भाषा

ENहिગુ
ग्रंथ पाठ

रसहृदयतन्त्र (टीका सहित) · अध्याय 1

1.1

स्तर्त् ग्र्ह्त् 1.1
जयति स दैन्यगदाकुलम् अखिलम् इदं पश्यतो जगद् यस्य ।
हृदयस्थैव गलित्वा जाता रसरूपिणी करुणा

1.2

*चोम्म्. मुग्धावबोधिनी:
श्रीमन्महागणाधिपतये नमः ।
भवभयरक्षणदक्षं नत्वा मुग्धावबोधिनीं तनुते ।
रसहृदयसुप्रयुक्तां टीकामृजुभावगामाप्तः ॥ ग्र्ह्त्च्म्_1.1:1 ॥
गुणवारिधिकुरलकुले हरिहरमिश्रः प्रतीतमहिमाख्यः ।
तत्पुत्रो भुवि महितो महेश इति नामविख्यातः ॥ ग्र्ह्त्च्म्_1.1:2 ॥
तदन्वये भारतीभावसंयुतस् तदात्मजः प्रस्तुतवाग्भिरीश्वरः ।
चतुर्भुजो भावितभावमानसः स्वलोकजातस्य कुलानुभावतः ॥ ग्र्ह्त्च्म्_1.1:3 ॥
ज्येष्ठोऽभूद् भुवि पारिजातकतरुः खण्डेलवालान्वये तत्पुत्रः किल नाथबल्लवसुदः प्राणैर् यशोऽर्थान्वितः ।
तत्पुत्रेण च सावरेण पतिना बन्धस्य धर्मार्थिना गीर्वाणाशु रुगोञ्चजेन सततं तेनात्र यत्नः कृतः ॥ ग्र्ह्त्च्म्_1.1:4 ॥
इह शास्त्रारम्भे आचार्यश्रीमद्गोविन्दपादाः शिष्टसमयपरिपालनार्थे शास्त्रस्य देशयतो गुरुपादस्य भगवतो वस्तुनिर्देशरूपं मङ्गलम् आचरन्ति जयतीत्यादि ॥ ग्र्ह्त्च्म्_1.1:5 ॥
मङ्गललक्षणं यथा आशीर् नमस्क्रिया वस्तुनिर्देशो मङ्गल इति ॥ ग्र्ह्त्च्म्_1.1:6 ॥
वस्तुनिर्देशः पञ्चधा यथास्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ॥ ग्र्ह्त्च्म्_1.1:7 ॥
आद्यं त्रयं ब्रह्मरूपं शक्तिरूपं ततो द्वयम् इति ॥ ग्र्ह्त्च्म्_1.1:8 ॥
स हरो जयति सर्वोत्कर्षेण वर्तते ॥ ग्र्ह्त्च्म्_1.1:9 ॥
अखिलं जगत् पश्यत इति वस्तुनिर्देशाब्जयद्द्रष्टा ॥ ग्र्ह्त्च्म्_1.1:10 ॥
तथा च श्रुतिः अपाणिपादो जवनो ग्रहीता ॥ ग्र्ह्त्च्म्_1.1:11 ॥
पश्यत्यचक्षुः स शृणोत्यकर्णः ।
स वेत्ति वेद्यं न च तस्य वेत्ता तमाहुर् अग्र्यं पुरुषं पुराणम् इति ॥ ग्र्ह्त्च्म्_1.1:12 ॥
यस्य हृदयस्यैव रसरूपिणी करुणा घृणा जाता प्रादुर्भूता ॥ ग्र्ह्त्च्म्_1.1:13 ॥
किंभूत्वा गलित्वाद्रवित्वा गलितस्य स्थानाच्च्युतिर् इति युक्तम् ॥ ग्र्ह्त्च्म्_1.1:14 ॥
एषा हृदयस्थैव ॥ ग्र्ह्त्च्म्_1.1:15 ॥
एवाव्ययम् अन्यस्थाननिषेधवाचि ॥ ग्र्ह्त्च्म्_1.1:16 ॥
रसरूपिणीति रसः पारदस्तत्स्वरूपं यस्याः सा ॥ ग्र्ह्त्च्म्_1.1:17 ॥
तथा च वाक्यम् ।
रसो जलं रसो हर्षो रसः शृङ्गारपूर्वकः ।
स्वाद्वादिषु च निर्यासे पारदेऽपि रसो विषे ।
इत्यनेकार्थः ॥ ग्र्ह्त्च्म्_1.1:18 ॥
सामान्यतस्तद्रूपं द्रवत्वं विशेषतो रसरूपं सर्वोपकारित्वम् ॥ ग्र्ह्त्च्म्_1.1:19 ॥
तथा च वाक्यं रसरत्नाकरे ।
आजन्मपापकृतनिर्दहनैकवह्निर् दारिद्र्यदुःखगजवारणसिंहरूपः इति ॥ ग्र्ह्त्च्म्_1.1:20 ॥
किंभूतस्य हरस्य दैन्यगदाकुलं जगत् संसारं पश्यतः दैन्ययं च गदाश्च तैर् आकुलं व्याप्तं दैन्यं दीनभावो दारिद्र्यं गदा व्याधय इति ॥ ग्र्ह्त्च्म्_1.1:21 ॥
अखिलमिति सर्वव्यापिपदम् ॥ ग्र्ह्त्च्म्_1.1:22 ॥
यथा मञ्जर्या ।
यस्य रोगस्य यो योगस्तेनैव सह दापयेत् ।
रसेन्द्रो हरो रोगान्नरकुञ्जरवाजिनाम् ॥ ग्र्ह्त्च्म्_1.1:23 ॥
इति ॥ ग्र्ह्त्च्म्_1.1:24 ॥
अन्यन्मतं च ।
रसभस्म विना तत्र कथ्यते संहिताक्रमः ।
अनुक्तमपि विज्ञेयं तत्र तत्राङ्गशान्तये ॥ ग्र्ह्त्च्म्_1.1:25 ॥
इति ॥ ग्र्ह्त्च्म्_1.1:26 ॥
स्तर्त् ग्र्ह्त् 1.2
पीताम्बरोऽथ बलिजिन्नागक्षयबहलरागगरुडचरः ।
जयति स हरिरिव हरजो विदलितभवदैन्यदुःखभरः

