसर्गिकग्रहणाद् वैकारिकाणाम् अपि ग्रहणं स्यात् ॥ ग्र्ह्त्च्म्_2.5-6:7 ॥
अत्र नैसर्गिका उक्ता वैकारिकाः कुतो नोक्ताः वैकारिकाणां भावाभावात् ॥ ग्र्ह्त्च्म्_2.5-6:8 ॥
रसो दोषत्रयावृतः प्राश्यमानः किं करोति मलेन मलदोषेण मूर्छाम् इन्द्रियमोहं कुरुते शिखिना वह्निना दाहं विषेण मृत्युं मरणं चेति समुच्चये ॥ ग्र्ह्त्च्म्_2.5-6:9 ॥
एषामपहरणं कार्यमिति भावः ॥ ग्र्ह्त्च्म्_2.5-6:10 ॥
स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ।
विद्वद्भिर् जितसूतो ऽसौ नष्टपिष्टः स उच्यते ॥ ग्र्ह्त्च्म्_2.5-6:11 ॥
मर्दनोद्दिष्टभैषज्यैर् नष्टपिष्टत्वकारकम् ।
तन्मूर्छनम् इति प्रोक्तं दोषत्रयविनाशनम् इति ॥ ग्र्ह्त्च्म्_2.5-6:12 ॥
यन्त्रम् अत्र खल्वम् एव पूर्वोक्तं यत् ॥ ग्र्ह्त्च्म्_2.5-6:13 ॥
त्रिदोषापहरणं मूर्छनं चाह गृहकन्येत्यादि ॥ ग्र्ह्त्च्म्_2.5-6:14 ॥
गृहकन्या गृहकुमारिका मलं प्रथमं दोषं हरति ॥ ग्र्ह्त्च्म्_2.5-6:15 ॥
पुनस्त्रिफला त्रयाणां फलानां समाहारः त्रिफला अग्निं द्वितीयं दोषं हरति समाहारो यथा एका हरीतकी योज्या द्वौ च योज्यौ विभीतकौ ।
चत्वार्यामलकान्येव त्रिफलेयं प्रकीर्तिता ।
इति ॥ ग्र्ह्त्च्म्_2.5-6:16 ॥
पुनश्चित्रकोऽग्निः विषं तृतीयं दोषं हरति दूरीकरोतीत्यर्थः ॥ ग्र्ह्त्च्म्_2.5-6:17 ॥
तस्माद्धेतोर् एभिस् त्रिभिर् गृहकन्यात्रिफलाचित्रकैर् मिश्रितैर् एकीकृतै रसं सप्त वारान्मूर्छयेत् विधिवन्मूर्छनं कुर्यात् ॥ ग्र्ह्त्च्म्_2.5-6:18 ॥
विशेषश्चात्र ।
मूर्छनं रसराजस्य कर्तव्यं वादिभिः सदा ।
विषैस् त्रिफलया पूर्वं बृहत्योपविषस्तथा ॥ ग्र्ह्त्च्म्_2.5-6:19 ॥
कर्कोटी क्षारकन्दाभ्यां चित्रेण गृहकन्यया ।
एकेनाप्यथ संमर्द्यो याममेकं तु पारदः ॥ ग्र्ह्त्च्म्_2.5-6:20 ॥
किंनरयन्त्रम् आदाय ह्य् ओषध्या लेपयेत्तलम् ।
नवतारयुतं सूतं यन्त्रमध्यगतं न्यसेत् ॥ ग्र्ह्त्च्म्_2.5-6:21 ॥
दद्याद् रसोपरि शरावं संधिलेपं दृढं मृदा ।
लवणेन च सम्पूर्य द्वारं संरुध्य यत्नतः ॥ ग्र्ह्त्च्म्_2.5-6:22 ॥
चुह्लिकोपरि संस्थाप्य दीप्ताग्निं ज्वालयेत् सुधीः ।
यामैकेन तदुत्तार्य कर्तव्यः शीतलो रसः ॥ ग्र्ह्त्च्म्_2.5-6:23 ॥