1.3

*चोम्म्. मुग्धावबोधिनी:
पीतेत्यादि ॥ ग्र्ह्त्च्म्_1.2:1 ॥
अनेन पद्येन कविर्हरजस्य हरेश्च समत्वं सूचयति ॥ ग्र्ह्त्च्म्_1.2:2 ॥
स पुराणकविवर्णितो हरजो जयति सर्वोत्कर्षेण वर्तते हरादीश्वराज्जातो हरजः ॥ ग्र्ह्त्च्म्_1.2:3 ॥
स उत्प्रेक्ष्यते हरिरिव विष्णुर् इव ॥ ग्र्ह्त्च्म्_1.2:4 ॥
किंभूतो हरिः पीताम्बरः पीते अम्बरे वस्त्रे यस्य सः दुकूलयुग्मत्वात् ॥ ग्र्ह्त्च्म्_1.2:5 ॥
पुनः किम्भूतो बलिजित् बलिं बलिनामानं दैत्यविशेषं जयतीति तथोक्तः ॥ ग्र्ह्त्च्म्_1.2:6 ॥
पुनः किंभूतः नागक्षयेत्यादि नागानां शेषादीनां क्षयाय नाशाय बहलरागो बहुप्रीतो यो ऽसौ गरुडः खगेश्वरः तत्र चरति गच्छति तथोक्तः ॥ ग्र्ह्त्च्म्_1.2:7 ॥
पुनः किंविशिष्टः विदलितेत्यादिः विशेषणेन दलितो दूरीकृतो भवस्य संसारस्य दुःखभरो येन सः दैन्यं दारिद्र्यं दुःखं व्याधिरूपं तयोर्भरो बाहुल्यम् इति ॥ ग्र्ह्त्च्म्_1.2:8 ॥
अधुना हरजं विशेषयति किंविशिष्टः पीताम्बरः पीताम्बरः पूर्वार्थः ॥ ग्र्ह्त्च्म्_1.2:9 ॥
कथं युक्तः तमर्थे स्पष्टयत्यनेन सूतराजेनापि चत्वारि वासांसि धृतानि विप्रादिवर्णभेदात् ॥ ग्र्ह्त्च्म्_1.2:10 ॥
रसरत्नाकरे यथा ।
श्वेतारुणहरिद्राभकृष्णा विप्रादिपारदाः इति ॥ ग्र्ह्त्च्म्_1.2:11 ॥
ब्राह्मणक्षत्रियवैश्यशूद्राः श्वेतरक्तपीतकृष्णवस्त्रधारिणो ज्ञातव्याः न त्व् एषां स्वरूपम् इति ॥ ग्र्ह्त्च्म्_1.2:12 ॥
रसमञ्जर्या यथा ।
अन्तः सुनीलो बहिरुज्ज्वलो यो मध्याह्नसूर्यप्रतिमप्रकाशः इति ॥ ग्र्ह्त्च्म्_1.2:13 ॥
अन्तः स्वरूपं बहिर्वासांसीति किंवदन्ती ॥ ग्र्ह्त्च्म्_1.2:14 ॥
अथेति समुच्चये प्रसादः ॥ ग्र्ह्त्च्म्_1.2:15 ॥
अथेति मङ्गलानन्तरारम्भप्रश्नकालस्वाधिकारप्रतिज्ञासमुच्चयेष्व् इति ॥ ग्र्ह्त्च्म्_1.2:16 ॥
पुनः किंविशिष्टः बलिजित् बलीन् जयतीति बलिश्चर्म जराकृतम् ॥ ग्र्ह्त्च्म्_1.2:17 ॥
इत्यनेकार्थः ॥ ग्र्ह्त्च्म्_1.2:18 ॥
पुनः किंविशिष्टः नागक्षयेत्यादि ना पुंस्वरूपः पुनः किंविशिष्टः गम्यते ऽनेनेति गः पक्षयोर् गः गक्षये पक्षनाशे सति बहलरागो बहुरागवान् यः स रसः तेन गरुड इव चार्यते इति ॥ ग्र्ह्त्च्म्_1.2:19 ॥
किं पारदः पक्षनाशे सति आकाशगमनं ददातीति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.2:20 ॥
रसरत्नाकरे यथा ।
हतो हन्ति जरामृत्युं मूर्छितो व्याधिघातकः ।
दत्ते च खे गतिं बद्धः को ऽन्यः सूतात् क्रियाकरः ॥ ग्र्ह्त्च्म्_1.2:21 ॥
इति ॥ ग्र्ह्त्च्म्_1.2:22 ॥
पुनः किंविशिष्टः विदलितेत्यादिः पूर्वार्थः करुणापरत्वेन दैन्यदुःखहारित्वं सूचयति ॥ ग्र्ह्त्च्म्_1.2:23 ॥
स्तर्त् ग्र्ह्त् 1.3
मूर्छित्वा हरति रुजं बन्धनमनुभूय मुक्तिदो भवति ।
अमरीकरोति सुमृतः को ऽन्यः करुणाकरः सूतात्

1.4

*चोम्म्. मुग्धावबोधिनी:
यः पूर्वविशिष्टो हरजस् तस्मादन्यः करुणापरो दयावान् कः न को ऽपि यतो रुजं शरीरव्यथां हरति ॥ ग्र्ह्त्च्म्_1.3:1 ॥
किंभूत्वा मूर्छित्वा मूर्छितो भूत्वा ॥ ग्र्ह्त्च्म्_1.3:2 ॥
मूर्छितलक्षणं रसरत्नाकरे ।
कज्जलाभो यदा सूतो विहाय घनचापलम् ।
दृश्यते ऽसौ तदा ज्ञेयो मूर्छितः सूतराड्बुधैः ॥ ग्र्ह्त्च्म्_1.3:3 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:4 ॥
पुनर्बन्धनमनुभूय धृत्वा मुक्तिदो भवति मुक्तिं ददातीति ॥ ग्र्ह्त्च्म्_1.3:5 ॥
मुक्तिश्चतुर्धा वर्णिता सालोक्यसारूप्यसामीप्यसायुज्यभेदात् ॥ ग्र्ह्त्च्म्_1.3:6 ॥
बन्धनं च मुख्यतया द्विविधम् अवान्तरव्यापारेण च चतुर्विधम् ॥ ग्र्ह्त्च्म्_1.3:7 ॥
अधुना द्विविधबन्धनोद्देशः निर्बीजबद्धो बीजबद्धश्च ॥ ग्र्ह्त्च्म्_1.3:8 ॥
निर्बीजबद्धो यथा रसमञ्जर्याम् ।
रसस्तु पादांशसुवर्णजीर्णः पिष्टीकृतो गन्धकयोगतश्च ।
तुल्यांशगन्धैः पुटितः क्रमेण निर्बीजनामाखिलरोगहर्ता ॥ ग्र्ह्त्च्म्_1.3:9 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:10 ॥
पुनर् बीजबद्धो यथा ।
बीजीकृतैर् अभ्रसत्त्वहेमतारार्ककान्तैः सह साधितो यः ।
युतस्ततः षड्गुणगन्धचूर्णैः स बीजबद्धे ऽप्यधिकप्रभावः ॥ ग्र्ह्त्च्म्_1.3:11 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:12 ॥
अवान्तरचतुर्विधबन्धोद्देशो यथा ।
पोटः खोटो जलौका च भस्मत्वं च चतुर्विधम् ।
बन्धश्चतुर्विधः सूते विज्ञेयो भिषगुत्तमैः ॥ ग्र्ह्त्च्म्_1.3:13 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:14 ॥
तल्लक्षणं संकेतकलिकायाम् ।
पोटः पर्पटीबन्धः पिष्टीस्तम्भस्तु खोटकः ।
ध्मातो द्रुतो भवेत्खोटस् त्व् आहतश्चूर्णतां व्रजेत् ॥ ग्र्ह्त्च्म्_1.3:15 ॥
पुनर्ध्मातो द्रुतः खोट इति खोटस्य लक्षणम् ।
जलौका पाटबन्धश्च भस्म भस्मनिभं भवेत् ॥ ग्र्ह्त्च्म्_1.3:16 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:17 ॥
पुनः सुमृतः सन् अमरीकरोतीति ॥ ग्र्ह्त्च्म्_1.3:18 ॥
सुमृत इति सुः इति पूजायां यथा विदग्धमुखमण्डनबहिर्लापिकायाम् ।
पूजायां किं पदं प्रोक्तम् अस्तनं को बिभर्त्युरः ।
क आयुधतया ख्यातः प्रलम्बासुरविद्विषः ॥ ग्र्ह्त्च्म्_1.3:19 ॥
सुनासीरः इति पूज्यः ॥ ग्र्ह्त्च्म्_1.3:20 ॥
मृत इति विशेषार्थः ॥ ग्र्ह्त्च्म्_1.3:21 ॥
मृतो यथा ।
आर्द्रत्वं च घनत्वं च चापल्यं गुरुतैजसम् ।
यस्यैतानि न विद्यन्ते तं विद्यान्मृतसूतकम् ॥ ग्र्ह्त्च्म्_1.3:22 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:23 ॥
पूज्य इति रसेन्द्रमङ्गले यथा ।
अबद्धसूतं तु हतं प्रमादात् करोति कष्टं प्रबलं रसेन्द्रः ॥ ग्र्ह्त्च्म्_1.3:24 ॥
इति ॥ ग्र्ह्त्च्म्_1.3:25 ॥
मूर्छनादिबन्धनपरम्परया यो मृतः स पूज्यो नान्यथा ॥ ग्र्ह्त्च्म्_1.3:26 ॥
यथा च रसमञ्जर्याम् ।
अजीर्णं चाप्यबीजं च सूतकं यस्तु घातयेत् ।
ब्रह्महा स दुराचारी मम द्रोही महेश्वरि ॥ ग्र्ह्त्च्म्_1.3:27 ॥
इति युक्तोऽयम् अर्थः ॥ ग्र्ह्त्च्म्_1.3:28 ॥
करुणापरत्वं सतां स्वभाव इति ॥ ग्र्ह्त्च्म्_1.3:29 ॥
यथा ।
छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य इति ॥ ग्र्ह्त्च्म्_1.3:30 ॥
स्तर्त् ग्र्ह्त् 1.4
सुरगुरुगोद्विजहिंसापापकलापोद्भवं किलासाध्यम् ।
तदपि च शमयति यस्मात् को ऽन्यस् तस्मात् पवित्रतरः

1.5

*चोम्म्. मुग्धावबोधिनी:
सुरेत्यादि ॥ ग्र्ह्त्च्म्_1.4:1 ॥
तस्मात् सूतराजात् अन्यो द्वितीय पवित्रतर अतिशयेन पवित्रः कः किल श्रूयते न को ऽपि ॥ ग्र्ह्त्च्म्_1.4:2 ॥
यस्माद्धेतोः अपीति निश्चयेन असाध्यं रुजं शमयति सर्वरूपान्वितमसाध्यं दिव्यौषधिभिर् अपि कर्मविपाकेनापि साध्यते तच्च किंविशिष्टम् असाध्यं सुरेत्यादिः सुराश् च गुरवश् च गावश् च द्विजाश् च तेषां या हिंसा हननम् अवमाननं वाताद् उत्पन्नो यः पापकलापो दुष्कृतपटल एतस्माद् उद्भवतीति ॥ ग्र्ह्त्च्म्_1.4:3 ॥
स्तर्त् ग्र्ह्त् 1.5
तस्य स्वयं हि स्फुरति प्रादुर्भावः स शांकरः को ऽपि ।
कथमन्यथा हि शमयति विलसन्मात्राच्च पापरुजम्

1.6

*चोम्म्. मुग्धावबोधिनी:
तस्येत्यादि ॥ ग्र्ह्त्च्म्_1.5:1 ॥
कविनानेनानुमानेन लोकप्रतीतः क्रियते ॥ ग्र्ह्त्च्म्_1.5:2 ॥
यः पूर्वोक्तः सूतराजस् तस्य को ऽप्यनिर्वचनीयः स सर्वदेशीयत्वेन शांकरः प्रादुर्भावः शमयतीति दुःखमुपशमयतीति शं प्रसादः शं करोतीति शंकरः तस्यायं शांकरः दुःखोपशमायायं प्रादुर्भवतीति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.5:3 ॥
दुःखमाधिव्याध्यात्मकेन द्विविधं पुनर् आधिभौतिकाधिदैविकाध्यात्मिकभेदाच्च त्रिविधम् ॥ ग्र्ह्त्च्म्_1.5:4 ॥
स पुनरस्य सूतराजस्य स्वयं स्फुरति प्रकाशत इति ॥ ग्र्ह्त्च्म्_1.5:5 ॥
अन्यथा अन्यप्रकारेण शांकरप्रादुर्भावं विना पापरुजं कुष्ठं सुरगुरुगोद्विजहिंसापापकलापोद्भवं कथं शमयति ॥ ग्र्ह्त्च्म्_1.5:6 ॥
कुतः विलसन्मात्रात् दृष्टिगोचरत्वात् ॥ ग्र्ह्त्च्म्_1.5:7 ॥
रसेन्द्रमङ्गले यथा ।
शताश्वमेधेन कृतेन पुण्यं गोकोटिदानेन गजेन्द्रकोटिभिः ।
सुवर्णभूदानसमानधर्मे नरो लभेत् सूतकदर्शनेन इति ॥ ग्र्ह्त्च्म्_1.5:8 ॥
स्तर्त् ग्र्ह्त् 1.6
रसबन्धश्च स धन्यः प्रारम्भे यस्य सततमिव करुणा ।
सिद्धे रसे करिष्ये महीमहं निर्जरामरणम्

1.7

*चोम्म्. मुग्धावबोधिनी:
मूर्छितबद्धमृतस्यावस्थया त्रिविधं सूतराजस्य बन्धनं प्रशंसति कविः रस इत्यादि ॥ ग्र्ह्त्च्म्_1.6:1 ॥
भो जनाः रसबन्धः पारदबन्धनं धन्यः यस्य प्रारम्भे सततं निरन्तरं करुणा जायत इति शेषः ॥ ग्र्ह्त्च्म्_1.6:2 ॥
किंरूपा अहं गोविन्दनामा रसे सिद्धे सति सम्यग्बन्धनत्वं प्राप्ते सति महीं मेदिनीं निर्जरामरणं यथा तथा करिष्ये ॥ ग्र्ह्त्च्म्_1.6:3 ॥
अतिसामीप्याद्वर्तमान एव ऌट् ॥ ग्र्ह्त्च्म्_1.6:4 ॥
निर्जरामरणमिति क्रियाविशेषणम् ॥ ग्र्ह्त्च्म्_1.6:5 ॥
जरा पालित्यं मरणं प्राणत्याग आभ्यां रहितं यथा मह्यां जरामरणं न युक्तम् ॥ ग्र्ह्त्च्म्_1.6:6 ॥
अत्र महीपदेन महीमधिकृत्य निवसन्ति ये मनुजादयस् त एव लक्षणावृत्तित्वात् ॥ ग्र्ह्त्च्म्_1.6:7 ॥
पुना रसायनवशाज्जरानिषेधो भवेद् इति युक्तम् ॥ ग्र्ह्त्च्म्_1.6:8 ॥
हितोपदेशे यथा ।
यज्जराव्याधिविध्वंसि भेषजं तद् रसायनम् ।
आद्ये वयसि मध्ये वा शुद्धकायः समाचरेद् ।
इति ॥ ग्र्ह्त्च्म्_1.6:9 ॥
मरणनिषेधः कथमौषधेन अन्यौषधिशक्तिह्रासतो न युक्तः रसेश्वरशक्त्याधिक्याद् युक्तः ॥ ग्र्ह्त्च्म्_1.6:10 ॥
रसरत्नाकरे यथा ।
मृत्योर्जराविषधरस्य च वैनतेय तुभ्यं नमामि सुरवन्दितसूतराज ।
इति ॥ ग्र्ह्त्च्म्_1.6:11 ॥
स्तर्त् ग्र्ह्त् 1.7
ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः ।
वन्द्यास्ते रससिद्धा मन्त्रगणाः किंकरा येषाम्

1.8

*चोम्म्. मुग्धावबोधिनी:
जरामरणनिषेधत्वेन किमाधिक्यं तदाह य इत्यादि ॥ ग्र्ह्त्च्म्_1.7:1 ॥
ये एवंविधरससिद्धास्ते वन्द्या अभिवादनयोग्याः स्तुत्याश्च ॥ ग्र्ह्त्च्म्_1.7:2 ॥
वदि अभिवादनस्तुत्योः ॥ ग्र्ह्त्च्म्_1.7:3 ॥
किंविशिष्टा अत्यक्तशरीराः न त्यक्तं शरीरं यैस्ते जीवन्मुक्ता इत्यर्थः ॥ ग्र्ह्त्च्म्_1.7:4 ॥
शरीरं द्विविधं स्थूलसूक्ष्मभेदात् पृथिव्यप्तेजोवाय्वाकाशात्मकं स्थूलं कोशत्रयात्मकं सूक्ष्मम् ॥ ग्र्ह्त्च्म्_1.7:5 ॥
यथा सूत्रम् ।
विज्ञानमयं मनोमयं प्राणमयम् एतत् कोशत्रयं मिलितं सूक्ष्मशरीरमुत्पद्यते ॥ ग्र्ह्त्च्म्_1.7:6 ॥
अन्ये एव सूक्ष्मशरीरम् ॥ ग्र्ह्त्च्म्_1.7:7 ॥
अत्यक्तशरीररससिद्धाश्च उच्यन्ते ।
मन्थानभैरवो योगी सिद्धबुद्धश्च कन्थडी ।
कोरण्टकः सुरानन्दः सिद्धपादश्च चर्पटी ॥ ग्र्ह्त्च्म्_1.7:8 ॥
कणेरी पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपाली बिन्दुनाथश्च काकचण्डीश्वरो गजः ॥ ग्र्ह्त्च्म्_1.7:9 ॥
आल्लमः प्रभुदेवश्च घोडाचोली च ठिण्ठिनी ।
भालुकिर् नागदेवश्च खण्डी कापालिकस् तथा ॥ ग्र्ह्त्च्म्_1.7:10 ॥
इत्यादयो महासिद्धा रसभोगप्रसादतः ।
खण्डयित्वा कालदण्डं त्रिलोक्यां विचरन्ति ते ॥ ग्र्ह्त्च्म्_1.7:11 ॥
इति ॥ ग्र्ह्त्च्म्_1.7:12 ॥
पुनः किंविशिष्टाः तनुं प्राप्ताः शरीरं ग्रहीतारः ॥ ग्र्ह्त्च्म्_1.7:13 ॥
किंविशिष्टां तनुं हरगौरीसृष्टिजां हरो महादेवः गौरी पार्वती तयोः सृष्टिः सर्जनं मैथुनसंयोगस् तज्जाता पुत्रा एवेत्यर्थः ॥ ग्र्ह्त्च्म्_1.7:14 ॥
पुनर्येषां मन्त्रगणाः किंकराः मन्त्रसमूहा आज्ञाकरा इत्यर्थः ॥ ग्र्ह्त्च्म्_1.7:15 ॥
स्तर्त् ग्र्ह्त् 1.8-9
सुकृतफलं तावदिदं सुकुले यज्जन्म धीश्च तत्रापि ।
सापि च सकलमहीतलतुलनफला भूतलं च सुविधेयम्

1.9

भूतलविधेयतायाः फलमर्थास्ते च विविधभोगफलाः ।
भोगाः सन्ति शरीरे तदनित्यमहो वृथा सकलम्