यन्त्रादुद्धृत्य यत्नेन सूतमुत्थाप्य मूर्छितम् ।
अमूर्छितस् तदा देयः कलांशं मूर्छिते रसः ॥ ग्र्ह्त्च्म्_2.5-6:24 ॥
सिन्धूत्थटङ्कणाभ्यां च मर्दयेन् मधुसंयुतं दोलायन्त्रे ततः स्वेद्यः क्षाराम्ललवणैः सह ।
उत्थाप्य मूर्छयेत्पश्चात् वारंवारं रसेश्वरम् ।
पुनरुत्थापितं कुर्याद् एकविंशतिवारकम् ॥ ग्र्ह्त्च्म्_2.5-6:25 ॥
इति रससारे ॥ ग्र्ह्त्च्म्_2.5-6:26 ॥
स्तर्त् ग्र्ह्त् 2.7
<संस्कार:: उत्थापन>
अमुना विमर्दनेन हि सुविशुद्धो नागवङ्गपरिमुक्तः ।
सूतः पातनयन्त्रे समुत्थितः काञ्जिकक्वाथात्
*चोम्म्. मुग्धावबोधिनी:
सूतो नागवङ्गपरिमुक्तो भवति नागवङ्गाभ्यां दोषाभ्यां विरहितः पारदो भवतीत्यर्थः किंविशिष्टः सन् समुत्थितः सन् ॥ ग्र्ह्त्च्म्_2.7:1 ॥
पातनयन्त्रे स्थालीद्वयसम्पुटे सम्यग्विधानेनोत्थितः सन् ॥ ग्र्ह्त्च्म्_2.7:2 ॥
कस्मात् काञ्जिकं सौवीरं पूर्ववर्णितं तत्क्वाथसंयोगाद् इत्यर्थः ॥ ग्र्ह्त्च्म्_2.7:3 ॥
हि निश्चितम् ॥ ग्र्ह्त्च्म्_2.7:4 ॥
अमुना विरेचनेन उक्तशोधनेन सूतः सुविशुद्धो भवेत् विशेषशुद्धो भवेद् इत्युत्थापनम् ॥ ग्र्ह्त्च्म्_2.7:5 ॥
अनेन विधिना हिङ्गुलस्थस्य सूतस्यापि उत्थापनं भवति ॥ ग्र्ह्त्च्म्_2.7:6 ॥
स्वेदनादिकयोगेन स्वरूपापादनं पुनः ॥ ग्र्ह्त्च्म्_2.7:7 ॥
तदुत्थापनमित्युक्तं मूर्छाव्यापत्तिनाशनम् इति ॥ ग्र्ह्त्च्म्_2.7:8 ॥
उत् ऊर्ध्वं स्थापनम् उत्थापनम् ॥ ग्र्ह्त्च्म्_2.7:9 ॥
अत्र यन्त्रं तु ।
अष्टाङ्गुलपरीणाहमानाहेन दशाङ्गुलम् ।
चतुरङ्गुलकोत्सेधं तोयाधारो ऽङ्गुलादधः ॥ ग्र्ह्त्च्म्_2.7:10 ॥
अधोभाण्डे मुखं च तस्य भाण्डस्योपरिवर्तिनः ।
षोडशाङ्गुलविस्तीर्णपृष्ठस्यास्ये प्रवेशयेत् ॥ ग्र्ह्त्च्म्_2.7:11 ॥
पार्श्वयोर् महिषीक्षीरचूर्णमण्डूरफाणितैः ॥ ग्र्ह्त्च्म्_2.7:12 ॥
विलिप्य शोषयेत् संधिं जलाधारे जलं क्षिपेत् ।
चुल्ल्याम् आरोपयेदेतत् पातनायन्त्रम् ईरितम् ॥ ग्र्ह्त्च्म्_2.7:13 ॥
इति ॥ ग्र्ह्त्च्म्_2.7:14 ॥
स्तर्त् ग्र्ह्त् 2.8
<संस्कार:: पातन:: ऊर्ध्वपातन>
कृत्वा तु शुल्बपिष्टिं निपात्यते नागवङ्गशङ्कातः ।
तस्मिन्दोषान् मुक्त्वा निपतति शुद्धस् तथा सूतः
*चोम्म्. मुग्धावबोधिनी:
पञ्चमोद्दिष्टं पातनसंस्कारं स्पष्टयन्नाह कृत्वेत्यादि ॥ ग्र्ह्त्च्म्_2.8:1 ॥
तु पुनः उत्थितं सूतं शुल्बपिष्टिं कृत्वा शुल्बेन ताम्रेण सह तयोर्मेलनं यथा स्यात्तथा पेषणं विधाय तस्मिन् पातनयन्त्रे निपात्यते कर्मविदेति शेषः ॥ ग्र्ह्त्च्म्_2.8:2 ॥
कुतः नागवङ्गशङ्कातः नागवङ्गदोषग्लानितः ॥ ग्र्ह्त्च्म्_2.8:3 ॥
तथा उक्तविधानेन निपतति सति पातनकर्मणि कृते सति शुद्धः सूतो भवेत् ॥ ग्र्ह्त्च्म्_2.8:4 ॥
वारमित्यनुक्ते ग्रन्थान्तरे त्रिसप्तैकविंशतिवारं पातनकर्मणि कृते सति सम्यक् नागवङ्गशङ्का नश्यतीति भावः ॥ ग्र्ह्त्च्म्_2.8:5 ॥
विशेषश्चात्र पातनयन्त्रे ।
द्वौ भागौ शुद्धसूतस्य शुल्बभागैकसंयुतौ ।
विंशांशं लवणं दत्त्वा पिष्टीकुर्याच्च सुन्दरम् ॥ ग्र्ह्त्च्म्_2.8:6 ॥
अष्टाङ्गुलविस्तीर्णं दैर्घ्येण दशाङ्गुलं त्व् अधोभाण्डम् ।
कण्ठादधः समन्ताच्चतुरङ्गुलीकृतजलाधारम् ॥ ग्र्ह्त्च्म्_2.8:7 ॥
अन्तः प्रविष्टतलभाण्डवदनं जलमग्ननिजमुखप्रान्तम् ।
उपरिष्टाच् चिण्टिघटी देयोदरषोडशाङ्गुलविशाला ॥ ग्र्ह्त्च्म्_2.8:8 ॥
तस्मिन्नधोर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः ।
सुतरां भवति रसेन्द्रो जीर्णग्रासोऽपि पात्योऽसौ ॥ ग्र्ह्त्च्म्_2.8:9 ॥
अध ऊर्ध्वं तथा तिर्यक् पातस्त्रिविध उच्यते ।
यत्र तिष्ठति सूतेन्द्रो वह्निस् तत्रान्यथा जलम् ॥ ग्र्ह्त्च्म्_2.8:10 ॥
उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञमुक्तं वङ्गाहिसम्पर्कजकञ्चुकघ्नम् ॥ ग्र्ह्त्च्म्_2.8:11 ॥
इति ॥ ग्र्ह्त्च्म्_2.8:12 ॥
ऊर्ध्वपाते रसस्योर्ध्वगमनं तत्राधःपात्रे वह्निः जलमूर्ध्वपात्रे अधःपाते तु रसस्याधस्ताद्गमनं भवति यन्त्रं तदेव परं तु अग्निजलयोर्व्यत्यासः जलम् अत्राधःपात्रे अग्निरूर्ध्वपात्रे तिर्यक्पाते तु रसस्तिर्यक् पतति तत्रैकपात्रपृष्ठे जलम् अन्यपात्राधो वह्निः ॥ ग्र्ह्त्च्म्_2.8:13 ॥
स्तर्त् ग्र्ह्त् 2.9-16
<पातनयन्त्र>
अष्टाङ्गुलविस्तारं दैर्घ्येण दशाङ्गुलं त्व् अधोभाण्डम् ।
कण्ठादधः समुच्छ्रितं चतुरङ्गुलं कृतजलाधारम्
अन्तःप्रविष्टतलभाण्डवदनं जलमग्ननिजमुखप्रान्ता ।
उपरिष्टाच्चिपिटघटी देयोदरषोडशाङ्गुलविशाला