1.10

*चोम्म्. मुग्धावबोधिनी:
तावदिति साकल्ये यावत्तावद् इत्येतौ साकल्यावधिमानवधारणेष्व् इति प्रसादतः ॥ ग्र्ह्त्च्म्_1.8-9:1 ॥
इदं सुकृतफलं सुविहितकर्मफलम् इदं कियत् सुकृते शुभान्वये जन्म स्वतन्त्रा धीः स्वाधीनबुद्धिर् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.8-9:2 ॥
अपीति निश्चयेन ॥ ग्र्ह्त्च्म्_1.8-9:3 ॥
सा बुद्धिः सकलमहीतलतुलनफला सकलस्य निरवशेषस्य महीतलस्य तुलनं फलं यस्याः सा तथोक्ता ॥ ग्र्ह्त्च्म्_1.8-9:4 ॥
तुलनम् इति तुलया स्वतन्त्रबुद्धिरूपया सकलमहीतलस्य तुलनं भवत्येवेति युक्तं किमाकारा कियन्माना कैः श्रिता कैर् धृता च भूर् इति ज्योतिषसिद्धान्तविधानाद् अदृष्टान्ता भूर् बुद्ध्योपलक्ष्यते ॥ ग्र्ह्त्च्म्_1.8-9:5 ॥
पुनः सुकुलजन्मस्वतन्त्रबुद्धिभ्यां भूतलं सुविधेयं पूज्यं ज्ञातव्यम् ॥ ग्र्ह्त्च्म्_1.8-9:6 ॥
एकदेशग्रहणात् सर्वं ग्राह्यं महान्तस्तोका भूतलं बहु ईदृशा महान्तो यत्र तिष्ठन्ति तत्स्थानं पूज्यं वेत्तुमशक्यत्वात् सर्वमिति ॥ ग्र्ह्त्च्म्_1.8-9:7 ॥
सुकुलजन्मसम्बन्धो व्याख्यायते भूतलेत्यादि ॥ ग्र्ह्त्च्म्_1.8-9:8 ॥
भूतलविधेयतायाः भूतले पृथिवीमण्डले या विधेयता सर्वकर्मप्रवीणता तस्या अर्थाः कार्याणि कथंभूताः विविधभोगफलाः विविधाश्च ते भोगाश्च विविधभोगाः नानाभोगाः फलं येषां ते तथोक्ताः ॥ ग्र्ह्त्च्म्_1.8-9:9 ॥
ते फलं फलरूपाः ॥ ग्र्ह्त्च्म्_1.8-9:10 ॥
भोगाः शरीरे सन्ति भवन्ति ॥ ग्र्ह्त्च्म्_1.8-9:11 ॥
कुतः यतो वेदान्तसूत्रं प्रारब्धकर्मफलभोगायतनं शरीरम् इति ॥ ग्र्ह्त्च्म्_1.8-9:12 ॥
अत एव भोगानाम् आश्रयाः शरीरम् ॥ ग्र्ह्त्च्म्_1.8-9:13 ॥
अहो इति कष्टे आश्चर्ये वा ॥ ग्र्ह्त्च्म्_1.8-9:14 ॥
एतच्छरीरं तु सर्वोत्कृष्टमिति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.8-9:15 ॥
सा मुक्तिः पिण्डपातने इति वचनात् ॥ ग्र्ह्त्च्म्_1.8-9:16 ॥
स्तर्त् ग्र्ह्त् 1.10
इति धनशरीरभोगान् मत्वानित्यान् सदैव यतनीयम् ।
मुक्तौ सा च ज्ञानात् तच्चाभ्यासात् स च स्थिरे देहे

1.11

*चोम्म्. मुग्धावबोधिनी:
सर्वसाधनं शरीरं मत्वाभिमतं दिशति भो जनाः सदा सर्वस्मिन् काले अहर्निशं यतनीयम् किं कृत्वा धनशरीरभोगान् अनित्यान् नश्वरान् मत्वा यतनीयम् इति ॥ ग्र्ह्त्च्म्_1.10:1 ॥
किं यथा शरीरं नित्यस्थायि भवति शरीरे नित्ये सर्वं नित्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.10:2 ॥
तस्य शरीरस्य नित्यस्य ज्ञानात् सर्वोत्कृष्टेनानेनैव शरीरं नित्यं भवेद् इत्यवबोधात् तस्यैवाभ्यासाच्च मुक्तिर् भवति ॥ ग्र्ह्त्च्म्_1.10:3 ॥
क्व सति स्थिरे देहे सति ॥ ग्र्ह्त्च्म्_1.10:4 ॥
मनसो धर्मैः शरीराश्रितैः षङ्किकारश् च देहास्थिरत्वम् एतन्निषेधत्वं देहस्थिरत्वं मोक्षः ॥ ग्र्ह्त्च्म्_1.10:5 ॥
तदेवाह रामं प्रति गुरोर्वचनम् ।
न मोक्षो नभसः पृष्ठे न पाताले न भूतले ।
सर्वाशासंक्षयश् चेतः शमो मोक्षम् इतीक्षते इति ॥ ग्र्ह्त्च्म्_1.10:6 ॥
स्तर्त् ग्र्ह्त् 1.11
तत्स्थैर्यं न समर्थं रसायनं किमपि मूललोहादि ।
स्वयमस्थिरस्वभावं दाह्यं क्लेद्यं च शोष्यं च

1.12

*चोम्म्. मुग्धावबोधिनी:
तस्य देहस्य स्थैर्येण स्थिरभावेन कृत्वा रसायनं जराव्याधिनाशनं प्रति समर्थं कारकतरम् ॥ ग्र्ह्त्च्म्_1.11:1 ॥
अपीति निश्चयेन ॥ ग्र्ह्त्च्म्_1.11:2 ॥
किं सूतलोहादिः सूतः पारदः लोहाः स्वर्णादयो नवकाः कृत्रिमाकृत्रिमभेदयुक्ताः राजरीतिखर्परीघोषाः कृत्रिमाः स्वर्णतारताम्रनागवङ्गलोहा अकृत्रिमाः आदिशब्दान्महारसा उपरसाश्च ज्ञातव्याः ॥ ग्र्ह्त्च्म्_1.11:3 ॥
के त इमे रसावतारे यथा ।
हिङ्गूलताप्यविमलाचलसस्यकान्तवैक्रान्तपक्षिपतयश् च महारसाः स्युः ।
सौवीरगन्धकशिलालविरङ्गधातुकासीसकांक्ष्य् उपरसाः कथिता रसज्ञैः इति ॥ ग्र्ह्त्च्म्_1.11:4 ॥
अथवा स्थैर्येण समर्थे तत् देहं प्रति रसायनं किं सूतलोहादि ॥ ग्र्ह्त्च्म्_1.11:5 ॥
सूते यदभिव्याप्तं ग्रासमानेन लोहादि तत्तथोक्तं सूते इति अभिव्यापके ॥ ग्र्ह्त्च्म्_1.11:6 ॥
अधिकरणे सप्तमी ॥ ग्र्ह्त्च्म्_1.11:7 ॥
तद्देहं स्वयमस्थिरम् अस्थिरीभावत्वभावं पुनर् दाह्यं दग्धुं शक्यं पुनः क्लेद्यम् आर्द्रीभावेन शीर्णयितुं शक्यं पुनः शोध्यं शोषयितुम् अग्निजलानिलैः दाह्यं क्लेद्यं शोष्यं च शरीरमित्यर्थः ॥ ग्र्ह्त्च्म्_1.11:8 ॥
सूतलोहादिना देहमनित्यं नित्यं भवेत् अयमेव यत्न इति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.11:9 ॥
स्तर्त् ग्र्ह्त् 1.12-13
<औfल्öसुन्ग् प्fलन्zएन् -> अमरत्व>
काष्ठौषध्यो नागे नागं वङ्गे वङ्गमपि लीयते शुल्वे ।
शुल्वं तारे तारं कनके कनकं च लीयते सूते