तस्मिन्न् ऊर्ध्वभाण्डे निपातितः सकलदोषनिर्मुक्तः ।
सुतरां भवति रसेन्द्रो द्रव्ये च रसायने योग्यः
<अधःपातन>
कृत्वा च नष्टपिष्टिं त्रिफलाशिखिशिग्रुराजिकापटुभिः ।
संलेप्य चोर्ध्वभाण्डे दीप्तैकपलैरधःपात्यः
अथवा दीपकयन्त्रे निपातितः सकलदोषनिर्मुक्तः ।
<तिर्यक्पातन>
तिर्यक्पातनविधिना निपात्यः सूतराजस्तु
श्लक्ष्णीकृतमभ्रदलं रसेन्द्रयुक्तं तथारनालेन ।
खल्वे दत्त्वा मृदितं यावत् तन्नष्टपिष्टताम् एति
कुर्यात् तिर्यक्पातनपातितसूतं क्रमेण दृढवह्नौ ।
संस्वेद्य पात्यतेऽसौ न पतति यावद्दृढश्चाग्निः
<निरोधन>
मर्दनमूर्छनपातैः कदर्थितो भजति मन्दवीर्यत्वात् ।
सृष्ट्यम्बुजैर् निरोधाल्लब्धाप्यायो न षण्ढः स्यात्
*चोम्म्. मुग्धावबोधिनी:
षष्ठोद्दिष्टं निरोधनसंस्कारं स्पष्टयन्नाह मर्दनेत्यादि ॥ ग्र्ह्त्च्म्_2.9-16:1 ॥
एतैर् मर्दनमूर्छनपातैः संस्कारविशेषं कृत्वा मन्दवीर्यत्वात् कदर्थितो भवति ॥ ग्र्ह्त्च्म्_2.9-16:2 ॥
कुत्सितविधानेन कदर्थितो भवतीत्यर्थः पुनः सूतः सृष्ट्यम्बुजैः सह मर्दनानन्तरं निरोधात् मूषाद्वयसम्पुटे कूपिकायां वा निरोधात् रुन्धनात् लब्धाप्यायः प्राप्तबलः सन् न षण्ढः स्यात् न शुक्ररहितो भवति ॥ ग्र्ह्त्च्म्_2.9-16:3 ॥
सृष्टिः मूत्रशुक्रशोणितरूपा अम्बुजं लवणं सैन्धवं कमलम् इति मन्दाः ॥ ग्र्ह्त्च्म्_2.9-16:4 ॥
सृष्टिर्यथा ।
गोऽजाविनरनारीणां मूत्रं शुक्रं च शोणितम् ।
सृष्टिरेषा समाख्याता षण्ढदोषविनाशिनी ।
इति शक्त्यवतारात् ॥ ग्र्ह्त्च्म्_2.9-16:5 ॥
यन्त्रं यथा ।
रक्तसैन्धवखोटेन मूषाद्वंद्वं प्रकल्पयेत् ।
तत्सम्पुटे रसं क्षिप्त्वा नवसारं सनिम्बुकम् ॥ ग्र्ह्त्च्म्_2.9-16:6 ॥
सम्पुटस्य प्रयत्नेन लेपयेत् संधिमुत्तमम् ।
वज्रमृत्स्नां समादाय वेष्टयेत्तत्प्रयत्नतः ॥ ग्र्ह्त्च्म्_2.9-16:7 ॥
छायाशुष्कं च तत्कृत्वा भूगर्ते स्थापयेत्ततः ।
अष्टाङ्गुलप्रमाणेन मूषोर्ध्वं तत्र पूरणम् ॥ ग्र्ह्त्च्म्_2.9-16:8 ॥
त्रिसप्तदिनपर्यन्तं करीषाग्निं च कारयेत् ।
दिने दिने प्रकर्तव्या मूषा सैन्धवनूतना ॥ ग्र्ह्त्च्म्_2.9-16:9 ॥
स्वेदयेत् तत् प्रयत्नेन भूगर्भे स्थापयेत्ततः ।
अथवा कूपिकामध्ये सूतं सैन्धवसंयुतम् ॥ ग्र्ह्त्च्म्_2.9-16:10 ॥
भूगर्भे च ततः स्थाप्यम् एकविंशद्दिनावधि ।
अयं निरोधको नाम्ना महामुखकरो रसे ॥ ग्र्ह्त्च्म्_2.9-16:11 ॥
इति ॥ ग्र्ह्त्च्म्_2.9-16:12 ॥
स्तर्त् ग्र्ह्त् 2.17
<7. नियमन>
इति लब्धवीर्यः सम्यक् चपलोऽसौ संनियम्यते तदनु ।
फणिनयनाम्बुजमार्कवकर्कोटीचिञ्चिकास्वेदात्
*चोम्म्. मुग्धावबोधिनी:
सप्तमोद्दिष्टसंस्कारं स्पष्टयन्नाह इतीत्यादि ॥ ग्र्ह्त्च्म्_2.17:1 ॥
इति पूर्वोक्तविधानेन यन्त्रणादिना तदनु रोधनानन्तरम् असौ चपलश्चञ्चलो रसो नियम्यते कर्मविदा संनियमनं क्रियते ॥ ग्र्ह्त्च्म्_2.17:2 ॥
कस्मात् फणीलशुनाम्बुजमार्कवकर्कोटीचिञ्चिकास्वेदात् फणी ताम्बूलं लशुनं रसोनः अम्बुजं लवणं मार्कवः भृङ्गराजः कर्कोटीति प्रतीता वन्ध्या चिञ्चिका अम्लिका एताभिः सह यः स्वेदः यन्त्रे अग्नितापः तस्मात् ॥ ग्र्ह्त्च्म्_2.17:3 ॥
किंविशिष्टः सम्यक् लब्धवीर्यः प्राप्तबलो वीर्यवान् रसः चपलत्वनिवृत्तये नियम्यत इत्यर्थः ॥ ग्र्ह्त्च्म्_2.17:4 ॥
विशेषश्चात्र काचकूपीं मृदा लिप्य रसो मध्ये विमुच्यते ।
कलांशं टङ्कणं दत्त्वा मध्ये किंचित् प्रदीयते ॥ ग्र्ह्त्च्म्_2.17:5 ॥
द्वारमुद्रा प्रकर्तव्या वज्रमृत्तिकया दृढा ।
भूगर्भे कूपिकां स्थाप्य सितया गर्भपूरणम् ॥ ग्र्ह्त्च्म्_2.17:6 ॥
करीषाग्निः प्रकर्तव्य एकविंशद्दिनावधि ।
अयं नियामको नाम वह्निप्रत्यन्तकारकः ॥ ग्र्ह्त्च्म्_2.17:7 ॥
रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ।
क्रियते यो रसस्वेदः प्रोक्तं नियमनं हि तत् ॥ ग्र्ह्त्च्म्_2.17:8 ॥
इति ॥ ग्र्ह्त्च्म्_2.17:9 ॥
यन्त्रलक्षणं तु ।
चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ।
घटयन्त्रमिदं प्रोक्तं तदाप्यायनकं स्मृतम् इति ॥ ग्र्ह्त्च्म्_2.17:10 ॥
स्तर्त् ग्र्ह्त् 2.18
<8. दीपन>
भूखगटङ्कणमरिचैर् लवणासुरीशिग्रुकाञ्जिकैस् त्रिदिनम् ।
स्वेदेन दीपितोऽसौ ग्रासार्थी जायते सूतः
*चोम्म्. मुग्धावबोधिनी:
अष्टमोद्दिष्टस्य दीपनसंस्कारस्य विधिं स्पष्टयन्नाह भूखगेत्यादि ॥ ग्र्ह्त्च्म्_2.18:1 ॥
असौ पूर्वसंस्कृतरस एतैर् औषधैस् त्रिदिनं निरन्तरं यथा स्यात् तथा स्वेदेन दीपितः क्षुत्पीडितः सन् ग्रासार्थी कवलाभिलाषी जायते ॥ ग्र्ह्त्च्म्_2.18:2 ॥