1.13

परमात्मनीव नियतं लयो यत्र सर्वसत्त्वानाम् ।
एकोऽसौ रसराजः शरीरमजरामरं कुरुते

1.14

*चोम्म्. मुग्धावबोधिनी:
पूर्वश्लोके सूतलोहादिकमुक्तं तत्राधिव्यापकाधिकरणस्य क्रमं दर्शयति काष्ठौषध्य इत्यादि ॥ ग्र्ह्त्च्म्_1.12-13:1 ॥
काष्ठौषध्यः कुमारिकादयः नागे लीयन्ते तन्नागं वङ्गे लीयते तद्वङ्गमपि शुल्बे ताम्रे लीयते तच्छुल्बं तारे लीयते तत्तारं रूप्यं कनके सुवर्णे लीयते तत्कनकं सूते पारदे लीयते इति ॥ ग्र्ह्त्च्म्_1.12-13:2 ॥
कथं लीयते विधानत एकैकेन युक्तं समुदायेनापि च ॥ ग्र्ह्त्च्म्_1.12-13:3 ॥
धातूनाम् अरिवर्गत्वान् महारसोपरसानाम् अपि योगम् अपिशब्दाश्च ॥ ग्र्ह्त्च्म्_1.12-13:4 ॥
समुदायत्वेनोपवर्णयति परमात्मनीत्यादि ॥ ग्र्ह्त्च्म्_1.12-13:5 ॥
असौ एको धात्वाद्यन्तर्भूतो रसराजः शरीरमजरामरं जरामरणवर्जितं कुरुते ॥ ग्र्ह्त्च्म्_1.12-13:6 ॥
रसैर् महारसोपरसैर् अन्तर्भूतो राजते शोभते वा प्रकाशते इति रसराजः अथवा रसेषु महारसोपरसेषु अनादरीभूतेषु सत्सु राजत इति विशेषार्थः ॥ ग्र्ह्त्च्म्_1.12-13:7 ॥
तथा च सूत्रं षष्ठीसप्तम्यौ चानादरे इति अथवा रसानां महारसोपरसधातूनां राजा तेषु मुख्यत्वेनोपदिष्टः मुख्यत्वेनास्य ग्रहणमित्युपलक्षणम् ॥ ग्र्ह्त्च्म्_1.12-13:8 ॥
अनेनैव सर्वसंग्रहणं ज्ञातव्यम् ॥ ग्र्ह्त्च्म्_1.12-13:9 ॥
इवेति सादृश्ये ॥ ग्र्ह्त्च्म्_1.12-13:10 ॥
आत्मनि ब्रह्मणि नियतं निश्चितं सर्वसत्त्वानां सकलजीवानां लयो भवति लयोऽन्तर्भावः वा तस्मिन्सर्वे ॥ ग्र्ह्त्च्म्_1.12-13:11 ॥
सत्त्वा लीना एव तिष्ठन्तीत्यात्मानः तटस्थस्वरूपतैतल्लक्षणद्वयम् उक्तम् ॥ ग्र्ह्त्च्म्_1.12-13:12 ॥
तथा रसराजेऽपि दर्शयति काष्ठौषधीधातुमहारसोपरसादीनां लयो ज्ञेयः तटस्थलक्षणेन लयस्य क्रम उपदिष्टः ॥ ग्र्ह्त्च्म्_1.12-13:13 ॥
स्वरूपलक्षणेनौषधीधातुमहारसोपरसादयः पृथक्त्वेन स्थिता अपि गुणैरन्तर्भूता एव ज्ञातव्याः यतः सर्वेषां गुणान्तर्भूतः सूतस् ततो ऽनन्तगुण आचार्यैर् उपवर्णितः ॥ ग्र्ह्त्च्म्_1.12-13:14 ॥
लयविशेषादुभयोः साम्यमिति रहस्यम् ॥ ग्र्ह्त्च्म्_1.12-13:15 ॥
स्तर्त् ग्र्ह्त् 1.14
अमृतत्वं हि भजन्ते हरमूर्तौ योगिनो यथा लीनाः ।
तद्वत्कवलितगगने रसराजे हेमलोहाद्याः

1.15

*चोम्म्. मुग्धावबोधिनी:
सर्वं समीकर्तुमाह अमृतत्वमित्यादि ॥ ग्र्ह्त्च्म्_1.14:1 ॥
ते स्वात्मना आत्मना सह योगकर्तृका योगिनो यथा हरमूर्तौ महादेवशरीरे लीनाः सन्तः अमृतत्वं भजन्ते मुक्तत्वं प्राप्नुवन्ति ॥ ग्र्ह्त्च्म्_1.14:2 ॥
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् इत्यमरः ॥ ग्र्ह्त्च्म्_1.14:3 ॥
तद्वत्तेनैव प्रकारेण रसराजे पारदे कवलितगगने ग्रासीकृताभ्रके सति हेमलोहाद्या लीनाः सन्त अमृतत्वं पीयूषभावं भजन्ते अमरीकरणयोग्या भवन्ति ॥ ग्र्ह्त्च्म्_1.14:4 ॥
हेम च लोहश्च हेमलोहौ आद्यौ येषां वा हेमसंज्ञको लोह आद्यो येषां ते तथोक्ताः ॥ ग्र्ह्त्च्म्_1.14:5 ॥
अभ्रके कवलिते सति चारणा स्यान्नान्यथेति ॥ ग्र्ह्त्च्म्_1.14:6 ॥
स्तर्त् ग्र्ह्त् 1.15
स्थिरदेहोऽभ्यासवशात्प्राप्य ज्ञानं गुणाष्टकोपेतम् ।
प्राप्नोति ब्रह्मपदं न पुनर्भवावासदुःखेन

1.16

*चोम्म्. मुग्धावबोधिनी:
अधुना स्थिरदेहस्य फलं व्यनक्ति स्थिरेत्यादि ॥ ग्र्ह्त्च्म्_1.15:1 ॥
पूर्वोक्तस्यैव रसराजस्याभ्यासात् सेवनाद्धेतोः स्थिरदेहः पुमान् ब्रह्मपदं प्राप्नोति ॥ ग्र्ह्त्च्म्_1.15:2 ॥
ब्रह्मपदं परमानन्दस्वरूपम् ॥ ग्र्ह्त्च्म्_1.15:3 ॥
किंकृत्वा ज्ञानं प्राप्य ॥ ग्र्ह्त्च्म्_1.15:4 ॥
कीदृशं ज्ञानं गुणाष्टकोपेतम् अणिमाद्यष्टसिद्ध्युपेतम् ॥ ग्र्ह्त्च्म्_1.15:5 ॥
कथं ब्रह्मपदं प्राप्नोति ॥ ग्र्ह्त्च्म्_1.15:6 ॥
यथा पुनरप्रथमं भवावासदुःखे संसारनिवासनतापत्रयात्मककष्टे न पततीत्यर्थः ॥ ग्र्ह्त्च्म्_1.15:7 ॥
ज्ञानं प्राप्य ब्रह्मपदं प्राप्नोति ॥ ग्र्ह्त्च्म्_1.15:8 ॥
कथम् ऋते ज्ञानान्न मुक्तिरिति ॥ ग्र्ह्त्च्म्_1.15:9 ॥
अन्यच्च किं मोक्षतरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् इति प्रश्नोत्तररत्नमालायाम् ॥ ग्र्ह्त्च्म्_1.15:10 ॥
स्तर्त् ग्र्ह्त् 1.16
एकांशेन जगन्ति च विष्टभ्यावस्थितं परं ज्योतिः ।
पादैस्त्रिभिस्तदमृतं सुलभं न विरक्तिमात्रेण

1.17

*चोम्म्. मुग्धावबोधिनी:
ज्ञानगम्यं ब्रह्मोपवर्णयत्येकांशेनेत्यादि ॥ ग्र्ह्त्च्म्_1.16:1 ॥
किंविशिष्टं ब्रह्म परं ज्योतिः प्रकाशस्वरूपं तत्परं ज्योतिर् जगन्ति संसाराणि स्वर्गमृत्युपातालादीनि विष्टभ्य व्याप्य स्थितं केन एकांशेन अनेकब्रह्माण्डनायकत्वात् एकैकस्मिन् ब्रह्माण्डे बहूनि संसाराणि वर्तन्ते अत एकांशेनेत्युक्तं पुनस् तत्परं ज्योतीरूपम् अमृतं त्रिभिः पादैर् अभ्यासस्थिरदेहज्ञानसंज्ञकैः सुलभं सुखेन लभ्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.16:2 ॥
प्रथमम् अभ्यासोऽमृतसुलभत्वे ॥ ग्र्ह्त्च्म्_1.16:3 ॥
हेतुरेकः स्थिरदेहश् च द्वितीयो हेतुर् ज्ञानं तृतीयहेतुर्मोक्षे यथावाक्यं न विरक्तिमात्रम् ॥ ग्र्ह्त्च्म्_1.16:4 ॥
स्तर्त् ग्र्ह्त् 1.17
न हि देहेन कथंचिद् व्याधिजरामरणदुःखविधुरेण ।
क्षणभङ्गुरेण सूक्ष्मं तद्ब्रह्मोपासितुं शक्यम्