एतैर् ओषधैः भूखगटङ्कणमरिचैः न केवलम् एतैः पुनर् लवणासुरीशिग्रुकाञ्जिकैः ॥ ग्र्ह्त्च्म्_2.18:3 ॥
भूः तुवरी खगः कासीसं टङ्कणं सौभाग्यं मरिचम् ऊषणम् एतैः ॥ ग्र्ह्त्च्म्_2.18:4 ॥
पुनः लवणं सैन्धवम् आसुरी राजिका शिग्रुः सौभाञ्जनं वृक्षविशेषः काञ्जिकं पूर्वोक्तम् अम्लीभूतम् एतैश्चेति ॥ ग्र्ह्त्च्म्_2.18:5 ॥
विशेषश्चात्र ।
स्वेदनं रसराजस्य क्षाराम्लविषमद्यकैः ।
बीजपूरं समादाय वृन्तमुत्सृज्य कारयेत् ॥ ग्र्ह्त्च्म्_2.18:6 ॥
तस्य मध्ये क्षिपेत्सूतं कलांशक्षारसंयुतं ।
द्वारं निरुध्य यत्नेन वस्त्रमध्ये निबन्धयेत् ॥ ग्र्ह्त्च्म्_2.18:7 ॥
दोलास्वेदः प्रकर्तव्य एकविंशद्दिनावधि ।
दिने दिने प्रकर्तव्यं नूतनं बीजपूरकम् ॥ ग्र्ह्त्च्म्_2.18:8 ॥
लेलिहानो हि धातूंश्च पीड्यमानो बुभुक्षया ।
अमुनैव प्रकर्तव्यं रसराजस्य दीपनम् ॥ ग्र्ह्त्च्म्_2.18:9 ॥
त्र्यहं सप्तदिनं वाथ चतुर्दशैकविंशतिम् ।
संस्कारः सूतराजे तु क्रमात् क्रमतरं वरम् ॥ ग्र्ह्त्च्म्_2.18:10 ॥
इति ॥ ग्र्ह्त्च्म्_2.18:11 ॥
स्तर्त् ग्र्ह्त् 2.19
<चारण>
इति दीपितो विशुद्धः प्रचलितविद्युल्लतासहस्राभः ।
भवति यदा रसराजश् चार्यो सत्वादि तदा बीजम्
*चोम्म्. मुग्धावबोधिनी:
कृताष्टसंस्कारस्य पारदस्य संस्कारान्तरसिद्धां परीक्षाम् आह इतीत्यादि ॥ ग्र्ह्त्च्म्_2.19:1 ॥
इति पूर्वोक्तप्रकारेण रसराजो दीपितः सन् क्षुदुत्पीडितः सन् विशुद्धो भवति ॥ ग्र्ह्त्च्म्_2.19:2 ॥
यदीदृशो भवति रसराजस्तदा चार्यः चारणकर्म कार्यम् ॥ ग्र्ह्त्च्म्_2.19:3 ॥
कीदृक् प्रचलितविद्युल्लतासहस्राभः प्रकर्षेण चलत्यश् चलनशीला या विद्युतस्तासां सहस्रस्येव भा दीप्तिर् यस्य स तथोक्तः ॥ ग्र्ह्त्च्म्_2.19:4 ॥
किं कृत्वा चार्यः इदमग्रे वक्ष्यमाणं किंचित् धातूपरसमहारसरत्नसंज्ञकं द्वितीयं रसराजसम्बन्धिनं दत्त्वा संयोज्येत्यर्थः ॥ ग्र्ह्त्च्म्_2.19:5 ॥
स्तर्त् ग्र्ह्त् 2.20
<चारण:: समुख, निर्मुख>
पीतक्रियासु पीतं श्वेतं तारक्रियासु मुखम् आदौ ।
देयं खल्वे घृष्टो दिव्यौषधिभिः स निर्मुखश् चरति
मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0