1.18

*चोम्म्. मुग्धावबोधिनी:
पूर्वापराभ्यामभ्यासज्ञानाभ्यां स्थिरदेहो हेतुर्गरीयानिति सूचयन्नाह नेत्यादि ॥ ग्र्ह्त्च्म्_1.17:1 ॥
उभयोः साधकत्वात् तादृशदेहव्यतिरिक्तं कथंचिदपि किंचिन् न सिध्यतीत्यर्थः ॥ ग्र्ह्त्च्म्_1.17:2 ॥
किंविशिष्टेन व्याधिजरामरणदुःखविधुरेण व्याधिरामयः जरा पालित्यं मरणं प्राणत्यागः दुःखं मोहशोकादिकम् एतैर् विधुरं ताडितं व्यध ताडने इत्यस्य घातो रूपं विधुरम् उरप्रत्ययान्तम् ॥ ग्र्ह्त्च्म्_1.17:3 ॥
पुनः किंविशिष्टेन क्षणभङ्गुरेण क्षणविनाशिना देहेन तद्ब्रह्म चिद्घनानन्दस्वरूपम् उपासितुं सेवितुं कथं केन प्रकारेण शक्यं कुतो यतः सूक्ष्मम् इन्द्रियाग्राह्यत्वात् ॥ ग्र्ह्त्च्म्_1.17:4 ॥
स्तर्त् ग्र्ह्त् 1.18
नामापि योगसिद्धेः को गृह्णीयाद्विना शरीरेण ।
यद्योगगम्यममलं मनसोऽपि न गोचरं तत्त्वम्

1.19

*चोम्म्. मुग्धावबोधिनी:
सर्वोपायेन शरीरं स्थिरं कार्यम् इत्याह नामेत्यादि ॥ ग्र्ह्त्च्म्_1.18:1 ॥
देहसिद्धेः शरीरविभूतेः नामाप्यभिधानमपि को गृह्णीयान्न को ऽपीत्यर्थः ॥ ग्र्ह्त्च्म्_1.18:2 ॥
केन विना शरीरेण शरीरमन्तरेण सिद्धिरस्तु परं तन्नाम केनापि न गृह्यते शरीरनामग्रहणमिति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.18:3 ॥
अनश्वरं शरीरं भवतु चेत् तद् अमलं निरञ्जनं तत्त्वं ब्रह्मावश्यं प्राप्यते ॥ ग्र्ह्त्च्म्_1.18:4 ॥
तत्तत्त्वं मनसोऽपि न गोचरं चित्तेनापि न गम्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.18:5 ॥
तर्हि केन गम्यम् उभयोर् मेलनम् एकीकरणं योगस्तेनैव प्रकृतिपुरुषयोर् एकीकरणेनेत्यर्थः ॥ ग्र्ह्त्च्म्_1.18:6 ॥
स्तर्त् ग्र्ह्त् 1.19
यज्ञाद्दानात्तपसो वेदाध्ययनाद्दमात्सदाचारात् ।
अत्यन्तं श्रेयः किल योगवशादात्मसंवित्तिः

1.20

*चोम्म्. मुग्धावबोधिनी:
अधुना योगस्य सर्वकर्मभ्य उत्कृष्टत्वं दर्शयति यज्ञाद् इत्यादि ॥ ग्र्ह्त्च्म्_1.19:1 ॥
अत्यन्तं श्रेय इति अधिकतरकल्याणं सर्वोपद्रवनिवारणात्मकं भवेद् इत्यध्याहारः ॥ ग्र्ह्त्च्म्_1.19:2 ॥
कुतः यज्ञादश्वमेधादेः न केवलं यज्ञात् पुनर्दानात् धनस्यार्पणात् पात्रेषु पुनस्तपसः कृच्छ्रातिकृच्छ्रचान्द्रायपसंचाग्नितपनादेः पुनर्वेदाध्ययनात् वेदानाम् ऋग्यजुःसामाथर्वणां अध्ययनं पाठाक्रमस्ततः पुनर्दमात् वेदान्तानुसारेण दमस्तावत् बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो मनसा निर्वर्तनं तद्व्यतिरिक्तं श्रवणादिव्यतिरिक्तं ततः पुनः सदाचारात् ब्राह्ममुहूर्तम् आरभ्य प्रातःसंगवमध्याह्नापराह्णसायाह्नादिषु शयनपर्यन्तं वेदबोधितो विधिः सदाचारस्तत इति समुदायः श्रेयस्करो नात्मसंवित्तिकरः पुनरात्मसंवित्तिः ब्रह्मवेदनं योगवशादेव स्यात् योगः पूर्वमुक्तः ॥ ग्र्ह्त्च्म्_1.19:3 ॥
स्तर्त् ग्र्ह्त् 1.20
गलितानल्पविकल्पसर्वार्थविवर्जितश् चिदानन्दः ।
स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य

1.21

*चोम्म्. मुग्धावबोधिनी:
यस्य जीवस्य योगवशात्संवित्तिर्जाता स कीदृश इत्याह गलितेत्यादि ॥ ग्र्ह्त्च्म्_1.20:1 ॥
गलितानल्पविकल्प इति गलितो दूरीभूतो ऽनल्पो बहुतरो विकल्पो मिथ्याज्ञानं यस्य ईदृक् स्यात् ॥ ग्र्ह्त्च्म्_1.20:2 ॥
पुनः कीदृक् सर्वार्थविवर्जितः सर्वे च ते अर्थाश्च तैर् विवर्जिताः सम्यग्रहितो भवति कार्याणां स्मरणकरणयोरभाव इत्यर्थः ॥ ग्र्ह्त्च्म्_1.20:3 ॥
पुनः कथंभूतः चिदानन्दश् चिदा प्रकाशेन आनन्दः सुखसम्पत्तिर् यस्य स तथोक्तः ॥ ग्र्ह्त्च्म्_1.20:4 ॥
प्रकाशहेतुना आनन्दता भवेत् जडहेतुना तद्विपर्ययः ॥ ग्र्ह्त्च्म्_1.20:5 ॥
ईदृक् सः स्फुरितोऽपि प्रकाशमानोऽपि अस्फुरिततनोर्जन्तुवर्गस्य अप्रकाशशरीरस्य जीवसमूहस्य किं करोति पृच्छां करोति ॥ ग्र्ह्त्च्म्_1.20:6 ॥
किमिति पृच्छाजुगुप्सयोः इति प्रसादः ॥ ग्र्ह्त्च्म्_1.20:7 ॥
पृच्छति च हसति च रोदिति प्रमत्तवन् मानवोऽपि तल्लीन इति ॥ ग्र्ह्त्च्म्_1.20:8 ॥
स्तर्त् ग्र्ह्त् 1.21
भ्रूयुगमध्यगतं यच्छिखिविद्युन्निर्मलं जगद्भासि ।
केषांचित् पुण्यकृताम् उन्मीलति चिन्मयं ज्योतिः

1.22

*चोम्म्. मुग्धावबोधिनी:
आत्मसंवित्तेर् विरलत्वं सूचयन्न् आह भ्रूयुगेत्यादि ॥ ग्र्ह्त्च्म्_1.21:1 ॥
यत् भ्रूयुगमध्यगतं भ्रूद्वयान्तर्गतं सत् प्रकाशते तत्र दृष्टिं निधाय योगिनः पश्यन्ति खेचर्या मुद्रया हठप्रदीपिकायां पद्यम् ।
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोर् अन्तर्गता दृष्टिर्मुद्रा भवति खेचरी ॥ ग्र्ह्त्च्म्_1.21:2 ॥
इति ॥ ग्र्ह्त्च्म्_1.21:3 ॥
पुनः शिखिविद्युत्सु वह्निसौदामिनीषु निर्मलं सत् यत्प्रकाशते पुनर्यत् जगद्भासि जगत् संसारं प्रकाशते तत् चिन्मयं प्रकाशप्रचुरं ज्योतिः केषांचित् पुण्यकृतां सुविहितकर्मकर्त्ःणाम् उन्मीलति प्रादुर्भवति न तु सर्वेषां यतो निर्मलं प्रकाशं ध्यात्वा विपुलपुण्येन निर्मलत्वाय जायते अतः प्रकाशो युक्तः ॥ ग्र्ह्त्च्म्_1.21:4 ॥
स्तर्त् ग्र्ह्त् 1.22
परमानन्दैकमयं परमं ज्योतिःस्वभावमविकल्पम् ।
विगलितसर्वक्लेशं ज्ञेयं शान्तं स्वयंसंवेद्यम्

1.23

*चोम्म्. मुग्धावबोधिनी:
पूर्ववर्णितं चिन्मयं विशेषयन्नाह परमानन्दैकमयम् इत्यादि ॥ ग्र्ह्त्च्म्_1.22:1 ॥
तद्ब्रह्म ईदृशं ज्ञेयं परमानन्दैकमयमिति परम उत्कृष्टो ऽसाव् आनन्दः परमानन्दः स एव एको ऽद्वितीयस् तात्प्राचुर्यं यस्मिंस् तथोक्तं पुनः किंविशिष्टं परमं ज्योतिःस्वभावं परमं यज्ज्योतिः तत्स्वभावः स्वरूपं यस्य तद् अशरीरत्वात्स्वप्रकाशित्वाच्च पुनः अविकल्पं मिथ्याज्ञानशून्यं पुनर्विगलितसर्वक्लेशं विगलिता विशेषेण दूरीकृताः सर्वक्लेशाः दुःखानि यस्मात् तत् स्वरूपत्वात् पुनः शान्तं शममयं पुनः स्वयंवेद्यम् अन्येन वेदितुम् अशक्यम् आत्मनैव वेद्यं तस्मान्नापरोऽस्तीति भावात् ॥ ग्र्ह्त्च्म्_1.22:2 ॥
स्तर्त् ग्र्ह्त् 1.23
तस्मिन्नाधाय मनः स्फुरदखिलं जगत्पश्यन् ।
उत्सन्नकर्मबन्धो ब्रह्मत्वमिहैव चाप्नोति

1.24

*चोम्म्. मुग्धावबोधिनी:
ज्ञेयोपदेशमाह तस्मिन्नित्यादि ॥ ग्र्ह्त्च्म्_1.23:1 ॥
तस्मिन्नाधायेति पूर्वनिरूपिते तस्मिन्नेवात्मनि मन आधाय संस्थाप्य पुमान् उत्सन्नकर्मबन्धो भवेत् त्यक्तकर्मपाशः स्यात् ॥ ग्र्ह्त्च्म्_1.23:2 ॥
स इहैव जन्मनि ब्रह्मत्वं प्राप्नोतीति विशेषः ब्रह्मविद् ब्रह्मैव भवति इति श्रुतेः ॥ ग्र्ह्त्च्म्_1.23:3 ॥
स पुमान् मन आदधाति ॥ ग्र्ह्त्च्म्_1.23:4 ॥
किं कुर्वन् सन् अखिलं जगत् सर्वसंसारं चिन्मयं प्रकाशस्वरूपं चिद्विकारं पश्यन् अवलोकमानो मनश्चक्षुषा किंविशिष्टं जगत् स्फुरत् अध्यारोपापदेशेन देदीप्यमानम् ॥ ग्र्ह्त्च्म्_1.23:5 ॥
तथा च भगवद्वचनम् ।
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥ ग्र्ह्त्च्म्_1.23:6 ॥
इति ॥ ग्र्ह्त्च्म्_1.23:7 ॥
हे पार्थ स पुमान् मनुष्येषु बुद्धिमान् ॥ ग्र्ह्त्च्म्_1.23:8 ॥
अनेन सामान्यत्वमुक्तम् ॥ ग्र्ह्त्च्म्_1.23:9 ॥
विशेषश्च यथा रज्जौ सर्पभ्रमो यथा शुक्तौ रजतज्ञानं यथा गन्धर्वनगरं यथा मरुस्थले वारि तथैव संसारो नासीत् नास्ति न भविष्यतीति अद्वैतवादान्मिथ्यैव ॥ ग्र्ह्त्च्म्_1.23:10 ॥
स्तर्त् ग्र्ह्त् 1.24
अस्तं हि यान्ति विषयाः प्राणान्तःकरणसंयोगात् ।
स्फुरणं नेन्द्रियतमसां नातः स्फुरतश्च दुःखसुखे

1.25

*चोम्म्. मुग्धावबोधिनी:
उत्सन्नकर्मबन्धस्य विषया अस्तं यान्ति ॥ ग्र्ह्त्च्म्_1.24:1 ॥
प्राणान्तःकरणसंयोगात् न इन्द्रियाणां स्फुरणं भवेत् ॥ ग्र्ह्त्च्म्_1.24:2 ॥
तथा च न्यायशास्त्रे आत्मा मनसा संयुज्यते मन इन्द्रियेण इन्द्रियमर्थेनेतीन्द्रियाणां वस्तुप्राप्यप्रकाशकारित्वनियमाद् इति ॥ ग्र्ह्त्च्म्_1.24:3 ॥
अतो हेतोश्च दुःखसुखे न स्फुरतः ॥ ग्र्ह्त्च्म्_1.24:4 ॥
आत्मनः प्रकाशात् प्राणान्तःकरणानां प्रकाशः प्राणान्तःकरणानि तमेव प्रकाशं प्राप्येन्द्रियाणि प्रकाशयन्ति ॥ ग्र्ह्त्च्म्_1.24:5 ॥
अत उभयोः परप्रकाशः ॥ ग्र्ह्त्च्म्_1.24:6 ॥
तद्वद् गहनतम अग्राह्यमन्धकारं चिद्भिन्नं प्रकाशेन प्रकाशितं स्यादिति ॥ ग्र्ह्त्च्म्_1.24:7 ॥
अभावपदार्थत्वाद् इन्द्रियतमसोर्जडत्वात् साम्यम् ॥ ग्र्ह्त्च्म्_1.24:8 ॥
स्तर्त् ग्र्ह्त् 1.25
रागद्वेषविमुक्ताः सत्याचारा नरा मृषारहिताः ।
सर्वत्र निर्विशेषा भवन्ति चिद्ब्रह्मसंस्पर्शात्

1.26

*चोम्म्. मुग्धावबोधिनी:
अधुना अन्तःकरणानां प्रवृत्तिं दर्शयति रागेत्यादि चिद्ब्रह्मसंस्पर्शादिति चिद्ब्रह्मणि प्रकाशस्वरूपे आत्मनि यः स्पर्शः तन्निष्ठा ततो हेतोः पुरुषा रागद्वेषवियुक्ताः स्नेहशत्रुत्वविरहिताः स्युः ॥ ग्र्ह्त्च्म्_1.25:1 ॥
पुनः सत्यः आचारः प्रवृत्तिधर्मो येषां ते पुनर्मृषारहिताः अत्याचाराद्यसत्यवर्जिता इत्यर्थः पुनः सर्वत्र निर्विशेषाः सर्वस्मिन् मानापमानयोः समाः तथा च भगवद्वचनम् ।
समः शत्रौ च मित्रे च तथा मानापमानयोः ॥ ग्र्ह्त्च्म्_1.25:2 ॥
इत्यादि ॥ ग्र्ह्त्च्म्_1.25:3 ॥
स्तर्त् ग्र्ह्त् 1.26
तिष्ठन्त्यणिमादियुता विलसद्देहा मुदा सदानन्दाः ।
ये ब्रह्मभावममृतं सम्प्राप्ताश्चैव कृतकृत्याः

1.27

*चोम्म्. मुग्धावबोधिनी:
आत्मनि स्पर्शत्वमुक्तिप्राप्तिं दर्शयन्नाह तिष्ठन्तीत्यादि ॥ ग्र्ह्त्च्म्_1.26:1 ॥
ये ब्रह्मभावममृतं मुक्तिसारूप्यत्वं प्राप्तास्ते कृतकृत्याः कृतसर्वकार्याः पूर्णतां प्राप्ता इत्यर्थः पुनस्ते अणिमादियुता अणिमादिभिर्युता इह जगति तिष्ठन्तीति अणिमादयो यथा ।
अणिमा महिमा चाथ लघिमा गरिमा तथा ।
प्राप्तिः प्राकाम्यमीशित्वं वशित्वं चाष्टभूतयः ॥ ग्र्ह्त्च्म्_1.26:2 ॥
इति ॥ ग्र्ह्त्च्म्_1.26:3 ॥
पुनर्विलसद्देहाः तेजःप्रायशरीराः पुनः सदानन्दाः केन मुदा हर्षेण सदा सर्वस्मिन्काले आनन्दो येषां ते तथोक्ताः परमानन्दे मग्नत्वात् ॥ ग्र्ह्त्च्म्_1.26:4 ॥
स्तर्त् ग्र्ह्त् 1.27
आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् ।
श्रेयः परं किमन्यत् शरीरमजरामरं विहायैकम्

1.28

*चोम्म्. मुग्धावबोधिनी:
शरीरमूलं सर्वे ज्ञातव्यमित्याहायतनम् इत्यादि ॥ ग्र्ह्त्च्म्_1.27:1 ॥
एकम् अजरामरं जरामरणवर्जितं शरीरं विहाय त्यक्त्वा अन्यत् परमुत्कृष्टं श्रेयः कल्याणस्वरूपं किं न किम् अपीत्यर्थः ॥ ग्र्ह्त्च्म्_1.27:2 ॥
किंविशिष्टं शरीरम् आयतनं विद्यानां व्याकरणादिचतुर्दशसंख्याकाङ्गानां निवासस्थानं पुनः किंविशिष्टं मूलं धर्मार्थकाममोक्षाणां चतुर्णां पदार्थानां मूलं हेतुः धर्मादयश् चत्वारः प्रतीता एव ॥ ग्र्ह्त्च्म्_1.27:3 ॥
स्तर्त् ग्र्ह्त् 1.28
प्रमाणतोऽपि प्रत्यक्षाद्यो न जानाति सूतकम् ।
अदृष्टविग्रहं देवं कथं ज्ञास्यति चिन्मयम्

1.29

*चोम्म्. मुग्धावबोधिनी:
आत्मनो ऽवेक्षया सूते सुगमत्वं सूचयन्नाह प्रमाणत इत्यादि ॥ ग्र्ह्त्च्म्_1.28:1 ॥
यः पुरुषः सूतकं रसेन्द्रं न जानाति कुतः प्रमाणतः प्रमाकरणं प्रमाणं प्रमितिसाधनं वा ततः किम्भूतात् प्रमाणतः प्रत्यक्षाच् चक्षुरिन्द्रियग्राह्यरूपात् स पुमान् चिन्मयम् अतिसूक्ष्मम् आत्मानं कथं ज्ञास्यति न कथम् अपीत्यर्थः इन्द्रियागोचरत्वात् ॥ ग्र्ह्त्च्म्_1.28:2 ॥
किंविशिष्टम् अनादिविग्रहम् आदिश्च विग्रहं च आदिविग्रहे ते न विद्येते यत्र सः तं उत्पत्तिशरीरयोरभावात् स्थूलज्ञानाभाव इति तात्पर्यार्थः ॥ ग्र्ह्त्च्म्_1.28:3 ॥
स्तर्त् ग्र्ह्त् 1.29-30
यज्जरया जर्जरितं कासश्वासादिदुःखवशमाप्तम् ।
योग्यं तन्न समाधौ प्रतिहतबुद्धीन्द्रियप्रसरम्

1.30

बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः ।
जातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम्

1.31

*चोम्म्. मुग्धावबोधिनी:
शरीरस्य वयोविभागेनास्थिरत्वं दर्शयन्नाह बाल इत्यादि ॥ ग्र्ह्त्च्म्_1.29-30:1 ॥
षोडशवर्ष इति षोडश वर्षाणि यस्य वयसि स षोडशाब्दो बाल इत्यर्थः ॥ ग्र्ह्त्च्म्_1.29-30:2 ॥
ग्रन्थान्तरे बालत्वेऽपि वयोभेदा वर्तन्ते ॥ ग्र्ह्त्च्म्_1.29-30:3 ॥
यथा पद्यम् ।
आ पञ्चमाच्च कौमारः पौगण्डो नवहायनः ।
आ षोडशाच्च किशोरो यौवनं च ततः परम् ॥ ग्र्ह्त्च्म्_1.29-30:4 ॥
इति ॥ ग्र्ह्त्च्म्_1.29-30:5 ॥
बालो वस्तुज्ञाने अशक्तः ॥ ग्र्ह्त्च्म्_1.29-30:6 ॥
पुनः षोडशवर्षेभ्यः परः विषयरसास्वादलम्पटो भवति विषयाः शब्दस्पर्शरूपरसगन्धा रसाः शृङ्गारहास्यकरुणरौद्रवीरभयानकबीभत्साद्भुतशान्ताः ॥ ग्र्ह्त्च्म्_1.29-30:7 ॥
केचित् शान्तं रसं न ब्रुवन्ति निर्विकारत्वात् एतेषाम् आस्वादः स्वादस् तत्र लम्पटो व्यासक्तः अथ वा विषयानन्तरं स्नेहस्तत्रेति ॥ ग्र्ह्त्च्म्_1.29-30:8 ॥
अतः परतो जातविवेको भवति उत्पन्नविचारो भवति ॥ ग्र्ह्त्च्म्_1.29-30:9 ॥
तदा वृद्धोऽक्षमः परं मनुष्यः मुक्तिं कैवल्यं कथम् आप्नुयात् न कथमपीत्यर्थो वयस्युपप्लवभावात् ॥ ग्र्ह्त्च्म्_1.29-30:10 ॥
स्तर्त् ग्र्ह्त् 1.31
अस्मिन्न् एव शरीरे येषां परमात्मनो न संवेदः ।
देहत्यागादूर्ध्वं तेषां तद्ब्रह्म दूरतरम्

1.32

*चोम्म्. मुग्धावबोधिनी:
पूर्वपद्याभिप्रायं विचार्य मुक्तिप्राप्तौ प्रशङ्कितः प्राहास्मिन्न् इत्यादि ॥ ग्र्ह्त्च्म्_1.31:1 ॥
अस्मिन् शरीरे वर्तमाने क्षेत्ररूपे येषां पुंसाम् आत्मसंवेदो न जातः ब्रह्मज्ञानं न जातं तेषां पुंसामेव देहत्यागाद् ऊर्ध्वं शरीरोत्सर्गतः पश्चात् तद्ब्रह्म दूरतरं दूराद्दूरतरम् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.31:2 ॥
स्तर्त् ग्र्ह्त् 1.32
ब्रह्मादयो यजन्ते यस्मिन् दिव्यां तनुं समाश्रित्य ।
जीवन्मुक्ताश्चान्ये कल्पान्तस्थायिनो मुनयः

1.33

*चोम्म्. मुग्धावबोधिनी:
अधुना पूर्वमतं द्रढयति ब्रह्मादय इत्यादि ॥ ग्र्ह्त्च्म्_1.32:1 ॥
यस्मिन् ब्रह्मादयो विष्णुरुद्रेन्द्रादयो ब्रह्मविदो यजन्ते संगतिं कुर्वन्ति समाप्नुवन्तीत्यर्थः यज देवपूजासंगतिकरणदानेषु अत्र संगतिकरणम् अर्थो दर्शितः ॥ ग्र्ह्त्च्म्_1.32:2 ॥
किं कृत्वा प्राप्नुवन्ति दिव्यां तनुं परमां समाश्रित्य सम्प्राप्य तेभ्यो ब्रह्मादिभ्यो ऽप्यन्ये अपरे मुनयो नारदादयो जीवन्मुक्ता यजन्ते संगतिं कुर्वन्ति ॥ ग्र्ह्त्च्म्_1.32:3 ॥
ते ऽपि किंविशिष्टाः कल्पान्तस्थायिनः प्रलयान्तेऽपि तिष्ठन्तीति भावः ॥ ग्र्ह्त्च्म्_1.32:4 ॥
ब्रह्मादयस् तिष्ठन्त एव ॥ ग्र्ह्त्च्म्_1.32:5 ॥
स्तर्त् ग्र्ह्त् 1.33
तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमम् ।
दिव्या तनुर्विधेया हरगौरीसृष्टिसंयोगात्

1.34

*चोम्म्. मुग्धावबोधिनी:
इति बहुधा विचार्येष्टवस्तुस्तुतिम् आह तस्माद् इत्यादि ॥ ग्र्ह्त्च्म्_1.33:1 ॥
यतो ब्रह्मादयो जीवन्मुक्ताश् चान्ये दिव्यां तनुं विधाय मुक्तिं प्राप्तास् तस्माद्धेतोर् योगिना योगयुक्तेन प्रथमं दिव्या तनुर् विधेया दृढशरीरं कार्यम् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.33:2 ॥
किंविशिष्टेन योगिना जीवन्मुक्तिं समीहमानेन योगिना दिव्या तनुर् विधेया ॥ ग्र्ह्त्च्म्_1.33:3 ॥
कुतः हरगौरीसृष्टिसंयोगात् ॥ ग्र्ह्त्च्म्_1.33:4 ॥
उमेश्वरसृष्टो रसेन्द्रस् तस्य सेवनाद् इत्यर्थः ॥ ग्र्ह्त्च्म्_1.33:5 ॥
दृढशरीरेण वाञ्छितं साध्यते न त्व् अन्यथा ॥ ग्र्ह्त्च्म्_1.33:6 ॥
स्तर्त् ग्र्ह्त् 1.34
तस्यापि साधनविधौ सुधिया प्रतिकर्मनिर्मलाः प्रथमम् ।
अष्टादशसंस्कारा विज्ञातव्याः प्रयत्नेन

मूल पाठ: Rasahṛdayatantra with Caturbhujamiśra's Mugdhāvabodhinī (comm.) · Edition: Delhi: Chaukhambha Orientalia, 1989 · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc